कृतात्ययाधिकरणम्
कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च।३.१.८
विषय:- तस्मिन् यावत्सम्पातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतम्।(छा. ५.१०.५)
रमणीयचरणा: ब्राह्मणादियोनिमापद्यन्ते, कपूयचरणा: श्वादियोनिमिति।(छा.५.)
विशय:-जीवा: निरनुशया: भुक्तकृत्स्नकर्माणोऽवरोहन्ति आहोस्वित् सानुशया:?
पूर्वपक्ष:- निरनुशया अवरोहन्ति, ‘यावत्संपातम्’ इति विशेषणात्।संपात इति कर्मानुशय:। सम्पतन्त्यनेन अस्माल्लोकादमुं लोकं फलभोगाय इति सम्पात:।यावत् सम्पातम् इति वचनात् कृत्स्नस्य कर्मण: तत्रैव फलभोग: भवतीति युक्तम्।अत्रापरापि श्रुति: प्रमाणम् –
‘तेषां यदा तत्पर्यवैति’ (बृ.६.२.१६)।पर्यवैति क्षीणं भवति।
वे.- यावत् सम्पातम् इत्यस्य ‘अमुष्मिन् लोके यावद् उपभोक्तव्यं तावद्’ इति अर्थ: किमर्थं न क्रियते?कृत्स्नं कर्म इत्येवार्थ: किमर्थं ग्राह्य:?
पू.- अन्यत्र ‘यत्किञ्च’ इति परामर्शात्-
प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम्।तस्माल्लोकात्पुनरेत्यास्मै लोकाय कर्मणे॥(बृ.४.४.६)
श्रुतिरियं कृत्स्नस्य कर्मण: क्षयं प्रतिपादयति।
अपरं प्रमाणं प्रायणम्।प्रायणमिति लोकान्तरगति: मृत्युर्वा।आरब्धकर्मणां समाप्ति: जाता, इत: परम् अनारब्धफलानां कर्मणां भोग: आरभ्यते इत्यस्य अभिव्यञ्जकं प्रायणम्।तच्च अभिव्यञ्जनं सर्वेषामेवानारब्धफलानां कर्मणां भवतीति मन्तव्यम्।न तु केषाञ्चिदेव कर्मविशेषाणाम्।प्रदीप्तो दीप: समीपे वर्तमानान् सर्वान् दृश्यपदार्थान् प्रतिपादयति।घटमात्रं प्रकाशयति, न पटम् इति न सम्भवति।
अत: अनारब्धफलानां सर्वेषां कर्मणां भोग: परलोके भवति।तत: निरनुशय: जीव: अवरोहति इत्येव युक्तम्।
वे.- अस्मन्मते अवरोहणम् एवं भवति-
१ येन कर्मसमूहेन चन्द्रमसम् आरूढ:, तस्य कर्मसमूहस्य भोग: तत्र भवति अम्मयेन शरीरेण।
२ उपभोगक्षये जाते य: शोक: भवति, तेन तद् अम्मयं शरीरं विलयं गच्छति, यथा सूर्यकिरणतापात् हिमकरका:।
३ तत: कृतात्यये जीव: सानुशय: एव अवरोहति।
अत्र दृष्टं (श्रुति:) तथा स्मृति: इति एतद् उभयमपि प्रमाणम्।
पू.-कीदृशी श्रुति:?
वे.- तद्य इह रमणीयचरणा: अभ्याशो ह यत्ते रमणीयां योनिम् आपद्येरन् ब्राह्मणादियोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा: अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चाण्डालयोनिं वा ।(छा.५.१०.७) चरणशब्दोऽत्र अनुशयसूचक:।
पू.- स्मृतिप्रमाणमत्र किम्?
वे.-‘वर्णा आश्रमाश्च स्वकर्मनिष्ठा: प्रेत्य कर्मफलमनुभूय तत: शेषेण विशिष्टदेशजातिकुलरूपायु:-श्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते’ इति।तस्मात् सानुशय: एव जीव: अवरोहतीति सिद्धम्।
अपर: पूर्वपक्ष: -सानुशय: जीव: अवरोहति।स्वर्गार्थं कृतस्य कर्मण: एव भोगोत्तरं शेष: कश्चिद् विद्यते।स एव अनुशय:।यथा स्नेहभाण्डे रिक्तेऽपि कश्चित् स्नेहांश: भाण्डानुसारी अवतिष्ठते, तथा अनुशय: अपि।
वे.- स्वर्गार्थं कृतस्य कर्मण: स्वर्गभोगेन लोप: भवति, कथं तर्हि अनुशय: अवशिष्यते?
अ.पू.- सर्वस्य कर्मण: भोगो न भवति। कश्चन लेशोऽवशिष्यते इति मन्यामहे।
वे.- परं सर्वस्य स्वर्गफलककर्मण: भोगार्थं जीव: चन्द्रमसमारोहति।तथापि असमाप्ते स्वर्गभोगे कथमिव अवरोहति?
अ.पू.- लेशेऽवशिष्टे तत्र स्थानं न भवति।अत्रायं दृष्टान्त:- कश्चित्सेवक: सर्वै: उपकरणै: सह राजकुलेऽवतिष्ठते।परं यदा उपकरणानि क्षीणानि भवन्ति, तदा छत्रपादत्रमात्रेऽवशिष्टे स राजकुले स्थातुं न शक्नोति।
वे.- अयुक्तमेतद्।यतो हि -
१ स्वर्गार्थं कृतस्य कर्मण: अवशेष: उपपद्यते
२ स्वर्गार्थं कृतं कर्म स्वर्गफलं न जनयति परं स्वर्गच्युतस्यापि फललेशं जनयति इति न समञ्जसम्।शब्दप्रमाणकानाम् एतादृशं कल्पनं नोचितम्।
३ स्नेहभाण्डस्य सेवकस्य च दृष्टान्तौ सर्वथा विषमौ।स्नेहलेशानुवृत्ति: साक्षाद् दृश्यते। उपकरणलेशानुवृत्ति: साक्षाद् दृश्यते।अत: उभयत्र उपपद्यते।दार्ष्टान्तिके कर्मलेशानुवृत्ति: न दृश्यते, न च सा कल्पयितुं शक्यते।कल्पिता चेत् स्वर्गफलत्वशास्त्रेण विरोध: आपद्यते। कथञ्चित् कर्मलेशानुवृत्तिं स्वीकुर्म: चेदपि अनुशयविभागश्रुतिरुपरुद्धा भवति।स्वर्गफलस्य कर्मण: योऽनुशय:, सोऽपि सुखफलक: एव भवितुमर्हति, न विपरीत:।परं श्रुतिस्तु उभयथा अनुशयं वक्ति- रमणीयचरणा: कपूयचरणा: इति शब्दाभ्याम्।
तस्मात् आमुष्मिकफले कर्मजाते उपभुक्ते अवशिष्टम् ऐहिकफलं कर्मान्तरजातम् अनुशय:।तद्वन्त: जीवा: अवरोहन्तीति सिद्धम्।
पू.-यत्किञ्च इति वचनात् सर्वस्यैव कृतस्य कर्मण: फलोपभोग: ज्ञायते।तेन निरनुशया एव जीवा: अवरोहन्तीति मन्तव्यम्।
वे.- अनुशयसद्भाव: अपि श्रुत्या अवगम्यते, अत: यत्किञ्च इत्यनेन ‘यत्किमपि आमुष्मिकफलम् आरब्धं कर्म’ इत्यर्थो गम्यते।
पू.- प्रायणम् अविशेषात् सर्वमेव ऐहिकफलं कर्म तथा आमुष्मिकफलं कर्म अभिव्यनक्ति यथा दीप: इति पूर्वमुक्तम्।
वे.-
१ अनुशयसद्भावं श्रुति: प्रतिपादयति अत: ऐहिकामुष्मिकरूपौ फलभेदौ अभ्युपेयौ।
२ प्रायणम् अनारब्धफलस्य अभिव्यञ्जकम् इति यदुक्तं तत्र हेतु: क:?
प्रथम: पूर्वपक्ष:- आरब्धफलेन कर्मणा प्रतिबद्धम् अनारब्धफलं कर्म।प्रायणेन अयं प्रतिबन्ध: निराक्रियते।तत: अनारब्धफलस्य कर्मण: वृत्त्युद्भव:।
वे.-प्राक्प्रायणाद् आरब्धफलेन कर्मणा अनारब्धफलस्य कर्मण: प्रतिबन्ध:।एवमेव प्रायणकालेऽपि विरुद्धनानाफलकेषु कर्मसु बलवता अबलस्य प्रतिबन्ध:।
पू.- प्रायणं सर्वकर्मफलाभिव्यञ्जकं भवति अत: आरब्धत्वसामान्यात् प्रायणकाले सर्वकर्मणां फलोपभोग: मन्तव्य:।प्रायणेन कस्यचिदेव कर्मण: वृत्त्युद्भव: भवति, न अन्येषाम् इत्यत्र विनिगमना नास्ति।
वे.-
१ नानाजन्मोपभोग्यफलं कर्म एकस्मिन् एव प्रायणे युगपदभिव्यक्तं भवति,तथा चैकमेव जन्मारभते इति वक्तुं न युज्यते।
२ नानाजन्मोपभोग्यफलेषु कर्मसु एकजन्मोपभोग्यफलं कर्म एव अभिव्यक्तं भवति, अन्यत् फलदानं विना एव नश्यतीति वक्तुं न युज्यते।
३ विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मण: चिरकालमवस्थानं स्मृतिरपि वदति-
‘कदाचित् सुकृतं कर्म कूटस्थमिह तिष्ठति।मज्जमानस्य संसारे यावद्दु:खाद्विमुच्यते॥
४ कारीर्यादे: दृष्टफलस्यापि प्रायणमभिव्यञ्जकं भवतीति न शक्यते।एवं प्रायणस्य अभिव्यञ्जकत्वकल्पना अव्यापिका।अनेकजन्मनिमित्तानां ब्रह्महत्यादीनां कर्मणाम् एकेन प्रायणेन अभिव्यक्ति: भवति इति न शक्यते वक्तुं, शास्त्रविरोधात्।अत: तत्रापि ‘प्रायणं सर्वेषाम् अनारब्धफलकर्मणाम् अभिव्यञ्जकम्’ इति एषा कल्पना अव्यापिका।
पू.- ननु प्रदीपदृष्टान्तेन साधितं यत् प्रायणं सर्वेषां कर्मणाम् अभिव्यञ्जकमिति।
वे.- कर्मबलाबलप्रतिपादनेन तस्य दृष्टान्तस्य प्रत्याख्यानं जातम्।यथा हि प्रदीप: समानेऽपि सन्निधाने स्थूलमेव रूपमभिव्यनक्ति, न सूक्ष्मम् एवं प्रायणमपि।अनारब्धफलं सकलमपि कर्म प्राप्तावसरं, तथापि बलवत: कर्मण: एव वृत्तिमुद्भावयति प्रायणं, न दुर्बलस्य।अत: श्रुतिस्मृतिन्यायविरोधात् अशेषकर्माभिव्यक्त्यभ्युपगम: आश्लिष्ट:।
पू.-शेषकर्मसद्भावे अनिर्मोक्षप्रसङ्ग: स्यात्।
वे.-अस्थाने अयं सम्भ्रम:।सम्यग्दर्शनात् अशेषकर्मक्षयो भवतीति श्रुति:।तस्मात् अनुशयवन्त: जीवा: अवरोहन्तीति सिद्धम्।
पू.- ‘यथेतमनेवम्’ इत्यस्य क: अभिप्राय:?
वे.- यथेतं यथागतम्।अनेवम् इति तद्विपर्ययेण।पितृयाणे मार्गे धूमाकाशयो: प्रतिपादनं कृतम्। अवरोहेऽपि तस्य सङ्कीर्तनात् यथेतमिति प्रतीयते।रात्र्याद्यसङ्कीर्तनात् अभ्राद्युपसङ्ख्यानाच्च विपर्यय: अपि प्रतीयते।
चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनि:।३.१.९
पू.- ‘तद्य इह रमणीयचरणा: ….. इति श्रुति: अनुशयसद्भावप्रतिपादनाय भवता उदाहृता।परं सा तु चरणाद् योन्यापत्तिं दर्शयति, न अनुशयात्।
वे.- को भेद: चरणानुशययो:?
पू.-अन्यच्चरणम्, अन्योऽनुशय:।चरणं नाम चरित्रम्।आचार:, शीलमिति यावत्।अनुशयस्तु भुक्तफलकर्मेतरं कर्मजातम्।
वे.- उभयो: भेदे किं प्रमाणम्?
पू.-श्रुति: -
१ ‘यथाकारी यथाचारी तथा भवति’।(बृ. ७.७.५)
२ ‘यान्यनवद्यानि कर्माणि, तानि सेवितव्यानि, नो इतराणि, यान्यस्माकं सुचरितानि, तानि त्वया उपास्यानि।’ (तैत्ति. १.११.२)
तस्मात् चरणादेव योन्यापत्ति:, न तु अनुशयात्।
वे.- चरणादेव योन्यापत्ति:, नानुशयादिति चेत्, न।अनुशयोपलक्षणार्था एव एषा चरणश्रुति: इति कार्ष्णाजिनि: आचार्य: मन्यते।
आनर्थक्यमिति चेन्न, तदपेक्षत्वात्।३.१.१०
पू.- चरणशब्दस्य श्रुतौ अर्थ: भवति ‘शीलम्’।एतं श्रुत्यर्थं विहाय लक्ष्यार्थ: ‘ अनुशय:’ किमर्थं स्वीकृत:?
वे.- कर्म सर्वार्थकारि इति श्रुतिस्मृतिप्रसिद्धम्।अत: कर्मैव शीलोपलक्षितम् अनुशयभूतं योन्यापत्तौ कारणम् इति कार्ष्णाजिनि:।न हि कर्मणि सम्भवति शीलात् योन्यापत्ति: युक्ता।न हि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हति।
पू.- यदि कर्म एव सर्वार्थकारि, तर्हि शीलस्य आनर्थक्यं प्राप्तम्।परं शीलस्य किमपि फलम् अवश्यम् अभ्युपगन्तव्यम्।
वे.-नैष दोष:, तदपेक्षत्वात्।तदिति शीलम्।कर्म शीलापेकषमेव फलं ददाति, ‘आचारहीनं न पुनन्ति वेदा:’ इति स्मृते:।इष्टादिकर्म यदा फलमारभते, तदा शीलेन तत्र कश्चन अतिशय: आरभ्यते।
सुकृतदुष्कृते एवेति तु बादरि:।३.१.११
वे.- अत्र चरणशब्देन सुकृतदुष्कृते एव गम्येते इति बादरि: आचार्य: मन्यते।चरणं कर्म, अनुष्ठानम् इति पर्यायशब्दा:।यतो हि अविशेषेण कर्ममात्रे चरतिधातो: प्रयोग: भवति।य: इष्टादि पुण्यं कर्म करोति, तं जना वदन्ति ‘धर्मं चरत्येष:’।
पू.- ननु कर्मचरणयो: भेद: श्रुतौ अपि स्वीकृत: इति दर्शितम्।
वे.- स: भेदव्यपदेश: ब्राह्मणपरिव्राजकन्यायेन उपपादनीय:।तस्मात् रमणीयचरण: इति प्रशस्तकर्माण: जीवा:, कपूयचरणा: इति निन्दितकर्माण: जीवा: इति निर्णय:।
तृतीयाध्याये प्रथम: पाद: ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्