कृत्स्नप्रसक्त्यधिकरणम्
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा।२.१.२६
पूर्वपक्ष: - चेतनमेकं ब्रह्म परिणममानं जगत: कारणमिति अभ्युपगम्यते चेत्, कृत्स्नस्य ब्रह्मण: कार्यरूपेण परिणाम आपतति।यतो हि एकदेशं परिणमनं सावयवस्यैव पृथिव्यादे: शक्यं न तु निरवयवस्य ब्रह्मण:।
वेदान्ती- ब्रह्मण: सावयवत्वे सति का हानि:?
पू.- १ श्रुतिस्तु ब्रह्मण: निरवयवत्वं प्रतिपादयति।अत: श्रुतिविरोध: स्यात्। (निरवयवत्ववाचकशब्दानां कोप:)
२ एकदेशपरिणामात् द्रष्टव्योपदेश: निरर्थको भवति, कार्यस्य जगतोऽयत्नदृष्टत्वात्, कारणस्य ब्रह्मण: च नावशिष्टत्वात्।
३ ब्रह्मण: सावयवत्वे चानित्यत्वप्रसङ्ग:।
श्रुतेस्तु शब्दमूलत्वात्।२.१.२७
वे.-परन्तु कृत्स्नप्रसक्ति: नास्ति, श्रुते:।यथैव ब्रह्मणो जगदुत्पत्ति: श्रूयते, तथैव ब्रह्मणो जगद्व्यतिरेकेण अवस्थानमपि श्रूयते-
सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता: अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि –(छा. ६.३.२)तस्मादस्ति अविकृतं ब्रह्म।
पू. – तर्हि निरवयवत्वशब्दव्याकोपोऽस्ति।
वे.- नास्ति।ब्रह्मण: अकृत्स्नप्रसक्ति: तथा निरवयवत्वमित्युभयमपि शब्दमूलम्।अत: अभ्युपगन्तव्यम्।
पू.- ननु विरुद्धोऽर्थ: शब्देनापि प्रत्याययितुं न शक्य:।
प्र.- शक्य:। अतिरात्रे षोडशिनं गृह्णाति,नातिरात्रे षोडशिनं गृह्णाति,इत्यत्र विरुद्धोऽर्थ: प्रतीयते।तत्र यथा विकल्प: आश्रीयते, तथा इहापि आश्रयणीय:।
पू.- न।षोडशिग्रहणे विरोधपरिहार: विकल्पाश्रयणेन सम्भवति, तस्य कर्तृतन्त्रत्वात्।ब्रह्मस्वरूपविषये विकल्पो न सम्भवति, वस्तुतन्त्रत्वात्।
वे.- नैष दोष:।ब्रह्मणो व्याकृतत्वमविद्याकल्पितम्।अव्याकृतत्वं तु पारमार्थिकम्।अतो न तस्य निरवयवत्वं कुप्यति।परिणामश्रुतिश्च न परिणामप्रतिपादनार्था, तत्प्रतिपत्तौ फलानवगमात्। सर्वव्यवहारहीनब्रह्मात्मभाव-प्रतिपादनार्था चैषा श्रुति:।तत्प्रतिपत्तौ फलावगमात्। तस्मात्सर्वमस्मत्पक्षेऽदोषम्।
आत्मनि चैवं विचित्राश्च हि । २.१.२८
पू.- एकस्मिन् ब्रह्मणि स्वरूपानुमर्देन एव अनेकाकारा सृष्टि: कथम्?
वे.- आत्मनि अपि च एवं विचित्रा: हस्त्यश्वादय: सृष्टयो दृश्यन्ते स्वप्नकाले-
न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथ: सृजते।–(बृ. ४.३.१०)तथैव ब्रह्मण्यपि स्वरूपानुपमर्देन अनेकाकारा सृष्टि: भविष्यतीति।
स्वपक्षदोषाच्च।२.१.२९
वे.- साङ्ख्यानां वैशेषिकाणां चापि समानोऽयं स्वस्वपक्षे दोष:।निरवयवं प्रधानं सावयवस्य जगत: कारणमिति साङ्ख्यानां स्वपक्ष:।तत्रापि प्रधानस्य कृत्स्नप्रसक्ति: आपतति।तां परिहर्तुं सावयवत्वम् अङ्गीकुर्वन्ति चेत्, निरवयवत्वप्रतिपादकशब्दानां व्याकोप:।
पू.- साङ्ख्यमते प्रधानं निरवयवं नास्त्येव। सत्वरजस्तमोरूपा: गुणा: तस्य अवयवा:।
वे.- तथापि दोषो न परिह्रियते।त्रयोऽपि गुणा: निरवयवा:।तेषामेकैको गुण: इतरेभ्योऽनुगृहीत: सन् प्रपञ्चस्योपादानं भवति।तेषु कृत्स्नप्रसक्ति: दोषो भवति एव।
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् द्वितीयाध्याये प्रथम: पाद: