कोपस्तून्मार्गगामिता

विकिपुस्तकानि तः

विषयः - कोपस्तून्मार्गगामिता।- अ.हृ.सूत्रस्थानम्
उन्मार्गगामिता – स्वस्थानं त्यक्त्वा दोषस्य यत्पुनर्मार्गान्तरगमनं स कोप इत्युच्यते। -अरुणदत्तः:
कुपिताश्चेति सामान्यतो वृद्धाः क्षीणाश्च।च.शा. ६.१७ चक्र.

संशयः- उभाभ्यां टीकाकाराभ्यां प्रकोपशब्दस्य भिन्नौ अर्थौ प्रतिपादितौ। अतः सन्देहः यद् अनयोः कः अर्थः उचितः? कः अनुचितः?

पूर्वपक्षः - चक्रपाणिकृतोऽर्थः उचितः। अन्यत्र विद्यमानेनार्थेन सुसङ्गतेः।
१अन्यत्र विद्यमानेनार्थेन सुसङ्गतिः एवम्-
वैषम्यं स्वमानात् न्यूनत्वमधिकत्वं वा।– च.सू. ९.४ चक्र.
विकृताः स्वभावप्रच्युताः।अ.हृ.सू.१.७ अरुणदत्तः
एवम् अन्यत्र कोपपदार्थः प्रतिपादितः। एषु सर्वेषु स्थलेषु कोपः नाम वृद्धिक्षयान्यतरत्वम्। अतः कोपः वृद्धिरूपो वा स्यात् क्षयरूपो वा।न तु स्वस्थानत्यागपूर्वकमन्यस्थानगमनम्।

उत्तरपक्षः- वृद्धिक्षयान्यतरत्वम् इति कोपपदस्य मुख्यार्थत्वेन गृह्यते आहोस्वित् लक्ष्यार्थत्वेन?
पूर्वपक्षः-मुख्यार्थत्वेन।
उत्तरपक्षः-नायं कोपपदस्य मुख्यार्थः। अयं तु लक्ष्यार्थः। ‘स्वस्थानं त्यक्त्वा दोषस्य यत्पुनर्मार्गान्तरगमनं स कोपः’ अयं कोपपदस्य मुख्यार्थः।
पूर्वपक्षः -किमत्र प्रमाणम्?
उत्तरपक्षः -अधिकरणतन्त्रयुक्तिः अत्र प्रमाणम्।
इदानीं चयादीनां लक्षणान्याह – अरुणदत्तः अ.हृ. सू. १२.२१
इति चयप्रकोपशमानां लक्षणानि अधिकृत्य चयादिशब्दानामर्थाः उक्ताः ।अतः एते अर्थाः तेषां मुख्यार्थाः ।तदर्थम् एतद् अनुमानम्-
प्रतिज्ञा- विमतः (‘स्वस्थानं त्यक्त्वा दोषस्य यत्पुनर्मार्गान्तरगमनं स कोप:’) कोपपदार्थः मुख्यार्थः ,
हेतुः -स्वाधिकरणवचनात्।
व्याप्तिः -यत्र स्वाधिकरणवचनत्वं तत्र मुख्यार्थत्वम्। उदाहरणम् - यथा- दोषशब्दस्य वातपित्तश्लेष्माणः इति (च.वि.६.५) अर्थः ।
अनवशेषेण च दोषान् व्याख्यास्यामः ... च.वि.६.५
इति दोषम् अधिकृत्य उक्तं-
वातपित्तश्लेष्माणस्तु खलु शारीरा दोषाः । च.वि.६.५
भिन्नाधिकरणे उक्तः अर्थः कदाचिद् गौणः अपि भवति, यथा-
दोषसंज्ञा तु पीडाकर्तृसामान्याद् अदोषेऽपि स्याद् यथा –
स्वयं प्रवृत्तं तं दोषमुपेक्षेत हिताशनैः ।च.चि.५.४६इत्यत्र पुरीषमेव दोषत्वेनोक्तम्।– चक्र. १.५७
पूर्वपक्षः-कुपितशब्दस्य चक्रपाणिकृतोऽर्थो लक्ष्यः मन्तव्यः चेत् , मुख्यार्थबाधः तथा सम्बन्धः इति उभयमपि वक्तव्यम्।यतो हि मुख्यार्थबाधे सति एव लक्षणा प्रवर्तते।
उत्तरपक्ष:-ब्रूमः।
शरीरगुणाः पुनर्द्विविधाः सङ्ग्रहेण- मलभूताः प्रसादभूताश्च।तत्र मलभूतास्ते, ये शरीरस्याबाधकराः स्युः।तद्यथा- ... प्रकुपिताश्च वातपित्तश्लेष्माणः ये चान्येऽपि केचिच्छरीरे तिष्ठन्तो भावाः शरीरस्योपघातायोपपद्यन्ते, सर्वांस्तान् मले सञ्चक्ष्महे...। च.शा.६.१७
अत्र शरीरस्याबाधकराणां गुणानां सङ्ख्यानाय ‘प्रकुपिताश्च वातपित्तश्लेष्माणः’ इत्युक्तम्। अत्र प्रकुपितशब्दस्य स्थानान्तरगताः इति मुख्यार्थे स्वीकृते क्षीणानां सङ्ख्यानं न भवति। एवं मुख्यार्थबाधे सति लक्ष्यार्थस्वीकारः अपरिहार्यः भवति।
मुख्यार्थेन सह लक्ष्यार्थस्य सम्बन्धोऽपि वक्तव्यः। स च स्वयं चक्रपाणिना उक्तः-
‘कुपिताश्चेति पदेन वातादयः सामान्येन क्षीणा वृद्धा वा गृह्यन्ते। विकृतिमात्रं हि वातादीनां कोपः।च.शा.६.१७ चक्र.
विकृतिरूपसामान्यम् इत्येव मुख्यार्थेन सह लक्ष्यार्थस्य सम्बन्धः। कोपशब्दस्य स्थानान्तरगताः इति मुख्यार्थे बाधिते सति विकृतिरूपसामान्यम् इति एतेन सम्बन्धेन क्षीणा वृद्धा वा इति लक्ष्यार्थो ग्राह्यः इति चक्रपाणेः आशयः। विकृतिमात्रं हि वातादीनां कोपः इति चक्रपाणेः सम्बन्धसूचक-वचनादवगम्यते यत् सः स्वयमपि अमुमर्थं लक्ष्यं मन्यते, न मुख्यम्।तस्मात् स्वस्थानपूर्वकस्थानान्तरगमनमिति प्रकोपशब्दस्य मुख्यार्थः।वृद्धिः वा क्षयः वा इति प्रकोपशब्दस्य लक्ष्यार्थः।इत्येव व्यवस्था साध्वी।
पूर्वपक्षः -ननु ‘स्वस्थानं त्यक्त्वा दोषस्य यत्पुनर्मार्गान्तरगमनं स कोपः’ इति अरुणदत्तस्य वचनेऽपि स्थानशब्दस्य समावस्था इति अर्थः किमर्थं न स्वीक्रियते? यदि अमुमर्थं स्वीकुर्मः तर्हि अपि साध्वी व्यवस्था भविष्यति।
उत्तरपक्षः-कथम्?
पूर्वपक्षः-स्थानं नाम साम्यावस्था।तदर्थमिदं प्रमाणम्-
क्षयः स्थानं च वृद्धिश्च दोषाणां त्रिविधा गतिः।च.सू.१७.११२
अतः स्वस्थानं त्यक्त्वा स्थानान्तरगमनम् इत्यस्य स्वसाम्यं त्यक्त्वा वृद्धिं प्रति अथवा क्षयं प्रति गमनम् इत्येवार्थः भवति। एवमर्थकरणेन चक्रपाणि-अरुणदत्ताभ्यां कृतयोः अर्थयोः सामञ्जस्यं भवति, लक्ष्यार्थस्य वृथा कल्पनापि नावश्यकी भवति।
उत्तरपक्षः-स्यादेतत्, यदि सूत्रे मार्गशब्दस्य प्रयोगो न स्यात् ।कोपस्तून्मार्गगामिता इति सूत्रे मार्गशब्दः प्रयुक्तः।तस्यार्थं प्रतिपादयितुम् अरुणदत्तेन स्थानशब्दः प्रयुक्त:।अतः स्थानशब्दस्य सत्सु अपि नाना अर्थेषु स एव अर्थः अत्र ग्राह्यः, यः खलु मार्गशब्दस्य अपि अर्थः स्यात्।सूत्रस्थस्य मार्गशब्दस्य दोषसाम्यमिति अर्थः नास्ति। कथं तदर्थविवरणपरस्य स्थानशब्दस्य सोऽर्थः सम्भवेत्? कथञ्चित् अरूणदत्तवचने मार्गशब्दस्य दोषसाम्यमिति अर्थः अङ्गीकृतः चेदपि मार्गान्तरगमनम् इति पदस्यार्थो भवति दोषसाम्यान्तरगमनम्। स च नोपपद्यते। एकविधमेव दोषसाम्यम्।न हि द्विविधं त्रिविधं बहुविधं वा दोषसाम्यं सम्भवति, येन साम्यान्तरगमनं शक्यं भवेत्।
पूर्वपक्षः- परं वृद्धिः वा क्षयो वेति चक्रपाणिकृतोऽर्थः अन्यवचनैः सह सङ्गच्छते इति पूर्वुक्तम्। उत्तरपक्षः-तदपि असत्।
वैषम्यं स्वमानात् न्यूनत्वमधिकत्वं वा।– च.सू. ९.४ चक्र.
इत्यस्मिन् वचने वैषम्यशब्दस्यार्थः प्रतिपादितः , न कोपशब्दस्य।
विकृताः स्वभावप्रच्युताः।अ.हृ.सू.१.७ अरुणदत्तः
अत्र विकृतशब्दस्यार्थः प्रतिपादितः, न कोपशब्दस्य।अतः अन्यत्र विद्यमानेनार्थेन सुसङ्गतिः इति यः हेतुः उक्तः सः असिद्धः ।किञ्च अन्यत्र विद्यमानेनार्थेन विसङ्गतिःअपि दर्शयितुं शक्यते -
१) रूक्षलघुशीत...अतिसेवितेभ्यः वायुः प्रकोपमापद्यते।च.नि. १.१९
२) उष्णाम्ललवण... पित्तं प्रकोपमापद्यते।च.नि. १.२२
३) स्निग्धगुरुमधुर... श्लेष्मा प्रकोपमापद्यते। च.नि. १.२५
एतादृशानि वचनानि सर्वेषु रोगनिदानेषु उपलभ्यन्ते।तत्र दोषप्रकोपकत्वेन दोषसमानगुणानि एव द्रव्याणि उक्तानि।तैः दोषस्य वृद्धिरेव सम्भवति।न क्षयः।
संसर्गः सन्निपातश्च तद्द्वित्रिक्षयकोपतः।अ.हृ. सू.१.१२
इत्यत्र कोपशब्दे सति अपि क्षयशब्दस्य पृथगुपादानात् कोपे क्षयस्यान्तर्भावो ग्रन्थकारस्य नाभिप्रेतः इति गम्यते।
पूर्वपक्षः-ननु दोषो वृद्धः स्वस्थानं त्यक्त्वा अन्यत्र गच्छतीति अङ्गीक्रियते चेत् स्वस्थाने स्वदोषजरोगः कदापि न सम्भवेत्।
उत्तरपक्षः- स्यादेवं यदि बहिर्गतो दोषः पुनः कदापि स्वस्थानं न निवर्तेत।न च तथा भवति।स्वस्थानाद् बहिर्गतस्य वृद्धदोषस्य प्रसरः सर्वदेहे भवति।प्रसरावस्थोऽयं दोषः यत्र खवैगुण्यं लभते, तत्र व्याधिं जनयति।अतः स्वस्थानेऽपि सति खवैगुण्ये सम्भवेद् एव व्याधिः।
पूर्वपक्षः-दोषाः समा वा कुपिता वा सदा देहे सञ्चरन्ति।
सर्वशरीरचरास्तु वातपित्तश्लेष्माणः सर्वस्मिन् शरीरे कुपिताकुपिताः...च.सू.२०.९
अतः स्वस्थानात् स्थानान्तरगमनं कुपितस्यापि सम्भवति, अकुपितस्यापि। तस्मात् स्वस्थानात् स्थानान्तरगमनं इति कुपितस्य यल्लक्षणं कृतं तदतिव्याप्तम्।
उत्तरपक्षः-नैवम्।कोपस्य लक्षणे या उन्मार्गगामिता उक्ता सा न समावस्थस्य दोषस्य विवक्षिता।अधिकरणभेदात्।समदोषाणामधिकरणम् इति प्रायेण दोषाणां स्थानान्यविकृतात्मनाम्।अ.हृ.सू. १२.१८
इत्यत्र समाप्तम्।अत ऊर्ध्वं चयप्रकोपप्रशमलक्षणविषयकं भिन्नमधिकरणम् आरभ्यते।
इदानीं चयादीनां लक्षणान्याह – अरुणदत्तः अ.हृ. सू. १२.२१
तत्रापि चयलक्षणादनन्तरं प्रकोपलक्षणमुक्तम्।अतः अधिकरणतन्त्रयुक्त्या स्वस्थाने सञ्चितस्य उन्मार्गगामिता प्रकोपः इति गम्यते।न तु समदोषस्य स्थानान्तरगमनम्।एवमतिव्याप्तिदोषोऽपि न सम्भवति।
निर्णयः - स्वस्थानं त्यक्त्वा दोषस्य यत्पुनर्मार्गान्तरगमनं स कोप इत्युच्यते।

भिषग् भिषजा सह
"https://sa.wikibooks.org/w/index.php?title=कोपस्तून्मार्गगामिता&oldid=6146" इत्यस्माद् प्रतिप्राप्तम्