कौशिक सूत्र / एकादशोऽध्यायः

विकिपुस्तकानि तः
Jump to navigation Jump to search
अथ पितृमेधं व्याख्यास्यामः (कौसू-११.१[८०].१
दहननिधानदेशे परिवृक्षाणि निधानकाल इति ब्राह्मणोक्तम् (कौसू-११.१[८०].२
दुर्बलीभवन्तं शालातृणेषु दर्भान् आस्तीर्य {स्योनास्मै भव [१८.२.१९]}इत्य् अवरोहयति (कौसू-११.१[८०].३
मन्त्रोक्तौअनुमन्त्रयते (कौसू-११.१[८०].४
{यत् ते कृष्णः [१८.३.५५]}इत्य् अवदीपयति (कौसू-११.१[८०].५
आहिताग्नौ प्रेते संभारान् संभरति (कौसू-११.१[८०].६
आज्यं च पृषदाज्यं चाजं च गां च (कौसू-११.१[८०].७
वसनं पञ्चमम् (कौसू-११.१[८०].८
हिरण्यं षष्ठम् (कौसू-११.१[८०].९
शरीरं नान्वालभते (कौसू-११.१[८०].१०
अन्यं चेष्टन्तम् अनुमन्त्रयते (कौसू-११.१[८०].११
शान्त्युदकं करोतिअसकलं चातनानां चान्वावपते (कौसू-११.१[८०].१२
शान्त्युदकोदकेन केशश्मश्रुरोमनखानि संहारयन्ति (कौसू-११.१[८०].१३
आप्लावयन्ति (कौसू-११.१[८०].१४
अनुलिम्पन्ति (कौसू-११.१[८०].१५
स्रजोअभिहरन्ति (कौसू-११.१[८०].१६
एवंस्नातम् अलंकृतम् अहतेनावाग्दशेन वसनेन प्रछादयति{एतत् ते देवः [१८.४.३१]}{एतत् त्वा वासः प्रथमं न्व् आगन्न् [१८.२.५७अ]} इति (कौसू-११.१[८०].१७
{अपेमं [१८.२.२७]}इत्य् अग्निषु जुहोति (कौसू-११.१[८०].१८
उखाः कुर्वन्ति (कौसू-११.१[८०].१९
ताः शकृदाभ्यन्तरं लिम्पन्ति शुष्केण वा पूरयन्ति (कौसू-११.१[८०].२०
ताः पृथग् अग्निभिः संतापयन्तिआ शकृदादीपनात् (कौसू-११.१[८०].२१
तेषां हरणानुपूर्वम् आहवनीयं प्रथमं ततो दक्षिणाग्निं ततो गार्हपत्यम् (कौसू-११.१[८०].२२
अथ विदेशे प्रेतस्य{आ रोहत जनित्रीं जातवेदसः [१८.४.१]}इति पृथग् अरणीषुअग्नीन् समारोपयन्ति (कौसू-११.१[८०].२३
तेषु यथोक्तं करोति (कौसू-११.१[८०].२४
अपिवान्यवत्साया वा संधिनीक्षीरेणएकशलाकेन वा मन्थेनाग्निहोत्रं जुहोतिआ दहनात् (कौसू-११.१[८०].२५
दर्शपूर्णमासयोः कृष्णकतण्डुलानां तस्या आज्येन नान्तं न बहिः (कौसू-११.१[८०].२६
पलालानि बर्हिः (कौसू-११.१[८०].२७
तिल्पिञ्ज्या इध्माः (कौसू-११.१[८०].२८
ग्रहान् आज्यभागौ पुरस्ताद्धोमसंस्थितहोमान् उद्धृत्य (कौसू-११.१[८०].२९
प्राणापानौ+अवरुध्योंनिधनाभिर् (ed.॒ अवरुध्यै निधनाभिर्॑ सेए Caland, Kल्. ष्छ्र्., p. ४५) जुहुयात् (कौसू-११.१[८०].३०
अथउभयोर् {उत् तिष्ठ [१८.३.८]}इत्य् उत्थापयति (कौसू-११.१[८०].३१
{प्र च्यवस्व [१८.३.९]}इति त्रिः संहापयति यावत्कृत्वश् चउत्थापयति (कौसू-११.१[८०].३२
एवम् एव कूदीं जघने निबध्य (कौसू-११.१[८०].३३
{इमौ युनज्मि [१८.२.५६]}इति गावौ युनक्ति पुरुषौ वा (कौसू-११.१[८०].३४
{उत् तिष्ठ प्रेहि [१८.३.८]} {प्र च्यवस्व [१८.३.९]}{उदन्वती [१८.२.४८]}{इत एते [१८.१.६१]}{अग्नीषोमा [१८.२.५३]}{इदं पूर्वम् [१८.४.४४]} इति हरिणीभिर् हरेयुर् {अति द्रव [१८.२.११-१८]}इत्य् अष्टभिः (कौसू-११.१[८०].३५
{इदं त [१८.३.७]} इत्य् अग्निम् अग्रतः (कौसू-११.१[८०].३६
{प्रजानत्य् अघ्न्ये [१८.३.४]}इत्य् +जघन्यां (ed.॒ जघन्यं॑ सेए Caland, Kल्. ष्छ्र्., p. ४) गाम् एधम् अग्निं परिणीय (कौसू-११.१[८०].३७
{स्योनास्मै भव [१८.२.१९]}इत्य् उत्तरतोअग्नेः शरीरं निदधाति (कौसू-११.१[८०].३८
अध्वर्यव इष्टिं निर्वपन्ति (कौसू-११.१[८०].३९
तस्यां यथादेवतं पुरस्ताद्धोमसंस्थितहोमान् उद्धृत्य (कौसू-११.१[८०].४०
प्राणापानौ+अवरुध्योंनिधनाभिर् (सेए सूत्र ८०.३०) जुहुयात् (कौसू-११.१[८०].४१
अथउभयोर् {अपेत [१८.१.५५]} {ददामि [१८.२.३७]}इत्य् शान्त्युदकं कृत्वा संप्रोक्षणीभ्यां काम्पीलशाखाया दहनं संप्रोक्ष्य (कौसू-११.१[८०].४२
{उद् ईरताम् [१८.१.४४]} इत्य् +उद्धत्य (ed.॒ उद्धृत्य)अभ्युक्ष्य लक्षणं कृत्वा पुनर् अभ्युक्ष्य प्राग्दक्षिणम् एधश् चिन्वन्ति (कौसू-११.१[८०].४३
{इयं नारी [१८.३.१]}इति पत्नीम् उपसंवेशयति (कौसू-११.१[८०].४४
{उद् ईर्ष्व [१८.३.२]}इत्य् उत्थापयति (कौसू-११.१[८०].४५
यद् द्धिरण्यं बिभर्ति तद् दक्षिणे पाणौ+आधाय (ed.॒ आदाय)आज्येनाभिघार्य ज्येष्ठेन पुत्रेणादापयति{इदं हिरण्यं [१८.४.५६]}इति (कौसू-११.१[८०].४६
{स्वर्गं यतः [१८.४.५६च्]}इति दक्षिणं हस्तं निर्मार्जयति (कौसू-११.१[८०].४७
{दण्डं हस्ताद् [१८.२.५९]} इति मन्त्रोक्तं ब्राह्मणस्यादापयति (कौसू-११.१[८०].४८
{धनुर् हस्ताद् [१८.२.६०]} इति क्षत्रियस्य (कौसू-११.१[८०].४९
{अष्ट्राम् [cf. १८.२.५९-६०]} इति वैश्यस्य (कौसू-११.१[८०].५०
{इदं पितृभ्यो [१८.४.५१, सेए Caland, Kल्. ष्छ्र्., p. ४]}इति दर्भान् एधान् स्तृणाति (कौसू-११.१[८०].५१
तत्रएनम् उत्तानम् आदधीत{ईजानश् +चितम् (ed.॒ चित्तम्॑ cf. व्.ल्. इन् श्ष्-एदितिओन् ब्य् श्ড়्ড়्) आरुक्षद् अग्निं [१८.४.१४]}इति (कौसू-११.१[८०].५२
{प्राच्यां त्वा दिशि [१८.३.३०]}इति प्रतिदिशम् (कौसू-११.१[८०].५३
नइत्य् उपरिबभ्रवः (कौसू-११.१[८०].५४
अनुमन्त्रयते (कौसू-११.१[८०].५५
अथास्य सप्तसु प्राणेषु सप्त हिरण्यशकलानिअवास्यति{अमृतम् अस्य् अमृतत्वायामृतम् अस्मिन् धेहि}इति (कौसू-११.१[८०].५६

अथाहिताग्नेर् दर्भेषु कृष्णाजिनम् अन्तर्लोमास्तीर्य (कौसू-११.२[८१].१
तत्रएनम् उत्तानम् आधाय (कौसू-११.२[८१].२
अथास्य यज्ञपात्राणि पृषदाज्येन पूरयित्वानुरूपं निदधति (कौसू-११.२[८१].३
दक्षिणे हस्ते जुहूम् (कौसू-११.२[८१].४
सव्य उपभृतम् (कौसू-११.२[८१].५
कण्ठे ध्रुवां मुखेअग्निहोत्रहवनीं नासिकयोः स्रुवम् (कौसू-११.२[८१].६
तानिअनुमन्त्रयते {जुहूर् दधार द्याम् [१८.४.५]}{ध्रुव आ रोह [१८.४.६]}इति (कौसू-११.२[८१].७
ललाटे प्राशित्रहरणम् (कौसू-११.२[८१].८
{इमम् अग्ने चमसं [१८.३.५३]}इति शिरसीडाचमसम् (कौसू-११.२[८१].९
{देवा यज्ञम् [१८.४.२]} इत्य् उरसि पुरोडाशम् (कौसू-११.२[८१].१०
दक्षिणे पार्श्वे स्फ्यं सव्य उपवेषम् (कौसू-११.२[८१].११
उदरे पात्रीं (कौसू-११.२[८१].१२
अष्ठीवतोर् उलूखलमुसलम् (कौसू-११.२[८१].१३
श्रोण्योः शकटम् (कौसू-११.२[८१].१४
अन्तरेणऊरू अन्यानि यज्ञपात्रानि (कौसू-११.२[८१].१५
पादयोः शूर्पम् (कौसू-११.२[८१].१६
अपो मृन्मयानिउपहरन्ति (कौसू-११.२[८१].१७
अयस्मयानि निदधति (कौसू-११.२[८१].१८
अमा +पुत्रस्य (ed.॒ पुत्रा च॑ सेए Caland, Kल्. ष्छ्र्., p. ४) दृषत् (कौसू-११.२[८१].१९
अथउभयोर् {अपश्यं युवतिं [१८.३.३]} {प्रजानत्य् अघ्न्ये [१८.३.४]}इति जघन्यां गां प्रसव्यं परिणीयमानाम् अनुमन्त्रयते (कौसू-११.२[८१].२०
तां नैरृतेन जघनताघ्नन्त उपवेशयन्ति (कौसू-११.२[८१].२१
तस्याः पृष्ठतो वृक्कौउद्धार्य पाण्योर् अस्यादधति{अति द्रव श्वानौ [१८.२.११]}इति (कौसू-११.२[८१].२२
दक्षिणे दक्षिणं सव्ये सव्यम् (कौसू-११.२[८१].२३
हृदये हृदयम् (कौसू-११.२[८१].२४
{अग्नेर् वर्म [१८.२.५८]}इति वपया सप्तछिद्रया मुखं प्रछादयन्ति (कौसू-११.२[८१].२५
यथागात्रं गात्राणि (कौसू-११.२[८१].२६
दक्षिणैर् दक्षिणानि सव्यैः सव्यानि (कौसू-११.२[८१].२७
अनुबद्धशिरःपादेन गोशालां चर्मणावछाद्य (कौसू-११.२[८१].२८
{अजो भागस् [१८.२.८]}{उत् त्वा वहन्तु [१८.२.२२]}इति दक्षिणतोअजं बध्नाति (कौसू-११.२[८१].२९
{अस्माद् वै त्वम् अजायथा अयं त्वद् अधि जायताम् असौ स्वाहा [cf. ञ्B १.२, १.४७, cf. टा ६.२.१, ६.४.२, आआश्व्ङ्ष् ४.३.२७]}इत्य् उरसि गृहे जुहोति (कौसू-११.२[८१].३०
तथाग्निषु जुहोति{अग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहा [cf. आआश्व्ङ्ष् ४.३.२६]}इति (कौसू-११.२[८१].३१
दक्षिणाग्नौइत्य् एके (कौसू-११.२[८१].३२
{मैनम् अग्ने वि दहः [१८.२.४]} {शं तप [१८.२.३६]} {आ रभस्व [१८.३.७१ ए.अ.]} {प्रजानन्तः [२.३४.५]}इति कनिष्ठ आदीपयति (कौसू-११.२[८१].३३
आदीप्ते स्रुवेण यामान् होमान्जुहोति {परेयिवांसं प्रवतो महीर् इति [१८.१.४९]} (कौसू-११.२[८१].३४
{यमो नो गातुं प्रथमो विवेद [१८.१.५०]} इति द्वे प्रथमे (कौसू-११.२[८१].३५
{अङ्गिरसो नः पितरो नवग्वा [१८.१.५८]} इति संहिताः सप्त (कौसू-११.२[८१].३६
{यो ममार प्रथमो मर्त्यानां [१८.३.१३]} {ये नः पितुः पितरो ये पितामहा [१८.२.४९]} इत्य् एकादश (कौसू-११.२[८१].३७
अथ सारस्वताः (कौसू-११.२[८१].३८
{सरस्वतीं देवयन्तो हवन्ते [१८.१.४१]} {सरस्वतीं पितरो हवन्ते [१८.१.४२]} {सरस्वति या सरथं ययाथ [१८.१.४३]} {सरस्वति व्रतेषु ते [७.६८.१]}{इदं ते हव्यं घृतवत् सरस्वति [७.६८.२]}{इन्द्रो मा मरुत्वान् [१८.३.२५]} इति (कौसू-११.२[८१].३९
दक्षिणतोअन्यस्मिन्न् अनुष्ठाता जुहोति (कौसू-११.२[८१].४०
सर्वैर् उपतिष्ठन्ति त्रीणि प्रभृतिर् वा (कौसू-११.२[८१].४१
अपि वानुष्ठानीभिः (कौसू-११.२[८१].४२
एता अनुष्ठान्यः (कौसू-११.२[८१].४३
{मैनम् अग्ने वि दहो [१८.२.४]}इतिप्रभृति{अव सृज [१८.२.१०]}इति वर्जयित्वा {सहस्रनीथाः [१८.२.१८]}इत्य् आतः (कौसू-११.२[८१].४४
{आ रोह जनित्रीं जातवेदसः [१८.४.१]}इति पञ्चदशभिर् आहिताग्निम् (कौसू-११.२[८१].४५
{मित्रावरुणा परि माम् अधाताम् [१८.३.१२]} इति पाणी प्रक्षालयते (कौसू-११.२[८१].४६
{वर्चसा मां [१८.३.१०(११)]}इत्य् आचामति (कौसू-११.२[८१].४७
{विवस्वान् नो [१८.३.६१]}इत्य् उत्तरतोअन्यस्मिन्न् अनुष्ठाता जुहोति (कौसू-११.२[८१].४८

यवीयःप्रथमानि कर्माणि प्राङ्मुखानां यज्ञोपवीतिनां दक्षिणावृतम् (कौसू-११.३[८२].१
अथएषां सप्तसप्त शर्कराः पाणिषु+आवपति (ed.॒ आवपते॑ thus Caland, Kल्. ष्छ्र्., p. ४७) (कौसू-११.३[८२].२
तासाम् एकएकां सव्येनावाचीनहस्तेनावकिरन्तोअनवेक्षमाणा व्रजन्ति (कौसू-११.३[८२].३
अपाघेनानुमन्त्रयते (कौसू-११.३[८२].४
सर्वेअग्रतो ब्रह्मणो व्रजन्ति (कौसू-११.३[८२].५
{मा प्र गाम [१३.१.५९]}इति जपन्त उदकान्ते +व्यघापघे जपति+ (ed.॒ व्यपाद्ये जपन्ति॑ सेए Caland, Kल्. ष्छ्र्., p. ७१-७२) (कौसू-११.३[८२].६
पश्चाद् अवसिञ्चति (कौसू-११.३[८२].७
{उद् उत्तमं [१८.४.६९]}इति ज्येष्ठः (कौसू-११.३[८२].८
{पयस्वतीर् [१८.३.५६ (ए.अ.)]} इति ब्रह्मा॥उक्ताः पिञ्जूलीर् आवपति (कौसू-११.३[८२].९
शान्त्युदकेनाचम्याभ्युक्ष्य{अश्वावतीं [१८.२.३१]}इति नदीं तारयते (कौसू-११.३[८२].१०
नक्षत्रं दृष्ट्वाउपतिष्ठते {नक्षत्राणां मा संकाशश् च प्रतीकाशश् चावताम् [cf. Vऐत्ष् ११.१३]} इति (कौसू-११.३[८२].११
शाम्याकीः समिध +आदाय (ed.॒ आधाय॑ सेए Caland, Kल्. ष्छ्र्., p. ४७)अग्रतो ब्रह्मा जपति (कौसू-११.३[८२].१२
{यस्य त्रया गतम् अनुप्रयन्ति देवा मनुष्याः पशवश् च सर्वे । तं नो देवं मनो अधि ब्रवीतु सुनीतिर् नो नयतु द्विषते मा रधाम [PS १.७८.४]}इति शान्त्युदकेनाचम्याभ्युक्ष्य (कौसू-११.३[८२].१३
{निस्सालाम् [२.१४.१]} इति शालानिवेशनं संप्रोक्ष्य (कौसू-११.३[८२].१४
{ऊर्जं बिभ्रद् [७.६०.१]} इति प्रपादयति (कौसू-११.३[८२].१५
नदीम् आलम्भयति गाम् अग्निम् अश्मानं च (कौसू-११.३[८२].१६
{यवो ऽसि यवयास्मद् द्वेषो यवयारातिम् [cf. TS १.३.१.१ आदि]} इति यवान् (कौसू-११.३[८२].१७
{खल्वकास्य (एम्. Bलोओम्fइएल्द्॒ +खल्वकासि ?) [-]}इति खल्वान् खलकुलान्च (कौसू-११.३[८२].१८
+व्यघापघाभ्यां (ed.॒ व्यपाद्याभ्यां॑ Caland, Kल्. ष्छ्र्., p. ७१-७२) शाम्याकीर् आधापयति (कौसू-११.३[८२].१९
तासां धूमं भक्षयन्ति (कौसू-११.३[८२].२०
यद्यत् क्रव्याद् गृह्येद् यदि क्रव्यादा नान्ते ऽपरेद्युः । {दिवो नभः शुक्रं पयो दुहाना इषम् ऊर्जं पिन्वमानाः ॥ अपां योनिम् अपाध्वं स्वधा याश् चकृषे जीवंस् तास् ते सन्तु मधुश्चुतः [cf. PS १९.५२.१-३]} इत्य् अग्नौ स्थालीपाकं निपृणाति (कौसू-११.३[८२].२१
आदहने चापिवान्यवत्सां दोहयित्वा तस्याः पृष्ठे जुहोति {वैश्वानरे हविर् इदं जुहोमि [१८.४.३५ आदि]}इति (कौसू-११.३[८२].२२
तस्याः पयसि (कौसू-११.३[८२].२३
स्थालीपक इत्य् एके (कौसू-११.३[८२].२४
{ये अग्नयो [३.२१.१]}इति पालाश्या दर्व्या मन्थम् उपमथ्य काम्पीलीभ्याम् उपमन्थनीभ्यां तृतीयस्याम् अस्थीनिअभिजुहोति (कौसू-११.३[८२].२५
{उप द्याम् [१८.३.५]}{शं ते नीहारो [१८.३.६०]}इति मन्त्रोक्तानिअवदाय (कौसू-११.३[८२].२६
क्षीरोत्सिक्तेन ब्राह्मणस्यावसिञ्चति मधूत्सिक्तेन क्षत्रियस्यउदकेन वैश्यस्य (कौसू-११.३[८२].२७
{अव सृज [१८.२.१०]}इत्य् अनुमन्त्रयते (कौसू-११.३[८२].२८
{मा ते मनो [१८.२.२४]} {यत् ते अङ्गम् [१८.२.२६]} इति संचिनोति (एमेन्देद् तेxत् + सूत्र-दिविसिओन् [२९-३०-३१] अच्च्. तो Caland, Kल्. ष्छ्र्., p. ४७) (कौसू-११.३[८२].२९
+पत्तः (thus Caland॑ ed.॒ पच्छः) प्रथमं शीर्षकपालानि पश्चात् (कौसू-११.३[८२].३०
कलशे समोप्य सर्वसुरभिचूर्णैर् अवकीर्यउत्थापनीभिर् उत्थाप्य हरिणीभिर् हरेयुः (कौसू-११.३[८२].३१
{मा त्वा वृक्षः [१८.२.२५]}इति वृक्षमूले निदधाति (कौसू-११.३[८२].३२
{स्योनास्मै भव [१८.२.१९]}इति भूमौ त्रिरात्रम् अरसाशिनः कर्माणि कुर्वते (कौसू-११.३[८२].३३
दशरात्र इत्य् एके (कौसू-११.३[८२].३४
यथाकुलधर्मं वा (कौसू-११.३[८२].३५
ऊर्ध्वं तृतीयस्या वैवस्वतं स्थालीपाकं श्रपयित्वा {विवस्वान् नो [१८.३.६१]}इति जुहोति (कौसू-११.३[८२].३६
युक्ताभ्यां तृतीयाम् (कौसू-११.३[८२].३७
आनुमतीं चतुर्थीम् (कौसू-११.३[८२].३८
शेषं शान्त्युदकेनउपसिच्याभिमन्त्र्य प्राशयति (कौसू-११.३[८२].३९
{आ प्र च्यवेथाम् [१८.४.४९]} इति गावौउपयछति (कौसू-११.३[८२].४०
{एयम् अगन्न् [१८.४.५०]} इति दशगवावरार्ध्या दक्षिणा (कौसू-११.३[८२].४१
द्वादशरात्रं कर्ता यमव्रतं चरेत् (कौसू-११.३[८२].४२
एकचैलस् त्रिचैलो चा (कौसू-११.३[८२].४३
हविष्यभक्षः (कौसू-११.३[८२].४४
सायंप्रातर् उपस्पृशेत् (कौसू-११.३[८२].४५
ब्रह्मचारी व्रतीअधः शयीत (कौसू-११.३[८२].४६
स्वस्त्ययनानि प्रयुञ्जीत (कौसू-११.३[८२].४७

पितॄन् निधास्यन् संभारान् संभरति (कौसू-११.४[८३].१
एकादश +चरून् अचक्रकृतान्+ (ed.॒ चरूञ् चक्रकृतान्॑ सेए Caland, ङेब्रएउछे, p. १३४, n. ४९३) कारयति (कौसू-११.४[८३].२
शतातृण्णसहस्रातृण्णौ च पाशीम् ऊषम् सिकताः शङ्खं शालूकं सर्वसुरभिशमीचूर्णकृतं शान्तवृक्षस्य नावं त्रिपादकम् (कौसू-११.४[८३].३
द्वे निःशीयमाने नीललोहिते सूत्रे सव्यरज्जुं शान्तवृक्षस्य चतुरः शङ्कून्चतुरः परिधीन् वारणं शामीलम् औदुम्बरं पालाशं वृक्षस्य शान्तौषधीः (कौसू-११.४[८३].४
माघे निदध्यात्माघं भूद् इति (कौसू-११.४[८३].५
शरदि निदध्यात्शाम्यत्व् अघम् इति (कौसू-११.४[८३].६
निदाघे निदध्यात्निदह्यताम् अघम् इति (कौसू-११.४[८३].७
अमावास्यायां निदध्याद् अमा हि पितरो भवन्ति (कौसू-११.४[८३].८
अथावसानम् (कौसू-११.४[८३].९
तद् यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणम् (कौसू-११.४[८३].१०
यत्राकण्टका वृक्षाश् चओषधयश् च (कौसू-११.४[८३].११
उन्नतं स्वर्गकामश् च (कौसू-११.४[८३].१२
श्वो ऽमावास्याइति गां कारयते (कौसू-११.४[८३].१३
तस्याः सव्यं चापघनं प्रपाकं च निधाय (कौसू-११.४[८३].१४
भिक्षां कारयति (कौसू-११.४[८३].१५
ग्रामे यामसारस्वतान् होमान् हुत्वा (कौसू-११.४[८३].१६
संप्रोक्षणीभ्यां काम्पीलशाखया निवेशनम् अनुचर्य (कौसू-११.४[८३].१७
प्राग्दक्षिणं शाखां प्रविध्य सीरेण कर्षयित्वा शाखाभिः परिवार्य (कौसू-११.४[८३].१८
{पुनर् देहि [१८.३.७०]}इति वृक्षमूलाद् आदत्ते (कौसू-११.४[८३].१९
{यत् ते कृष्णः [१८.३.५५]}इति भूमेर् वसने समोप्य सर्वसुरभिचूर्णैर् अवकीर्यउत्थापनीभिर् उत्थाप्य हरिणीभिर् हरेयुः (कौसू-११.४[८३].२०
अविदन्तो देशात् पांसून् (कौसू-११.४[८३].२१
अपि वाउदकान्ते वसनम् आस्तीर्यासौइति ह्वयेत् (कौसू-११.४[८३].२२
तत्र यो जन्तुर् निपतेत् तम् उत्थापनीभिर् उत्थाप्य हरिणीभिर् हरेयुः (कौसू-११.४[८३].२३
अपि वा त्रीणि षष्टिशतानि पलाशत्सरूणाम् (कौसू-११.४[८३].२४
ग्रामे दक्षिणोदग्द्वारं विमितं दर्भैर् आस्तारयति (कौसू-११.४[८३].२५
उत्तरं जीवसंचरो दक्षिणं पितृसंचरः (कौसू-११.४[८३].२६
अनस्तमिते{आ यात [१८.४.६२]}इत्य् आयापयति (कौसू-११.४[८३].२७
{आच्या जानु [१८.१.५२]}इत्य् उपवेशयति (कौसू-११.४[८३].२८
{सं विशन्त्व् [१८.२.२९]} इति संवेशयति (कौसू-११.४[८३].२९
{एतद् वः पितरः पात्रम् [cf. Vष्ं २.३२, ंन्B २.३.१४ आदि]} इति त्रीण्य् उदकंसान् निनयति (कौसू-११.४[८३].३०
त्रीन् स्नातानुलिप्तान् ब्राह्मणान् मधुमन्थं पाययति (कौसू-११.४[८३].३१
ब्रह्मणे मधुपर्कम् आहारयति (कौसू-११.४[८३].३२
गां वेदयन्ते (कौसू-११.४[८३].३३
कुरुतइत्य् आह (कौसू-११.४[८३].३४
तस्या दक्षिणम् अर्धं ब्राह्मणान् भोजयति सव्यं पितॄन् (कौसू-११.४[८३].३५

{वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कुल्या उप तान् स्रवन्तु सत्या एषाम् आशिषः सन्तु कामाः स्वाहा स्वधा [सेए ४५.१४, cf. ंन्B २.३.१८, Vष्ं ३५.२०]}इति वपायास् त्रिर् जुहोति (कौसू-११.५[८४].१
{इमं यम [१८.१.६०]}इति यमाय चतुर्थीम् (कौसू-११.५[८४].२
एकविंशत्या यवैः कृशरं रन्धयति युतम् अन्यत् प्रपाकं च (कौसू-११.५[८४].३
सयवस्य जीवाः प्राश्नन्ति (कौसू-११.५[८४].४
अथइतरस्य पिण्डं निपृणाति (कौसू-११.५[८४].५
{यं ते मन्थं [१८.४.४२]}इति मन्त्रोक्तं विमिते निपृणाति (कौसू-११.५[८४].६
तद् उद्गतोष्म हर्तारो [ed. -ओष्महर्त्-, Caland आह्नेन्चुल्त् p. २६४] दासा भुञ्जते (कौसू-११.५[८४].७
वीणा वदन्तुइत्य् आह (कौसू-११.५[८४].८
महयत पितॄन् इति रिक्तकुम्भं विमितमध्ये निधाय तं जरदुपानहाघ्नन्ति (कौसू-११.५[८४].९
{कस्ये मृजाना [१८.३.१७]} इति त्रिः प्रसव्यं प्रकीर्णकेश्यः परियन्ति दक्षिणान् ऊरून् अघ्नानाः (कौसू-११.५[८४].१०
एवं मध्यरात्रेअपरात्रे च (कौसू-११.५[८४].११
पुरा विवाहात् समांसः पिण्डपितृयज्ञः (कौसू-११.५[८४].१२
उत्थापनीभिर् उत्थाप्य हरिणीभिर् हरेयुः (कौसू-११.५[८४].१३
अथ{अवसाय [?, .RV १०.१६९.१द्, PS १९.५१.५द्? णोते Caland, Kल्. ष्छ्र्., p. ४८)]}इति पश्चात् पूर्वकृतेभ्यः पूर्वाणि पूर्वेभ्योअपराणि यवीयसाम् (कौसू-११.५[८४].१४
प्राग्दक्षिणां दिशम् अभ्य् उत्तराम् अपरां दिशम् अभितिष्ठन्ति (कौसू-११.५[८४].१५
यथा चितिं तथा श्मशानं दक्षिणापरां दिशम् अभि प्रवणम् (कौसू-११.५[८४].१६

अथ मानानि (कौसू-११.६[८५].१
दिष्टिकुदिष्टिवितस्तिनिमुष्ट्यरत्निपदप्रक्रमाः (कौसू-११.६[८५].२
प्रादेशेन धनुषा च{इमां मात्रां मिमीमहे [१८.२.३८]}इति (कौसू-११.६[८५].३
सप्त दक्षिणतो मिमीते सप्तउत्तरतः पञ्च पुरस्तात् त्रीणि पश्चात् (कौसू-११.६[८५].४
नव दक्षिणतो मिमीते नवउत्तरतः सप्त पुरस्तात् पञ्च पश्चात् (कौसू-११.६[८५].५
एकादश दक्षिणतो मिमीत एकादशउत्तरतो नव पुरस्तात् सप्त पश्चात् (कौसू-११.६[८५].६
एकादशभिर् देवदर्शिनाम् (कौसू-११.६[८५].७
अयुग्ममानानि परिमण्डलानि चतुरस्राणि वा शौनकिनाम् (कौसू-११.६[८५].८
तथा हि दृश्यन्ते (कौसू-११.६[८५].९
यावान् पुरुष ऊर्ध्वनाहुस् तावान् अग्निश् चितः (कौसू-११.६[८५].१०
सव्यानि दक्षिणाद्वाराणिअयुग्मशिलानिअयुग्मेष्टिकानि च (कौसू-११.६[८५].११
{इमां मात्रां मिमीमहे [१८.२.३८]}इति दक्षिणतः सव्यरज्जुं मीत्वा (कौसू-११.६[८५].१२
वारयताम् अघम् इति वारणं परिधिं परिदधाति शङ्कुं च निचृतति (कौसू-११.६[८५].१३
पुरस्तान् मीत्वा शम् एभ्यो अस्त्व् अघम् इति शामीलं परिधिं परिदधाति शङ्कुं च निचृतति (कौसू-११.६[८५].१४
उत्तरतो मीत्वा शाम्यत्व् अघम् इत्य् औदुम्बरं परिधिं परिदधाति शङ्कुं च निचृतति (कौसू-११.६[८५].१५
पश्चान् मीत्वा शान्तम् अघम् इति पालाशं परिधिं परिदधाति शङ्कुं च निचृतति (कौसू-११.६[८५].१६
{अमासि [१८.२.४५]}इत्य् अनुमन्त्रयते (कौसू-११.६[८५].१७
अक्ष्णया लोहितसूत्रेण निबध्य (कौसू-११.६[८५].१८
{स्तुहि श्रुतं [१८.१.४०]}इति मध्ये गर्तं खात्वा पाशिसिकताऊषउदुम्बरशङ्खशालूकसर्वसुरभिशमीचूर्णानि निवपति (कौसू-११.६[८५].१९
निःशीयताम् अघम् इति निःशीयमानम् आस्तृणाति (कौसू-११.६[८५].२०
असंप्रत्य् अघम् (कौसू-११.६[८५].२१
वि लुम्पताम् अघम् इति परि चैलं दूर्शं विलुम्पति (कौसू-११.६[८५].२२
उक्तो होमो दक्षिणत स्तरणं च (कौसू-११.६[८५].२३
{एतद् आ रोह [१८.३.७३]} {ददामि [१८.२.३७]}इति कनिष्ठो निवपति (कौसू-११.६[८५].२४
{एदं बर्हिर् [१८.४.५२]} इति स्थितसूनुर् यथापरु संचिनोति (कौसू-११.६[८५].२५
{मा ते मनो [१८.२.२४]} {यत् ते अङ्गम् [१८.२.२६]} {इन्द्रो मा [१८.३.२५]}{उदपूर् [१८.३.३७]} इत्य् आतोअनुमन्त्रयते (कौसू-११.६[८५].२६
धानाः सलिङ्गाभिर् आवपति (कौसू-११.६[८५].२७

{इदं कसाम्बु [१८.४.३७]}इति सजातान् अवेक्षयति (कौसू-११.७[८६].१
{ये च जीवा [१८.४.५७]} {ये ते पूर्वे परागता [१८.३.७२]} इति सर्पिर्मधुभ्यां चरुं पूरयित्वा शीर्षदेशे निदधाति (कौसू-११.७[८६].२
{अपूपवान् [१८.४.१६]} इति मन्त्रोक्तं दिक्षुअष्टमदेशेषु निदधाति (कौसू-११.७[८६].३
मध्ये पचन्तम् (कौसू-११.७[८६].४
{सहस्रधारं शतधारम् [१८.४.३६]} इत्य् अद्भिर् अभिविष्यन्द्य (कौसू-११.७[८६].५
{पर्णो राजा [१८.४.५३]}इति मध्यमपलाशैर् अभिनिदधाति (कौसू-११.७[८६].६
{ऊर्जो भागो [१८.४.५४]}इत्य् अश्मभिः (कौसू-११.७[८६].७
{उत् ते स्तभ्नामि [१८.३.५२]}इति लोगान् यथापरु (कौसू-११.७[८६].८
निःशीयताम् अघम् इति निःशीयमानेनावछाद्य दर्भैर् अवस्तीर्य (कौसू-११.७[८६].९
{इदम् इद् वा उ न [१८.२.५०]}{उप सर्प [१८.३.४९]}{असौ हा [१८.४.६६]} इति चिन्वन्ति (कौसू-११.७[८६].१०
{यथा यमाय [१८.४.५५]}इति संश्रित्य (कौसू-११.७[८६].११
शृणात्व् अघम् इत्य् उपरिशिर स्तम्बम् आदधाति (कौसू-११.७[८६].१२
प्रतिषिद्धम् एकेषाम् (कौसू-११.७[८६].१३
अकल्माषाणां काण्डानाम् अष्टाङ्गुलीं तेजनीम् अन्तर्हितम् अघम् इति ग्रामदेशाद् उच्छ्रयति (कौसू-११.७[८६].१४
प्रसव्यं परिषिच्य कुम्भान् भिन्दन्ति (कौसू-११.७[८६].१५
{समेत [७.२१.१ (thus एम्.!)]}इति अपरस्यां श्मशानस्रक्त्यां ध्रुवनानि उपयछन्ते (कौसू-११.७[८६].१६
पश्चाद् उत्तरतोअग्नेर् {वर्चसा मां [१८.३.१०]} {विवस्वान् [१८.३.६१]} {इन्द्र क्रतुं [१८.३.६७]}इत्य् आतः (कौसू-११.७[८६].१७
{सम् इन्धते [१८.४.४१ (ए.अ.)]}इति पश्चात् संकसुकम् उद्दीपयति (कौसू-११.७[८६].१८
{अस्मिन् वयं [१२.२.१३]} {यद् रिप्रं [१२.२.४०]} {सीसे मृड्ढ्वं [१२.२.१९]}इत्य् अभ्यवनेजयति (कौसू-११.७[८६].१९
कृष्णोर्णया पाणिपादान् निमृज्य (कौसू-११.७[८६].२०
{इमे जीवा [१२.२.२२]} {उदीचीनैः [१२.२.२९]}इति मन्त्रोक्तम् (कौसू-११.७[८६].२१
{त्रिः सप्त [१२.२.२९च्]}इति कूद्या पदानि लोपयित्वा [ed. योपयित्वा -- चोर्रिगेन्द ed. p. ४२४] श्मशानात् (कौसू-११.७[८६].२२
{मृत्योः पदं [१२.२.३०]}इति द्वितीयया नावः (कौसू-११.७[८६].२३
{परं मृत्यो [१२.२.२१]} इति प्राग्दक्षिणम् कूदीं प्रविध्य (कौसू-११.७[८६].२४
सप्त नदीरूपाणि कारयित्वाउदकेन पूरयित्वा (कौसू-११.७[८६].२५
{आ रोहत सवितुर् नावम् एतां [१२.२.४८च्]} {सुत्रामाणं [७.६.३]} {महीम् ऊ षु [७.६.२]}इति सहिरण्यां सयवां नावम् आरोहयति (कौसू-११.७[८६].२६
{अश्मन्वती रीयते [१२.२.२६]}{उत् तिष्ठता प्र तरता सखायो [१२.२.२७]}इत्य् उदीचस् तारयति (कौसू-११.७[८६].२७
शर्करादिआ समिदाधानात् (कौसू-११.७[८६].२८
वैवस्वतादि समानम् (कौसू-११.७[८६].२९
प्राप्य गृहान् समानः पिण्डपितृयज्ञः (कौसू-११.७[८६].३०

अथ पिण्डपितृयज्ञः (कौसू-११.८[८७].१
अमावास्यायां सायं न्यह्नेअहनि विज्ञायते [cf. १८.४.६५?] (कौसू-११.८[८७].२
{मित्रावरुणा परि माम् अधाताम् [१८.३.१२]} इति पाणी प्रक्षालयते (कौसू-११.८[८७].३
{वर्चसा मां [१८.३.१०]}इत्य् आचामति (कौसू-११.८[८७].४
पुनः सव्येनाचमनाद् अपसव्यं कृत्वा प्रैषकृतं समादिशति (कौसू-११.८[८७].५
उलूखलमुसलं शूर्पं चरुं कंसं प्रक्षालय बर्हिर् उदकुम्भम् आ हरइति (कौसू-११.८[८७].६
यज्ञोपवीती दक्षिणपूर्वम् अन्तर्देशम् अभिमुखः शूर्प एकपवित्रान्तर्हितान् हविष्यान् निर्वपति (कौसू-११.८[८७].७
इदम् {अग्नये कव्यवाहनाय [१८.४.७१]} {स्वधा पितृभ्यः पृथिविषद्भ्यः [१८.४.७८]}इतीदं {सोमाय पितृमते स्वधा [१८.४.७२]} {पितृभ्यः सोमवद्भ्यः [१८.४.७३]} {पितृभ्यो वान्तरिक्षसद्भ्यः [१८.४.७९]}इतीदं {यमाय पितृमते [१८.४.७४]} {स्वधा पितृभ्यश् च दिविषद्भ्यः [१८.४.८०]}इति त्रीन् अवाचीनकाशीन् निर्वपति (कौसू-११.८[८७].८
उलूखल ओप्य त्रिर् अवहन्ति{इदं वः पितरो हविः}इति (कौसू-११.८[८७].९
यथा हविस् तथा परिचरति (कौसू-११.८[८७].१०
हविर् हिएव पितृयज्ञः (कौसू-११.८[८७].११
प्रैषकृतं समादिशन्ति चरुं प्रक्षालयाधिश्रयाप ओप्य तण्डुलान् आवपस्व नेक्षणेन योधयन्न् आस्व मा शिरो ग्रहीः (कौसू-११.८[८७].१२
शिरोग्रहं परिचक्षते (कौसू-११.८[८७].१३
बाह्येनउपनिष्क्रम्य यज्ञोपवीती दक्षिणपूर्वम् अन्तर्देशम् अभिमुख {उद् ईरताम् [१८.१.४४]} इति कर्षूं खनति प्रादेशमात्रीं तिर्यगङ्गुरिम् (कौसू-११.८[८७].१४
अवागङ्गुरिं पर्वमात्रीम् इत्य् एके (कौसू-११.८[८७].१५
{अपहता असुरा रक्षांसि ये पितृषदः [cf. Vष्ं २.२९, ंन्B २.३.३]}इति प्राग्दक्षिणं पांसून् उदूहति (कौसू-११.८[८७].१६
कर्षूं च पाणी च प्रक्षाल्य{एतद् वः पितरः पात्रम्} इति कर्षूम् उदकेन पूरयित्वा (कौसू-११.८[८७].१७
अन्तरुपातीत्य मस्तुना नवनीतेन वा प्रतिनीय दक्षिणाञ्चम् उद्वास्य (कौसू-११.८[८७].१८
द्वे काष्ठे गृहीत्वा{उशन्तस् [१८.१.५६]}इत्य् आदीपयति (कौसू-११.८[८७].१९
आदीप्तयोर् एकं प्रतिनिदधाति (कौसू-११.८[८७].२०
{इहैवैधि धनसनिर् [१८.४.३८]} इत्य् एकं हृत्वा (कौसू-११.८[८७].२१
पांसुषुआधायउपसमादधाति {ये निखाताः [१८.२.३४]} {सम् इन्धते [१८.४.४१ (ए.अ.)]} {ये तातृषुर् [१८.३.४७]} {ये सत्यासो [१८.३.४८]}इति (कौसू-११.८[८७].२२
संभारान् उपसादयति (कौसू-११.८[८७].२३
पर्युक्षणीं बर्हिर् उदकुम्भं कंसं दर्विम् आज्यम् आयवनं चरुं वासांस्य् आञ्जनम् अभ्यञ्जनम् इति (कौसू-११.८[८७].२४
यद् अत्रउपसमाहार्यं भवति तद् उपसमाहृत्य (कौसू-११.८[८७].२५
अतो यज्ञोपवीती पित्र्युपवीती बर्हिर् गृहीत्वा विचृत्य संनहनं दक्षिणापरम् अष्टमदेशम् अभ्यवास्येत् (कौसू-११.८[८७].२६
बर्हिर् उदकेन संप्रोक्ष्य {बर्हिषदः पितर [१८.१.५१]} {उपहूता नः पितरः [१८.३.४५]}{अग्निष्वात्ताः पितरो [१८.३.४४]} {ये नः पितुः पितरो [१८.३.४६]} {ये ऽस्माकं [१८.४.६८]}इति प्रस्तृणाति (कौसू-११.८[८७].२७
आयापनादीनि त्रीणि (कौसू-११.८[८७].२८
{उद् ईरताम् [१८.१.४४]} इति तिसृभिर् उदपात्राणिअन्वृचं निनयेत् (कौसू-११.८[८७].२९
अतः पित्र्युपवीती यज्ञोपवीती {ये दस्यवः [१८.२.२८]}इत्य् उभयत आदीप्तम् उल्मुकं त्रिः प्रसव्यं परिहृत्य निरस्यति (कौसू-११.८[८७].३०
पर्युक्ष्य (कौसू-११.८[८७].३१

{ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । त्वं तान् अग्ने अप सेध दूरान् सत्याः नः पितॄणां सन्त्व् आशिषः स्वहा स्वधा [-, cf. Vष् २.२०, ंन्B २.३.४]}इति हुत्वा कुम्भीपाकम् अभिघारयति (कौसू-११.९[८८].१
{अग्नय कव्यवाहनाय [१८.४.७१]}इति जुहोति (कौसू-११.९[८८].२
यथानिरुप्तं द्वितीयाम् (कौसू-११.९[८८].३
{यमाय पितृमते [१८.४.७४] {स्वधा पितृभ्यः [१८.४.७८]} इति तृतीयाम् (कौसू-११.९[८८].४
{यद् वो अग्निर् [१८.४.६४]} इति सायवनान्तण्डुलान् (कौसू-११.९[८८].५
{सं बर्हिर् [७.९८.१]} इति सदर्भान्तण्डुलान् पर्युक्ष्य (कौसू-११.९[८८].६
अतो यज्ञोपवीती पित्र्युपवीती दर्व्याउद्धरति (कौसू-११.९[८८].७
द्यौर् दर्विर् अक्षितापरिमितानुपदस्ता सा यथा द्यौर् दर्विर् अक्षितापरिमितानुपदस्ताएवा [रेअद् एवं? श्रौतकोश ई Eन्ग्. ई p. ४८८] प्रततामहस्यइयं दर्विर् अक्षितापरिमितानुपदस्ता (कौसू-११.९[८८].८
अन्तरिक्षं दर्विर् अक्षितापरिमितानुपदस्ता सा यथान्तरिक्षम् दर्विर् अक्षितापरिमितानुपदस्ताएवा [रेअद् एवं? श्रौतकोश ई Eन्ग्. ई p. ४८८] ततामहस्यइयं दर्विर् अक्षितापरिमितानुपदस्ता (कौसू-११.९[८८].९
पृथिवी दर्विर् अक्षितापरिमितानुपदस्ता सा यथा पृथिवी दर्विर् अक्षितापरिमितानुपदस्ताएवा [रेअद् एवं? श्रौतकोश ई Eन्ग्. ई p. ४८८] ततस्यइयं दर्विर् अक्षितापरिमितानुपदस्ताइति (कौसू-११.९[८८].१०
उद्धृत्याज्येन संनीय त्रीन् पिण्डान् संहतान् निदधाति{एतत् ते प्रततामह [१८.४.७५]}इति (कौसू-११.९[८८].११
दक्षिणतः पत्नीभ्यः{इदं वः पत्न्यः}इति (कौसू-११.९[८८].१२
इदम् आशंसूनाम् इदम् आशंसमानानां स्त्रीणां पुंसां प्रकीर्णावशीर्णानां {येषां वयं दातारो ये चास्माकम् उपजीवन्ति । तेभ्यः सर्वेभ्यः सपत्नीकेभ्यः स्वधावद् अक्षय्यम् अस्तु [-]}इति त्रिः प्रसव्यं तण्डुलैः परिकिरति (कौसू-११.९[८८].१३
पिञ्जूलीर् आञ्जनं सर्पिषि पर्यस्य{अद्ध्वं पितरः}इति न्यस्यति (कौसू-११.९[८८].१४
{वद्ध्वं पितरो मा वो ऽतो ऽन्यत् पितरो योयुवत [-]}इति सूत्राणि (कौसू-११.९[८८].१५
{अञ्जते व्य् अञ्जते [१८.३.१८]}इत्य् अभ्यञ्जनम् (कौसू-११.९[८८].१६
आज्येनाविछिन्नं पिण्डान् अभिघारयति {ये च जीवा [१८.४.५७]} {ये ते पूर्वे परागता [१८.३.७२]} इति (कौसू-११.९[८८].१७
{अत्र पितरो मादयध्वं यथाभागं यथालोकम् आवृषायध्वम् [cf. Vष्ं २.३१, ंन्B २.३.६ आदि]} इति (कौसू-११.९[८८].१८
{अत्र पत्न्यो मादयध्वं यथाभागं यथालोकम् आवृषायध्वम् [cf. Vष्ं २.३१, ंन्B २.३.६ आदि]} इति (कौसू-११.९[८८].१९
योअसौअन्तरग्निर् भवति तं प्रदक्षिणम् अवेक्ष्य तिस्रस् तामीस् ताम्यति (कौसू-११.९[८८].२०
प्रतिपर्यावृत्य{अमीमदन्त पितरो यथाभागं यथालोकम् आवृषायिषत [cf. Vष्ं २.३१, ंन्B २.३.७ आदि]}इति (कौसू-११.९[८८].२१
{अमीमदन्त पत्न्यो यथाभागं यथालोकम् आवृषायिषत [cf. Vष्ं २.३१, ंन्B २.३.७ आदि]}इति (कौसू-११.९[८८].२२
{आपो अग्निं [१८.४.४०]}इत्य् अद्भिर् अग्निम् अवसिच्य (कौसू-११.९[८८].२३
{पुत्रं पौत्रम् अभितर्पयन्तीर् [१८.४.३९]} इत्य् {आचामत मम प्रततामहास् ततामहास् तताः सपत्नीकास् तृप्यन्त्व् आचामन्तु [-]}इति प्रसव्यं परिषिच्य (कौसू-११.९[८८].२४
{वीरान् मे प्रततामहा दत्त वीरान् मे ततामहा दत्त वीरान् मे पितरो दत्त} पितॄन् वीरान् याचति (कौसू-११.९[८८].२५
{नमो वः पितर [१८.४.८१ff.]} इत्य् उपतिष्ठते (कौसू-११.९[८८].२६
{अक्षन्न् [१८.४.६१]} इत्य् उत्तरसिचम् अवधूय (कौसू-११.९[८८].२७
{परा यात [१८.४.६३]}इति परायापयति (कौसू-११.९[८८].२८
अतः पित्र्युपवीती यज्ञोपवीती {यन् न इदं पितृभिः सह मनो ऽभूत् तद् उपाह्वयामि [-]}इति मन उपाह्वयति (कौसू-११.९[८८].२९

{मनो न्व् आ ह्वामहे नाराशंसेन [चोर्र्. Bलोओम्fइएल्द् ङ्ङा १९०२ ५१४ -- ed. नार-] स्तोमेन । पितॄणां च मन्मभिः ॥ आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥ पुनर् नः पितरो मनो ददातु दैव्यो [ed. दैव्यः] जनः । जीवं व्रातं सचेमहि ॥ वयं सोम व्रते तव मनस् तनूषु बिभ्रतः प्रजावन्तः सचेमहि [PS १९.२४.१०-१३, Vऐत्ष् २०.९]} ॥ {ये सजाताः सुमनसो जीवा जीवेषु मामकाः । तेषाम्̐ श्रीर् मयि कल्पताम् अस्मिन् गोष्ठे शतम्̐ समाः [Vष्ं १९.४६ आदि]}इति (कौसू-११.१०[८९].१
यत्चरुस्थाल्याम् ओदनावशिष्टं भवति तस्यऊष्मभक्षं भक्षयित्वा ब्राह्मणाय दद्यात् (कौसू-११.१०[८९].२
यदि ब्राह्मणो न लभ्येताप्सुअभ्यवहरेत् (कौसू-११.१०[८९].३
निजाय दासायइत्य् एके (कौसू-११.१०[८९].४
मध्यमपिण्डं पत्न्यै पुत्रकामायै प्रयछति (कौसू-११.१०[८९].५
{आ धत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषो ऽसत् ॥ [Vष्ं २.३३ आदि]} {आ त्वारुक्षद् वृषभः पृश्निर् अग्रियो मेधाविनं पितरो गर्भम् आ दधुः । आ त्वायं पुरुषो गमेत् पुरुषः पुरुषाद् अधि । स ते श्रैष्ठ्याय जायतां स सोमे साम गायतु [-, cf. .RV ९.८३.३]}इति (कौसू-११.१०[८९].६
यदिअन्या द्वितीया भवतिअपरं तस्यै (कौसू-११.१०[८९].७
प्राग्रतमं श्रोत्रियाय (कौसू-११.१०[८९].८
अथ यस्य भार्या दासी वा प्रद्राविणी भवति येअमी तण्डुलाः प्रसव्यं परिकीर्णा भवन्ति तान्तस्यै प्रयछति (कौसू-११.१०[८९].९
{अर्वाच्य् +उपसंक्राम [ed. उपसंक्रमे] मा पराच्य् अप वर्तथाः [ed. उप वस्तथा] । अन्नं प्राणस्य बन्धनं तेन बध्नामि त्वा मयि [-, एमेन्दतिओन्स् Caland, आह्नेन्चुल्त् p. १९२, cf. ंन्B १.३.१०]}इति (कौसू-११.१०[८९].१०
पर्युक्षणीं समिधश् चादाय {मा प्र गाम [१३.१.५९]}इत्य् आव्रज्य{ऊर्जं बिभ्रद् [७.६०.१]} इति गृहान् उपतिष्ठते (कौसू-११.१०[८९].११
{रमध्वं मा बिभीतनास्मिन् गोष्ठे करीषिणः । ऊर्जं दुहानाः शुचयः शुचिव्रता गृहा जीवन्त उप वः सदेम ॥ ऊर्जं मे देवा अददुर् ऊर्जं मनुष्या उत । ऊर्जं पितृभ्य आहार्षम् ऊर्जस्वन्तो गृहा मम ॥ पयो मे देवा अददुः पयो मनुष्या उत । पयः पितृभ्य आहार्षं पयस्वन्तो गृहा मम ॥ [PS १८.८२.३-५]} {वीर्यं मे देवा अददुः वीर्यं मनुष्या उत । वीर्यं पितृभ्य आहार्षं वीरवन्तो गृहा मम ॥ [-, cf. PS १८.८२.४-५]}इति (कौसू-११.१०[८९].१२
अन्तरुपातीत्य समिधो ऽभ्यादधाति । {अयं नो अग्निर् अध्यक्षो ऽयं नो वसुवित्तमः । अस्योपसद्ये मा रिषामायं रक्षतु नः प्रजाम् ॥ अस्मिन् सहस्रं पुष्यास्मैधमानाः स्वे गृहे । इमं सम् इन्धिषीमह्य् आयुष्मन्तः सुवर्चसः ॥ [PSK॰॰ २०.६०.७-८]} {त्वम् अग्न ईडितो [१८.३.४२]}{आ त्वाग्न इन्धीमहि [१८.४.८८]}इति (कौसू-११.१०[८९].१३
{अभूद् दूतः [१८.४.६५]}इत्य् अग्निं प्रत्यानयति (कौसू-११.१०[८९].१४
यदि सर्वः प्रणीतः स्याद् दक्षिणाग्नौ तुएतद् आहिताग्नेः (कौसू-११.१०[८९].१५
गृह्ये +ऽपिअनाहिताग्नेः [ed. गृह्येष्व्, cf. Caland आह्नेन्चुल्त् p. १५] (कौसू-११.१०[८९].१६
{इदं चिन् मे कृतम् अस्तीदं चिच् छक्नवानि । पितरश् चिन् मा वेदन् [-]}इति (कौसू-११.१०[८९].१७
यो ह यजते तं देवा विदुर् यो ददाति तं मनुष्या यः श्राद्धानि कुरुते तं पितरस् तं पितरः (कौसू-११.१०[८९].१८
इति अथर्ववेदे कौशिकसूत्रे एकादशो ऽध्यायः समाप्तः