कौशिक सूत्र / चतुर्दशोऽध्यायः

विकिपुस्तकानि तः
Jump to navigation Jump to search
यथावितानं यज्ञवास्तुअध्यवसेत् (कौसू-१४.१[१३७].१
वेदिर् यज्ञस्याग्नेर् उत्तरवेदिः (कौसू-१४.१[१३७].२
उभे प्रागायते किंचिद्प्रथीयस्यौ पश्चाद् उद्यततरे (कौसू-१४.१[१३७].३
अपृथुसंमितां वेदिं विदध्यात् (कौसू-१४.१[१३७].४
षट्शमीं प्रागायतां चतुःशमीं श्रोण्याम् (कौसू-१४.१[१३७].५
त्रीन् मध्ये अर्धचतुर्थान् अग्रतः (कौसू-१४.१[१३७].६
त्रयाणां पुरस्ताद् उत्तरवेदिं विदध्यात् (कौसू-१४.१[१३७].७
द्विःशमीं प्रागायताम् ऋज्वीम् अध्यर्धशमीं श्रोण्याम् (कौसू-१४.१[१३७].८
{ग्रीष्मस् ते भूमे [१२.१.३६]}इत्य् उपस्थाय (कौसू-१४.१[१३७].९
{वि मिमीष्व पयस्वतीं [१३.१.२७]}इति मिमानम् अनुमन्त्रयते (कौसू-१४.१[१३७].१०
{बृहस्पते परि गृहाण वेदिं सुगा वो देवाः सदनानि सन्तु । अस्यां बर्हिः प्रथतां साध्व् अन्तरहिंस्रा णः पृथिवी देव्य् अस्तु [Kआत्य्श्ष् २.२.१२]}इति परिगृह्णाति (कौसू-१४.१[१३७].११
{यत् ते भूमे [१२.१.३५]}इति विखनति (कौसू-१४.१[१३७].१२
{यत् ते ऊनं [१२.१.६१च्]}इति संवपति (कौसू-१४.१[१३७].१३
{त्वम् अस्य् आवपनी जनानाम् [१२.१.६१]} इति ततह् पांसून् अन्यतोदाहार्य [-उदाहार्य] (कौसू-१४.१[१३७].१४
{बृहस्पते परि गृहाण वेदिं [Kआत्य्श्ष् २.२.१२, सेए (कौसू-१३७.११]}इति उत्तरवेदिम् ओप्यमानाण् परिगृह्णाति (कौसू-१४.१[१३७].१५
{असंबाधं मध्यतो [ed.॒ बध्यतो] मानवानां [१२.१.२]}इति प्रथयति (कौसू-१४.१[१३७].१६
{यस्याश् चतस्रः प्रदिशः पृथिव्या [१२.१.४]} इति चतुरस्रां करोति (कौसू-१४.१[१३७].१७
{देवस्य त्वा सवितुः प्रसवे अश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आ ददे [cf. १९.५१.२ आदि]}इति लेखनम् आदाय यत्राग्निं निधास्यन् भवति तत्र लक्षणं करोति (कौसू-१४.१[१३७].१८
{इन्द्रः सीतां नि गृह्णातु [३.१७.४]}इति दक्षिणत आरभ्यउत्तर आलिखति (कौसू-१४.१[१३७].१९
प्राचीम् आवृत्य दक्षिणतः प्राचीम् (कौसू-१४.१[१३७].२०
अपरास् तिस्रो मध्ये (कौसू-१४.१[१३७].२१
तस्यां व्रीहियवौओप्य (कौसू-१४.१[१३७].२२
{वर्षेण भूमिः पृथिवी वृतावृता [१२.१.५२च्]}इत्य् अद्भिः संप्रोक्ष्य (कौसू-१४.१[१३७].२३
{यस्याम् अन्नं व्रीहियवौ [१२.१.४२]}इति भूमिं नमस्कृत्य (कौसू-१४.१[१३७].२४
अथाग्निं प्रणयेत् । {त्वाम् अग्ने भृगवो नयन्ताम् अङ्गिरसः सदनं श्रेय एहि । विश्वकर्मा पुर एतु प्रजानन् धिष्ण्यं पन्थाम् अनु ते दिशाम [-]}इति (कौसू-१४.१[१३७].२५
भद्रश्रेयःस्वस्त्या वा (कौसू-१४.१[१३७].२६
{अग्ने प्रेहि [४.१४.५]}इति वा (कौसू-१४.१[१३७].२७
{विश्वंभरा वसुधानी प्रतिष्ठा [१२.१.६]}इति लक्षणे प्रतिष्ठाप्य (कौसू-१४.१[१३७].२८
अथइध्मम् उपसमादधाति (कौसू-१४.१[१३७].२९
{अग्निर् भूम्याम् ओषधीष्व् [१२.१.१९]} {अग्निर् दिव आ तपत्य् [१२.१.२०]} {अग्निवासाः पृथिव्य् असितज्ञूर् [चोर्र्. Bलोओम्fइएल्द् ङ्ङा १९०२ ५१४ -- ed.॒ असितजूर्] [१२.१.२१]} {एतम् इध्मं समाहितं जुषाणो [१०.६.३५]}{अस्मै क्षत्राणि धारयन्तम् अग्ने [७.७८.२]}इति पञ्चभि स्तरणम् (कौसू-१४.१[१३७].३०
अत ऊर्ध्वं बर्हिषः (कौसू-१४.१[१३७].३१
{त्वं भूमिम् अत्य् एष्य् ओजसा [PS ११.१३.३, सेए (कौसू-२.१]}इति दर्भान् संप्रोक्ष्य (कौसू-१४.१[१३७].३२
{ऋषीणां प्रस्तरो ऽसि [१६.२.६]}इति दक्षिणतोअग्नेर् ब्रह्मासनं निदधाति (कौसू-१४.१[१३७].३३
पुरस्ताद् अग्नेर् उदक् संस्तृणाति (कौसू-१४.१[१३७].३४
तथा प्रत्यक् (कौसू-१४.१[१३७].३५
प्रदक्षिणं बर्हिषां मूलानि छादयन्तोत्तरस्या [-उत्तरस्या] वेदिश्रोणेः पूर्वोत्तरतः संस्थाप्य (कौसू-१४.१[१३७].३६
{अहे दैधिषव्योद् अतस् तिष्ठान्य् अस्य सदने सीद यो ऽस्मत् पाकतरः [TS ३.२.४.४, Vऐत्ष् १.२०]}इति ब्रह्मासनम् अन्वीक्षते (कौसू-१४.१[१३७].३७
{निरस्तः पराग्वसुः सह पाप्मना निरस्तः सो ऽस्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः [ङोभ्ङ्ष् १.६.१४, ŚBM १.५.१.२३ आदि]}इति दक्षिणा तृणं निरस्यति (cf. (कौसू-३.५ff.) (कौसू-१४.१[१३७].३८
तद् अन्वालभ्य जपति{इदम् अहम् अर्वाग्वसोः सदने सीदामि[GopB २.१.१, ŚBM १.५.१.२४]ऋतस्य सदने सीदामि सत्यस्य सदने सीदामि[PB १.२.२ आदि]इष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि [-] मामृषद् एव बर्हिः स्वासस्थं त्वाध्यासदेयम् ऊर्णम्रदम् अनभिशोकम् [cf. AAśvŚS१.४.७]} (कौसू-१४.१[१३७].३९
{विमृग्वरीं [१२.१.२९]}इत्य् उपविश्यासनीयं ब्रह्मजपं जपति {बृहस्पतिर् ब्रह्मा ब्रह्मसदन आसिष्यते [thus Bलोओम्fइएल्द्] [AAśvŚS१.१२.९]} {बृहस्पते यज्ञं गोपाय [AAśvŚS१.१२.९, TB ३.७.६.३]} {यद् उद् उद्वत उन् निवतः शकेयम् [TS ३.२.४.४]} (कौसू-१४.१[१३७].४०
{पातं मा द्यावापृथिवी अद्याह्न [एम्. Bलोओम्fइएल्द् ङ्ङा १९०२ ५१४ -- ed. अघान् न] [-]} इति द्यावापृथिव्यौ समीक्षते (कौसू-१४.१[१३७].४१
{सविता प्रसवानाम् [५.२४.१]} इति कर्मणिकर्मणिअभितोअभ्यातानैर् आज्यं जुहुयात् (कौसू-१४.१[१३७].४२
व्याख्यातं सर्वपाकयज्ञियं तन्त्रम् (कौसू-१४.१[१३७].४३

अष्टकायाम् अष्टकाहोमाञ् जुहुयात् (कौसू-१४.२[१३८].१
तस्या हवींषि धानाः करम्भः शष्कुल्यः पुरोडाश उदौदनः क्षिरौदनस् तिलौदनो यथोपपादिपशुः (कौसू-१४.२[१३८].२
सर्वेषां हविषां समुद्धृत्य (कौसू-१४.२[१३८].३
दर्व्या जुहुयात् {प्रथमा ह व्य् उवास सा [३.१०.१]}इति पञ्चभिः (कौसू-१४.२[१३८].४
{आयम् आगन् संवत्सर [३.१०.८]}इति चतसृभिर् विज्ञायते (कौसू-१४.२[१३८].५
{ऋतुभ्यस् त्वा [३.१०.१०]}इति विग्राहम् अष्टौ (कौसू-१४.२[१३८].६
{इन्द्रपुत्रे [३.१०.१३]} इत्य् अष्टादशीम् (कौसू-१४.२[१३८].७
{अहोरात्राभ्यां [६.१२८.३]}इत्य् ऊनविंशीम् (कौसू-१४.२[१३८].८
पशौउपपद्यमाने दक्षिणं बाहुं निर्लोमं सचर्मं सखुरं प्रक्षाल्य (कौसू-१४.२[१३८].९
{इडायास् पदं [३.१०.६]}इति द्वाभ्यां विंशीम् (कौसू-१४.२[१३८].१०
अनुपद्यमान आज्यं जुहुयात् (कौसू-१४.२[१३८].११
हविषां दर्विं पूरयित्वा {पूर्णा दर्वे [३.१०.७च्]}इति सदर्वीम् एकविंशीम् (कौसू-१४.२[१३८].१२
एकविंशतिसंस्थो यज्ञो विज्ञायते [cf. ङ्B १.१.१२] (कौसू-१४.२[१३८].१३
सर्वा एव यज्ञतनूर् अवरुन्द्धे सर्वा एवास्य यज्ञतनूः पितरम् उपजीवन्ति य एवम् अष्टकाम् उपैति (कौसू-१४.२[१३८].१४
न दर्विहोमे न हस्तहोमे न पूर्णहोमे तन्त्रं क्रियेतइत्य् एके (कौसू-१४.२[१३८].१५
अष्टकायां क्रियेतइतीषुफालिमाठरौ (कौसू-१४.२[१३८].१६

अभिजिति शिष्यान् उपनीय श्वो भूते संभारान् संभरति (कौसू-१४.३[१३९].१
दधिसक्तून् पालाशं दण्डम् अहते वसने शुद्धम् आज्यं शान्ता ओषधीर् नवम् उदकुम्भम् (कौसू-१४.३[१३९].२
बाह्यतः शान्तवृक्षस्यइध्मं प्राञ्चम् उपसमाधाय (कौसू-१४.३[१३९].३
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य परिचरणेनाज्यं परिचर्य (कौसू-१४.३[१३९].४
नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च (कौसू-१४.३[१३९].५
पश्चाद् अग्नेर् दधिसक्तूञ् जुहोतिअग्नये ब्रह्मप्रजापतिभ्यां भृग्वङ्गिरोभ्य उशनसे काव्याय (कौसू-१४.३[१३९].६
ततोअभयैर् अपराजितैर् गणकर्मभिर् विश्वकर्मभिर् आयुष्यैः स्वस्त्ययनैर् आज्यं जुहुयात् (कौसू-१४.३[१३९].७
{मा नो देवा अहिर् वधीत् [६.५६.१]}{अरसस्य शर्कोटस्य [७.५६.५]}{इन्द्रस्य प्रथमो रथो [१०.४.१]} {यस् ते सर्पो वृश्चिकस् तृष्टदंश्मा [१२.१.४६]} {नमस् ते अस्तु विद्युते [१.१३.१]}{आरे ऽसाव् अमद् अस्तु [१.२६.१]} {यस् ते पृथु स्तनयित्नुर् [७.११.१]} इति संस्थाप्य होमान् (कौसू-१४.३[१३९].८
प्रतिष्ठाप्य स्रुवं दधिसक्तून् प्राश्याचम्यउदकम् उपसमारभन्ते (कौसू-१४.३[१३९].९
{अव्यचसश् च [१९.६८.१]}इति जपित्वा सावित्रीं {ब्रह्म जज्ञानं [४.१.१]}इत्य् एकां त्रिषप्तीयं च पच्छो वाचयेत् (कौसू-१४.३[१३९].१०
शेषम् अनुवाकस्य जपन्ति (कौसू-१४.३[१३९].११
योयो भोगः कर्तव्यो भवति तंतं कुर्वते (कौसू-१४.३[१३९].१२
स खलुएतं पक्षम् अपक्षीयमाणः पक्षम् अधीयान उपश्राम्येता दर्शात् (कौसू-१४.३[१३९].१३
दृष्टे चन्द्रमसि फल्गुनीषु द्वयान् रसान् उपसादयति (कौसू-१४.३[१३९].१४
{विश्वे देवा [१.३०.१]} {अहं रुद्रेभिर् [४.३०.१]}{सिंहे व्याघ्रे [६.३८.१]} {यशो हविर् [६.३९.१]} {यशसं मेन्द्रो [६.५८.१]} {गिराव् अरगराटेषु (ed.॒ अरागराटेषु) [६.६९.१]} {यथा सोमः प्रातःसवने [९.१.११]} {यच् च वर्चो अक्षेषु [१४.१.३५]} {येन महानघ्न्या जघनम् [१४.१.३६]}स्वाहाइत्य् अग्नौ हुत्वा (कौसू-१४.३[१३९].१५
रसेषु संपातान् आनीय संस्थाप्य होमान् (कौसू-१४.३[१३९].१६
तत एतान् प्राशयति रसान् मधु घृतान्शिष्यान् (कौसू-१४.३[१३९].१७
योयो भोगः कर्तव्यो भवति तटं कुर्वते (कौसू-१४.३[१३९].१८
नान्यत आगतान्शिष्यान् परिगृह्णीयात् परसंदीक्षितत्वात् (कौसू-१४.३[१३९].१९
त्रिरात्रोनान्चतुरो मासान्शिष्येभ्यः प्रब्रूयाद् अर्धपञ्चमान् वा (कौसू-१४.३[१३९].२०
पादं पूर्वरात्रेअधीयानः पादम् अपररात्रे मध्यरात्रे स्वपन् (कौसू-१४.३[१३९].२१
अभुक्त्वा पूर्वरात्रेअधीयान इत्य् एके (कौसू-१४.३[१३९].२२
यथाशक्त्यपररात्रे दुष्परिमाणो ह पादः (कौसू-१४.३[१३९].२३
पौषस्यापरपक्षे त्रिरात्रं नाधीयीत (कौसू-१४.३[१३९].२४
तृतीयस्याः प्रातः समासं संदिश्य {यस्मात् कोशाद् [१९.७२.१, PS १९.३५.३]} इत्य् अन्तः (कौसू-१४.३[१३९].२५
{यस्मात् कोशाद् उदभराम वेदं तस्मिन्न् अन्तर् अव दध्म एनम् । अधीतम् [सिच्!] इष्टं ब्रह्मणो वीर्येण तेन मा देवास् तपसावतेह [१९.७२.१ (बुत् नोते सकलपाठ) = PS १९.३५.३]}इति (कौसू-१४.३[१३९].२६
योयो भोगः कर्तव्यो भवति तंतं कुर्वते (कौसू-१४.३[१३९].२७
ये परिमोक्षं कामयन्ते ते परिमुच्यन्ते (कौसू-१४.३[१३९].२८

अथ राज्ञाम् इन्द्रमहस्यउपाचारकल्पं व्याख्यास्यामः (कौसू-१४.४[१४०].१
प्रोष्ठपदे शुक्लपक्षेअश्वयुजे वाष्टम्यां प्रवेशः (कौसू-१४.४[१४०].२
श्रवणेनउत्थापनम् (कौसू-१४.४[१४०].३
संभृतेषु संभारेषु ब्रह्मा राजा चउभौ स्नातौअहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यौउपवसतः (कौसू-१४.४[१४०].४
श्वो भूते शं नो देव्याः पादैर् अर्धर्चाभ्याम् ऋचा षट्कृत्वाउदकम् आचामतः (कौसू-१४.४[१४०].५
{अर्वाञ्चम् इन्द्रम् [५.३.११]}{त्रातारम् [७.८६.१]} {इन्द्रः सुत्रामा [७.९१.१]}इत्य् आज्यं हुत्वा (कौसू-१४.४[१४०].६
अथइन्द्रम् उत्थापयन्ति (कौसू-१४.४[१४०].७
{आ त्वाहार्षम् [६.८७.१]}{ध्रुवा द्यौर् [६.८८.१]} {विशस् त्वा सर्वा वाञ्छन्तु [६.८७.१च्]}इति सर्वतोअप्रमत्ता धारयेरन् (कौसू-१४.४[१४०].८
अद्भुतं हि विमानोत्थितम् उपतिष्ठन्ते (कौसू-१४.४[१४०].९
{अभिभूर् यज्ञो [६.९७.१]}इत्य् एतैस् त्रिभिः सूक्तैर् अन्वारब्धे राजनि पूर्णहोमं जुहुयात् (कौसू-१४.४[१४०].१०
अथ पशूनाम् उपाचारम् (कौसू-१४.४[१४०].११
इन्द्रदेवताः स्युः (कौसू-१४.४[१४०].१२
ये राज्ञो भृत्याः स्युः सर्वे दीक्षिता ब्रह्मचारिणः स्युः (कौसू-१४.४[१४०].१३
इन्द्रं चउपसद्य यजेरन्त्रिरात्रं पञ्चरात्रं वा (कौसू-१४.४[१४०].१४
त्रिर् अयनम् अह्नाम् उपतिष्ठन्ते हविषा च यजन्ते (कौसू-१४.४[१४०].१५
आवृत {इन्द्रम् अहं [३.१५.१]}इति (कौसू-१४.४[१४०].१६
{इन्द्र क्षत्रम् [७.८४.२]} इति हविषो हुत्वा ब्राह्मणान् परिचरेयुः (कौसू-१४.४[१४०].१७
न संस्थितहोमाञ् जुहुयाद् इत्य् आहुर् आचार्याः (कौसू-१४.४[१४०].१८
इन्द्रस्यावभृथाद् इन्द्रम् अवभृथाय व्रजन्ति (कौसू-१४.४[१४०].१९
अपां सूक्तैर् आप्लुत्य प्रदक्षिणम् आवृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति (कौसू-१४.४[१४०].२०
ब्राह्मणान् भक्तेनउपेप्सन्ति (कौसू-१४.४[१४०].२१
श्वःश्वोअस्य राष्ट्रं ज्यायो भवतिएकोअस्यां पृथिव्यां राजा भवति न पुरा जरसः प्रमीयते य एवण् वेद यश् चएवं विद्वान् इन्द्रमहेण चरति (कौसू-१४.४[१४०].२२

अथ वेदस्याध्ययनविधिं वक्ष्यामः (कौसू-१४.५[१४१].१
श्रावण्यां प्रौष्ठपद्यां वाउपाकृत्यार्धपञ्चमान् मासान् अधीयीरन् (कौसू-१४.५[१४१].२
एवं छन्दांसि (कौसू-१४.५[१४१].३
लोम्नां चानिवर्तनम् (कौसू-१४.५[१४१].४
{अर्धमासं चोपाकृत्य क्षपेरंस् त्र्यहम् उत्सृज्य । आरम्भः श्रावण्याम् उक्तः पौष्याम् उत्सर्ग उच्यते [-]} (कौसू-१४.५[१४१].५
अथानध्यायान् वक्ष्यामः (कौसू-१४.५[१४१].६
ब्रह्मज्येषु निवर्तते (कौसू-१४.५[१४१].७
श्राद्धे (कौसू-१४.५[१४१].८
सूतकोत्थानछर्दनेषु त्रिषु चरणम् (कौसू-१४.५[१४१].९
आचार्यास्तमिते वा येषां च मानुषी योनिः (कौसू-१४.५[१४१].१०
यथाश्राद्धं तथाएव तेषु (कौसू-१४.५[१४१].११
सर्वं च श्राद्धिकं द्रव्यमदसाहव्यपेतं प्रतिगृह्यानध्यायः (कौसू-१४.५[१४१].१२
प्राणि चाप्राणि च (कौसू-१४.५[१४१].१३
दन्तधावने (कौसू-१४.५[१४१].१४
क्षुरसंस्पर्शे (कौसू-१४.५[१४१].१५
प्रादुष्कृतेषुअग्निषु (कौसू-१४.५[१४१].१६
विद्युतार्धरात्रे स्तनिते (कौसू-१४.५[१४१].१७
सप्तकृत्वो वर्षेण विरत आ प्रातराशम् (कौसू-१४.५[१४१].१८
वृष्टे (कौसू-१४.५[१४१].१९
निर्घाते (कौसू-१४.५[१४१].२०
भूमिचलने (कौसू-१४.५[१४१].२१
ज्योतिषाउपसर्जन ऋतौअपिआ कालम् (कौसू-१४.५[१४१].२२
विषमे न प्रवृत्तिः (कौसू-१४.५[१४१].२३
अथ प्रमाणं वक्ष्यामः समानं विद्युदुल्कयोः । मार्गशीर्षपौषमाघापरपक्षेषु तिस्रोअष्टकाः (कौसू-१४.५[१४१].२४
अमावास्यायां च (कौसू-१४.५[१४१].२५
त्रीणि चानध्यानि (कौसू-१४.५[१४१].२६
{जनने मरणे चैव दशरात्रो विधीयते । आचार्ये दशरात्रं स्यात् सर्वेषु च स्वयोनिषु [-]} (कौसू-१४.५[१४१].२७
सूतके तुएको नाधीयीत त्रिरात्रम् उपाध्यायं वर्जयेत् (कौसू-१४.५[१४१].२८
आचार्यपुत्रभार्याश् च (कौसू-१४.५[१४१].२९
अथ शिष्यं सहाध्यायिनम् अप्रधानगुरुं चउपसन्नम् अहोरात्रं वर्जयेत् (कौसू-१४.५[१४१].३०
तथा सब्रह्मचारिणं राजानं च (कौसू-१४.५[१४१].३१
अपर्तुदैवम् आ कालम् (कौसू-१४.५[१४१].३२
{अविशेषर्तुकालेन सर्वे निर्घातादयः स्मृताः । यच् चान्यद् दैवम् अद्भुतं सर्वं निर्घातवद् भवेत् [-]} (कौसू-१४.५[१४१].३३
{ऋताव् अध्यायश् छान्दसः काल्प्य आपर्तुकः स्मृतः । ऋताव् ऊर्ध्वं प्रातराशाद् यस् तु कश् चिद् अनध्यायः । संध्यां प्राप्नोति पश्चिमाम् [-]} (कौसू-१४.५[१४१].३४
सर्वेण प्रदोषो लुप्यते (कौसू-१४.५[१४१].३५
निशि निगदायां च विद्युति शिष्टं नाधीयीत (कौसू-१४.५[१४१].३६
{अस्तमिते द्विसत्तायां त्रिसत्तायां च पाटवः । अथ तावत् कालं भुक्त्वा प्रदोष [चोर्र्. Bलोओम्fइएल्द् ङ्ङा १९०२ ५१४ -- ed. पदोष] उभे संध्ये [-]} (कौसू-१४.५[१४१].३७
{अप्सु श्मशाने शय्यायाम् अभिशस्ते खिलेषु च । अन्तःशवे रथ्यायां ग्रामे चाण्डालसंयुते [-]} (कौसू-१४.५[१४१].३८
{दुर्गन्धे शूद्रसंश्रावे पैङ्गे शब्दे भये रुते । वैधृत्ये नगरेषु च [-]} (कौसू-१४.५[१४१].३९
{अनिक्तेन च वाससा चरितं येन मैथुनम् । शयानः प्रौढपादो चाग्रतोपस्थान्तिके गुरोः [-]} (कौसू-१४.५[१४१].४०
{विरम्य मारुते शीघ्रे प्रत्यारम्भो विभाषितः । सर्वेणापररात्रेण विरम्य प्रत्यारम्भो न विद्युते [-]} (कौसू-१४.५[१४१].४१
पौषी प्रमाणम् अभ्रेषुआपर्तु चेद् अधीयानाम् (कौसू-१४.५[१४१].४२
वर्षं विद्युत् स्तनयित्नुर् वा विपद्यते (कौसू-१४.५[१४१].४३
त्रिरात्रं स्थानासनं ब्रह्मचर्यम् अरसाशं चउपयेयुः (कौसू-१४.५[१४१].४४
सा तत्र प्रायश्चित्तिः सा तत्र प्रायश्चित्तिः (कौसू-१४.५[१४१].४५


इति अथर्ववेदे कौशिकसूत्रे चतुर्दशो ऽध्यायः समाप्तः
इति कौशिकसूत्रं समाप्तम्