कौशिक सूत्र / तृतीयोऽध्याय:
दिखावट
पूर्वस्य पूर्वस्यां पौर्णमास्याम् अस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते (कौसू-३.१[१८].१ नाव्याया दक्षिणावर्ते शापेटं निखनेत् (कौसू-३.१[१८].२ अपां सूक्तैर् अवसिञ्चति (कौसू-३.१[१८].३ अप्सु कृष्णं जहाति (कौसू-३.१[१८].४ अहतवसन उपमुच्यउपानहौ जीवघात्याया उदाव्रजति (कौसू-३.१[१८].५ प्रोष्य ताम् उत्तरस्यां सांपदं कुरुते (कौसू-३.१[१८].६ शापेटम् आलिप्याप्सु निबध्य तस्मिन्न् उपसमाधाय संपातवन्तं करोति (कौसू-३.१[१८].७ अश्नाति (कौसू-३.१[१८].८ आधाय कृष्णं प्रवाहयति (कौसू-३.१[१८].९ उपमुच्य जरदुपानहौ सव्येन जरत्छत्त्रं दक्षिणेन शालातृणाण्य् आदीप्य जीर्णं वीरिणम् अभिन्यस्यति (कौसू-३.१[१८].१० अनावृतम् आवृत्य सकृज् जुहोति (कौसू-३.१[१८].११ सव्यं प्रहरत्य् उपानहौ च (कौसू-३.१[१८].१२ जीर्णे वीरिण उपसमाधाय {अयं ते योनिर् [३.२०]} इति जरत्कोष्ठाद् व्रीहीञ् शर्करामिश्रान् आवपति (कौसू-३.१[१८].१३ {आ नो भर [५.७]} इति धानाः (कौसू-३.१[१८].१४ युक्ताभ्यां सह कोष्ठाभ्यां तृटीयाम् (कौसू-३.१[१८].१५ कृष्णशकुनेः सव्यजङ्घायाम् अङ्कम् अनुबध्याङ्के पुरोडाशं {प्र पतेतः [७.११५]} इति अनावृतं प्रपादयति (कौसू-३.१[१८].१६ नीलं संधाय लोहितम् आछाद्य शुक्लं परिणह्य द्वितीययाउष्णीषम् अङ्केनउपसाद्य सव्येन सहाङ्केनावाङ् अप्सुअपविध्यति (कौसू-३.१[१८].१७ तृतीयया छन्नं चतुर्थ्या संवीतम् (कौसू-३.१[१८].१८ पूर्वस्य चित्राकर्म (कौसू-३.१[१८].१९ कुलायशृतं [ed. कुलाय श्í, बुत् cf. Caland Kल्. ष्छ्र्. ५८] हरितबर्हिषम् अश्नाति (कौसू-३.१[१८].२० अन्वक्ताः प्रादेशमात्रीर् आदधाति (कौसू-३.१[१८].२१ नाव्ययोः सांवैद्ये पश्चाद् अग्नेर् भूमिपरिलेखे कीलालं मुखेनाश्नाति (कौसू-३.१[१८].२२ तेजोव्रतं त्रिरात्रम् अश्नाति (कौसू-३.१[१८].२३ तद्भक्षः (कौसू-३.१[१८].२४ शंभुमयोभुभ्यां [१.५ + १.६]} {ब्रह्म जज्ञानम् [४.१.१]} {अस्य वामस्य [९.९]} {यो रोहितो [१३.१.२५]} {उद् अस्य केतवो [१३.२.१]} {मूर्धाहं [१६.३.१]} {विषासहिम् [१७.१.१-५]} इति सलिलैः क्षीरौदनम् अश्नाति (कौसू-३.१[१८].२५ मन्थान्तानि (कौसू-३.१[१८].२६ द्वितीयेन प्रवत्स्यन् हविषाम् उपदधीत (कौसू-३.१[१८].२७ अथ प्रत्येत्य (कौसू-३.१[१८].२८ अथ प्रत्येत्य (कौसू-३.१[१८].२९ अथ प्रार्थयमाणः (कौसू-३.१[१८].३० अथ प्रार्थयमाणः (कौसू-३.१[१८].३१ चत्वारो धायाः पलाशयष्टीनां भवन्ति (कौसू-३.१[१८].३२ दर्भाणाम् उपोलवानां चत्वारः (कौसू-३.१[१८].३३ तं व्यतिषक्तम् अष्टावरम् इध्मं सात्त्रिकेअग्नौआधायाज्येनाभिजुहुयात् (कौसू-३.१[१८].३४ धूमं नियछेत (कौसू-३.१[१८].३५ लेपं प्राश्नीयात् (कौसू-३.१[१८].३६ तम् उ चेन् न विन्देद् अथ सत्त्रस्यायतने यज्ञायतनम् इव कृत्वा (कौसू-३.१[१८].३७ समुद्र इत्य् आचक्षते कर्म (कौसू-३.१[१८].३८ {अम्बयो यन्त्य् [१.४.१]} शंभुमयोभुभ्यां [१.५ + १.६] {ब्रह्म जज्ञानम् [४.१]} {आ गावो [४.२१.१]} {एका च मे [५.१५.१]} इति गा लवणं पाययत्य् उपतापिनीः (कौसू-३.२[१९].१ प्रजननकामाः (कौसू-३.२[१९].२ प्रपाम् अवरुणद्धि (कौसू-३.२[१९].३ {सं सं स्रवन्तु [१.१५.१]} इति नाव्याभ्याम् उदकम् आहरतः सर्वत उपासेचम् (कौसू-३.२[१९].४ तस्मिन् मैश्रधान्यं शृतम् अश्नाति (कौसू-३.२[१९].५ मन्थं वा दधिमधुमिश्रम् (कौसू-३.२[१९].६ यस्य श्रियं कामयते ततो व्रीहिआज्यपय आहार्य क्षीरौदनम् अश्नाति (कौसू-३.२[१९].७ तदलाभे हरितगोमयम् आहार्य शोषयित्वा त्रिवृति गोमयपरिचये शृतम् अश्नाति (कौसू-३.२[१९].८ {शेरभक [२.२४.१]} इति सामुद्रम् अप्सु कर्म व्याख्यातम् (कौसू-३.२[१९].९ अनपहतधाना लोहिताजाया द्रप्सेन संनीयाश्नाति (कौसू-३.२[१९].१० एतावद् उपैति (कौसू-३.२[१९].११ तृणानां ग्रन्थीन् उद्ग्रथ्नन्न् अपक्रामति (कौसू-३.२[१९].१२ तान् उदाव्रजन्न् उदपात्रस्यउदपात्रेणाभिप्लावयति मुखं विमार्ष्टि [नोते चोन्ज्. ष्पेइजेर् ंुसेउम् ९ २५०] (कौसू-३.२[१९].१३ {एह यन्तु पशवो [२.२६.१]} {सं वो गोष्ठेन [३.२४.१]} {प्रजावतीः [४.२१.७ / ७.७५]} {प्रजापतिर् [६.११.३]} इति गोष्ठकर्माणि (कौसू-३.२[१९].१४ गृष्टेः पीयूषं श्लेष्ममिश्रम् अश्नाति (कौसू-३.२[१९].१५ गां ददाति (कौसू-३.२[१९].१६ उदपात्रं निनयति (कौसू-३.२[१९].१७ समूह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति (कौसू-३.२[१९].१८ सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीय पश्चाद् अग्नेर् निखनति (कौसू-३.२[१९].१९ तिसृणां प्रातर् अश्नाति (कौसू-३.२[१९].२० विकृते संपन्नम् (कौसू-३.२[१९].२१ {आयम् अगन् [३.५.१]} {अयं प्रतिसरो [८.५.१]} {अयं मे वरणो [१०.३.१]} {अरातीयोर् [१०.६.१]} इति मन्त्रोक्तान् वासितान् बध्नाति (कौसू-३.२[१९].२२ उत्तमस्य चतुरो जातरूपशकलेनानुसूत्रं गमयित्वावभुज्य त्रैधं पर्यस्यति (कौसू-३.२[१९].२३ {एतम् इध्मम् [१०.६.३५]} इत्य् उपसमाधाय (कौसू-३.२[१९].२४ {तम् इमं देवता [१०.६.२९]} इति वासितम् उल्लुप्य {ब्रह्मणा तेजसा [१०.६.३०]} इति बध्नाति (कौसू-३.२[१९].२५ {उत्तमो असि [६.१५.१]} इति मन्त्रोक्तम् (कौसू-३.२[१९].२६ {अक्षितास् त [६.१४२.३]} इति यवमणिम् (कौसू-३.२[१९].२७ {प्रथमा ह व्युवास सा [३.१०]} इत्य् अष्टक्याया वपां सर्वेण सूक्तेन त्रिर् जुहोति (कौसू-३.२[१९].२८ समवत्तानां स्थालीपाकस्य (कौसू-३.२[१९].२९ सहहुतान् आज्यमिश्रान् हुत्वा पश्चाद् अग्नेर् वाग्यतः संविशति (कौसू-३.२[१९].३० महाभूतानां कीर्तयन् संजिहीते (कौसू-३.२[१९].३१ {सीरा युञ्जन्ति [३.१७.१]} इति युगलाङ्गलं प्रतनोति (कौसू-३.३[२०].१ दक्षिणम् उष्टारं प्रथमं युनक्ति (कौसू-३.३[२०].२ {एहि पूर्णक [-]}इत्य् उत्तरम् (कौसू-३.३[२०].३ कीनाशा इतरान् (कौसू-३.३[२०].४ {अश्विना फालं कल्पयताम् उपावतु बृहस्पतिः । यथासद् बहुधान्यम् अयक्ष्मं बहुपूरुषम् [PS ८.१८.६]} इति फालम् अतिकर्षति (कौसू-३.३[२०].५ {इरावान् असि धार्तराष्ट्रे तव मे सत्त्रे राध्यताम् [-]} इति प्रतिमिमीते (कौसू-३.३[२०].६ {अपहताः प्रतिष्ठाः [-]} इत्य् अपूपैः प्रतिहत्य कृषति (कौसू-३.३[२०].७ सूक्तस्य पारं गत्वा प्रयछति (कौसू-३.३[२०].८ तिस्रः सीताः प्राचीर् गमयन्ति कल्याणीर् वाचो वदन्तः (कौसू-३.३[२०].९ {सीते वन्दामहे त्वा [३.१७.८]} इत्य् आवर्तयित्वाउत्तरस्मिन् सीतान्ते पुरोडाशेनइन्द्रं यजते (कौसू-३.३[२०].१० अश्विनौ स्थालीपाकेन (कौसू-३.३[२०].११ सीतायां संपातान् आनयन्ति (कौसू-३.३[२०].१२ उदपात्रेउत्तरान् (कौसू-३.३[२०].१३ शष्पहविषाम् अवधाय (कौसू-३.३[२०].१४ सर्वम् अनक्ति (कौसू-३.३[२०].१५ यत्र संपातान् आनयति ततो लोष्टं धारयन्तं पत्नी पृछत्य् अकृक्षतइति (कौसू-३.३[२०].१६ अकृक्षामइति (कौसू-३.३[२०].१७ किम् आहार्षीर् इति (कौसू-३.३[२०].१८ {वित्तिं भूतिं पुष्टिं प्रजां पशून् अन्नम् अन्नाद्यम् [cf. इ.अ. PS ५.३५.१, PS १९.५३.१९? (= PSK १९.५३.१०)]} इति (कौसू-३.३[२०].१९ उत्तरतो मध्यमायां निवपति (कौसू-३.३[२०].२० अभ्यज्यउत्तरफालं प्रातर् आयोजनाय निदधाति (कौसू-३.३[२०].२१ सीताशिरःसु दर्भान् आस्तीर्य प्लक्षउदुम्बरस्य त्रींस्त्रींश् चमसान् निदधाति (कौसू-३.३[२०].२२ रसवतो दक्षिणे शष्पवतो मध्यमे पुरोडाशवत उत्तरे (कौसू-३.३[२०].२३ दर्भान् प्रत्यवभुज्य संवपति (कौसू-३.३[२०].२४ सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीयाश्नाति (कौसू-३.३[२०].२५ अनडुत्सांपदम् (कौसू-३.३[२०].२६ {पयस्वतीर् [३.२४]} इति स्फातिकरणम् (कौसू-३.४[२१].१ शान्तफलशिलाकृतिलोष्टवल्मीकराशिवापं त्रीणि कूदीप्रान्तानि मध्यमपलाशे दर्भेण परिवेष्ट्य राशिपल्येषु करोति (कौसू-३.४[२१].२ सायं भुञ्जते (कौसू-३.४[२१].३ प्रत्यावपन्ति शेषम् (कौसू-३.४[२१].४ आ भक्तयातनात् (कौसू-३.४[२१].५ अनुमन्त्रयते (कौसू-३.४[२१].६ {अयं नो नभसस् पतिः [६.७९]} इति पल्येअश्मानं संप्रोक्ष्यान्वृचं काशी ओप्यावापयति (कौसू-३.४[२१].७ {आ गावो [४.२१]} इति गा आयतीः प्रत्युत्तिष्ठति (कौसू-३.४[२१].८ प्रावृषि प्रथमधारस्यइन्द्राय त्रिर् जुहोति (कौसू-३.४[२१].९ {प्रजावतीः []} इति प्रतिष्ठमाना अनुमन्त्रयते (कौसू-३.४[२१].१० कर्कीप्रवादानां द्वादशदाम्न्यां संपातवत्याम् {अयं घासो ... इह वत्साम् [४.३८.७cd]} इति मन्त्रोक्तम् (कौसू-३.४[२१].११ {यस् ते शोकाय [५.१.३]} इति वस्त्रसांपदी (कौसू-३.४[२१].१२ तिस्रः कूदीमयीर् ऊर्णनाभिकुलाय परिहिता अन्वक्ता आदधाति (कौसू-३.४[२१].१३ अत्यन्तेषीकामौञ्जपरिहिता [thus with Caland, AZ p. ५५, n. ५] मधुना प्रलिप्य चिक्कशेषु पर्यस्य (कौसू-३.४[२१].१४ {उत पुत्रः [५.१.८]} इति ज्येष्ठं पुत्रम् अवसाययति (कौसू-३.४[२१].१५ मितशरणः सांपदं कुरुते (कौसू-३.४[२१].१६ {अर्धम् अर्धेन [५.१.९]} इत्य् आर्द्रपाणिर् असंज्ञात्वा [सो Caland॑ ed. आर्द्रपाणी रसं ज्ञात्वा] प्रयछति (कौसू-३.४[२१].१७ शान्तशाखया प्राग्भागम् अपाकृत्य (कौसू-३.४[२१].१८ प्रत्यग्नि परिचृतति (कौसू-३.४[२१].१९ तस्या अमावास्यायां तिस्रः प्रादेशमात्रीर् आदधाति (कौसू-३.४[२१].२० {त्वे क्रतुम् [५.२.३]} इति रसप्राशनी (कौसू-३.४[२१].२१ रसकर्माणि कुरुते (कौसू-३.४[२१].२२ {स्तुष्व वर्ष्मन् [५.२.७]} इति प्राजापत्यामावास्यायाम् अस्तमिते वल्मीकशिरसि दर्भावस्तीर्णेअध्यधि दीपं धारयंस् त्रिर् जुहोति (कौसू-३.४[२१].२३ तण्डुलसंपातान् आनीय रसैर् उपसिच्याश्नाति (कौसू-३.४[२१].२४ एवं पौर्णमास्याम् आज्यऊतान् (कौसू-३.४[२१].२५ {ऋधङ्मन्त्रो [५.१]} {तद् इद् आस [५.२]} इति मैश्रधान्यं भृष्टपिष्टं लोहितालंकृतं रसमिश्रम् अश्नाति (कौसू-३.५[२२].१ अभृष्टं प्लक्षउदुम्बरस्यउत्तरतोअग्नेस् त्रिषु चमसेषु पूर्वाह्णस्य तेजसाग्रम् अन्नस्य प्राशिषम् इति पूर्वाह्णे (कौसू-३.५[२२].२ मध्यन्दिनस्य तेजसा मध्यम् अन्नस्य प्राशि.अम् इति मध्यन्दिने (कौसू-३.५[२२].३ अपराह्णस्य तेजसा सर्वम् अन्नस्य प्राशिषम् इत्य् अपराह्णे (कौसू-३.५[२२].४ ऋतुमत्या स्त्रिया अङ्गुलिभ्यां लोहितम् (कौसू-३.५[२२].५ यत् क्षेत्रं कामयते तस्मिन् कीलालं दधिमधुमिश्रम् (कौसू-३.५[२२].६ संवत्सरं स्त्रियम् अनुपेत्य शुक्त्यां रेत आनीय तण्डुलमिश्रं सप्तग्रामम् (कौसू-३.५[२२].७ द्वादशीम् अमावास्याइति क्षीरभक्षो भवत्य् अमावास्यायां दधिमधुभक्षस् तस्य मूत्रेउदकदधिमधुपल्पूलनानिआसिच्य (कौसू-३.५[२२].८ {क्रव्यादं नाडी प्र विवेशाग्निं प्रजाभाङ्गिरतो माययैतौ । आवां देवी जुषाणे घृताची इमम् अन्नाद्याय प्र विशतं स्वाहा [-]} इति (कौसू-३.५[२२].९ निशायाम् आग्रयणतण्डुलान् उदक्यान् मधुमिश्रान् निदधात्य् आ यवानां पङ्क्तेः (कौसू-३.५[२२].१० एवं यवान् उभयान् समोप्य (कौसू-३.५[२२].११ त्रिवृति गोमयपरिचये शृतम् अश्नाति (कौसू-३.५[२२].१२ समृद्धम् इति काङ्कायनः (कौसू-३.५[२२].१३ {ममाग्ने वर्चो [५.३]} इति सात्त्रिकान् अग्नीन् दर्भपूतीकभाङ्गाभिः परिस्तीर्य गार्हपत्यशृतं सर्वेषु संपातवन्तं गार्हपत्यदेशेअश्नाति (कौसू-३.५[२२].१४ एवं पूर्वस्मिन्न् अपरयोर् उपसंहृत्य (कौसू-३.५[२२].१५ एवं द्रोणकलशे रसान् उक्तम् (कौसू-३.५[२२].१६ {यजूंषि यज्ञे [५.२६]} इति नवशालायां सर्पिर् मधुमिश्रम् अश्नाति [बुत् Caland॒ जुहोति] (कौसू-३.६[२३].१ {दोषो गाय [६.१]} इति द्वितीयाम् (कौसू-३.६[२३].२ युक्ताभ्यां तृतीयाम् (कौसू-३.६[२३].३ आनुमतीं चतुर्थीम् (कौसू-३.६[२३].४ शालाम् अङ्गुलिभ्यां संप्रोक्ष्य गृहपत्न्यासाद उपविश्यउदपात्रं निनयति (कौसू-३.६[२३].५ {इहैव स्त [७.६०.७]} इति वाचं विसृजते (कौसू-३.६[२३].६ {ऊर्ध्वा अस्य [५.२७]} इति वार्ष्मणम् औदुम्बरं मन्थप्रतिरूपम् अभिजुहोति (कौसू-३.६[२३].७ असंख्याता अधिशृत्य सप्तागमशष्कुलीः (कौसू-३.६[२३].८ {त्वष्टा मे []} इति प्रातर् +विभक्ष्यमाणो [सो Caland॑ ed. विभुङ्क्ष्यमाणो]अश्नाति (कौसू-३.६[२३].९ ज्याजुं बद्नाति (कौसू-३.६[२३].१० दण्डं संपातवन्तं विमृज्य धारयति (कौसू-३.६[२३].११ {वायुर् एनाः [६.१४१]} इति युक्तयोश् चित्राकर्म निशायां संभारान् संपातवतः करोति (कौसू-३.६[२३].१२ अपरेद्युर् {वायुर् एनाः [६.१४१]} इति शाखयाउदकधारया गाः परिक्रामति (कौसू-३.६[२३].१३ प्रथमजस्य शकलम् अवधायऔदुम्बरेणासिना {लोहितेन [६.१४१.२]} इति मन्त्रोक्तम् (कौसू-३.६[२३].१४ {यथा चक्रुर् [६.१४१.३]} इतीक्षुकाशकाण्ड्या लोहितं निर्मृज्य रसमिश्रम् अश्नाति (कौसू-३.६[२३].१५ सर्वम् औदुम्बरम् (कौसू-३.६[२३].१६ {यस्येदम् आ [६.३३]} इत्य् आयोजनानाम् अप्ययः (कौसू-३.६[२३].१७ {उच् छ्रयस्व [६.१४२]} इति बीजोपहरणम् (कौसू-३.७[२४].१ आज्यमिश्रान् यवान् उर्वरायां कृष्टे फालेनउदुह्यान्वृचं काशीन् निनयति निवपति (कौसू-३.७[२४].२ {अभि त्यम् [७.१४]} इति महावकाशेअरण्य उन्नते विमिते प्राग्द्वारप्रत्यग्द्वारेष्व् अप्सु संपातान् आनयति (कौसू-३.७[२४].३ कृष्णाजिने सोमांशून् विचिनोति (कौसू-३.७[२४].४ सोममिश्रेण संपातवन्तम् अश्नाति (कौसू-३.७[२४].५ आदीप्ते संपन्नम् (कौसू-३.७[२४].६ {तां सवितः [७.१५]} इति गृष्टिदाम बध्नाति (कौसू-३.७[२४].७ {सं मा सिञ्चन्तु [७.३३]} इति सर्वोदके मैश्रधान्यम् (कौसू-३.७[२४].८ {दिव्यं सुपर्णं [७.३९]} इत्य् ऋषभदण्डिनो वपयाइन्द्रं यजते (कौसू-३.७[२४].९ अनुबद्धशिरःपादेन गोशालां चर्मणावछाद्यावदानकृतं ब्राह्मणान् भोजयति (कौसू-३.७[२४].१० प्रोष्य समिध आदाय {ऊर्जं बिभ्रद् [७.६०]} इति गृहसंकाशे जपति (कौसू-३.७[२४].११ सव्येन समिधो दक्षिणेन शालावलीकं संस्तभ्य जपति (कौसू-३.७[२४].१२ अतिव्रज्य समिध आधाय {सुमङ्गलि प्रजावति सुशीमे [सो Caland॑ ed. सुसीमे] अहं वां गृहपतिर् जीव्यासम्} इति स्थूणे गृह्णात्य् उपतिष्ठते (कौसू-३.७[२४].१३ {यद् वदामि [१२.१.५८]} इति मन्त्रोक्तम् (कौसू-३.७[२४].१४ गृहपत्न्यासादेउपविश्यउदपात्रं निनयति (कौसू-३.७[२४].१५ {इहैव स्त [७.६०.७]} इति प्रवत्स्यन्न् अवेक्षते (कौसू-३.७[२४].१६ {सूयवसाद् [७.७३.११]} सूयवसे पशून् निष्ठापयति (कौसू-३.७[२४].१७ दूर्वाग्रैर् अञ्जलौअप आनीय दर्शं दार्शीभिर् उपतिष्ठते (कौसू-३.७[२४].१८ {इन्द्रस्य कुक्षिर् [७.१११]} {साहस्रस् [९.४]} इत्य् ऋषभं संपातवन्तम् अतिसृजति (कौसू-३.७[२४].१९ रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्वातिसृजाम्य् अपरिमितपोस्.आयै त्वातिसृजामि (कौसू-३.७[२४].२० {एतं वो युवानं [९.४.२४]} इति पुराणं प्रवृत्य नवम् उत्सृजते संप्रोक्षति (कौसू-३.७[२४].२१ उत्तरेण पुष्टिकाम ऋषभेणइन्द्रं यजते (कौसू-३.७[२४].२२ संपत्कामः श्वेतेन पौर्णमास्याम् (कौसू-३.७[२४].२३ {सत्यं बृहद् [१२.१]} इत्य् आग्रहायण्याम् (कौसू-३.७[२४].२४ पश्चाद् अग्नेर् दर्भेषु खदायां सर्वहुतम् (कौसू-३.७[२४].२५ द्वितीयं संपातवन्तम् अश्नाति (कौसू-३.७[२४].२६ तृतीयस्यादितिः सप्तभिर् {भूमे मातर् [१२.१.६३]} इति त्रिर् जुहोति (कौसू-३.७[२४].२७ पश्चाद् अग्नेर् दर्भेषु कशिपुआस्तीर्य {विमृग्वरीं []} इत्य् उपविशति (कौसू-३.७[२४].२८ {यास् ते शिवास् [९.२.२५]} इति संविशति (कौसू-३.७[२४].२९ {यच् छयानः []} इति पर्यावर्तते (कौसू-३.७[२४].३० नवभिः {शन्तिवा [१२.१.५९]} इति दशम्या {उद् आयुषा [३.३१.१०]} इत्य् उपोत्तिष्ठति (कौसू-३.७[२४].३१ {उद् वयं [७.५३.७]} इत्य् उत्क्रामति (कौसू-३.७[२४].३२ {उदीराणा [१२.१.२८]} इति त्रीणि पदानि प्राङ् वाउदङ् वा बाह्येनउपनिष्क्रम्य {यावत् ते [१२.१.३३]} इति वीक्षते (कौसू-३.७[२४].३३ उन्नताच् च (कौसू-३.७[२४].३४ पुरस्ताद् अग्नेः सीरं युक्तम् उदपात्रेण संपातवतावसिञ्चति (कौसू-३.७[२४].३५ आयोजनानाम् अप्ययः (कौसू-३.७[२४].३६ {यस्यां सदोहविर्धाने [१२.१.३८-४०]} इति जुहोति वरो म आगमिष्यतीति (कौसू-३.७[२४].३७ {यस्याम् अन्नं [१२.१.४२]} इत्य् उपतिष्ठते (कौसू-३.७[२४].३८ {निधिं बिभ्रति [१२.१.४४-४५]} इति मणिं हिरण्यकामः (कौसू-३.७[२४].३९ एवं वित्त्वा (कौसू-३.७[२४].४० {यस्यां कृष्णम् [१२.१.५२]} इति वार्षकृतस्याचमति शिरस्य् आनयते (कौसू-३.७[२४].४१ {यं त्वा पृषती रथे [१३.१.२१-२६]} इति द्यौः पृषत्य् आदित्यो रोहितः (कौसू-३.७[२४].४२ पृषतीं गां ददाति (कौसू-३.७[२४].४३ पृषत्या क्षीरौदनं सर्वहुतम् (कौसू-३.७[२४].४४ पुष्टिकर्मणाम् उपधानोपस्थानम् (कौसू-३.७[२४].४५ सलिलैः सर्वकामः सलिलैः सर्वकामः (कौसू-३.७[२४].४६
- इति अथर्ववेदे कौशिकसूत्रे तृतीयो ऽध्यायः समाप्तः