कौशिक सूत्र / त्रयोदशोऽध्यायः

विकिपुस्तकानि तः
Jump to navigation Jump to search
अथाद्भुतानि (कौसू-१३.१[९३].१
वर्षे (कौसू-१३.१[९३].२
यक्षेषु (कौसू-१३.१[९३].३
गोमायुवदने (कौसू-१३.१[९३].४
कुले कलहिनि (कौसू-१३.१[९३].५
भूमिचले (कौसू-१३.१[९३].६
आदित्योपप्लवे (कौसू-१३.१[९३].७
चन्द्रमसश् च (कौसू-१३.१[९३].८
औषस्याम् अनुद्यत्याम् (कौसू-१३.१[९३].९
समायां दारुणायाम् (कौसू-१३.१[९३].१०
उपतारकशङ्कायाम् (कौसू-१३.१[९३].११
ब्राह्मणेषुआयुधिषु (कौसू-१३.१[९३].१२
दैवतेषु नृत्यत्सु च्योदत्सु हसत्सु गायत्सु (कौसू-१३.१[९३].१३
लाङ्गलयोः संसर्गे (कौसू-१३.१[९३].१४
रज्ज्वोस् तन्वोश् च (कौसू-१३.१[९३].१५
अग्निसंसर्गे (कौसू-१३.१[९३].१६
यमवत्सायां हवि (कौसू-१३.१[९३].१७
वडवागर्दभ्योर् मानुष्यां च (कौसू-१३.१[९३].१८
यत्र धेनवो लोहितं दुहते (कौसू-१३.१[९३].१९
अनडुहि धेनुं धयति (कौसू-१३.१[९३].२०
धेनौ धेनुं धयन्त्याम् (कौसू-१३.१[९३].२१
आकाशफेने (कौसू-१३.१[९३].२२
पिपीलिकानाचारे (कौसू-१३.१[९३].२३
नीलमक्षानाचारे (कौसू-१३.१[९३].२४
मधुमक्षानाचारे (कौसू-१३.१[९३].२५
अनाज्ञाते (कौसू-१३.१[९३].२६
अवदीर्णे (कौसू-१३.१[९३].२७
अनुदक उदकोन्मीले (कौसू-१३.१[९३].२८
तिलेषु समतैलेषु (कौसू-१३.१[९३].२९
हविःषुअभिमृष्टेषु (कौसू-१३.१[९३].३०
प्रसव्येषुआवर्तेषु (कौसू-१३.१[९३].३१
यूपे विरोहति (कौसू-१३.१[९३].३२
उल्कायाम् (कौसू-१३.१[९३].३३
धूमकेतौ सप्तर्षीन् उपधूपयति (कौसू-१३.१[९३].३४
नक्षत्रेषु पतापतेषु (कौसू-१३.१[९३].३५
मांसमुखे निपतति (कौसू-१३.१[९३].३६
अनग्नौअवभासे (कौसू-१३.१[९३].३७
अग्नौ श्वसति (कौसू-१३.१[९३].३८
सर्पिषि तैले मधुनि च विष्यन्दे (कौसू-१३.१[९३].३९
ग्राम्येअग्नौ शालां दहति (कौसू-१३.१[९३].४०
आगन्तौ च (कौसू-१३.१[९३].४१
वंशे स्फोटति (कौसू-१३.१[९३].४२
कुम्भोदधाने विकसतिउखायां सक्तुधान्यां च (कौसू-१३.१[९३].४३

अथ यत्रएतानि वर्षाणि वर्षन्ति घृतं मांसं मधु च यद् धिरण्यं यानि चापिअन्यानि घोराणि वर्षाणि वर्षन्ति तत् पराभवति कुलं वा ग्रामो वा जनपदो वा (कौसू-१३.२[९४].१
तत्र राजा भूमिपतिर् विद्वांसं ब्रह्माणम् इछेत् (कौसू-१३.२[९४].२
एष ह वै विद्वान् यद् भृग्वङ्गिरोवित् (कौसू-१३.२[९४].३
एते ह वा अस्य सर्वस्य शमयितारः पालयितारो यद् भृग्वङ्गिरसः (कौसू-१३.२[९४].४
स आहउपकल्पयध्वम् इति (कौसू-१३.२[९४].५
तद् उपकल्पयन्ते कंसमहते वसने शुद्धम् आज्यं शान्ता ओषधीर् नवम् उदकुम्भम् (कौसू-१३.२[९४].६
त्रीणि पर्वाणि कर्मणः पौर्णमास्यमावास्ये पुण्यं नक्षत्रम् (कौसू-१३.२[९४].७
अपि चेद् एव यदा कदा आर्ताय कुर्यात् (कौसू-१३.२[९४].८
स्नातोअहतवसनः सुरभिर् व्रतवान् कर्मण्य उपवसतिएकरात्रं त्रिरात्रं षड्रात्रं द्वादशरात्रं वा (कौसू-१३.२[९४].९
द्वादश्याः प्रातर् यत्रएवादः पतितं भवति तत उत्तरम् अग्निम् उपसमाधाय (कौसू-१३.२[९४].१०
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य परिचरणेनाज्यं परिचर्य (कौसू-१३.२[९४].११
नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च (कौसू-१३.२[९४].१२
अथ जुहोति (कौसू-१३.२[९४].१३
{घृतस्य धारा इह या वर्षन्ति पक्वं मांसं मधु च यद् धिरण्यम् । द्विषन्तम् एता अनु यन्तु वृष्टयो ऽपां वृष्टयो बहुलाः सन्तु मह्यम् ॥ लोहितवर्षं मधुपांसुवर्षं यद् वा वर्षं घोरम् अनिष्टम् अन्यत् । द्विषन्तम् एते अनु यन्तु सर्वे पराञ्चो यन्तु निर्वर्तमानाः ॥ अग्नये स्वाहा [-]}इति हुत्वा (कौसू-१३.२[९४].१४
{दिव्यो गन्धर्वो [२.२.१]}इति मातृनामभिर् जुहुयात् (कौसू-१३.२[९४].१५
वरम् अनड्वाहम् ब्राह्मणः कर्त्रे दद्यात् (कौसू-१३.२[९४].१६
सीरं वैश्योअश्वं प्रादेशिको ग्रामवरं राजा (कौसू-१३.२[९४].१७
सा तत्र प्रायश्चित्तिः (कौसू-१३.२[९४].१८

अथ यत्रएतानि यक्षाणि दृश्यन्ते तद् यथाएतत्मर्कटः श्वापदो वायसः पुरुषरूपम् इति तद् एवम् आशङ्क्यम् एव भवति (कौसू-१३.३[९५].१
तत्र जुहुयात् (कौसू-१३.३[९५].२
{यन् मर्कटः श्वापदो वायसो यदीदं राष्ट्रं जातवेदः पताति पुरुषरक्षसं इषिरं यत् पताति । द्विषन्तम् एते अनु यन्तु सर्वे पराञ्चो यन्तु निवर्तमानाः ॥ अग्नये स्वाहा [-]}इति हुत्वा (कौसू-१३.३[९५].३
{दिव्यो गन्धर्वो [२.२.१]}इति मातृनामभिर् जुहुयात् (कौसू-१३.३[९५].४
सा तत्र प्रायश्चित्तिः (कौसू-१३.३[९५].५

अथ ह गोमायू नाम मण्डूकौ यत्र वदतस् तद् यत्मन्यन्ते मां प्रति वदतो मां प्रति वदत इति तद् एवम् आशङ्क्यम् एव भवति (कौसू-१३.४[९६].१
तत्र जुहुयात् (कौसू-१३.४[९६].२
{यद् गोमायू वदतो जातवेदो ऽन्यया वाचाभि जञ्जभातः । रथंतरं बृहच् च सामैतद् द्विषन्तम् एताव् अभि नानदैताम् ॥ रथंतरेण त्वा बृहच् छमयामि बृहता त्वा रथटरं शमयामि । इन्द्राग्नी त्वा ब्रह्मणा वावृधानाव् आयुष्मन्ताव् उत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वाहा [-, PS १.८३.४cd]}इति हुत्वा (कौसू-१३.४[९६].३
{दिव्यो गन्धर्वो [२.२.१]}इति मातृनामभिर् जुहुयात् (कौसू-१३.४[९६].४
सा तत्र प्रायश्चित्तिः (कौसू-१३.४[९६].५

अथ यत्रएतत् कुलं कलहि भवति तन् निरृतिगृहीतम् इत्य् आचक्षते (कौसू-१३.५[९७].१
तत्र जुहुयात् (कौसू-१३.५[९७].२
{आराद् अरातिम् [८.२.१२]} इति द्वे (कौसू-१३.५[९७].३
{अयाश् चाग्ने ऽस्य् अनभिशस्तिश् च सत्यम् इत् त्वम् अया असि । अयासा मनसा कृतो ऽयास् +सन् [ed. ऽयास्य] हव्यम् ऊहिषे । आ [+अया?] नो धेहि भेषजम् । [ंष् १.४.३॒५१.१०, Kष् ५.४॒५७.१-४, (कौसू-१.५.१२ आदि]} ॥ {स्वाहा}इत्य् अग्नौ हुत्वा (कौसू-१३.५[९७].४
तत्रएवएतान् होमाञ् जुहुयात् (कौसू-१३.५[९७].५
{आराद् अग्निं क्रव्यादं निरूहञ् जिवातवे ते परिधिं दधामि । इन्द्राग्नी त्वा ब्रह्मणा वावृधानाव् आयुष्मन्ताव् उत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वाहा [८.२.९cd, PS १६.३.८cd॑ PS १.८३.४cd]}इति हुत्वा (कौसू-१३.५[९७].६
{अपेत एतु निरृतिर् [PS १९.२३.४ff.]} इत्य् अनेन सूक्तेन जुहुयात् (कौसू-१३.५[९७].७
{अपेत एतु निरृतिर् नेहास्या अपि किं चन । अपास्याः सत्वनः पाशान् मृत्यून् एकशतं नुदे ॥ ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे । तांस् ते यज्ञस्य मायया सर्वाम्̐ अप यजामसि ॥ निर् इतो यन्तु नैरृत्या मृत्यव एकशतं परः सेधामैषां यत् तमः प्राणं ज्योतिश् च दध्महे ॥ [PS १९.२३.४-६]} {ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभ्यो अस्मान् वरुणः सोम इन्द्रो विश्वे मुञ्चन्तु मरुतः स्वर्काः ॥ [PS १८.८२.७]} {ब्रह्म भ्राजद् उदगाद् अन्तरिक्षं दिवं च ब्रह्मावाधूष्टामृतेन मृत्युम् । ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद् ब्रह्मास्मद् अप हन्तु शमलं तमश् च ॥ [PS १६.१५०.२]} (कौसू-१३.५[९७].८
वरम् अनड्वाहम् इति समानम् (कौसू-१३.५[९७].९
अथ यत्रएतद् भूमिचलो भवति तत्र जुहुयात् (कौसू-१३.६[९८].१
{अच्युता द्यौर् अच्युतम् अन्तरिक्षम् अच्युता भूमिर् दिशो अच्युता इमाः । अच्युतो ऽयं रोधावरोधाद् ध्रुवो राष्ट्रे प्रति तिष्ठामि जिष्णुः ॥ यथा सूर्यो दिवि रोचते यथान्तरिक्षं मातरिश्वाभिवस्ते । यथाग्निः पृथिवीमा विवेशैवायं ध्रुवो अच्युतो अस्तु जिष्णुः ॥ यथा देवो दिवि स्तनयन् वि राजति यथा वर्षं वर्षकामाय वर्षति । यथापः पृथिवीमा विविशुर् एवायं ध्रुवो अच्युतो अस्तु जिष्णुः ॥ यथा पुरीषं नद्यः समुद्रम् अहोरात्रे अप्रमादं क्षरन्ति । एवा विशः संमनसो हवं मे ऽप्रमादम् इहोप यन्तु सर्वाः ॥ दृंहतां देवी सह देवताभिर् ध्रुवा दृढाच्युता मे अस्तु भूमिः । सर्वपाप्मानम् अपनुद्यास्मद् अमित्रान् मे द्विषतो ऽनु विध्यतु ॥ पृथिव्यै स्वाहा [cf. आVড়रिश् ११.१.११]}इति हुत्वा (कौसू-१३.६[९८].२
{आ त्वाहार्षम् [६.८७.१]}{ध्रुवा द्यौर् [६.८८.१]}{सत्यं बृहद् [१२.१.१]} इत्य् एतेनानुवाकेन जुहुयात् (कौसू-१३.६[९८].३
सा तत्र प्रायश्चित्तिः (कौसू-१३.६[९८].४

अथ यत्रएतद् आदित्यं तमो गृह्णाति तत्र जुहुयात् (कौसू-१३.७[९९].१
{दिव्यं चित्रम् ऋतूया कल्पयन्तम् ऋतूनाम् उग्रं भ्रमयन्न् उदेति । तद् आदित्यः प्रतरन्न् एतु सर्वत आप इमां लोकान् अनुसंचरन्ति ॥ ओषधीभिः संविदानाव् इन्द्राग्नी त्वाभि रक्षताम् । ऋतेन सत्यवाकेन तेन सर्वं तमो जहि ॥ आदित्याय स्वाहा [-]}इति हुत्वा (कौसू-१३.७[९९].२
{विषासहिं सहमानं [१७.१.१]}इत्य् अनेन सूक्तेन जुहुयात् (कौसू-१३.७[९९].३
रोहितैर् उपतिष्ठते (कौसू-१३.७[९९].४
सा तत्र प्रायश्चित्तिः (कौसू-१३.७[९९].५

अथ यत्रएतत्चन्द्रमसम् उपप्लवति तत्र जुहुयात् (कौसू-१३.८[१००].१
{राहू राजानं त्सरति स्वरन्तम् ऐनम् इह हन्ति पूर्वः । सहस्रम् अस्य तन्व इह नाश्याः शतं तन्वो वि नश्यन्तु ॥ चन्द्राय स्वाहा [-]}इति हुत्वा (कौसू-१३.८[१००].२
{शकधूमं नक्षत्राणि [६.१२८.१]}इत्य् एतेन सूक्तेन जुहुयात् (कौसू-१३.८[१००].३
सा तत्र प्रायश्चित्तिः (कौसू-१३.८[१००].४

अथ यत्रएतद् औषसी नउदेति तत्र जुहुयात् (कौसू-१३.९[१०१].१
{उद् एतु श्रीर् उषसः कल्पयन्ती पूल्यान् कृत्वा पलित एतु चारः । ऋतून् बिभ्रती बहुधा विरूपान् मह्यं भव्यं विदुषी कल्पयाति ॥ औषस्यै स्वाहा [-]}इति हुत्वा (कौसू-१३.९[१०१].२
{दिव्यो गन्धर्वो [२.२.१]}इति मातृनामभिर् जुहुयात् (कौसू-१३.९[१०१].३
सा तत्र प्रायश्चित्तिः (कौसू-१३.९[१०१].४

अथ यत्रएतत् समा दारुणा भवति तत्र जुहुयात् (कौसू-१३.१०[१०२].१
{या समा रुशत्य् एति प्राजापत्यान् वि धूनुते । तृप्तिं यां देवता विदुस् तां त्वा सं कल्पयामसि ॥ व्याधकस्य मातरं हिरण्यकुक्षीं हरिणीम् । तां त्वा सं कल्पयामसि ॥ यत् ते घोरं यत् ते विषं तद् द्विषत्सु नि दध्मस्य् अमुष्मिन्न् [-]} इति ब्रूयात् (कौसू-१३.१०[१०२].२
{शिवेनास्माकं समे शान्त्या सहायुषा समायै स्वाहा [-]}इति हुत्वा (कौसू-१३.१०[१०२].३
{समास् त्वाग्न [२.६.१]}इत्य् एतेन सूक्तेन जुहुयात् (कौसू-१३.१०[१०२].४
सा तत्र प्रायश्चित्तिः (कौसू-१३.१०[१०२].५

अथ यत्रएतद् उपतारकाः शङ्कन्ते तत्र जुहुयात् (कौसू-१३.११[१०३].१
{रेवतीः शुभ्रा इषिरा मदन्तीस् त्वचो धूमम् अनु ताः सं विशन्तु । परेणापः पृथिवीं सं विशन्त्व् आप इमां लोकान् अनुसंचरन्तु ॥ अद्भ्यः स्वाहा [-]}इति हुत्वा (कौसू-१३.११[१०३].२
{समुत्पतन्तु [४.१५.१]} {प्र नभस्व [७.१८.१]}इति वर्षीर् जुहुयात् (कौसू-१३.११[१०३].३
सा तत्र प्रायश्चित्तिः (कौसू-१३.११[१०३].४

अथ यत्रएतद् ब्राह्मणा आयुधिनो भवन्ति तत्र जुहुयात् (कौसू-१३.१२[१०४].१
{य आसुरा मनुष्या आत्तधन्वः पुरुषमुखाश् चरान् इह । देवा वयं मनुष्यास् ते देवाः प्र विशामसि ॥ इन्द्रो नो अस्तु पुरोगवः स नो रक्षतु सर्वतः । इन्द्राय स्वाहा [-, cf. आVড়रिश् ३२.२९]}इति हुत्वा (कौसू-१३.१२[१०४].२
{मा नो विदन् [१.१९.१]} {नमो देववधेभ्यो [६.१३.१]}इति एताभ्यां सूक्ताभ्यां जुहुयात् (कौसू-१३.१२[१०४].३
सा तत्र प्रायश्चित्तिः (कौसू-१३.१२[१०४].४

अथ यत्रएतद् दैवतानि नृत्यन्ति च्योतन्ति हसन्ति गायन्ति वान्यानि वा रूपाणि कुर्वन्ति {य आसुरा मनुष्या [-, cf. (कौसू-१०४.२]} {मा नो विदन् [१.१९.१]} {नमो देववधेभ्यो [६.१३.१]}इति अभयैर् जुहुयात् (कौसू-१३.१३[१०५].१
सा तत्र प्रायश्चित्तिः (कौसू-१३.१३[१०५].२

अथ यत्रएतत्लाङ्गले संसृजतः पुरोडाशं श्रपयित्वा (कौसू-१३.१४[१०६].१
अरण्यस्यार्धम् अभिव्रज्य (कौसू-१३.१४[१०६].२
प्राचीं सीतां स्थापयित्वा (कौसू-१३.१४[१०६].३
सीताया मध्ये प्राञ्चम् इध्मम् उपसमाधाय (कौसू-१३.१४[१०६].४
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः शम्याः परिधीन् कृत्वा (कौसू-१३.१४[१०६].५
अथ जुहोति । {वित्तिर् असि पुष्टिर् असि श्रीर् असि प्राजापत्यानां तां त्वाहं मयि पुष्टिकामो जुहोमि स्वाहा [-]} (कौसू-१३.१४[१०६].६
{कुमुद्वती पुष्करिणी सीता सर्वाङ्गशोभनी । कृषिः सहस्रप्रकारा प्रत्यष्टा श्रीर् इयं मयि ॥ उर्वीं त्वाहुर् मनुष्याः श्रियं त्वा मनसो विदुः । आशये ऽन्नस्य नो धेह्य् अनमीवस्य शुष्मिणः ॥ [-, cf. शाङ्ख्ङ्ष् १.२७.७ आदि]} {पर्जन्यपत्नि हरिण्यभिजितास्य् अभि नो वद । कालनेत्रे हविषो नो जुषस्व तृप्तिं नो धेहि द्विपदे चतुष्पदे ॥ याभिर् देवा असुरान् अकल्पयन् यातून् मनून् गन्धर्वान् राक्षसांश् च । ताभिर् नो अद्य सुमना उपा गहि सहस्रापोषं सुभगे रराणा ॥ [-, cf. ७.४८.२cd]} {हिरण्यस्रक्पुष्करिणी श्यामा सर्वाङ्गशोभनी । कृषिर् हिरण्यप्रकारा प्रत्यष्टा श्रीर् इयं मयि ॥ अश्विभ्यां देवि सह संविदाना इन्द्रेण राधेन सह पुष्ट्या न आ गहि । विशस् त्वा रासन्तां प्रदिशो ऽनु सर्वा अहोरात्रार्धमासमासा आर्तवा ऋतुभिः सह ॥ भर्त्री देवानाम् उत मर्त्यानां भर्त्री प्रजानाम् उत मानुषाणाम् । हस्तिभिर् इतरासैः क्षेत्रसारथिभिः सह । हिरण्यैर् अश्वैर् आ गोभिः प्रत्यष्टा श्रीर् इयं मयि ॥ [-]} (कौसू-१३.१४[१०६].७
अत्र शूनासीराणिअनुयोजयेत् (कौसू-१३.१४[१०६].८
वरम् अनड्वाहम् इति समानम् (कौसू-१३.१४[१०६].९

अथ यत्रएतत् सृजन्त्योर् वा कृतन्त्योर् वा नाना तन्तू संसृजतो {मनायै तन्तुं प्रथमं [PS २.८७.१]}इत्य् एतेन सूक्तेन जुहुयात् (कौसू-१३.१५[१०७].१
{मनायै तन्तुं प्रथमं पश्येद् अन्या अतन्वत । तन् नारीः प्र ब्रवीमि वः साध्वीर् वः सन्तूर्वरीः ॥ साधुर् वस् तन्तुर् भवतु साधुर् एतु रथो वृतः । अथो होर्वरीर् यूयं प्रातर् वोढवे धावत ॥ खर्गला इव पत्वरीर् अपाम् उग्रम् इवायनम् । पतन्तु पत्वरीर् इवोर्वरीः साधुना पथा ॥ अपाच्यौ ते तोतुद्येते तोदेनाश्वतराव् इव । प्र स्तोमम् उर्वरीणां शशयानाम् अस्ताविषम् ॥ नारी पञ्चमयूखं सूत्रवत् कृणुते वसु । अरिष्टो अस्य वस्ता प्रेन्द्र वास उतोदिर ॥ [PS २.८७]} (कौसू-१३.१५[१०७].२
वासः कर्त्रे दद्यात् (कौसू-१३.१५[१०७].३
सा तत्र प्रायश्चित्तिः (कौसू-१३.१५[१०७].४

अथ यत्रएतद् अग्निनाग्निः संसृज्यते {भवतं नः समनसौ समोकसाव् [-]} इत्य् एतेन सूक्तेन जुहुयात् (कौसू-१३.१६[१०८].१
{भवतं नः समनसौ समोकसाव् अरेपसौ । मा हिम्̐सिष्टं यज्ञपतिं मा यज्ञं जातवेदसौ शिवौ भवतम् अद्य नः [cf. Vष्ं ५.३ आदि]} {अग्निनाग्निः संसृज्यसे कविर् बृहस्पतिर् युवा । हव्यवाङ् जुह्वास्यः ॥ [cf. .RV १.१२.६ आदि]} {त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन् सता । सखा सख्या समिध्यसे ॥ [cf. .RV ८.४३.१४]} {पाहि नो अग्न एकया पाहि न उत द्वितीयया । पाहि गीर्भिस् तिसृभिर् ऊर्जांपते पाहि चतसृभिर् वसो ॥ समीची माहनी पाताम् आयुष्मत्या ऋचो मा सत्सि । तनूपात् साम्नो वसुविदं लोकम् अनुसंचराणि ॥ [PS २०.५२.४-५]} (कौसू-१३.१६[१०८].२
रुक्मं कर्त्रे दद्यात् (कौसू-१३.१६[१०८].३
सा तत्र प्रायश्चित्तिः (कौसू-१३.१६[१०८].४

अथ यत्रएतद् अयमसूर् यमौ जनयति तां शान्त्युदकेनाभ्युक्ष्य दोहयित्वा (कौसू-१३.१७[१०९].१
तस्या एव गोर् दुग्धे स्थालीपाकं श्रपयित्वा (कौसू-१३.१७[१०९].२
प्राञ्चम् इध्मम् उपसमाधाय (कौसू-१३.१७[१०९].३
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य (कौसू-१३.१७[१०९].४
{एकैकयैषा सृष्ट्या सं बभूव [३.२८.१]} इत्य् एतेन सूक्तेनाज्यं जुह्वन् (कौसू-१३.१७[१०९].५
उदपात्रे संपातान् आनयति (कौसू-१३.१७[१०९].६
उत्तमं संपातम् ओदने प्रत्यानयति (कौसू-१३.१७[१०९].७
ततो गां च प्राशयति वत्सौ चउदपात्राद् एनान् आचामयति च संप्रोक्षति च (कौसू-१३.१७[१०९].८
तां तस्यएव दद्यात् (कौसू-१३.१७[१०९].९
सा तत्र प्रायश्चित्तिः (कौसू-१३.१७[१०९].१०

अथ चेद् वडवा वा गर्दभी वा स्याद् एवम् एव प्राञ्चम् इध्मम् उपसमाधाय (कौसू-१३.१८[११०].१
एवं परिस्तीर्य (कौसू-१३.१८[११०].२
एवम् उपसाद्य (कौसू-१३.१८[११०].३
एतेनएव सूक्तेनाज्यं जुह्वन् (कौसू-१३.१८[११०].४
उदपात्रे संपातान् आनयति (कौसू-१३.१८[११०].५
उदपात्राद् एनान् आचामयति च संप्रोक्षति च (कौसू-१३.१८[११०].६
तां तस्यएव दद्यात् (कौसू-१३.१८[११०].७
सा तत्र प्रायश्चित्तिः (कौसू-१३.१८[११०].८

अथ चेद्मानुषी स्याद् एवम् एव प्राञ्चम् इध्मम् उपसमाधाय (कौसू-१३.१९[१११].१
एवं परिस्तीर्य (कौसू-१३.१९[१११].२
एवम् उपसाद्य (कौसू-१३.१९[१११].३
उपस्थे जातकौआधाय (कौसू-१३.१९[१११].४
एतेनएव सूक्तेनाज्यं जुह्वन् (कौसू-१३.१९[१११].५
अमीषां मूर्ध्नि स मातुः पुत्रयोर् इत्य् अनुपूर्वं संपातान् आनयति (कौसू-१३.१९[१११].६
उदपात्र उत्तरान् संपातान् (कौसू-१३.१९[१११].७
उदपात्राद् एनान् आचामयति च संप्रोक्षति च (कौसू-१३.१९[१११].८
तां तस्यएव दद्यात् (कौसू-१३.१९[१११].९
सा तत्र प्रायश्चित्तिः (कौसू-१३.१९[१११].१०
तस्या निष्क्रयो यथार्हं यथासंपद् वा (कौसू-१३.१९[१११].११

अथ यत्रएतद् धेनवो लोहितं दुहते {यः पौरुषेयेण क्रविषा समङ्क्ते [८.३.१५]} इत्य् एताभिश् चतसृभिर् जुहुयात् (कौसू-१३.२०[११२].१
वरां धेनुं कर्त्रे दद्यात् (कौसू-१३.२०[११२].२
सा तत्र प्रायश्चित्तिः (कौसू-१३.२०[११२].३

अथ यत्रएतद् अनड्वान् धेनुं धयति तत्र जुहुयात् (कौसू-१३.२१[११३].१
{अनड्वान् धेनुम् अधयद् इन्द्रो गो रूपम् आविशत् । स मे भूतिं च पुष्टिं च दीर्घम् आयुश् च धेहि नः ॥ इन्द्राय स्वाहा [-]}इति हुत्वा (कौसू-१३.२१[११३].२
{मा नो विदन् [१.१९.१]} {नमो देववधेभ्यो [६.१३.१]}इति एताभ्यां सूक्ताभ्यां जुहुयात् (कौसू-१३.२१[११३].३
सा तत्र प्रायश्चित्तिः (कौसू-१३.२१[११३].४

अथ यत्रएतद् धेनुर् धेनुं धयति तत्र जुहुयात् (कौसू-१३.२२[११४].१
{योगक्षेमं धेनुं वाजपत्नीम् इन्द्राग्निभ्यां प्रेषिते जञ्जभाने । तस्मान् माम् अग्ने परि पाहि घोरात् प्र +णो जायन्तां मिथुनानि रूपशः ॥ इन्द्राग्निभ्यां स्वाहा [-, cf. (कौसू-१२८.२]}इति हुत्वा (कौसू-१३.२२[११४].२
{दिव्यो गन्धर्वो [२.२.१]}इति मातृनामभिर् जुहुयात् (कौसू-१३.२२[११४].३
सा तत्र प्रायश्चित्तिः (कौसू-१३.२२[११४].४

अथ यत्रएतद् गौर् वाश्वो वाश्वतरो वा पुरुषो वाकाशफेनम् अवगन्धयति तत्र जुहुयात् (कौसू-१३.२३[११५].१
{पयो देवेषु पय ओषधीषु पय आशासु पयो ऽन्तरिक्षे । तन् मे धाता च सविता च धत्तां विश्वे तद् देवा अभि सं गृणन्तु ॥ पयो यद् अप्सु पय उस्रियासु पय उत्सेषूत पर्वतेषु । तन् मे धाता च सविता च धत्तां विश्वे तद् देवा अभि सं गृणन्तु ॥ यन् मृगेषु पय आविष्टम् अस्ति यद् एजति पतति यत् पतत्रिषु [चोर्र्. Bलोओम्fइएल्द् ङ्ङा १९०२ ५१४ -- ed. पततत्रिषु] । तन् मे धाता च सविता च धत्तां विश्वे तद् देवा अभि सं गृणन्तु ॥ यानि पयांसि दिव्य् आर्पितानि यान्य् अन्तरिक्षे बहुधा बहूनि । तेषाम् ईशानं वशिनी नो अद्य प्र दत्ता द्यावापृथिवी अहृणीयमाना ॥ [PS १.९१]} इत्य् एतेन सूक्तेन जुहुयात् (कौसू-१३.२३[११५].२
सा तत्र प्रायश्चित्तिः (कौसू-१३.२३[११५].३

अथ यत्रएतत् पिपीलिका अनाचाररूपा दृश्यन्ते तत्र जुहुयात् (कौसू-१३.२४[११६].१
{भुवाय स्वाहा भुवनाय स्वाहा भुवनपतये स्वाहा भुवां पतये स्वाहावोषाय स्वाहा विनताय स्वाहा शतारुणाय स्वाहा} (कौसू-१३.२४[११६].२
{यः प्राच्यां दिशि श्वेतपिपीलिकानां राजा तस्मै स्वाहा । यो दक्षिणायां दिशि कृष्णपिपीलिकानां राजा तस्मै स्वाहा । यः प्रतीच्यां दिशि रजतपिपीलिकानां राजा तस्मै स्वाहा । य उदीच्यां दिशि रोहितपिपीलिकानां राजा तस्मै स्वाहा । यो ध्रुवायां दिशि बभ्रुपिपीलिकानां राजा तस्मै स्वाहा । यो व्यध्वायां दिशि हरितपिपीलिकानां राजा तस्मै स्वाहा । य ऊर्ध्वायां दिश्य् अरुणपिपीलिकानां राजा तस्मै स्वाहा} (कौसू-१३.२४[११६].३
ताश् चेद् एतावता न शाम्येयुस् तत उत्तरम् अग्निम् उपसमाधाय (कौसू-१३.२४[११६].४
शरमयं बर्हिर् उभयतः परिछिन्नं प्रसव्यं परिस्तीर्य (कौसू-१३.२४[११६].५
विषावध्वस्तम् इङ्गिडम् आज्यं शाकपलाशेनउत्पूतं बाधकेन स्रुवेण जुहोति (कौसू-१३.२४[११६].६
{उत् तिष्ठत निर् द्रवत न व इहास्त्व् इत्य् अञ्चनम् । इन्द्रो वः सर्वासां साकं गर्भान् आण्डानि भेत्स्यति [PS १७.१३.३]} {फड् ढताः पिपीलिकाः [cf. (कौसू-४७.२१]}इति (कौसू-१३.२४[११६].७
{इन्द्रो वो यमो वो वरुणो वो ऽग्निर् वो वायुर् वः सूर्यो वश् चेन्द्रो वः प्रजापतिर् व ईशानो वः}इति (कौसू-१३.२४[११६].८

अथ यत्रएतत्नीलमक्षा अनाचाररूपा दृश्यन्ते तत्र जुहुयात् (कौसू-१३.२५[११७].१
{या मत्यैः सरथं यान्ति घोरा मृत्योर् दूत्यः क्रविशः सं बभूवुः । शिवं चक्षुर् उत घोषः शिवानां शं नो अस्तु द्विपदे शं चतुष्पदे ॥ शान्तं चक्षुर् उत वायसीनां या चासां घोरा मनसो विसृष्टिः । मनसस्पते तन्वा मा पाहि घोरान् मा वि रिक्षि तन्वा मा प्रजया मा पशुभिर् वायवे स्वाहा [-]}इति हुत्वा (कौसू-१३.२५[११७].२
{वात आ वातु भेषजं [cf. .RV १०.१८६.१ आदि]}इत्य् एतेन सूक्तेन जुहुयात् (कौसू-१३.२५[११७].३
{वात आ वातु भेषजं शंभु मयोभु नो हृदे । प्र ण आयूंषि तारिषत् ॥ उत वात पितासि न उत भ्रातोत नः सखा । स नो जीवातवे कृधि ॥ यद् अदो वात ते गृहे निहितं भेषजं गुहा । तस्य नो देहि जीवसे [cf. .RV १०.१८६, Vऐत्ष् ३८.१ आदि]}इत्य् एतेन सूक्तेन जुहुयात् (कौसू-१३.२५[११७].४
सा तत्र प्रायश्चित्तिः (कौसू-१३.२५[११७].५

अथ यत्रएतत्मधुमक्षिका अनाचाररूपा दृश्यन्ते {मधु वाता [ed. वात] ऋतायते [PS १९.४५.५, cf. (कौसू-९०.२५-९१.१]} इत्य् एतेन सूक्तेन जुहुयात् (कौसू-१३.२६[११८].१
सा तत्र प्रायश्चित्तिः (कौसू-१३.२६[११८].२

अथ यत्रएतद् अनाज्ञातम् अद्भुतं दृश्यते तत्र जुहुयात् (कौसू-१३.२७[११९].१
{यद् अज्ञातम् अनाम्नातम् अर्थस्य कर्मणो मिथः । अग्ने त्वं नस् तस्मात् पाहि स हि वेत्थ यथायथम् ॥ अग्नये स्वाहा [-]} (कौसू-१३.२७[११९].२
{वायो सूर्य चन्द्र}इति च (कौसू-१३.२७[११९].३
{पुरुषसंमितो ऽर्थः कर्मार्थः पुरुषसंमितः । वायुर् मा तस्मात् पातु स हि वेत्थ यथायथम् ॥ वायवे स्वाहा [-]} (कौसू-१३.२७[११९].४
{अग्निर् मा सूर्यो मा चन्द्रो मा}इति च (कौसू-१३.२७[११९].५

अथ यत्रएतद् ग्रामे वावसाने वाग्निशरणे समज्यायां वावदीर्येत चतस्रो धेनव उपकॢप्ता भवन्ति श्वेता कृष्णा रोहिणी सुरूपा चतुर्थी (कौसू-१३.२८[१२०].१
तासाम् एतद् द्वादशरात्रं संदुग्धं नवनीतं निदधाति (कौसू-१३.२८[१२०].२
द्वादश्याः प्रातर् यत्रएवादोअवदीर्णं भवति तत उत्तरम् अग्निम् उपसमाधाय (कौसू-१३.२८[१२०].३
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः श्वेताया आज्येन संनीय (कौसू-१३.२८[१२०].४
{अग्निर् भूम्याम् [१२.१.१९]} इति तिसृभिर् अभिमन्त्र्यालभ्य (कौसू-१३.२८[१२०].५
अथ जुहुयात् (कौसू-१३.२८[१२०].६
तथा दक्षिणार्धे (कौसू-१३.२८[१२०].७
तथा पश्चार्धे (कौसू-१३.२८[१२०].८
उत्तरार्धे संस्थाप्य वास्तोष्पत्यैर् जुहुयात् (कौसू-१३.२८[१२०].९
अवदीर्णे संपातान् आनीय संस्थाप्य होमान् (कौसू-१३.२८[१२०].१०
अवदीर्णं शान्त्युदकेन संप्रोक्ष्य (कौसू-१३.२८[१२०].११
ता एव ब्राह्मणो दद्यात् (कौसू-१३.२८[१२०].१२
सीरं वैश्योअश्वं प्रादेशिको ग्रामवरं राजा (कौसू-१३.२८[१२०].१३
सा तत्र प्रायश्चित्तिः (कौसू-१३.२८[१२०].१४

अथ यत्रएतद् अनुदक उदकोन्मीलो भवति {हिरण्यवर्णाः [१.३३.१]}इत्य् अपां सूक्तैर् जुहुयात् (कौसू-१३.२९[१२१].१
सा तत्र प्रायश्चित्तिः (कौसू-१३.२९[१२१].२

अथ यत्रएतत् तिलाः समतैला भवन्ति तत्र जुहुयात् (कौसू-१३.३०[१२२].१
{अनूनाय स्वाहा । अक्षिताय स्वाहा । अपरिमिताय स्वाहा । परिपूर्णाय स्वाहा} (कौसू-१३.३०[१२२].२
स यं द्विष्यात् तस्याशायां {लोहितं ते प्र सिञ्चामि}इति दक्षिणामुखः प्रसिञ्चेत् (कौसू-१३.३०[१२२].३

अथ यत्रएतद् वपां वा हवींषि वा वयांसि द्विपदचतुष्पदं वाभिमृश्यावगछेयुर् {ये अग्नयो [३.२१.१]} {नमो देववधेभ्यो [६.१३.१]}इत्य् एताभ्यां सूक्ताभ्यां जुहुयात् (कौसू-१३.३१[१२३].१
सा तत्र प्रायश्चित्तिः (कौसू-१३.३१[१२३].२

अथ यत्रएतत् कुमारस्य कुमार्या वा द्वौआवर्तौ मूर्धन्यौ भवतः सव्यावृद् एको देशावर्तस् तत्र जुहुयात् (कौसू-१३.३२[१२४].१
{त्वष्टा रूपाणि बहुधा विकुर्वञ् जनयन् प्रजा बहुधा विश्वरूपाः । स मे करोत्व् अविपरीतम् अस्मान् अनुपूर्वं कल्पयताम् इहैव ॥ त्वष्ट्रे स्वाहा [-]} (कौसू-१३.३२[१२४].२
{अन्तर् गर्भेषु बहुधा सं तनोति जनयन् प्रजा बहुधा विश्वरूपाः । स मे करोत्व् अविपरीतम् अस्मान् अनुपूर्वं कल्पयताम् इहैव ॥ त्वष्ट्रे स्वाहा [-]} (कौसू-१३.३२[१२४].३
{यद्य् उन्मृष्टं यदि वाबिमृष्टं तिरश्चीन् अर्थ उत मर्मृजन्ते । शिवं तद् देवः सविता कृणोतु प्रजापतिः प्रजाभिः संविदानः ॥ त्वष्ट्रे स्वाहा [-]} (कौसू-१३.३२[१२४].४
{सव्यावृत्तान्य् उत या विश्वरूपा प्रत्यग्वृत्तान्य् उत या ते परुषः । तान्य् अस्य देव बहुधा बहूनि स्योनानि शग्मानि शिवानि सन्तु ॥ त्वष्ट्रे स्वाहा [-]}इति हुत्वा (कौसू-१३.३२[१२४].५
{त्वष्टा मे दैव्यं वचः [६.४.१]}इत्य् एतेन सूक्तेन जुहुयात् (कौसू-१३.३२[१२४].६
सा तत्र प्रायश्चित्तिः (कौसू-१३.३२[१२४].७

अथ यत्रएतद् यूपो विरोहति तत्र जुहुयात् (कौसू-१३.३३[१२५].१
{यूपो विरोहञ् छतशाखो अध्वरः समावृतो मोहयिष्यन् यजमानस्य लोकान् । वेदाभिगुप्तो ब्रह्मणा परिवृतो ऽथर्वभिः शान्तः सुकृताम् एतु लोकान् ॥ यूपो ह्य् अरुक्षद् द्विषतां वधाय न मे यज्ञो यजमानश् च रिष्यात् । सप्तर्षीणां सुकृतां यत्र लोकस् तत्रेमं यज्ञं यजमानं च धेहि ॥ वनस्पते स्वाहा [-, cf. Kआत्य्श्ष् २.२.८]]}इति हुत्वा (कौसू-१३.३३[१२५].२
{वनस्पतिः सह देवैर् न आगन्न् [१२.३.१५]} इति जुहुयात् (कौसू-१३.३३[१२५].३
सा तत्र प्रायश्चित्तिः (कौसू-१३.३३[१२५].४

अथ यत्रएतद् दिवोल्का पतति तद् अयोगक्षेमाशङ्कं भवतिअवृष्ट्याशङ्कं वा (कौसू-१३.३४[१२६].१
तत्र राजा भूमिपतिर् विद्वांसं ब्रह्माणं वृणीयात् (कौसू-१३.३४[१२६].२
स वृतोअरण्यस्यार्धम् अभिव्रज्य तत्र द्वादशरात्रम् अनुशुष्येत् (कौसू-१३.३४[१२६].३
स खलु पूर्वं नवरात्रम् आरण्यशाकमूलफलभक्षश् चाथउत्तरं त्रिरात्रं नान्यद् उदकात् (कौसू-१३.३४[१२६].४
श्वो भूते सप्त धेनव उपकॢप्ता भवन्ति श्वेता कृष्णा रोहिणी नीला पाटला सुरूपा बहुरूपा सप्तमी (कौसू-१३.३४[१२६].५
तासाम् एतद् द्वादशरात्रं संदुग्धं नवनीतं निदधाति (कौसू-१३.३४[१२६].६
द्वादश्याः प्रातर् यत्रएवासौ पतिता भवति तत उत्तरम् अग्निम् उपसमाधाय (कौसू-१३.३४[१२६].७
परिसमूह्य पर्युक्ष्य परिस्तीर्य बर्हिः (कौसू-१३.३४[१२६].८
अथामुं नवनीतं सौवर्णे पात्रे विलाप्य सौवर्णेन स्रुवेण रक्षोघ्नैश् च सूक्तैर् {याम् आहुस् तारकैषा विकेशीति [५.१७.४]}एतेन सूक्तेनाज्यं जुह्वन् (कौसू-१३.३४[१२६].९
अवपतिते संपातान् आनीय संस्थाप्य होमान् (कौसू-१३.३४[१२६].१०
अवपतितं शान्त्युदकेन संप्रोक्ष्य (कौसू-१३.३४[१२६].११
ता एव ब्राह्मणो दद्यात् (कौसू-१३.३४[१२६].१२
सीरं वैश्योअश्वं प्रादेशिको ग्रामवरं राजा (कौसू-१३.३४[१२६].१३
सा तत्र प्रायश्चित्तिः (कौसू-१३.३४[१२६].१४

अथ यत्रएतद् धूमकेतुः सप्तर्षीन् उपधूपयति तद् अयोगक्षेमाशङ्कम् इत्य् उक्तम् (कौसू-१३.३५[१२७].१
पञ्च पशवस् तायन्ते वारुणः कृष्णो गौर् वाजो वाविर् वा हरिर् वायव्यो बहुरूपो दिश्यो मारुती मेष्याग्नेयः प्राजापत्यश् च क्षीरौदनोअपां नप्त्र उद्रः (कौसू-१३.३५[१२७].२
{उतेयं भूमिर् [४.१६.३]} इति त्रिर् वरुणम् अभिष्टूय (कौसू-१३.३५[१२७].३
{अप्सु ते राजन्न् [७.८३.१]} इति चतसृभिर् वारुणस्य जुहुयात् (कौसू-१३.३५[१२७].४
{वायव् आ रुन्धि नो मृगान् अस्मभ्यं मृगयद्भ्यः । स नो नेदिष्ठम् आ कृधि वातो हि रशनाकृतः [PS २०.५१.४]}इति वायव्यस्य (कौसू-१३.३५[१२७].५
{आशानाम् [१.३१.१]} इति दिश्यस्य (कौसू-१३.३५[१२७].६
{प्रति त्यं चारुम् अध्वरं गोपीथाय प्र हूयसे । मरुद्भिर् अग्न आ गहि [PS ६.१७.१, .RV १.१९.१]}इति मारुतस्य (कौसू-१३.३५[१२७].७
{अपाम् अग्निस् [४.१५.१०]}इत्य् आग्नेयस्य (कौसू-१३.३५[१२७].८
{प्रजापतिः सलिलाद् [४.१५.११]}इति प्राजापत्यस्य (कौसू-१३.३५[१२७].९
अपां सूक्तैर् हिरण्यशकलेन सहउद्रम् अप्सु प्रवेशयेत् (कौसू-१३.३५[१२७].१०
प्र हैव वर्षति (कौसू-१३.३५[१२७].११
सर्वस्वं तत्र दक्षिणा (कौसू-१३.३५[१२७].१२
तस्य निष्क्रयो यथार्हं यथासंपद् वा (कौसू-१३.३५[१२७].१३

अथ यत्रएतत्नक्षत्राणि पतापतानीव भवन्ति तत्र जुहुयात् (कौसू-१३.३६[१२८].१
{यन् नक्षत्रं पतति जातवेदः सोमेन राज्ञेषिरं पुरस्तात् । तस्मान् माम् अग्ने परि पाहि घोरात् प्र णो जायन्तां मिथुनानि रूपशः ॥ इन्द्राग्निभ्यां स्वाहा [-, cf. (कौसू-११४.२]}इति हुत्वा (कौसू-१३.३६[१२८].२
{सोमो राजा सविता च राजा [PS १९.३३.१]}इत्य् एतेन सूक्तेन जुहुयात् (कौसू-१३.३६[१२८].३
{सोमो राजा सविता च राजा भुवो राजा भुवनं च राजा । शर्वो राजा शर्म च राजा त उ नः शर्म यछन्तु देवाः ॥ आदित्यैर् नो बृहस्पतिर् भगः सोमेन नः सह । विश्वे देवा उर्व् अन्तरिक्षं त उ नः शर्म यछन्तु देवाः ॥ उताविद्वान् निष्कृदयाथोस्रघ्नी यथायथम् । मा नो विश्वे देवा मरुतो हेतिम् इछत [PS १९.३३.१-३]} (कौसू-१३.३६[१२८].४
रुक्मं कर्त्रे दद्यात् (कौसू-१३.३६[१२८].५
सा तत्र प्रायश्चित्तिः (कौसू-१३.३६[१२८].६

अथ यत्रएतत्मांसमुखो निपतति तत्र जुहुयात् (कौसू-१३.३७[१२९].१
{घोरो वज्रो देवसृष्टो न आगन् यद् वा गृहान् घोरम् उता जगाम । तन् निर् जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे ॥ रुद्राय स्वाहा [-]}इति हुत्वा (कौसू-१३.३७[१२९].२
{भवाशर्वौ मृडतं माभि यातं [११.२.१]}इत्य् एतेन सूक्तेन जुहुयात् (कौसू-१३.३७[१२९].३
सा तत्र प्रायश्चित्तिः (कौसू-१३.३७[१२९].४

अथ यत्रएतद् अनग्नौअवभासो भवति तत्र जुहुयात् (कौसू-१३.३८[१३०].१
{या ते ऽवदीप्तिर् अवरूपा जातवेदो ऽपेतो रक्षसां भाग एषः । रक्षांसि तया दह जातवेदो या नः प्रजां मनुष्यां संसृजन्ते ॥ अग्नये स्वाहा [-]}इति हुत्वा (कौसू-१३.३८[१३०].२
{अग्नी रक्षांसि सेधति [८.३.२६]}इति प्रायश्चित्तिः (कौसू-१३.३८[१३०].३

अथ यत्रएतद् अग्निः श्वसतीव तत्र जुहुयात् (कौसू-१३.३९[१३१].१
{श्वेता कृष्णा रोहिणी जातवेदो यास् ते तनूस् तिरश्चीना निर्दहन्तीः श्वसन्तीः । रक्षांसि ताभिर् दह जातवेदो या नः प्रजां मनुष्यां संसृजन्ते ॥ अग्नये स्वाहा [-]}इति हुत्वा (कौसू-१३.३९[१३१].२
{अग्नी रक्षांसि सेधति [८.३.२६]}इति प्रायश्चित्तिः (कौसू-१३.३९[१३१].३

अथ यत्रएतत् सर्पिर् वा तैलं वा मधु वा विष्यन्दति {यद् यामं चक्रुर् निखनन्तो [६.११६.१]}इत्य् एतेन सूक्तेन जुहुयात् (कौसू-१३.४०[१३२].१
सा तत्र प्रायश्चित्तिः (कौसू-१३.४०[१३२].२

अथ यत्रएतद् ग्राम्योअग्निः शालां दहति{अपमित्यम् अप्रतीत्तं [६.११७-११९]}इत्य् एतैस् त्रिभिः सूक्तैर् मैश्रधान्यस्य पूर्णाञ्जलिं हुत्वा (कौसू-१३.४१[१३३].१
{ममोभा मित्रावरुणा [PS १.४०]} {मह्यम् आपो मधुमद् एरयन्तां [६.६१.१]}इत्य् एताभ्यां सूक्ताभ्यां जुहुयात् (कौसू-१३.४१[१३३].२
{ममोभा मित्रावरुणा ममोभेन्द्राबृहस्पती । मम त्वष्टा च पूषा च ममैव सविता वशे ॥ मम विष्णुश् च सोमश् च ममैव मरुतो भवन् । सरस्वांश् च भगश् च विश्वे देवा वशे मम ॥ ममोभे [ed. मिस्प्रिन्त् ममोभा] द्यावापृथिवी अन्तरिक्षं स्वर् मम । ममेमाः सर्वा ओषधीर् आपः सर्वा वशे मम ॥ मम गावो ममाश्वा ममाजाश् चावयश् च ममैव पुरुषा भवन् । ममेदं सर्वम् आत्मन्वद् एजत् प्राणद् वशे मम ॥ [PS १.४०]}इति (कौसू-१३.४१[१३३].३
अरणी प्रताप्य स्थण्डिलं परिमृज्य (कौसू-१३.४१[१३३].४
अथाग्निं जनयेत् (कौसू-१३.४१[१३३].५
{इह एव प्रथमं जज्ञे अग्निर् आभ्यो योनिभ्यो अधि जातवेदाः । स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा देवो देवेभ्यो हव्यं वहतु प्रजानन्न् [-]} इति जनित्वा (कौसू-१३.४१[१३३].६
{भवतं नः समनसौ समोकसाव् [-, cf. (कौसू-१०८.२]} इत्य् एतेन सूक्तेन जुहुयात् (कौसू-१३.४१[१३३].७
सा तत्र प्रायश्चित्तिः (कौसू-१३.४१[१३३].८

अथ चेद् आगन्तुर् दहतिएवम् एव कुर्यात् (कौसू-१३.४२[१३४].१
सा तत्र प्रायश्चित्तिः (कौसू-१३.४२[१३४].२

अथ यत्रएतद् वंश स्फोटति कपालेअङ्गारा भवन्तिउदपात्रं बर्हिर् आज्यं तद् आदाय (कौसू-१३.४३[१३५].१
शालायाः पृष्ठम् उपसर्पति (कौसू-१३.४३[१३५].२
तत्राङ्गारान् वा कपालं वाउपनिदधातिआ संतपनात् (कौसू-१३.४३[१३५].३
प्राञ्चम् इध्मम् उपसमाधाय (कौसू-१३.४३[१३५].४
परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य (कौसू-१३.४३[१३५].५
परिचरणेनाज्यं परिचर्य (कौसू-१३.४३[१३५].६
नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च (कौसू-१३.४३[१३५].७
अथ जुहोति (कौसू-१३.४३[१३५].८
{असौ वै नाम ते मातासौ वै नाम ते पिता । असौ वै नाम ते दूतः स्ववंशम् अधि तिष्ठति ॥ उत्तमरात्री णाम मृत्यो ते माता तस्य ते अन्तकः पिता । समंदधानस् ते दूतः स्ववंशम् अधि तिष्ठति ॥ बहवो ऽस्य पाशा वितताः पृथिव्याम् असंख्येया अपर्यन्ता अनन्ताः । याभिर् वंशान् अभिनिदधाति प्राणिनां यान् कांश् चेमान् प्राणभृतां जिघांसन् । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशं मृत्यवे स्वाहा ॥ बृहस्पतिर् आङ्गिरसो ब्रह्मणः पुत्रो विश्वे देवाः प्र ददुर् विश्वम् एजत् । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशं बृहस्पतय आङ्गिरसाय स्वाहा ॥ यस्य ते ऽन्नं न क्षीयते भूय एवोपजातये । यस्मै भूतं च भव्यं च सर्वम् एतत् प्रतिष्ठितम् । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशम् इन्द्राय स्वाहा ॥ मुखं देवानाम् इह यो बभूव यो जानाति वयुनानां समीपे । यस्मै हुतं देवता भक्षयन्ति वायुनेत्रः सुप्रणीतिः सुनीतिः । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशम् अग्नये स्वाहा ॥ यः पृथिव्यां च्यावयन्न् एति वृक्षान् प्रभञ्जनेन रथेन सह संविदानः । रसान् गन्धान् भावयन्न् एति देवो मातरिश्वा भूतभव्यस्य कर्ता । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशं वायवे स्वाहा ॥ ब्रह्मचारी चरति ब्रह्मचर्यम् ऋचं गाथां ब्रह्म परं जिगांसन् । तं विघ्ना अनुपरियन्ति सर्वे ये अन्तरिक्षे ये च दिवि श्रितासः । तं विशो अनुपर्यन्ति सर्वाः कर्माणि लोके परिमोहयन्ति । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशम् आदित्याय स्वाहा ॥ यो नक्षत्रैः सरथं याति देवः संसिद्धेन रथेन सह संविदानः । रूपंरूपं कृण्वानश् चित्रभानुः सुभानुः । स इमं दूतं नुदतु वंशपृष्ठात् स मे गछतु द्विषतो निवेशं चन्द्राय स्वाहा ॥ ओषधयः सोमराज्ञीर् यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात् स मे गछतु द्विषतो निवेशम् ओषधीभ्यः सोमराज्ञीभ्यः स्वाहा ॥ ओषधयो वरुणराज्ञीर् यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात् स मे गछतु द्विषतो निवेशम् ओषधीभ्यो वरुणराज्ञीभ्यः स्वाहा ॥ अष्टस्थूणो दशपक्षो यदृछजो वनस्पते । पुत्रांश् चैव पशूंश् (कौसू-१३.४३[१३५].९ चाभि रक्ष वनस्पते ॥ यो वनस्पतीनाम् उपतापो बभूव यद् वा गृहान् घोरम् उता जगाम तन् निर् जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे ॥ यो वनस्पतीनाम् उपतापो न आगद् यद् वा यज्ञं नो ऽद्भुतम् आ जगाम । सर्वं तद् अग्ने हुतम् अस्तु भागशः शिवान् वयम् उत् तरेमाभि वाजान् ॥ त्वष्ट्रे स्वाहा [-]}इति हुत्वा {त्वष्टा मे दैव्यं वचः [६.४.१]}इत्य् अत्रउदपात्रं निनयति (कौसू-१३.४३[१३५].१०
कपालेअग्निं चादायउपसर्पति (कौसू-१३.४३[१३५].११
सा तत्र प्रायश्चित्तिः (कौसू-१३.४३[१३५].१२

अथ यत्रएतत् कुम्भोदधानः सक्तुधानी वाउखा वानिङ्गिता विकसति तत्र जुहुयात् (कौसू-१३.४४[१३६].१
{भूमिर् भूमिम् अगान् [ed. एम्.॒ अवागान्, बुत् नोते आVড়रिश् ४०.६.५ अन्द् Kएशव] माता मातरम् अप्य् अगात् । ऋध्यास्म पुत्रैः पशुभिर् यो नो द्वेष्टि स भिद्यताम् [-]} इति (कौसू-१३.४४[१३६].२
सदसि सन् मे भूयाद् इति सक्तून् आवपते (कौसू-१३.४४[१३६].३
अथ चेद् ओदनस्य{अन्नम् अस्य् अन्नं मे देह्य् अन्नं मा मा हिंसीर्} इति त्रिः प्राश्य (कौसू-१३.४४[१३६].४
अथ यथाकामं प्राश्नीयात् (कौसू-१३.४४[१३६].५
अथ चेद् उदधानः स्यात् {समुद्रं वः प्र हिणोमि [१०.५.२३-२४]}इत्य् एताभ्याम् अभिमन्त्र्य (कौसू-१३.४४[१३६].६
अन्यं कृत्वा ध्रुवाभ्यां दृंहयित्वा (कौसू-१३.४४[१३६].७
तत्र {हिरण्यवर्णाः [१.३३.१]}इत्य् उदकम् आसेचयेत् (कौसू-१३.४४[१३६].८
स खलुएतेषु कर्मसु सर्वत्र शान्त्युदकं कृत्वा सर्वत्र चातनानिअनुयोजयेत्मातृनामानि च (कौसू-१३.४४[१३६].९
सर्वत्र वरां धेनुं कर्त्रे दद्यात् (कौसू-१३.४४[१३६].१०
सर्वत्र कंसवसनं गौर् दक्षिणा (कौसू-१३.४४[१३६].११
ब्राह्मणान् भक्तेनउपेप्सन्ति (कौसू-१३.४४[१३६].१२
यथोद्दिष्टं चादिष्टासुइति प्रायश्चित्तिः प्रायश्चित्तिः (कौसू-१३.४४[१३६].१३
इति अथर्ववेदे कौशिकसूत्रे त्रयोदशो ऽध्यायः समाप्तः