कौशिक सूत्र / दसमोऽध्यायः
दिखावट
अथ विवाहः (कौसू-१०.१[७५].१ ऊर्ध्वं कार्त्तिक्या आ वैशाख्याः (कौसू-१०.१[७५].२ याथाकामी वा (कौसू-१०.१[७५].३ चित्रापक्षं तु वर्जयेत् (कौसू-१०.१[७५].४ {मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते [१४.१.१३cd]}इति विज्ञायते मङ्गलं च (कौसू-१०.१[७५].५ {सत्येनोत्तभिता [१४.१.१]} {पूर्वापरं [१४.१.२३]}इत्य् उपदधीत (कौसू-१०.१[७५].६ पतिवेदनं च (कौसू-१०.१[७५].७ {युवं भगं [१४.१.३१अ]}इति संभलं सानुचरं प्रहिणोति (कौसू-१०.१[७५].८ {ब्रह्मणस् पते [१४.१.३१च्]}इति ब्रह्माणम् (कौसू-१०.१[७५].९ तद् विवृहात्शङ्कमानो निशि कुमारीकुलाद् वलीकानिआदीप्य (कौसू-१०.१[७५].१० {देवा अग्रे [१४.२.३२]}इति पञ्चभिः सकृत् पूल्यानिआवापयति (कौसू-१०.१[७५].११ {अनृक्षरा [१४.१.३४अ]} इति कुमारीपालं प्रहिणोति (कौसू-१०.१[७५].१२ उदाहारस्य प्रतिहितेषुर् अग्रतो जघनतो ब्रह्मा (कौसू-१०.१[७५].१३ {यो अनिध्मो [१४.१.३७]}इत्य् अप्सु लोगं प्रविध्यति (कौसू-१०.१[७५].१४ {इदम् अहं [१४.१.३८अ]}इत्य् अपोह्य (कौसू-१०.१[७५].१५ {यो भद्रो [१४.१.३८च्]}इत्य् अन्वीपम् उदच्य (कौसू-१०.१[७५].१६ {आस्यै ब्राह्मणाः [१४.१.३९अ]}इति प्रयछति (कौसू-१०.१[७५].१७ आव्रजताम् अग्रतो ब्रह्मा जघनतोअधिज्यधन्वा (कौसू-१०.१[७५].१८ बाह्यतः प्लक्षोदुम्बरस्यउत्तरतोअग्नेः शाखायाम् आसजति (कौसू-१०.१[७५].१९ तेनउदकार्थान् कुर्वन्ति (कौसू-१०.१[७५].२० ततश् चान्वासेचनम् अन्येन (कौसू-१०.१[७५].२१ अन्तरुपातीत्य{अर्यमणं [१४.१.१७]}इति जुहोति (कौसू-१०.१[७५].२२ {प्र त्वा मुञ्चामि [१४.१.१९]}इति वेष्टं विचृतति (कौसू-१०.१[७५].२३ {उशतीः [१४.२.५२]}इत्य् एतया त्रिर् आधापयति (कौसू-१०.१[७५].२४ सप्तभिर् उष्णाः संपातवतीः करोति (कौसू-१०.१[७५].२५ {यद् आसन्द्याम् [१४.२.६५]} इति पूर्वयोर् उत्तरस्यां स्रक्त्यां तिष्ठन्तीम् आप्लावयति (कौसू-१०.१[७५].२६ {यच् च वर्चो [१४.१.३५]} {यथा सिन्धुर् [१४.१.४३]} इत्य् उत्क्रान्ताम् अन्येनावसिञ्चति (कौसू-१०.१[७५].२७ {यद् दुष्कृतं [१४.२.६६]}इति वाससाङ्गानि प्रमृज्य कुमारीपालाय प्रयछति (कौसू-१०.२[७६].१ तुम्बरदण्डेन प्रतिपाद्य निर्व्रजेत् (कौसू-१०.२[७६].२ तद् वन आसजति (कौसू-१०.२[७६].३ {या अकृन्तंस् [१४.१.४५]} {त्वष्टा वासो [१४.१.५३]}इत्य् अहतेनाछायति (कौसू-१०.२[७६].४ {कृत्रिमः [१४.२.६८]}इति शतदताइषीकेण कङ्कतेन सकृत् प्रलिख्य (कौसू-१०.२[७६].५ कृतयामम् इत्य् अवसृजति (कौसू-१०.२[७६].६ {आशासाना [१४.१.४२]} {सं त्वा नह्यामि [१४.२.७०]} इत्य् उभयतः पाशेन योक्त्रेण (ed. misprint योक्त्रेन॑ सेए Caland, Kल्. ष्छ्र्., p. ५१) संनह्यति (कौसू-१०.२[७६].७ {इयं वीरुद् [१.३४.१ (७.५६.२)]} इति मदुघमणिं लाक्षारक्तेन सूत्रेण विग्रथ्यानामिकायां बध्नाति (कौसू-१०.२[७६].८ अन्ततो ह मणिर् भवति बाह्यो ग्रन्थिः (कौसू-१०.२[७६].९ {भगस् त्वेतो [१४.१.२०]}इति हस्तेगृह्य निर्णयति (कौसू-१०.२[७६].१० शाखायां युगम् आधाय दक्षिणतोअन्यो धारयति (कौसू-१०.२[७६].११ दक्षिणस्यां युगधुरिउत्तरस्मिन् युगतर्द्मनि दर्भेण विग्रथ्य {शं ते [१४.१.४०]}इति ललाटे हिरण्यं संस्तभ्य जपति (कौसू-१०.२[७६].१२ तर्द्म समयावसिञ्चति (कौसू-१०.२[७६].१३ उपगृह्यउत्तरतोअग्नेर् {अङ्गादङ्गाद् [१४.२.६९]} इति निनयति (कौसू-१०.२[७६].१४ {स्योनं [१४.१.४७अ]}इति शकृत्पिण्डेअश्मानं निदधाति (कौसू-१०.२[७६].१५ {तम् आ तिष्ठ [१४.१.४७च्]}इत्य् आस्थाप्य (कौसू-१०.२[७६].१६ {इयं नारी [१४.२.६३]}इति ध्रुवां तिष्ठन्तीं पूल्यानिआवापयति (कौसू-१०.२[७६].१७ त्रिर् अविछिन्दतीं चतुर्थीं कामाय (कौसू-१०.२[७६].१८ {येनाग्निर् [१४.१.४८]} इति पाणिं ग्राहयति (कौसू-१०.२[७६].१९ {अर्यम्णो [१४.१.३९च्]}इत्य् अग्निं त्रिः परिणयति (कौसू-१०.२[७६].२० {सप्त मर्यादाः [५.१.६]}इत्य् उत्तरतोअग्नेः सप्त लेखा लिखति प्राच्यः (कौसू-१०.२[७६].२१ तासु पदानिउत्क्रामयति (कौसू-१०.२[७६].२२ इषे त्वा सुमङ्गलि प्रजावति सुशीम [ed.॒ +सुसीम] इति प्रथमम् (कौसू-१०.२[७६].२३ ऊर्जे त्वा रायस्पोषाय त्वा सौभाग्याय त्वा साम्राज्याय त्वा संपदे त्वा जीवातवे त्वा सुमङ्गलि प्रजावति सुशीम [ed.॒ +सुसीम] इति सप्तमं सखा सप्तपदी भवइति (कौसू-१०.२[७६].२४ {आ रोह तल्पं [१४.२.३१]} {भगस् ततक्ष [१४.१.६०]}इति तल्प उपवेशयति (कौसू-१०.२[७६].२५ उपविष्टायाः सुहृत्पादौ प्रक्षालयति (कौसू-१०.२[७६].२६ प्रक्षाल्यमानौअनुमन्त्रयते । {इमौ पादौ सुभगौ सुशेवौ सौभाग्याय कृणुतां नो अघाय । प्रक्षाल्यमानौ सुभगौ सुपत्न्याः प्रजां पशून् दीर्घम् आयुश् च धत्ताम् [-]} इति (कौसू-१०.२[७६].२७ {अहं वि ष्यामि [१४.१.५७]} {प्र त्वा मुञ्चामि [१४.१.५८]}इति योक्त्रं विचृतति (कौसू-१०.२[७६].२८ अपरस्मिन् भृत्याः संरभन्ते (कौसू-१०.२[७६].२९ ये जयन्ति ते बलीयांस एव मन्यन्ते (कौसू-१०.२[७६].३० {बृहस्पतिना [१४.२.५३]}इति सर्वसुरभिचूर्णानिऋचर्चा काम्पीलपलाशेन मूर्ध्निआवपति (कौसू-१०.२[७६].३१ {उद् यछध्वम् [१४.१.५९]}{भगस् ततक्ष [१४.१.६०]}{अभ्रातृघ्नीं [१४.१.६२]}इत्य् एकएकयाउत्थापयति (कौसू-१०.२[७६].३२ {प्रति तिष्ठ [१४.२.१५]}इति प्रतिष्ठापयति (कौसू-१०.२[७६].३३ {सुकिंशुकं [१४.१.६१]} {रुक्मप्रस्तरणं [१४.२.३०]}इति यानम् आरोहयति (कौसू-१०.३[७७].१ {एमम्ं पन्थाम् [१४.२.८]}{ब्रह्मापरं [१४.१.६४]}इत्य् अग्रतो ब्रह्मा प्रपद्यते (कौसू-१०.३[७७].२ {मा विदन्न् [१४.२.११]} {अनृक्षरा [१४.१.३४]} अध्वानम् इत्य् उक्तम् (कौसू-१०.३[७७].३ {येदं पुर्वा [१४.२.७४]}इति तेनान्यस्याम् ऊढायां वाधूयस्य दशां चतुष्पथे दक्षिणैर् अभितिष्ठति (कौसू-१०.३[७७].४ स चेद् उभयोः शुभकामो भवति {सूर्यायै देवेभ्यो [१४.२.४६]}इत्य् एताम् ऋचं जपति (कौसू-१०.३[७७].५ {सम् ऋछत स्वपथो ऽनवयन्तः सुशीमकामाव् [ed.॒ +सुसीम-] उभे विराजाव् उभे सुप्रजसौ[-]} इत्य् अतिक्रमयतो ऽन्तरा ब्रह्माणम् (कौसू-१०.३[७७].६ {य ऋते चिद् अभिश्रिषः [१४.२.४७]}इति यानं संप्रोक्ष्य विनिष्कारयति (कौसू-१०.३[७७].७ {सा मन्दसाना [१४.२.६]}इति तीर्थे लोगं प्रविध्यति (कौसू-१०.३[७७].८ {इदं सु मे [१४.२.९]}इति महावृक्षेषु जपति (कौसू-१०.३[७७].९ {सुमङ्गलीर् [१४.२.२८]} इति वध्वीक्षीः प्रति जपति (कौसू-१०.३[७७].१० {या ओषधयो [१४.२.७]}इति मन्त्रोक्तेषु (कौसू-१०.३[७७].११ {ये पितरो [१४.२.७३]}इति श्मशानेषु (कौसू-१०.३[७७].१२ {प्र बुध्यस्व [१४.२.७५]}इति सुप्तां प्रबोधयेत् (कौसू-१०.३[७७].१३ {सं काशयामि [१४.२.१२]}इति गृहसंकाशे जपति (कौसू-१०.३[७७].१४ {उद् व ऊर्मिः [१४.२.१६]}इति यानं संप्रोक्ष्य विमोचयति (कौसू-१०.३[७७].१५ {उत् तिष्ठेतः [१४.२.१९]}इति पत्नी शालां संप्रोक्षति (कौसू-१०.३[७७].१६ {स्योनं [१४.१.४७]}इति दक्षिणतो वलीकानां शकृत्पिण्डेअश्मानं निदधाति (कौसू-१०.३[७७].१७ तस्यउपरि मध्यमपलाशे सर्पिषि चत्वारि दूर्वाग्राणि (कौसू-१०.३[७७].१८ {तम् आ तिष्ठ [१४.१.४७च्]}इत्य् आस्थाप्य (कौसू-१०.३[७७].१९ {सुमङ्गली प्रतरणी [१४.२.२६]}{इह प्रियं [१४.१.२१]} {मा हिंसिष्टं [१४.१.६३]} {ब्रह्मापरं [१४.१.६४]}इति प्रत्यृचं प्रपादयति (कौसू-१०.३[७७].२० सुहृत्पूर्णकंसेन प्रतिपादयति (कौसू-१०.३[७७].२१ {अघोरचक्षुर् [१४.२.१७]} इत्य् अग्निं त्रिः परिणयति (कौसू-१०.३[७७].२२ {यदा गार्हपत्यम् [१४.२.२०]}{सूर्यायै देवेभ्यो [१४.२.४६]}इति मन्त्रोक्तेभ्यो नमस्कुर्वतीम् अनुमन्त्रयते (कौसू-१०.३[७७].२३ {शर्म वर्म [१४.२.२१]}इति रोहितचर्माहरन्तम् (कौसू-१०.४[७८].१ {चर्म चोपस्तृणीथन [१४.२.२२ब्]}इत्य् उपस्तृणन्तम् (कौसू-१०.४[७८].२ {यं बल्बजं [१४.२.२२]}इति बल्बजं न्यस्यन्तम् (कौसू-१०.४[७८].३ {उप स्तृणीहि [१४.२.२३]}इत्य् उपस्तृणन्तम् (कौसू-१०.४[७८].४ {तद् आ रोहतु [१४.२.२२च्]}इत्य् आरोहयति (कौसू-१०.४[७८].५ {तत्रोपविश्य [१४.२.२३च्]}इत्य् उपवेशयति (कौसू-१०.४[७८].६ दक्षिणोत्तरम् उपस्थं कुरुते (कौसू-१०.४[७८].७ {सुज्यैष्ठ्यो [१४.२.२४द्]}इति कल्याणनामानं ब्राह्मणायनम् उपस्थ उपवेशयति (कौसू-१०.४[७८].८ {वि तिष्ठन्तां [१४.२.२५]}इति प्रमदनं प्रमायउत्थापयति (कौसू-१०.४[७८].९ {तेन भूतेन [६.७८.१]} {तुभ्यम् अग्रे [१४.२.१]} {शुम्भनी [१४.२.४५]} {अग्निर् जनविन् मह्यं जायाम् इमाम् अदात् सोमो वसुविन् मह्यं जायाम् इमाम् अदात् पूषा ज्ञातिविन् [ed. मिस्प्रिन्त् जातिविन्] मह्यं जायाम् इमाम् अदाद् इन्द्रः सहीयान् मह्यं जायाम् अदाद् अग्नये जनविदे स्वाहा सोमाय वसुविदे स्वाहा पूष्णे ज्ञातिविदे [ed. मिस्प्रिन्त् जातिविदे] स्वाहेन्द्राय सहीयसे स्वाहा [PS १.३४+१.३५}इति [ed. इत्य् आगछतः॒ आगछतः मोवेद् तो नेxत् सूत्र अfतेर् Bलोओम्fइएल्द् ङ्ङा १९०२ ५१४] (कौसू-१०.४[७८].१० {आगछतः [६.८२.१]}{सविता प्रसवानाम् [५.२४.१]} इति मूर्ध्नोः संपातान् आनयति [प्रतीक ओf ६.८२.१ प्रेfइxएद् अfतेर् Bलोओम्fइएल्द् ङ्ङा १९०२ ५१४] (कौसू-१०.४[७८].११ उदपात्र उत्तरान् (कौसू-१०.४[७८].१२ शुम्भन्याञ्जल्योर् निनयति (कौसू-१०.४[७८].१३ {तेन भूतेन [६.७८.१]}इति समशनम् (कौसू-१०.४[७८].१४ रसान् आशयति स्थालीपाकं च (कौसू-१०.४[७८].१५ यवानाम् आज्यमिश्राणां पूर्णाञ्जलिं जुहोति (कौसू-१०.४[७८].१६ {सप्त मर्यादाः [५.१.६]}इति तिसृणां प्रातर् आवपते (कौसू-१०.५[७९].१ {अक्ष्यौ नौ [७.३६.१]}इति समाञ्जाते (कौसू-१०.५[७९].२ {महीम् उ षु [७.६.२]}इति तल्पम् आलम्भयति (कौसू-१०.५[७९].३ {आ रोह तल्पं [१४.२.३१]}इत्य् आरोहयति (कौसू-१०.५[७९].४ {तत्रोपविश्य [१४.२.२३च्]}इत्य् उपवेशयति (कौसू-१०.५[७९].५ {देवा अग्रे [१४.२.३२]}इति संवेशयति (कौसू-१०.५[७९].६ {अभि त्वा [७.३७.१]}इत्य् अभिछादयति (कौसू-१०.५[७९].७ {सं पितराव् [१४.२.३७]} इति समावेशयति (कौसू-१०.५[७९].८ {इहेमाव् [१४.२.६४]} इति त्रिः संनुदति (कौसू-१०.५[७९].९ मदुघमणिम् औक्षेअपनीय{इयं वीरुद् [१.३४.१]} {अमो ऽहम् [१४.२.७१]} इति संस्पृशतः (कौसू-१०.५[७९].१० {ब्रह्म जज्ञानं [४.१.१ (५.६.१)]}इत्य् अङ्गुष्ठेन व्यचस्करोति (कौसू-१०.५[७९].११ {स्योनाद् योनेर् [१४.२.४३]} इत्य् उत्थापयति (कौसू-१०.५[७९].१२ परिधापनीयाभ्याम् अहतेनाछादयति (कौसू-१०.५[७९].१३ {बृहस्पतिः [१४.१.५५]}इति शष्पेणाभिघार्य व्रीहियवाभ्याम् अभिनिधाय दर्भपिञ्जुल्या सीमन्तं विचृतति (कौसू-१०.५[७९].१४ शणशकलेन परिवेष्ट्य तिस्रो रात्रीः प्रति सुप्तास्ते (कौसू-१०.५[७९].१५ अनुवाकाभ्याम् अन्वारब्धाभ्याम् उपदधीत (कौसू-१०.५[७९].१६ {इहेद् असाथ [१४.१.३२]}इत्य् एतया शुल्कम् अपाकृत्य (कौसू-१०.५[७९].१७ द्वाभ्यां निवर्तयतीह मम राध्यताम् अत्र तवइति (कौसू-१०.५[७९].१८ यथा वा मन्यन्ते (कौसू-१०.५[७९].१९ {परा देहि [१४.१.२५]}इति वाधूयं ददतम् अनुमन्त्रयते (कौसू-१०.५[७९].२० {देवैर् दत्तं [१४.२.४१]}इति प्रतिगृह्णाति (कौसू-१०.५[७९].२१ {अपास्मत् तम [१४.२.४८]} इति स्थाणौआसजति (कौसू-१०.५[७९].२२ {यावतीः कृत्या [१४.२.४९]} इति व्रजेत् (कौसू-१०.५[७९].२३ {या मे प्रियतमा [१४.२.५०]}इति वृक्षं प्रतिछादयति (कौसू-१०.५[७९].२४ शुम्भन्याप्लुत्य (कौसू-१०.५[७९].२५ {ये अन्ता [१४.२.५१]} इत्य् आछादयति (कौसू-१०.५[७९].२६ {नवं वसानः [१४.२.४४]}इत्य् आव्रजति (कौसू-१०.५[७९].२७ {पूर्वापरं [१४.१.२३]} यत्र नाधिगछेद् {ब्रह्मापरं [१४.१.६४]}इति कुर्यात् (कौसू-१०.५[७९].२८ गौर् दक्षिणा प्रतीवाहः (कौसू-१०.५[७९].२९ {जीवं रुदन्ति [१४.१.४६]} {यदीमे केशिनो [१४.२.५९]}इति जुहोति (कौसू-१०.५[७९].३० एष सौर्यो विवाहः (कौसू-१०.५[७९].३१ {ब्रह्मापरं [१४.१.६४]}इति ब्राह्म्यः (कौसू-१०.५[७९].३२ आवृतः प्राजापत्याः प्राजापत्याः (कौसू-१०.५[७९].३३
- इति अथर्ववेदे कौशिकसूत्रे दशमो ऽध्यायः समाप्तः