कौशिक सूत्र / द्वादशोऽध्यायः
दिखावट
मधुपर्कम् आहारयिष्यन् दर्भान् आहारयति (कौसू-१२.१[९०].१ अथ विष्टरान् कारयति (कौसू-१२.१[९०].२ स खलुएकशाखम् एव प्रथमं पाद्यं द्विशाखम् आसनं त्रिशाखं मधुपर्काय (कौसू-१२.१[९०].३ स यावतो मन्येत तावत उपादाय विविच्य संपर्याप्य मूलानि च प्रान्तानि च यथाविस्तीर्ण इव स्याद् इत्य् उपोत्कृष्य मध्यदेशेअभिसंनह्यति (कौसू-१२.१[९०].४ {ऋतेन त्वा सत्येन त्वा तपसा त्वा कर्मणा त्वा}इति संनह्यति (कौसू-१२.१[९०].५ अथ ह सृजति{अतिसृष्टो द्वेष्टा यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः} (कौसू-१२.१[९०].६ अस्य च दातुर् इति दातारम् ईक्षते (कौसू-१२.१[९०].७ अथउदकम् आहारयति पाद्यं भो इति (कौसू-१२.१[९०].८ हिरण्यवर्णाभिः प्रतिमन्त्र्य दक्षिणं पादं प्रथमं प्रकर्षति । मयि ब्रह्म च तपश् च धारयाणीति (कौसू-१२.१[९०].९ दक्षिणे प्रक्षालिते सव्यं प्रकर्षति । मयि क्षत्रं च विशस् च धारयाणीति (कौसू-१२.१[९०].१० प्रक्षालितौअनुमन्त्रयते । {इमौ पादाव् अवनिक्तौ ब्राह्मणं यशसावताम् । आपः पादावनेजनीर् द्विषन्तं निर् दहन्तु मे [-, cf. आइत्B ८.२७]} (कौसू-१२.१[९०].११ अस्य च दातुर् इति दातारम् ईक्षते (कौसू-१२.१[९०].१२ अथासनम् आहारयति । सविष्टरम् आसनम् भो इति (कौसू-१२.१[९०].१३ तस्मिन् प्रत्यङ्मुख उपविशति (कौसू-१२.१[९०].१४ {विमृग्वरीं पृथिवीम् [१२.१.२९]} इत्य् एतया विष्टरे पादौ प्रतिष्ठाप्य{अधिष्ठितो द्वेष्टा यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः} (कौसू-१२.१[९०].१५ अस्य च दातुर् इति दातारम् ईक्षते (कौसू-१२.१[९०].१६ अथउदकम् आहारयतिअर्घ्यं भो इति (कौसू-१२.१[९०].१७ तत् प्रतिमन्त्रयते । {अन्नानां मुखम् असि मुखम् अहं श्रेष्ठः समानानां भूयासम् । आपो ऽमृतं स्थामृतं मा कृणुत दासास्माकं बहवो भवन्त्य् अश्वावद् गोमन् मय्य् अस्तु पुष्टों (ed. पुष्टम् ओं॑ cf. Caland, Kल्. ष्छ्र्., p. ४५, n. १) भूर् भुवः स्वर् जनद् ओम्} इति (कौसू-१२.१[९०].१८ तूष्णीम् अध्यात्मं निनयति (कौसू-१२.१[९०].१९ {तेजो ऽस्य् अमृतम् असि}इति ललाटम् आलभते (कौसू-१२.१[९०].२० अथउदकम् आहारयतिआचमनीयं भो इति (कौसू-१२.१[९०].२१ जीवाभिर् आचम्य (कौसू-१२.१[९०].२२ अथास्मै मधुपर्कं वेदयन्ते द्व्यनुचरो मधुपर्को भो इति (कौसू-१२.१[९०].२३ द्वाभ्यां शाखाभ्याम् अधस्ताद् एकयाउपरिष्टाद् सापिधानम् (कौसू-१२.१[९०].२४ {मधु वाता ऋतायते [PS १९.४५.५]}इत्य् एताभिर् एवाभिमन्त्रणम् (कौसू-१२.१[९०].२५ तथा प्रतिमन्त्रणम् (कौसू-१२.१[९०].२६ {मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर् गावो भवन्तु नः ॥ मधु नक्तम् उतोषसो मधुमत् पार्थिवं रजः । माध्वीर् नः सन्त्व् ओषधीः ॥ मधुमान् नो वनस्पतिर् मधुमाम्̐ अस्तु सूर्यः । मधु द्यौर् अस्तु नः पिता ॥ [PS १९.४५.५-७]} (कौसू-१२.२[९१].१ {तत् सूर्यस्य त्वा चक्षुषा प्रतीक्ष [Vऐत्ष् ३.८, GopB २.१.२, आदि]} इति प्रतीक्षते (कौसू-१२.२[९१].२ {अयुतो ऽहम् [१९.५१.१]} {देवस्य त्वा सवितुः [१९.५१.२]}इति प्रतिगृह्य पुरोमुखं प्राग्दण्डं निदधाति (कौसू-१२.२[९१].३ {पृथिव्यास् त्वा नाभौ सादयाम्य् अदित्या उपस्थे [Vऐत्ष् ३.१०, आदि]}इति भूमौ प्रतिष्ठाप्य (कौसू-१२.२[९१].४ द्वाभ्याम् अङ्गुलिभ्यां प्रदक्षिणम् आचाल्यानामिकयाङ्गुल्याङ्गुष्ठेन च संगृह्य प्राश्नाति (कौसू-१२.२[९१].५ {ओं भूस् तत् सवितुर् वरेण्यं भूः स्वाहा [.RV ३.६२.१०अ ए.अ.]}इति प्रथमम् (कौसू-१२.२[९१].६ {भर्गो देवस्य धीमहि भुवः स्वाहा [.RV ३.६२.१०ब् ए.अ.]}इति द्वितीयम् (कौसू-१२.२[९१].७ {धियो यो नः प्रचोदयात् स्वः स्वाहा [.RV ३.६२.१०च् ए.अ.]}इति तृतीयम् (कौसू-१२.२[९१].८ {वयं देवस्य धीमहि जनत् स्वाहा [.RV ३.६२.१०द् ए.अ.]}इति चतुर्थम् (कौसू-१२.२[९१].९ {तुरं देवस्य भोजनं वृधत् स्वाहा [-, cf. .RV ५.८२.१]}इति पञ्चमम् (कौसू-१२.२[९१].१० {करत् स्वाहा}इति षष्ठम् (कौसू-१२.२[९१].११ {रुहत् स्वाहा}इति सप्तमम् (कौसू-१२.२[९१].१२ {महत् स्वाहा}इत्य् अष्टमम् (कौसू-१२.२[९१].१३ {तत् स्वाहा}इति नवमम् (कौसू-१२.२[९१].१४ {शं स्वाहा}इति दशमम् (कौसू-१२.२[९१].१५ {ओम्} इति एकादशम् (कौसू-१२.२[९१].१६ तूष्णीं द्वादशम् (कौसू-१२.२[९१].१७ तस्य भूयोमात्रम् इव भुक्त्वा ब्राह्मणाय श्रोत्रियाय प्रयछेत् (कौसू-१२.२[९१].१८ श्रोत्रियालाभे वृषलाय प्रयछेत् (कौसू-१२.२[९१].१९ अथाप्य् अयं निगमो भवति । {सोमम् एतत् पिबति यत् किं चाश्नीत ब्राह्मणाः । माब्राह्मणायोच्छिष्टं +दात् [एम्. Fअल्क्, म्.च्.॑ ed./ऌआट्य्श्ष् दात] मा सोमं पात्व् असोमपः [cf. ऌआट्य्श्ष् २.१२.१७]}इति (कौसू-१२.२[९१].२० दधि च मधु ब्राह्मो मधुपर्कः (कौसू-१२.३[९२].१ पायस ऐन्द्रो मधुपर्कः (कौसू-१२.३[९२].२ मधु चाज्यं च सौम्यो मधुपर्कः (कौसू-१२.३[९२].३ मन्थश् चाज्यं च पौष्णो मधुपर्कः (कौसू-१२.३[९२].४ क्षीरं चाज्यं च सारस्वतो मधुपर्कः (कौसू-१२.३[९२].५ सुरा चाज्यं च मौसलो मधुपर्कः (कौसू-१२.३[९२].६ स खलुएष द्वये भवति सौत्रामण्यां च राजसूये च (कौसू-१२.३[९२].७ उदकं चाज्यं च वारुणो मधुपर्कः (कौसू-१२.३[९२].८ तैलं चाज्यं च श्रावणो मधुपर्कः (कौसू-१२.३[९२].९ तैलश् च पिण्डश् च पारिव्राजको मधुपर्कः (कौसू-१२.३[९२].१० इति खलुएष नवविधो मधुपर्को भवति (कौसू-१२.३[९२].११ अथास्मै गां वेदयन्ते गौर् भो इति (कौसू-१२.३[९२].१२ तान् प्रतिमन्त्रयते । {भूतम् असि भवद् अस्य् अन्नं प्राणो बहुर् भव । ज्येष्ठं यन् नाम नामत ओं भूर् भुवः स्वर् जनद् ओम् [-]} इति (कौसू-१२.३[९२].१३ अतिसृजति । {मातादित्यानां दुहिता वसूनां स्वसा रुद्राणाम् अमृतस्य नाभिः । प्र णो वोचं चिकितुषे जनाय मा गाम् अनागाम् अदितिं वधिष्ट ॥ [cf. .RV ८.१०१.१५]} ओं तृणानि गौर् अत्त्व् इति आह (कौसू-१२.३[९२].१४ {सूयवसाद् [७.७३.११]} इति प्रतिष्ठमानाम् अनुमन्त्रयते (कौसू-१२.३[९२].१५ नालोहितो मधुपर्को भवति (कौसू-१२.३[९२].१६ नानुज्ञानम् अधीमहेइति कुरुतइत्य् एव ब्रूयात् (कौसू-१२.३[९२].१७ {स्वधिते मैनं हिंसीः [Vष्ं ६.१५, ंन्B १.६.६]}इति शस्त्रं प्रयछति (कौसू-१२.३[९२].१८ पाप्मानं मे ऽप जहीति कर्तारम् अनुमन्त्रयते (कौसू-१२.३[९२].१९ आग्नेयीं वपां कुर्युः (कौसू-१२.३[९२].२० अपि वा ब्राह्मण एव प्राश्नीयात् तद् देवतं हि तद् धविर् भवति (कौसू-१२.३[९२].२१ अथास्मै स्नानम् अनुलेपनं मालाभ्यञ्जनम् इति (कौसू-१२.३[९२].२२ यद् अत्रउपसमाहार्यं भवति तद् उपसमाहृत्य (कौसू-१२.३[९२].२३ अथउपासकाः प्रायउपासकाः स्मो भो इति वेदयन्ते (कौसू-१२.३[९२].२४ तान् प्रतिमन्त्रयते । {भूयांसो भूयास्म ये च नो भूयसः कार्ष्टापि च नो ऽन्ये भूयांसो जायन्ताम्} (कौसू-१२.३[९२].२५ अस्य च दातुर् इति दातारम् ईक्षते (कौसू-१२.३[९२].२६ अथान्नाहाराः प्राप्यान्नाहाराः स्मो भो इति वेदयन्ते (कौसू-१२.३[९२].२७ तान् प्रतिमन्त्रयते । {अन्नादा भूयास्म ये च नो ऽनादान् कार्ष्टापि च नो ऽन्ये ऽन्नादा भूयांसो जायन्ताम्} (कौसू-१२.३[९२].२८ अस्य च दातुर् इति दातारम् ईक्षते (कौसू-१२.३[९२].२९ आहृतेअन्ने जुहोति {यत् काम कामयमाना [१९.५२.१, सकल fओल्लोwस् thus PS १.३०.५]} इत्य् एतया (कौसू-१२.३[९२].३० {यत् काम कामयमाना इदं कृण्मसि ते हविः । तन् नः सर्वं सम् ऋध्यताम् अथैतस्य हविषो वीहि स्वाहा [१९.५२.१, सकल thus PS १.३०.५]}इति (कौसू-१२.३[९२].३१ एष आचार्यकल्प एष ऋत्विक्कल्प एष संयुक्तकल्प एष विवाहकल्प एषोअतिथिकल्प एषो ऽतिथिकल्पः (कौसू-१२.३[९२].३२
- इति अथर्ववेदे कौशिकसूत्रे द्वादशो ऽध्यायः समाप्तः