कौशिक सूत्र / द्वितीयोऽध्याय:
दिखावट
पूर्वस्य मेधाजननानि (कौसू-२.१[१०].१ शुकसारिकृशानां जिह्वा बध्नाति (कौसू-२.१[१०].२ आशयति (कौसू-२.१[१०].३ औदुम्बरपलाशकर्कन्धूनाम् आदधाति (कौसू-२.१[१०].४ आवपति (कौसू-२.१[१०].५ भक्षयति (कौसू-२.१[१०].६ उपाध्यायाय भैक्षम् प्रयछति (कौसू-२.१[१०].७ सुप्तस्य कर्णम् अनुमन्त्रयते (कौसू-२.१[१०].८ उपसीदञ् जपति (कौसू-२.१[१०].९ धानाः सर्पिर्मिश्राः सर्वहुताः (कौसू-२.१[१०].१० तिलमिश्रा हुत्वा प्राश्नाति (कौसू-२.१[१०].११ पुरस्ताद् अग्नेः कल्माषम् दण्डं निहत्य पश्चाद् अग्नेः कृष्णाजिने धाना अनुमन्त्रयते (कौसू-२.१[१०].१२ सूक्तस्य पारं गत्वा प्रयछति (कौसू-२.१[१०].१३ सकृज् जुहोति (कौसू-२.१[१०].१४ दण्डधानाजिनं ददाति (कौसू-२.१[१०].१५ {अहं रुद्रेभिर् [४.३०]} इति शुक्लपुष्पहरितपुष्पे किंस्त्यनाभिपिप्पल्यौ जातरूपशकलेन प्राक् स्तनग्रहात् प्राशयति (कौसू-२.१[१०].१६ प्रथमप्रवदस्य मातुर् उपस्थे तालूनि संपातान् आनयति (कौसू-२.१[१०].१७ दधिमध्व् आशयति (कौसू-२.१[१०].१८ उपनीतं वाचयति वार्षशतिकं कर्म (कौसू-२.१[१०].१९ {त्वं नो मेधे [६.१०८]} {द्यौश् च म [१२.१.३५]} इति भक्षयति (कौसू-२.१[१०].२० आदित्यम् उपतिष्ठते (कौसू-२.१[१०].२१ {यद् अग्ने तपसा [७.६१]} इत्य् आग्रहायण्यां भक्षयति (कौसू-२.१[१०].२२ अग्निम् उपतिष्ठते (कौसू-२.१[१०].२३ {प्रातर् अग्निं [३.१६]} {गिराव् अरगराटेषु [६.६९]} {दिवस्पृथिव्याः [६.१२५.२]} इति संहाय मुखं विमार्ष्टि (कौसू-२.१[१०].२४ पूर्वस्य ब्रह्मचारिसांपदानि (कौसू-२.२[११].१ औदुम्बर्यादयः (कौसू-२.२[११].२ ब्रह्मचार्यावसथाद् उपस्तरणान्य् आदधाति (कौसू-२.२[११].३ पिपीलिकोद्वापे मेदोमधुश्यामाकेषीकतूलान्य् आज्यं जुहोति (कौसू-२.२[११].४ आज्यशेषे पिपीलिकोद्वापान् ओप्य ग्रामम् एत्य सर्वहुतान् (कौसू-२.२[११].५ ब्रह्मचारिभ्योअन्नं धानास् तिलमिश्राः प्रयछति (कौसू-२.२[११].६ एतानि ग्रामसा.पदानि (कौसू-२.२[११].७ विकार स्थूणामूलावतक्षणानि सभानाम् उपस्तरणानि (कौसू-२.२[११].८ ग्रामीणेभ्योअन्नम् (कौसू-२.२[११].९ सुरां सुरापेभ्यः (कौसू-२.२[११].१० औदुम्बरादीन्य् भक्षणान्तानि सर्वसांपदानि (कौसू-२.२[११].११ त्रिर् ज्योतिः कुरुते (कौसू-२.२[११].१२ उपतिष्ठते (कौसू-२.२[११].१३ सव्यात् पाणिहृदयाल् लोहितं रसमिश्रम् अश्नाति (कौसू-२.२[११].१४ पृश्निमन्थः (कौसू-२.२[११].१५ जिह्वाया उत्साद्यम् अक्ष्योः +परिस्तरणं मस्तृहणं [ed. परिस्तरणमस्तृहणं॑ सेए ंष्ष् ३४ (१९७६), p. २३f.] हृदयं दूर्श उपनह्य तिस्रो रात्रीः पल्पूलने वासयति (कौसू-२.२[११].१६ चूर्णानि करोति (कौसू-२.२[११].१७ मैश्रधान्ये मन्थ ओप्य दधिमधुमिश्रम् अश्नाति (कौसू-२.२[११].१८ {अस्मिन् वसु [१.९]} {यद् आबध्नन् [१.३५]} {नव प्राणान् [५.२८]} इति युग्मकृष्णलं वासितं बध्नाति (कौसू-२.२[११].१९ सारूपवत्सं पुरुषगात्रं द्वादशरात्रं संपातवन्तं कृत्वानभिमुखन् अश्नाति (कौसू-२.२[११].२० {कथं महे [५.११]} इति मादानकशृतं क्षीरौदनम् अश्नाति (कौसू-२.३[१२].१ चमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्छयित्वा मध्व् आसिच्याश्यति (कौसू-२.३[१२].२ {पृथिव्यै श्रोत्राय [६.१०]} इति जुहोति (कौसू-२.३[१२].३ {वत्सो विराजो [१३.१.३३]} इति मन्थान्तानि (कौसू-२.३[१२].४ {सहृदयं [३.३०]} {तद् ऊ षु [५.१.५]} {सं जानीध्वम् [६.६४]} {एह यातु [६.७३]} {सं वः पृच्यन्तां [६.७४]} {सं वो मनांसि [६.९४]} {संज्ञानं नः [७.५२]} इति सांमनस्यानि (कौसू-२.३[१२].५ उदकूलिजं संपातवन्तं ग्रामं परिहृत्य मध्ये निनयति (कौसू-२.३[१२].६ एवं सुराकूलिजम् (कौसू-२.३[१२].७ त्रिहायण्या वत्सतर्याः शुक्त्यानि [सेए Caland, Zऋ] पिशितान्य् आशयति (कौसू-२.३[१२].८ भक्तं सुरां प्रपां संपातवत् करोति (कौसू-२.३[१२].९ पूर्वस्य {ममाग्ने वर्चो [५.३]} इति वर्चस्यानि (कौसू-२.३[१२].१० औदुम्बर्यादीनि त्रीणि (कौसू-२.३[१२].११ कुमार्या दक्षिणम् ऊरुम् अभिमन्त्रयते (कौसू-२.३[१२].१२ वपां जुहोति (कौसू-२.३[१२].१३ अग्निम् उपतिष्ठते (कौसू-२.३[१२].१४ {प्रातर् अग्निं [३.१६]} {गिराव् अरगराटेषु [६.६९]} {दिवस्पृथिव्याः [६.१२५.२]} इति दधिमध्व् आशयति (कौसू-२.३[१२].१५ कीलालमिश्रं क्षत्रियं कीलालम् इतरान् (कौसू-२.३[१२].१६ {हस्तिवर्चसम् [३.२२]} इति हस्तिनम् (कौसू-२.४[१३].१ हास्तिदन्तं बध्नाति (कौसू-२.४[१३].२ लोमानि जतुना संदिह्य जातरूपेणापिधाप्य (कौसू-२.४[१३].३ {सिंहे व्याघ्रे [६.३८]} {यशो हविर् [६.३९]} इति स्नातकसिंहव्याघ्रबस्तकृष्णवृषभराज्ञां नभिलोमानि (कौसू-२.४[१३].४ दशानां शान्तवृक्षाणां शकलानि (कौसू-२.४[१३].५ एतयोः {प्रातर् अग्निं [३.१६]} {गिराव् अरगराटेषु [६.६९]} {दिवस्पृथिव्याः [६.१२५.२]} इति सप्त मर्माणि स्थालीपाके पृक्तान्य् अश्नाति (कौसू-२.४[१३].६ अकुशलं यो ब्राह्मणो लोहितम् अश्नीयाद् इति गार्ग्यः (कौसू-२.४[१३].७ उक्तो लोममणिः (कौसू-२.४[१३].८ सर्वैर् आप्लावयति (कौसू-२.४[१३].९ अवसिञ्चति (कौसू-२.४[१३].१० चतुरङ्गुलं तृणं रजोहरणबिन्दुना [सेए Caland, Zऋ] अभिश्चोत्यउपमथ्य (कौसू-२.४[१३].११ शुनि किलासम् अजे पलितं तृणे ज्वरो योअस्मान् द्वेष्टि यं च वयं द्विष्मस् तस्मिन् राजयक्ष्म इति दक्षिणा तृणं निरस्यति गन्धप्रवादाभिर् अलं कुरुते (कौसू-२.४[१३].१२ पूर्वस्य हस्तित्रसनानि (कौसू-२.५[१४].१ रथचक्रेण संपातवता प्रतिप्रवर्तयति (कौसू-२.५[१४].२ यानेनाभियाति (कौसू-२.५[१४].३ वादित्रैः (कौसू-२.५[१४].४ दृतिवस्त्योर् ओप्य शर्कराः (कौसू-२.५[१४].५ तोत्त्रेण नग्नप्रछन्नः (कौसू-२.५[१४].६ {विद्मा शरस्य [१.२]} {मा नो विदन् [१.१९]} {अदारसृद् [१.२०]} {स्वस्तिदा [१.२१]} {अव मन्युर् [६.६५]} {निर्हस्तः [६.६६]} {परि वर्त्मान्य् [६.६७]} {अभिभूर् [६.९७]} {इन्द्रो जयाति [६.९८]} {अभि त्वेन्द्र [६.९९]} इति सांग्रामिकानि (कौसू-२.५[१४].७ आज्यसक्तूञ् जुहोति (कौसू-२.५[१४].८ धनुरिध्मे धनुः समिधम् आदधाति (कौसू-२.५[१४].९ एवम् इष्विध्मे (कौसू-२.५[१४].१० धनुः संपातवद् विमृज्य प्रयछति (कौसू-२.५[१४].११ प्रथमस्यइषुपर्ययणानि (कौसू-२.५[१४].१२ द्रुघ्न्यार्त्नीज्यापाशतृणमूलानि बध्नाति (कौसू-२.५[१४].१३ {आरे असाव् [१.२६]} इत्य् अपनोदनानि (कौसू-२.५[१४].१४ फलीकरणतुषबुसावतक्षणान्य् आवपति (कौसू-२.५[१४].१५ अन्वाह (कौसू-२.५[१४].१६ {अग्निर् नः शत्रून् [३.१]} अग्निर् नो दूतः [३.२]} इति मोहनानि (कौसू-२.५[१४].१७ ओदनेनउपयम्य फलीकरणान् उलूखलेन जुहोति (कौसू-२.५[१४].१८ एवम् अणून् (कौसू-२.५[१४].१९ एकविंशत्या शर्कराभिः प्रतिनिष्पुनाति (कौसू-२.५[१४].२० अप्वां यजते (कौसू-२.५[१४].२१ {संशितम् [३.१९]} इति शितिपदीं संपातवतीम् अवसृजति (कौसू-२.५[१४].२२ उद्वृधत्सु [Caland॒ उद्धृष्यत्सु?] योजयेत् (कौसू-२.५[१४].२३ {इमम् इन्द्र [४.२२ & ४.२३]} इति युक्तयोः प्रदानान्तानि (कौसू-२.५[१४].२४ दिग्युक्ताभ्यां [३.२६ & ३.२७] {नमो देववधेभ्यो [६.१३]} इति उपतिष्ठते (कौसू-२.५[१४].२५ {त्वया मन्यो [४.३१]} {यस् ते मन्यो [४.३२]} इति संरम्भणानि (कौसू-२.५[१४].२६ सेने समीक्षमाणो जपति (कौसू-२.५[१४].२७ भाङ्गमौञ्जान् पाशन् इङ्गिडालंकृतान् संपातवतोअनूक्तान् सेनाक्रमेषु वपति (कौसू-२.५[१४].२८ एवम् आमपात्राणि (कौसू-२.५[१४].२९ इङ्गिडेन संप्रोक्ष्य तृणान्य् आङ्गिरसेनाग्निना दीपयति (कौसू-२.५[१४].३० यां धूमोअवतनोति तां जयन्ति (कौसू-२.५[१४].३१ {ऋधङ् मन्त्रस् [५.१]} {तद् इद् आस [५.२]} इत्य् आश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचये हस्तिपृष्ठे पुरुषशिरसि वामित्राञ् जुह्वद् अभिप्रक्रम्य निवपति (कौसू-२.६[१५].१ +वराहविहताद् [ed. वराहविहिताद्॑ Caland, Kल्.ष्छ्र्. p. ७०] राजानो वेदिं कुर्वन्ति (कौसू-२.६[१५].२ तस्यां प्रदानान्तानि (कौसू-२.६[१५].३ एकेष्वा हतस्यादहनेउपसमाधाय दीर्घदण्डेण स्रुवेण रथ्चक्रस्य खेन समया जुहोति (कौसू-२.६[१५].४ योजनीयं श्रुत्वा योजयेत् (कौसू-२.६[१५].५ {यदि चिन् नु त्वा [५.२.४]} {नमो देववधेभ्यो [६.१३]} इत्य् अन्वाह (कौसू-२.६[१५].६ वैश्याय प्रदानान्तानि (कौसू-२.६[१५].७ {त्वया वयम् [५.२.५]} इति आयुधिग्रामण्ये (कौसू-२.६[१५].८ {नि तद् दधिषे [५.२.६]}इति राज्ञोदपात्रं द्वौद्वौअवेक्षयेत् (कौसू-२.६[१५].९ +यं [ed.॒ यन्॑ Caland, Kल्.ष्छ्र्. p. ५७] न पश्येद् न युध्येत (कौसू-२.६[१५].१० {नि तद् दधिषे [५.२.६]} {वनस्पते [१२.३.३३]} {अया विष्ठा [७.३]} {अग्न इन्द्रश् [७.११०]} {दिशस् चतस्रो [८.८.२२]} इति नवं रथं राजानं ससारथिम् आस्थापयति (कौसू-२.६[१५].११ {ब्रह्म जज्ञानम् [५.६]} इति जीवितविज्ञानम् (कौसू-२.६[१५].१२ तिस्रः स्नावरज्जूर् अङ्गारेषुअवधाय (कौसू-२.६[१५].१३ उत्कुचतीषु कल्याणम् (कौसू-२.६[१५].१४ सांग्रामिकम् एता व्यादिशति मध्ये मृत्युर् इतरे सेने (कौसू-२.६[१५].१५ पराजेष्यमाणान् मृत्युर् अतिवर्तते ज्येष्यन्तो मृत्युम् [नोते चोन्ज्. ष्पेइजेर् ंुसेउम् ९ २४९] (कौसू-२.६[१५].१६ अग्रेषूत्कुचत्सु मुख्या हन्यन्ते मध्येषु मध्या अन्तेषुअवरे (कौसू-२.६[१५].१७ एवम् इषीकाः (कौसू-२.६[१५].१८ {उच्चैर् घोषो [५.२०]} {उप श्वासय [६.१२६]} इति सर्ववादित्राणि प्रक्षाल्य तगरउशीरेण संधाव्य संपातवन्ति त्रिर् आहत्य प्रयछति (कौसू-२.७[१६].१ {विहृदयम् [५.२१]} इत्य् उच्चैस्तरां (?) हुत्वा स्रुवम् उद्वर्तयन् (कौसू-२.७[१६].२ सोमांशुं हरिणचर्मणिउत्सीव्य क्षत्रियाय बध्नाति (कौसू-२.७[१६].३ {परि वर्त्मानि [६.६७]} {इन्द्रो जयाति [६.९८]} इति राजा त्रिः सेनां परियाति (कौसू-२.७[१६].४ उक्तः पूर्वस्य सोमांशुः (कौसू-२.७[१६].५ {संदानं वो [६.१०३]} {आदानेन [६.१०४]} इति पाशैर् आदानसंदानानि (कौसू-२.७[१६].६ {मर्माणि ते [७.११८]} इति क्षत्रियं संनाहयति (कौसू-२.७[१६].७ अभयानाम् अप्ययः (कौसू-२.७[१६].८ {इन्द्रो मन्थतु [८.८]} इति (कौसू-२.७[१६].९ {पूतिरज्जुर् [८.८.२अब्]} इति पूतिरज्जुम् अवधाय (कौसू-२.७[१६].१० अश्वत्थबधकयोर् अग्निं मन्थति (कौसू-२.७[१६].११ {धूमम् [८.८.२cd]} इति धूमम् अनुमन्त्रयते (कौसू-२.७[१६].१२ {अग्निम् [८.८.२cd]} इत्य् अग्निम् (कौसू-२.७[१६].१३ तस्मिन्न् अरण्ये सपत्नक्षयणीर् आदधात्य् अश्वत्थबधकताजद्भङ्गआह्वखदिरशराणाम् (कौसू-२.७[१६].१४ उक्ताः पाशाः (कौसू-२.७[१६].१५ आश्वत्थानि कूटानि भाङ्गानि जालानि (कौसू-२.७[१६].१६ बाधकदण्डानि (कौसू-२.७[१६].१७ {स्वाहैभ्यो [८.८.२४cd]} इति मित्रेभ्यो जुहोति (कौसू-२.७[१६].१८ {दुराहामीभ्य [८.८.२४cd]} इति सव्येनइङ्गिडम् अमित्रेभ्यो बाधके (कौसू-२.७[१६].१९ उत्तरतोअग्नेर् लोहिताश्वत्थस्य शाखां निहत्य नीललोहिताभ्यां सूत्राभ्यां परितत्य {नीललोहितेनामून् [८.८.२४ए]} इति दक्षिणा प्रहापयति (कौसू-२.७[१६].२० {ये बाहव् [११.९]} {उत् तिष्ठत [११.१०]} इति यथालिङ्गं संप्रेष्यति (कौसू-२.७[१६].२१ होमार्थे पृषदाज्यम् (कौसू-२.७[१६].२२ प्रदानान्तानि वाप्यानि (कौसू-२.७[१६].२३ वाप्यैस् त्रिषन्धीनि वज्ररूपाण्य् अर्बुदिरूपाणि (कौसू-२.७[१६].२४ शितिपदीं संपातवतीं दर्भरज्ज्वा क्षत्रियायउपसङ्गदण्डे बध्नाति (कौसू-२.७[१६].२५ द्वितीयाम् अस्यति (कौसू-२.७[१६].२६ {अस्मिन् वसु [१.९]} इति राष्ट्रावगमनम् (कौसू-२.७[१६].२७ आनुशूकानां व्रीहीणाम् आव्रस्कजैः काम्पीलैः शृतं सारूपवत्सम् आशयति (कौसू-२.७[१६].२८ {अभीवर्तेन [१.२९]} इति रथनेमिमणिम् अयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं वासितं बद्ध्वा सूत्रोतं बर्हिषि कृत्वा संपातवन्तं प्रत्यृचं भृष्टीर् अभीवर्त्तोत्तमाभ्याम् आचृतति (कौसू-२.७[१६].२९ {अचिक्रदत् [३.३]} {आ त्वा गन् [३.४]} इति यस्माद् राष्ट्राद् अवरुद्धस् तस्याशायां शयनविधं पुरोडाशं दर्भेषूदके निनयति (कौसू-२.७[१६].३० ततो लोष्टेन ज्योतिर् आयतनं संस्तीर्य क्षीरौदनम् अश्नाति (कौसू-२.७[१६].३१ यतो लोष्टस् ततः संभाराः (कौसू-२.७[१६].३२ तिसृणां प्रातरशिते पुरोडाशे ह्वयन्ते (कौसू-२.७[१६].३३ {भूतो भूतेषु [४.८]} इति राजानम् अभिषेक्ष्यन् महानदे शान्त्युदकं करोत्य् आदिष्टानाम् (कौसू-२.८[१७].१ स्थालीपाकं श्रपयित्वा दक्षिणतः परिगृह्याया दर्भेषु तिष्ठन्तम् अभिषिञ्चति (कौसू-२.८[१७].२ तल्पार्षभं चर्मारोहयति (कौसू-२.८[१७].३ उदपात्रं समासिञ्चेते (कौसू-२.८[१७].४ विपरिदधाने (कौसू-२.८[१७].५ सहैव नौ सुकृतं सह दुष्कृतम् इति ब्रह्मा ब्रूयात् (कौसू-२.८[१७].६ यो दुष्कृतं करवत् तस्य दुष्कृतं सुकृतं नौ सहेति (कौसू-२.८[१७].७ आशयति (कौसू-२.८[१७].८ अश्वम् आरोह्यापराजितां प्रतिपादयति (कौसू-२.८[१७].९ सहस्रं ग्रामवरो दक्षिणा (कौसू-२.८[१७].१० विपरिधानान्तम् एकराजेन व्याख्यातम् (कौसू-२.८[१७].११ तल्पे दर्भेष्व् अभिशिञ्चति (कौसू-२.८[१७].१२ वर्षीयसि वैयाघ्रं चर्मारोहयति (कौसू-२.८[१७].१३ चत्वारो राजपुत्रास् ताल्पाः पृथक्पादेषु शयनं परामृश्य सभां प्रापयन्ति (कौसू-२.८[१७].१४ दासः पादौ प्रक्षालयति (कौसू-२.८[१७].१५ महाशूद्र उपसिञ्चति (कौसू-२.८[१७].१६ कृतसंपन्नान् अक्षान् आ तृतीयं विचिनोति (कौसू-२.८[१७].१७ वैश्यः सर्वस्वजैनम् उपतिष्ठतेउत्सृजायुष्मन्न् इति (कौसू-२.८[१७].१८ उत्सृजामि ब्राह्मणायउत्सृजामि क्षत्रियायउत्सृजामि वैश्याय धर्मो मे जनपदे चर्यताम् इति (कौसू-२.८[१७].१९ प्रतिपद्यते (कौसू-२.८[१७].२० आशयति (कौसू-२.८[१७].२१ अश्वम् आरोह्यापराजितां प्रतिपादयति (कौसू-२.८[१७].२२ सभाम् उदायाति (कौसू-२.८[१७].२३ मधुमिश्रं ब्राह्मणान् भोजयति (कौसू-२.८[१७].२४ रसान् आशयति (कौसू-२.८[१७].२५ माहिषाण्य् उपयाति (कौसू-२.८[१७].२६ कुर्युर् गाम् इति गार्ग्यपार्थश्रवसौ नेति भागलिः (कौसू-२.८[१७].२७ {इमम् इन्द्र वर्धय क्षत्रियं मे [४.२२]} इति क्षत्रियं प्रातःप्रातर् अभिमन्त्रयते (कौसू-२.८[१७].२८ उक्तं समासेचनं विपरिधानम् (कौसू-२.८[१७].२९ {सविता प्रसवानाम् [५.२४]} इति पौरोहित्ये वत्स्यन् वैश्वलोपीः समिध आधाय (कौसू-२.८[१७].३० {इन्द्र क्षत्रम् [७.८४.२]} इति क्षत्रियम् उपनयीत (कौसू-२.८[१७].३१ तद् आहुर् न क्षत्रियं सावित्रीं वाचयेद् इति (कौसू-२.८[१७].३२ कथं नु तम् उपनयीत यन् न वाचयेद् (कौसू-२.८[१७].३३ वाचयेद् एव वाचयेद् एव (कौसू-२.८[१७].३४
- इति अथर्ववेदे कौशिकसूत्रे द्वितीयो ऽध्यायः समाप्तः