कौशिक सूत्र / नवमोऽध्यायः

विकिपुस्तकानि तः
Jump to navigation Jump to search
पित्र्यम् अग्निं शमयिष्यञ् ज्येष्ठस्य चाविभक्तिन एकाग्निम् आधास्यन् (कौसू-९.१[६९].१
अमावास्यायं पूर्वस्मिन्न् उपशाले गां द्विहायनीं रोहिणीम् एकरूपां बन्धयति (कौसू-९.१[६९].२
निशि शामूलपरिहितो ज्येष्ठोअन्वालभते (कौसू-९.१[६९].३
पत्नीअहतवसना ज्येष्ठम् (कौसू-९.१[६९].४
पत्नीम् अन्वञ्च इतरे (कौसू-९.१[६९].५
अथएनान् अभिव्याहारयति{अध्रिगो शमीध्वम् । सु॑मि शमीध्वम् । शमीध्वम् अध्रिगा ओ उ [cf. TB ३.६.६.४ आदि]} इति त्रिः (कौसू-९.१[६९].६
{अयम् अग्निः सत्पतिर् [७.६२.१]} {नडम् आ रोह [१२.२.१]}इत्य् अनुवाकं महाशान्तिं च शान्त्युदक आवपते (कौसू-९.१[६९].७
{अग्ने अक्रव्याद् [१२.२.४२]} इति भ्रष्टाद् दीपं धारयति (कौसू-९.१[६९].८
भूमेश् चउपदग्धं समुत्खाय (कौसू-९.१[६९].९
आकृतिलोष्टवल्मीकेनास्तीर्य (कौसू-९.१[६९].१०
शकृत्पिण्डेनाभिलिप्य (कौसू-९.१[६९].११
सिकताभिः प्रकीर्याभ्युक्ष्य (कौसू-९.१[६९].१२
लक्षणं कृत्वा (कौसू-९.१[६९].१३
पुनर् अभ्युक्ष्य (कौसू-९.१[६९].१४
पश्चाल् लक्षणस्याभिमन्थनं निधाय (कौसू-९.१[६९].१५
गोऽश्वाजावीनां पुंसां लोमभिर् आस्तीर्य व्रीहियवैश् च शकृत्पिण्डम् अभिविमृज्य प्राञ्चौ दर्भौ निदधाति (कौसू-९.१[६९].१६
{वृषणौ स्थः [TS १.३.७.१ आदि]}इत्य् अभिपाण्यारण्यौ (कौसू-९.१[६९].१७
तयोर् उपरिअधरारणिम् (कौसू-९.१[६९].१८
दक्षिणतो मूलान् (कौसू-९.१[६९].१९
पश्चात् प्रजननाम् {उर्वश्य् असि [TS १.३.७.१ आदि]}इत्य् {आयुर् असि [TS १.३.७.१ आदि]}इति (कौसू-९.१[६९].२०
मूलत उत्तरारणिम् उपसंधाय (कौसू-९.१[६९].२१
{पृतनाजितं [७.६३.१]}इत्य् आहूय (कौसू-९.१[६९].२२
अभिदक्षिणं ज्येष्ठस् त्रिर् अभिमन्थति{ओं भूर् गायत्रं छन्दो ऽनुप्रजायस्व त्रैष्ठुभं जागतम् आनुष्ठुबम् ओं भूर् भुवः स्वर् जनद् ओम् [cf. TS १.३.७.१ आदि]} इति (कौसू-९.१[६९].२३
अत ऊर्ध्वं यथाकामं (कौसू-९.१[६९].२४

{मन्थामि त्वा जातवेदः सुजातं जातवेदसम् । स नो जीवेष्व् आ भज दीर्घम् आयुश् च धेहि नः ॥ [-]} {जातो ऽजनिष्ठा यशसा सहाग्रे प्रजां पशूंस् तेजो रयिम् अस्मासु धेहि । आनन्दिनो मोदमानाः सुवीरा अनामयाः सर्वम् आयुर् गमेम ॥ [-, cf. शाङ्ख्श्ष् २.१७.८} {उद् दीप्यस्व जातवेदो ऽव सेदिं तृणां क्षुधं जहि । अपास्मत् तम उछत्व् अप ह्रीतमुखो जह्य् अप दुर्हार्द्दिशो जहि ॥} {इहैवैधि धनसनिर् इह त्वा सम् इधीमहि । इहैधि पुष्टिवर्धन इह त्वा सम् इधीमहि [-, cf. १८.४.३८अ]}इति (कौसू-९.२[७०].१
प्रथमया मन्थति (कौसू-९.२[७०].२
द्वितीयया जातम् अनुमन्त्रयते (कौसू-९.२[७०].३
तृतीययाउद्दीपयति (कौसू-९.२[७०].४
चतुर्थ्याउपसमादधाति (कौसू-९.२[७०].५
{यत् त्वा क्रुद्धाः [१२.२.५, cf. ंष् १.७.१ आदि]}इति च{ओं भूर् भुवः स्वर् जनद् ओम्} इत्य् {अङ्गिरसां त्वा देवानाम् आदित्यानां व्रतेना दधे [cf. Kष् ७.१३॒७६.१५ff. आदि]} । {द्यौर् मह्नासि भूमिर् भूम्ना तस्यास् ते देव्य् अदितिर् उपस्थे ऽन्नादायान्नपत्याया दधत् [cf. Kष् ७.१३॒७६.१७f. आदि]} इति (कौसू-९.२[७०].६
लक्षणे प्रतिष्ठाप्यउपोत्थाय (कौसू-९.२[७०].७
अथउपतिष्ठते (कौसू-९.२[७०].८
{अग्ने गृहपते सुगृहपतिर् अहं त्वयाग्ने गृहपतिना भूयासम् । सुगृहपतिस् त्वं मयाग्ने गृहपतिना भूयाः । अस्थूरि णौ गार्हपत्यानि दीदिहि शतं समाः [cf. Vष्ं २.२७ आदि]}इति (कौसू-९.२[७०].९
{व्याकरोमि [१२.२.३२]}इति गार्हपत्यक्रव्यादौ समीक्षते (कौसू-९.२[७०].१०
शान्तम् आज्यं गार्हपत्यायउपनिदधाति (कौसू-९.२[७०].११
माषमन्थं क्रव्यादम् (कौसू-९.२[७०].१२
{उप त्वा नमसा [३.१५.७]}इति पुरोऽनुवाक्या (कौसू-९.२[७०].१३
{विश्वहा ते [३.१५.८]}इति पूर्णाहुतिं जुहोति (कौसू-९.२[७०].१४
{यो नो अग्निः [१२.२.३३]}इति सह कर्त्रा हृदयानिअभिमृशन्ते (कौसू-९.२[७०].१५

{अंशो राजा विभजतीमाव् अग्नी विधारयन् । क्रव्यादं निर् णुदामसि हव्यवाड् इह तिष्ठतु [-]}इति विभागं जपति (कौसू-९.३[७१].१
{सुगार्हपत्यो [१२.२.४५च्]}इति दक्षिणेन गार्हपत्ये समिधम् आदधाति (कौसू-९.३[७१].२
{यः क्रव्यात् तम् अशीशमम् [cf. ३.२१.९]} इति सव्येन नडमयीं क्रव्यादि (कौसू-९.३[७१].३
{अपावृत्य [१२.२.३४]}इति मन्त्रोक्तं बाह्यतो निधाय (कौसू-९.३[७१].४
{नडम् आ रोह [१२.२.१]} {सम् इन्धते [१२.१.११]}{इषीकां जरतीम् [१२.१.५४]}{प्रत्यञ्चम् अर्कं [१२.१.५५]}इत्य् उपसमादधाति (कौसू-९.३[७१].५
{यद्य् अग्निः [१२.२.४]}{यो अग्निः [१२.२.७]}{अविः कृष्णा [१२.२.५३]} {मा नो रुरोः शुचद्विदः शिवो नो अस्तु भरतो रराणः । अतिव्याधी व्याधो अग्रभीष्ट क्रव्यादो अग्नीञ् शमयामि सर्वान् [-]} इति शुक्त्या माषपिष्टानि जुहोति (कौसू-९.३[७१].६
सीसं दर्व्याम् अवधायउद्ग्रथ्य मन्थं जुह्वन्शमयेत् (कौसू-९.३[७१].७
{नडम् आ रोह [१२.२.१]}इति चतस्रो{अग्ने अक्रव्याद् [१२.२.४२]} {इमं क्रव्याद् [१२.२.४३]} {यो नो अश्वेषु [१२.२.१५]}{अन्येभ्यस् त्वा [१२.२.१६]} {हिरण्यपाणिं [३.२१.८]}इति शमयति (कौसू-९.३[७१].८
दक्षिणतो जरत्कोष्ठे शीतं भस्माभिविहरति (कौसू-९.३[७१].९
शान्त्युदकेन सुशान्तं कृत्वावदग्धं समुत्खाय (कौसू-९.३[७१].१०
{परं मृत्यो [१२.२.२१]} इत्य् उत्थापयति (कौसू-९.३[७१].११
{क्रव्यादम् [१२.२.८]} इति तिसृभिर् ह्रीयमाणम् अनुमन्त्रयते (कौसू-९.३[७१].१२
दीपादिआभिनिगदनात् प्रतिहरणेन व्याख्यातम् (कौसू-९.३[७१].१३
{अविः कृष्णा [१२.२.५३]}इति निदधाति (कौसू-९.३[७१].१४
उत्तमवर्जं ज्येष्ठस्याञ्जलौ सीसानि (कौसू-९.३[७१].१५
{अस्मिन् वयं १२.२.१३]} {यद् रिप्रं [१२.२.४०]} {सीसे मृड्ढ्वं [१२.२.१९]}इत्य् अभ्यवनेजयति (कौसू-९.३[७१].१६
कृष्णोर्णया पाणिपादान् निमृज्य (कौसू-९.३[७१].१७
{इमे [ed.॒ इमा॑ सेए Caland, Kल्. ष्छ्र्., p. ७८] जीवा [१२.२.२२]} {उदीचीनैः [१२.२.२९]}इति मन्त्रोक्तम् (कौसू-९.३[७१].१८
{त्रिः सप्त [१२.२.२९च्]}इति कूद्या पदानि लोपयित्वा [ed. योपयित्वा -- चोर्रिगेन्द ed. p. ४२४] नदीभ्यः (कौसू-९.३[७१].१९
{मृत्योः पदं [१२.२.३०]}इति द्वितीयया नावः (कौसू-९.३[७१].२०
{परं मृत्यो [१२.२.२१]} इति प्राग्दक्षिणम् कूदीं प्रविध्य (कौसू-९.३[७१].२१
सप्त नदीरूपाणि कारयित्वाउदकेन पूरयित्वा (कौसू-९.३[७१].२२
{आ रोहत सवितुर् नावम् एतां [१२.२.४८च्]} {सुत्रामाणं [७.६.३]} {महीम् ऊ षु [७.६.२]}इति सहिरण्यां सयवां नावम् आरोहयति (कौसू-९.३[७१].२३
{अश्मन्वती रीयते [१२.२.२६]}{उत् तिष्ठता प्र तरता सखायो [१२.२.२७]}इत्य् उदीचस् तारयति (कौसू-९.३[७१].२४

उत्तरतो गर्त उदक्प्रस्रवणेअश्मान निदधात्य् अन्तश्छिन्नम् (कौसू-९.४[७२].१
{तिरो मृत्युं [१२.२.२३द्]}इत्य् अश्मानम् अतिक्रामति (कौसू-९.४[७२].२
{ता अधराद् उदीचीर् [१२.२.४१]} इत्य् अनुमन्त्रयते (कौसू-९.४[७२].३
{निस्सालाम् [२.१४.१]} इति शालानिवेशनं संप्रोक्ष्य (कौसू-९.४[७२].४
{ऊर्जं बिभ्रद् [७.६०.१]} इति प्रपादयति (कौसू-९.४[७२].५
{वैश्वदेवीं [१२.२.२८]}इति वत्सतरीम् आलम्भयति (कौसू-९.४[७२].६
{इमम् इन्द्रं [१२.२.४७]} इत्य् वृषम् (कौसू-९.४[७२].७
{अनड्वाहं [१२.२.४८]} {अहोरात्रे [१२.२.४९]} इति तल्पम् आलम्भयति (कौसू-९.४[७२].८
{आ रोहतायुर् [१२.२.२४]} इत्य् आरोहति (कौसू-९.४[७२].९
{आसीना [१२.२.३०च्]} इत्य् आसीनाम् अनुमन्त्रयते (कौसू-९.४[७२].१०
पिञ्जूलीर् आञ्जनं सर्पिषि पर्यस्य{इमा नारीर् [१२.२.३१]} इति स्त्रीभ्यः प्रयछति (कौसू-९.४[७२].११
{इमे जीवा अविधवाः सुजामय [cf. १२.२.२२,३१अ अन्द् PS १७.३३.२]} इति पुंभ्य एकएकस्मै तिस्रस्तिस्रस् ता अध्यध्य् उदधानं परिचृत्य प्रयछति (कौसू-९.४[७२].१२
{परं मृत्यो [१२.२.२१]} {व्याकरोमि [१२.२.३२]}{आ रोहत [१२.२.२४(४८)]}{अन्तर्धिर् [१२.२.४४]}{प्रत्यञ्चम् अर्कं [१२.२.५५]} {ये अग्नयो [३.२१.१]} {नमो देववधेभ्यो [६.१३.१]}{अग्ने ऽभ्यावर्तिन्न् [PS १.४१.१]} {अग्ने जातवेदः [PS १.४१.२]} {सह रय्या [PS १.४१.३]} {पुनर् ऊर्जा [PS १.४१.४]}इति (कौसू-९.४[७२].१३
{अग्ने ऽभ्यावर्तिन्न् अभि न आ ववृत्स्व । आयुषा वर्चसा सन्या मेधया प्रजया धनेन ॥ अग्ने जातवेदः शतं ते सहस्रं त उपावृतः । अधा पुष्टस्येशानः पुनर् नो रयिम् आ कृधि ॥ सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्न्या विश्वतस् परि ॥ पुनर् ऊर्जा ववृत्स्व पुनर् अग्न इषायुषा । पुनर् नः पाह्य् अंहसः ॥ [PS १.४१.१-४]} (कौसू-९.४[७२].१४
शर्करान् स्वयमातृणान्शणरज्जुभ्यां विबध्य धारयति (कौसू-९.४[७२].१५
समया खेन जुहोति (कौसू-९.४[७२].१६
{इमं जीवेभ्यः [१२.२.२३]} इति द्वारे निदधाति (कौसू-९.४[७२].१७
जुहोतिएतयाऋचा । {आयुर्दावा धनधावा बलदावा पशुदावा पुष्टिदावा प्रजापतये स्वाहा []}इति (कौसू-९.४[७२].१८
षट्संपातं माता पुत्रान् आशयते (कौसू-९.४[७२].१९
उच्छिष्टं जायाम् (कौसू-९.४[७२].२०
संवत्सरम् अग्निं नउद्वायात्न हरेत्नाहरेयुः (कौसू-९.४[७२].२१
द्वासशरात्र इत्य् एके (कौसू-९.४[७२].२२
दश दक्षिणा (कौसू-९.४[७२].२३
पश्चाद् अग्नेर् वाग्यतः संविशति (कौसू-९.४[७२].२४
अपरेद्युर् चइन्द्राग्नी च यजेत (कौसू-९.४[७२].२५
स्थालीपाकाभ्याम् अग्निं चाग्निषोमौ च पौर्णमास्याम् (कौसू-९.४[७२].२६
सायंप्रातर् व्रीहीन् आवपेद् यवान् वा{अग्नये स्वाहा प्रजापतये स्वाहा}इति सायम् [सूत्र-दिविसिओन् with Caland, Kल्. ष्छ्र्., p. ३०] (कौसू-९.४[७२].२७
{सूर्याय स्वाहा प्रजापतये स्वाह}इति प्रातः [सूत्र-दिविसिओन् with Caland, Kल्. ष्छ्र्., p. ३०] (कौसू-९.४[७२].२८
द्वादशरात्रेअग्निं पशुना यजेत (कौसू-९.४[७२].२९
स्थालीपाकेन वाउभयोर् विरिष्यति (कौसू-९.४[७२].३०
संवत्सरतम्यां शान्त्युदकं कृत्वा (कौसू-९.४[७२].३१
{घृताहुतिर् नो भवाग्ने अक्रव्याहुतिर् घृताहुतिं त्वा वयम् अक्रव्याहुतिम् उप नि षदेम जातवेदः [-]}इति चतुर उदपात्रे संपातान् आनीय (कौसू-९.४[७२].३२
तान् +उल्लुप्य [ed.॒ उल्लप्य] (कौसू-९.४[७२].३३
पुरस्ताद् अग्नेः प्रत्यङ् आसीनो जुहोति । {हुते रभस्व हुतभाग एधि मृडास्मभ्यं मोत हिंसीः पशून् नः [-]}इति (कौसू-९.४[७२].३४
यद्य् उद्वायाद् भस्मनारणिं संस्पृश्य तूष्णीं मथित्वाउद्दीप्य (कौसू-९.४[७२].३५
पूर्णहोमं हुत्वा (कौसू-९.४[७२].३६
संनतिभिर् आज्यं जुहुयाद् व्याहृतिभिर् वा (कौसू-९.४[७२].३७
संसृष्टे चैवं जुहुयात् (कौसू-९.४[७२].३८
अग्नौअनुगते जायमाने (कौसू-९.४[७२].३९
आनडुहेन शकृत्पिण्डेनाग्न्यायतानि परिलिप्य (कौसू-९.४[७२].४०
होम्यम् उपसाद्य (कौसू-९.४[७२].४१
{प्राणापानाभ्यां स्वहा समानव्यानाभ्यां स्वाहाउदानरूपाभ्यां स्वाहा}इत्य् आत्मनिएव जुहुयात् (कौसू-९.४[७२].४२
अथ प्रातर् उत्थायाग्निं निर्मथ्य यथास्थानं प्रणीय यथापुरम् अग्निहोत्रं जुहुयात् (कौसू-९.४[७२].४३
सायामाशप्रात्राशौ यज्ञौऋत्विजौ (कौसू-९.४[७२].४४

{पुरोदयाद् अस्तमयाच् च पावकं प्रबोधयेद् गृहिणी शुद्धहस्ता । समतीते संधिवर्णे ऽथ हावयेत् सुसमिद्धे पावक आहुतीषहिः [-]} (कौसू-९.५[७३].१
{अग्नये च प्रजापतये च रात्राव् आदित्यश् च दिवा प्रजापतिश् च । उदकं च समिधश् च होमेहोमे पुरो वरम् [-]} (कौसू-९.५[७३].२
{होम्यैः समिद्भिः पयसा स्थालीपाकेन सर्पिषा । सायंप्रातर् होम एतेषाम् एकेनापि सिध्यति [-]} (कौसू-९.५[७३].३
{अभ्युद्धृतो हुतो ऽग्निः प्रमादाद् उपशाम्यति । मथिते व्याहृतीर् जुहुयात् पूर्णहोमौ यथऋत्विजौ [-]} (कौसू-९.५[७३].४
{वनस्पतिभ्यो वानस्पतेभ्य ओषधिभ्यो वीरुद्भ्यः सर्वेभ्यो देवेभ्यो देवजनेभ्यः पुण्यजनेभ्यः [-, cf. ११.६.२४]}इति प्राचीनं तद् उदकं निनीयते (कौसू-९.५[७३].५
{स्वधा प्रपितामहेभ्यः स्वधा पितामहेभ्यः स्वधा पितृभ्यः [-]}इति दक्षिणतः (कौसू-९.५[७३].६
{तार्क्ष्यायारिष्टनेमये ऽमृतं मह्यम् [-]} इति पश्चात् (कौसू-९.५[७३].७
{सोमाय सप्तर्षिभ्यः [-]}इति उत्तरतः (कौसू-९.५[७३].८
{परिमृष्टे परिलिप्ते च पर्वणि व्रातपतं हावयेद् अन्नम् अग्नौ । भूयो दत्त्वा स्वयम् अल्पं च भुक्त्वापराह्णे व्रतम् उपैति याज्ञिकम् [-]} (कौसू-९.५[७३].९
{अनशनं ब्रह्मचर्यं च भूमौ शुचिर् अग्निम् उपशेते सुगन्धिः [-]} (कौसू-९.५[७३].१०
{अग्नीषोमाभ्यां दर्शन इन्द्राग्निभ्याम् अदर्शने । आग्नेयं तु पूर्वं नित्यम् अन्वाहार्यं प्रजापतेः [-]} (कौसू-९.५[७३].११
{अर्धाहुतिस् तु सौविष्टकृती सर्वेषां हविषां स्मृता । आनुमती वा भवति स्थालीपाकेष्व् अथर्वणाम् [-]} (कौसू-९.५[७३].१२
{उभौ च संधिजौ यौ वैश्वदेवौ यथऋत्विजौ । वर्जयित्वा सबर्हिषः साज्या यज्ञाः सदक्षिणाः [-]} (कौसू-९.५[७३].१३
यथाशक्ति यथाबलं {हुतादो ऽन्ये अहुतादो ऽन्ये । वैश्वदेवं हविर् उभये सं चरन्ति । ते सम्यञ्च इह मादयन्ताम् इषम् ऊर्जं यजमाना यम् इछत [PS ५.१५.२]} [सूत्र दिविसिओन् एमेन्देद्!] (कौसू-९.५[७३].१४
{विश्वे देवा इदं हविर् आदित्यासः सपर्यत । अस्मिन् यज्ञे मा व्यथिष्य् अमृताय हविष्कृतम् [PS १९.३५.१]} (कौसू-९.५[७३].१५
{वैश्वदेवस्य हविषः सायंप्रातर् जुहोति । सायमाशप्रातराशौ यज्ञाव् एतौ स्मृताव् उभौ [-]} (कौसू-९.५[७३].१६
{अप्रतिभुक्तौ शुचिकार्यौ च नित्यं वैश्वदेवौ जानता यज्ञश्रेष्ठौ । नाश्रोत्रियो नानवनिक्तपाणिर् नामन्त्रविज् जुहुयान् नाविपश्चित् [-]} (कौसू-९.५[७३].१७
{बीभत्सवः शुचिकामा हि देवा नाश्रद्दधानस्य हविर् जुषन्ते । ब्राह्मणेन ब्रह्मविदा तु हावयेन् न स्त्रीहुतं शूद्रहुतं च देवगम् [-]} (कौसू-९.५[७३].१८
{यस् तु विद्याद् आज्यभागौ यज्ञान् मन्त्रपरिक्रमान् । देवताज्ञानम् आवृत आशिषश् च कर्म स्त्रिया अप्रतिषिद्धम् आहुः [-]} (कौसू-९.५[७३].१९

तयोर् बलिहरणम् (कौसू-९.६[७४].१
{अग्नय इन्द्राग्निभ्यां वास्तोष्पतये प्रजापतये ऽनुमतये}इति हुत्वा (कौसू-९.६[७४].२
निष्क्रम्य बहिः प्रचीनं {ब्रह्मणे वैश्रवणाय विश्वेभ्यो देवेभ्यः सर्वेभ्यो देवेभ्यो विश्वेभ्यो भूतेभ्यः सर्वेभ्यो भूतेभ्यः}इति बहुशो बलिं हरेत् (कौसू-९.६[७४].३
द्विः प्रोक्षन् प्रदक्षिणम् आवृत्यान्तरुपातीत्य द्वारे (कौसू-९.६[७४].४
द्वार्ययोर् {मृत्यवे धर्माधर्माभ्याम्} (कौसू-९.६[७४].५
उदधाने धन्वन्तरये {समुद्रायौषधिवनस्पतिभ्यो द्यावापृथिवीभ्याम्} इति (कौसू-९.६[७४].६
स्थूणावंशयोर् {दिग्भ्यो ऽन्तर्देशेभ्यः}इति (कौसू-९.६[७४].७
स्रक्तिषु {वासुकये चित्तसेनाय चित्तरथाय तक्षोपतक्षाभ्याम्} इति (कौसू-९.६[७४].८
समन्तम् अग्नेर् {आशायै श्रद्धायै मेधायै श्रियै ह्रियै विद्यायै}इति (कौसू-९.६[७४].९
प्राचीनं अग्नेः {गृह्याभ्यो देवजामिभ्यः}इति (कौसू-९.६[७४].१०
भूयोअभ्युद्धृत्य ब्राह्मणान् भोजयेत् (कौसू-९.६[७४].११
तद् अपि श्लोको वदति । {माब्राह्मण अग्रतः [एम्. Bलोओम्fइएल्द् ङ्ङा १९०२ ५१४ -- ed. माब्राह्मणाग्रतः] कृतम् अश्नीयाद् विषवद् अन्नम् अन्नकाम्या । देवानां देवो ब्राह्मणो भावो नामैष देवता}इति (कौसू-९.६[७४].१२
आग्रयणे शान्त्युदकं कृत्वा यथर्तु तण्डुलान् उपसाद्य (कौसू-९.६[७४].१३
अप्सु स्थालीपाकं श्रपयित्वा पयसि वा (कौसू-९.६[७४].१४
{सजूर् ऋतुभिः सजूर् विधाभिः सजूर् अग्नये स्वाहा । सजूर् इन्द्राग्निभ्यां सजूर् द्यावापृथिवीभ्यां सजूर् विश्वेभ्यो देवेभ्यः सजूर् ऋतुभिः सजूर् विधाभिः सजूः सोमाय स्वाहा}इत्य् एकहविर् वा स्यात्नानाहवींषि वा (कौसू-९.६[७४].१५
सौम्यं तन्वत्श्यामाकं शरदि (कौसू-९.६[७४].१६
अथ यजमानः प्राशित्रं गृह्णीते (कौसू-९.६[७४].१७
{प्रजापतेष् ट्वा ग्रहं गृह्णामि । मह्यं भूत्यै मह्यं पुष्ट्यै मह्यं श्रियै मह्यं ह्रियै मह्यं यशसे मह्यम् आयुषे मह्यम् अन्नाय मह्यम् अन्नाद्याय मह्यं सहस्रपोषाय मह्यम् अपरिमितपोषाय [cf. शाङ्ख्ङ्ष् ३.८.२]}इति (कौसू-९.६[७४].१८
अथ प्राश्नाति । {भद्रान् नः श्रेयः सम् अनैष्ट देवास् त्वयावसेन सम् अशीमहि त्वा । स नः पितो मधुमाम्̐ आ विवेश शिवस् तोकाय तन्वो न एहि [cf. TS ५.७.२.४, शाङ्ख्ङ्ष् ३.८.३ आदि]}इति (कौसू-९.६[७४].१९
प्राशितम् अनुमन्त्रयते । {अमो ऽसि प्राण तद् ऋतं ब्रवीम्य् अमासि सर्वाङ् असि प्रविष्ट । स मे जरां रोगम् अपनुद्य शरीरादनामयैधि मा रिषाम इन्दो [cf. शाङ्ख्ङ्ष् ३.८.४ आदि]} इति (कौसू-९.६[७४].२०
वत्सः प्रथमजो ग्रीष्मे वासः शरदि दक्षिणा (कौसू-९.६[७४].२१
शक्त्या वा दक्षिणां दद्यात् (कौसू-९.६[७४].२२
नातिशक्तिर् विधीयते नातिशक्तिर् विधीयत इति (कौसू-९.६[७४].२३
इति अथर्ववेदे कौशिकसूत्रे नवमो ऽध्यायः समाप्तः