कौशिक सूत्र / प्रथमोऽध्याय:

विकिपुस्तकानि तः
Jump to navigation Jump to search
अथ विधिं वक्ष्यामः (कौसू-१.१.१
स पुनर् आम्नायप्रत्ययः (कौसू-१.१.२
आम्नायः पुनर् मन्त्राश् च ब्राह्मणानि च (कौसू-१.१.३
तद् यथा ब्राह्मणं विधिर् एवं कर्मलिङ्गा मन्त्राः (कौसू-१.१.४
तथान्यार्थः (कौसू-१.१.५
तथा ब्राह्मणलिङ्गा मन्त्राः (कौसू-१.१.६
तदभावे संप्रदायः (कौसू-१.१.७
प्रमुक्तत्वाद् ब्राह्मणानाम् (कौसू-१.१.८
यज्ञं व्याख्यास्यामः (कौसू-१.१.९
देवानां पितॄणां च (कौसू-१.१.१०
प्राङ्मुख उपांशु करोति (कौसू-१.१.११
यज्ञोपवीती देवानाम् (कौसू-१.१.१२
प्राचीनवीती पितॄणाम् (कौसू-१.१.१३
प्राग् उदग् वा देवानाम् (कौसू-१.१.१४
दक्षिणा पितॄणाम् (कौसू-१.१.१५
प्रागुदग् अपवर्गं देवानाम् (कौसू-१.१.१६
दक्षिणाप्रत्यग् अपवर्गं पितॄणाम् (कौसू-१.१.१७
सकृत् कर्म पितॄणाम् (कौसू-१.१.१८
त्र्यवरार्धं देवानाम् (कौसू-१.१.१९
यथादिष्टं वा (कौसू-१.१.२०
अभिदक्षिणम् आचारो देवानाम् (कौसू-१.१.२१
प्रसव्यं पितॄणाम् (कौसू-१.१.२२
स्वाहाकारवष्ट्कारप्रदाना देवाः (कौसू-१.१.२३
स्वधाकारनमस्कारप्रदाना पितरः (कौसू-१.१.२४
उपमूललूनं बर्हिः पितॄणाम् (कौसू-१.१.२५
पर्वसु देवानाम् (कौसू-१.१.२६
{प्र यछ पर्शुम् [१२.३.३१अ]} इति दर्भाहाराय दात्रं प्रयछति (कौसू-१.१.२७
{ओषधीर् दान्तु पर्वन् [१२.३.३१ब्-पर्त्]} इतिउपरि पर्वणां लूत्वा तूष्णीम् आहृत्यउत्तरतोअग्नेर् उपसादयति (कौसू-१.१.२८
नाग्निं विपर्यावर्तेत (कौसू-१.१.२९
नान्तरा यज्ञाङ्गानि व्यवेयात् (कौसू-१.१.३०
दक्षिणं जानु प्रभुज्य जुहोति (कौसू-१.१.३१
या पूर्वा पौर्णमासी सानुमतिर् याउत्तरा सा राका[cf. आइत्B ७.११.२] (कौसू-१.१.३२
या पूर्वामावास्या सा सिनीवाली याउत्तरा सा कुहूः[cf. आइत्B ७.११.२] (कौसू-१.१.३३
अद्यउपवसथ इतिउपवत्स्यद्भक्तम् अश्नाति (कौसू-१.१.३४
मधुलवणमांसमाषवर्जम् (कौसू-१.१.३५
{ममाग्ने वर्चः [५.३.१]} इति समिध आधाय व्रतम् उपैति (कौसू-१.१.३६
{व्रतेन त्वां व्रतपते [७.७४.४]} इति वा (कौसू-१.१.३७
ब्रह्मचारी व्रती (कौसू-१.१.३८
अधः शयीत (कौसू-१.१.३९
प्रातर्हुतेअग्नौ {कर्मणे वां वेषाय वां सुकृताय वाम् [cf. TS १.१.४.१ आदि, (कौसू-५८.५]} इति पाणी प्रक्षाल्यापरेणाग्नेर् दर्भान् आस्तीर्य तेषूत्तरम् आनडुहं रोहितं चर्म प्राग्ग्रीवम् उत्तरलोम प्रस्तीर्य पवित्रे कुरुते (कौसू-१.१.४०
दर्भौअप्रछिन्नान्तौ प्रक्षाल्यानुलोमम् अनुमार्ष्टि {विष्णोर् मनसा पूते स्थः [PS २०.४५.६, ंष् ४.१.५॒७.१५ आदि]} इति (कौसू-१.१.४१

{त्वं भूमिम् अत्य् एष्य् ओजसा त्वं वेद्यां सीदसि चारुर् अध्वरे । त्वां पवित्रम् ऋषयो भरन्तस् त्वं पुनीहि दुरितान्य् अस्मत् ॥ [PS ११.१३.३ = श्ष् १९.३३.३ (बुत् सकलपाठ!)]} इति पवित्रे अन्तर्धाय हविर् निर्वपति {देवस्य त्वा सवितुः प्रसवेअश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां जुष्टं निर्वपामि [सकल - cf. १९.५१.२, PS ५.४०.१, TS १.१.४.२ आदि]} इति (कौसू-१.२.१
एवम् {अग्निषोमाभ्याम् [इबिद्.]} इति (कौसू-१.२.२
{इन्द्राग्निभ्याम् [-]} इतिअमावास्यायाम् (कौसू-१.२.३
नित्यं पूर्वम् आग्नेयम् (कौसू-१.२.४
निरुप्तं पवित्राभ्यां प्रोक्षति {अमुष्मै त्वा जुष्टम् [-]} यथादेवतम् (कौसू-१.२.५
उलूखलमुसलं शूर्पं प्रक्षालितं चर्मणिआधाय व्रीहीन् उलूखल ओप्यावघ्नंस् त्रिर् हविष्कृता वाचं विसृजति {हविष्कृद् आ द्रवेहि [cf. आअप्श्ष् १.१९.९ आदि]} इति (कौसू-१.२.६
+अवहत्य [ed. अपहत्य] सुफलीकृतान् कृत्वा त्रिः प्रक्षाल्य तण्डुलान् {अग्ने वरुर् यज्ञियस् त्वाधि अरुक्षत् [११.१.१६]} इति चरुम् अधिदधाति (कौसू-१.२.७
{शुद्धाः पूताः [११.१.१७]} इतिउदकम् आसिञ्चति (कौसू-१.२.८
{ब्रह्मणा शुद्धाः [११.१.१८]} इति तण्डुलान् (कौसू-१.२.९
{परि त्वाग्ने पुरं वयम् [७.७१.१]} इति त्रिः पर्यग्नि करोति (कौसू-१.२.१०
नेक्षणेन त्रिः प्रदक्षिणम् उदायौति (कौसू-१.२.११
अत ऊर्ध्वं यथाकामम् (कौसू-१.२.१२
उत्तरतोअग्नेर् उपसादयतीध्मम् (कौसू-१.२.१३
उत्तरं बर्हिः (कौसू-१.२.१४
{अग्नये त्वा जुष्टं प्रोक्षामि [इ.अ. Kष् १.१०॒५.२२]} इतीध्मम् (कौसू-१.२.१५
{पृथिव्यै [-]} इति बर्हिः (कौसू-१.२.१६
दर्भमुष्टिम् अभ्युक्ष्य पश्चाद् अग्नेः प्रागग्रं निदधाति {ऊर्णम्रदं प्रथस्व स्वासस्थं देवेभ्यः [चोर्रुप्त्॒ cf. इ.अ. Kष् १.११॒६.२-३]} इति (कौसू-१.२.१७
दर्भाणाम् अपादाय {ऋषीणां प्रस्तरोअसि [१६.२.६]} इति दक्षिणतोअग्नेर् ब्रह्मासनं निदधाति (कौसू-१.२.१८
पुरस्ताद् अग्नेर् आस्तीर्य तेषां मूलानिअपरेषां प्रान्तैर् अवछादयन् परिसर्पति दक्षिणेनाग्निम् आ पश्चार्धात् (कौसू-१.२.१९
{परि स्तृणीहि [७.९९.१]} इति संप्रेष्यति (कौसू-१.२.२०
{देवस्य त्वा सवितुः प्रसवेअश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा परिस्तृणामि [-]} इति (कौसू-१.२.२१
एवम् उत्तरतोअयुजो धातून् कुर्वन् (कौसू-१.२.२२
यत्र समागछन्ति तद् दक्षिणोत्तरं कृणोति (कौसू-१.२.२३
स्तीर्णं प्रोक्षति {हविषां त्वा जुष्टं प्रोक्षामि [-]} इति (कौसू-१.२.२४
नानभ्युक्षितं संस्तीर्णम् उपयोगं लभेत (कौसू-१.२.२५
नैधोअभ्यादानम् (कौसू-१.२.२६
नानुत्पूतं हविः (कौसू-१.२.२७
नाप्रोक्षितं यज्ञाङ्गम् (कौसू-१.२.२८
तस्मिन् प्रक्षालितोपवातानि निदधाति (कौसू-१.२.२९
स्रुवम् आज्यधानीं च (कौसू-१.२.३०
विलीनपूतम् आज्यं गृहीत्वाधिश्रित्य पर्यग्नि कृत्वाउदग् उद्वास्य पश्चाद् अग्नेर् उपसाद्यउदगग्राभ्यां पवित्राभ्याम् उत्पुनाति (कौसू-१.२.३१
{विष्णोर् मनसा पूतम् असि [PS २०.४५.७अ]} (कौसू-१.२.३२
{देवस् त्वा सविताउत् पुनातु [PS २०.४५.७ब्]} (कौसू-१.२.३३
{अछिद्रेण त्वा पवित्रेण शतधारेण सहस्रधारेण सुप्वोत् पुनामि [PS २०.४५.७cd]} इति तृतीयम् (कौसू-१.२.३४
तूष्णीं चतुर्थम् (कौसू-१.२.३५
शृतं हविर् अभिघारयति {मध्वा समञ्जन् घृतवत् कराथ [cf. PS ५.१६.३द्]} इति (कौसू-१.२.३६
अभिघार्यउदञ्चम् उद्वासयति {उद् वासयाग्नेः शृतम् अकर्म हव्यम् आ सीद पृष्ठम् अमृतस्य धाम [cf. PS ५.१६.३अब्]} इति (कौसू-१.२.३७
पश्चाद् आज्यस्य निधायालंकृत्य समानेनउत्पुनाति (कौसू-१.२.३८
{अदारसृत् [१.२०.१]} इतिअवेक्षते (कौसू-१.२.३९
{उत् तिष्ठत [७.७२.१-३]} इतिऐन्द्रम् (कौसू-१.२.४०
{अग्निर् भूयाम् [१२.१.१९-२१]} इति तिसृभिर् उपसमादधाति {अस्मै क्षत्राणि [७.७८.२]} {एतम् इध्मम् [१०.६.३५]} इति वा (कौसू-१.२.४१

{युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढेव [ed. वोढवे॒ मिस्प्रिन्त्. Cf. Zएह्न्देर् १९९९॒ १९१. ंस्स्.॒ वोढेव] जातवेदः । इन्धानास् त्वा सुप्रजसः सुवीरा ज्योग् जीवेम बलिहृतो वयं ते [ंष् १.४.१॒४७.६ आदि]} इति (कौसू-१.३.१
दक्षिणतो जाङ्मायनम् उदपात्रम् उपसाद्याभिमन्त्रयते {तथोदपात्रं धारय यथाग्रे ब्रह्मणस्पतिः । सत्यधर्मा अदीधरद् देवस्य सवितुः सवे [-]} इति (कौसू-१.३.२
अथउदकम् आसिञ्चति {इहेत देवीर् अमृतं वसाना हिरण्यवर्णा अनवद्यरूपाः । आपः समुद्रो वरुणश् च राजा संपातभागान् हविषो जुषन्ताम् [-, cf. PS २.४०.१अ] ॥ इन्द्रप्रशिष्टा वरुणप्रसूता अपः समुद्राद् दिवम् उद् वहन्तु । इन्द्रप्रशिष्टा वरुणप्रसूता दिवस् पृथिव्या श्रियम् उद् वहन्तु [-, cf. ४.२७.४अ, RV १०.६६.२अ]} इति (कौसू-१.३.३
{ऋतं त्वा सत्येन परिषिञ्चामि जातवेदः [cf. Vऐत्ष् ७.४, TB २.१.११.१ आदि]} इति सह हविर्भिः पर्युक्ष्य जीवाभिर् {[१९.६९.१-४]} आचम्यउत्थाय वेदप्रपद्भिः प्रपद्यते{ओम्̐ प्रपद्ये भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये जनत् प्रपद्ये [टा ४.४२.२-४]} इति (कौसू-१.३.४
प्रपद्य पश्चात् स्तीर्णस्य दर्भान् आस्तीर्य {अहे दैधिषव्योद् अतस् तिष्ठान्य् अस्य सदने सीद यो ऽस्मत् पाकतरः [TS ३.२.४.४, Vऐत्ष् १.२०]}इति ब्रह्मासनम् अन्वीक्षते (कौसू-१.३.५
{निरस्तः पराग्वसुः सह पाप्मना निरस्तः सो ऽस्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः [ङोभ्ङ्ष् १.६.१४, ŚBM १.५.१.२३ आदि]}इति दक्षिणा तृणं निरस्यति (cf. १३९.३८ff.) (कौसू-१.३.६
तद् अन्वालभ्य जपति {इदम् अहम् अर्वाग्वसोः सदने सीदामि[GopB २.१.१, ŚBM १.५.१.२४]ऋतस्य सदने सीदामि सत्यस्य सदने सीदामि[PB १.२.२ आदि]इष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि [-] मामृषद् देव [em. Bloomfield GGA 1902 514 -- ed. eva] बर्हिः स्वासस्थं त्वाध्यासदेयम् ऊर्णम्रदम् अनभिशोकम् [cf. AAśvŚS१.४.७]} (कौसू-१.३.७
{विमृग्वरीं [१२.१.२९]}इत्य् उपविश्यासनीयं ब्रह्मजपं जपति {बृहस्पतिर् ब्रह्मा ब्रह्मसदन आसिष्यते (thus Bl.) [AAśvŚS१.१२.९]} {बृहस्पते यज्ञं गोपाय [AAśvŚS१.१२.९, TB ३.७.६.३]} {यद् उद् उद्वत उन् निवतः शकेयम् [TS ३.२.४.४]} इति (कौसू-१.३.८
दर्भैः स्रुवं निर्मृज्य {निष्टप्तं रक्षो निष्टप्ता अरातयः प्रत्युष्टं रक्षः प्रत्युष्टा अरातयः [TS १.१.२.१, TB ३.७.६.३]} इति प्रतप्य मूले स्रुवं गृहीत्वा जपति {विष्णोर् हस्तोअसि दक्षिणः पूष्णा दत्तो बृहस्पतेः । तं त्वाहं स्रुवम् आ ददे देवानां हव्यवाहनम् [षन्ख्ङ्ष् १.९.३] ॥ अयं स्रुवो वि दधाति होमान्शताक्षरछन्दसा जागतेन । सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्याइष्टिः शर्मणा दैव्येन [आप्ष्ष् ४.७.२]} इति (कौसू-१.३.९
{ओं भूः शं भूत्यै त्वा गृह्णे भूतये [-]} इति प्रथमं ग्रहं गृह्णाति (कौसू-१.३.१०
{ओं भुवः शं पुष्ट्यै त्वा गृह्णे पुष्टये [-]} इति द्वितीयम् (कौसू-१.३.११
{ओं स्वः शं त्वा गृह्णे सहस्रपोषाय [-]} इति तृतीयम् (कौसू-१.३.१२
{ओं जगत्शं त्वा गृह्णेअपरिमितपोषाय [-]} इति चतुर्थम् (कौसू-१.३.१३
राजकर्माभिचारिकेषु {अमुष्य त्वा प्राणाय गृह्णेअपानाय व्यानाय समानायउदानाय [-]} इति पञ्चमम् (कौसू-१.३.१४
{अग्नाव् अग्निः हृदा पूतम् [४.३९.९-१०]} {पुरस्ताद् युक्तः [५.२९.१]} {यज्ञस्य चक्षुः [२.३५.५ = १९.५८.५]} इति जुहोति (कौसू-१.३.१५
पश्चाद् अग्नेर् मध्यदेशे समानत्र पुरस्ताद्धोमान् (कौसू-१.३.१६
दक्षिणेनाग्निम् उदपात्र आज्याहुतीनां संपातान् आनयति (कौसू-१.३.१७
पुरस्ताद्धोम आज्यभागः संस्थितहोमः समृद्धिः शान्तानाम् (कौसू-१.३.१८
इतिएतौआज्यभागौ (कौसू-१.३.१९

{वृष्णे बृहते स्वर्विदे अग्नये शुल्कं हरामि त्विषीमते । स न स्थिरान् बलवतः कृणोतु ज्योक् च नो जीवातवे दधाति ॥ [PS १९.५२.७]} {अग्नये स्वाहा} इतिउत्तरपूर्वार्धेआग्नेयम् आज्यभागं जुहोति (कौसू-१.४.१
दक्षिणपूर्वार्धे सोमाय {त्वं सोम दिव्यो नृचक्षाः सुगाम्̐ अस्मभ्यं पथो अनु ख्यः । अभि नो गोत्रं विदुष इव नेषो ऽछा नो वाचम् उशतीं जिगासि ॥ [PS १.५१.३]} {सोमाय स्वाहा} इति (कौसू-१.४.२
मध्ये हविः (कौसू-१.४.३
उपस्तीर्याज्यं संहताभ्याम् अङ्गुलिभ्यां द्विर् हविषोअवद्यति मध्यात् पूर्वार्धात्च (कौसू-१.४.४
अवत्तम् अभिघार्य द्विर् हविः प्रत्यभिघारयति (कौसू-१.४.५
यतो यतोअवद्यति तद् अनुपूर्वम् (कौसू-१.४.६
एवं सर्वाणिअवदानानि (कौसू-१.४.७
अन्यत्र सौविष्टकृतात् (कौसू-१.४.८
{उद् एनम् उत्तरं नय [६.५.१]} इति पुरस्ताद्धोमसंहतां पूर्वाम् (कौसू-१.४.९
एवं पूर्वांपूर्वां संहतां जुहोति (कौसू-१.४.१०
स्वाहान्ताभिः प्रत्यृचं होमाः (कौसू-१.४.११
याम् उत्तराम् अग्नेर् आज्यभागस्य जुहोति रक्षोदेवत्या सा यां दक्षिणतः सोमस्य पितृदेवत्या सा (कौसू-१.४.१२
तस्माद् अन्तरा होतव्या देवलोकेएव हूयन्ते (कौसू-१.४.१३
यां हुत्वा पूर्वाम् अपरां जुहोति सापक्रमन्ती स पापीयान् यजमानो भवति (कौसू-१.४.१४
यां परांपरां संहतां जुहोति साभिक्रमन्ती स वसीयान् यजमानो भवति (कौसू-१.४.१५
याम् अनग्नौ जुहोति सान्धा तया चक्षुर् यजमानस्य मीयते सोअन्धंभावुको यजमानो भवति (कौसू-१.४.१६
यां धूमे जुहोति सा तमसि हूयते सोअरोचको यजमानो भवति (कौसू-१.४.१७
यां ज्योतिष्मति जुहोति तया ब्रह्मवर्चसी भवति तस्मात्ज्योतिष्मति होतव्यम् (कौसू-१.४.१८
एवम् {अस्मै क्षत्रम् अग्नीषोमौ [६.५४.२]} इतिअग्निषोमीयस्य (कौसू-१.४.१९

{अग्नीषोमा सवेदसा सहूती वनतं गिरः । स देवत्रा बभूवथुः ॥ युवम् एतानि दिवि रोचनान्य् अग्निश् च सोम सक्रतू अधत्तम् । युवं सिन्धूम्̐र् अभिशस्तेर् अवद्याद् अग्नीषोमाव् अमुञ्चतं गृभीतान् ॥ अग्नीशोमा य आहुतिं यो वां दाशाद् धविश्कृतिम् । स प्रजया सुवीर्यं विश्वम् आयुर् व्यश्नवत् ॥ [RV १.९३.९,५,३ आदि]} (कौसू-१.५.१
{इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद् वां चेति प्र वीर्यम् ॥ [RV ३.१२.९]} {श्नथद् वृत्रम् उत सनोति वाजम् इन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥ [RV ६.६०.१]} {इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती । स प्रजया सुवीर्यं विश्वम् आयुर् व्यश्नवत् ॥ [१०.१.२१cd + RV १.९३.३cd]} {गोमद् धिरण्यवद् वसु यद् वाम् अश्वावद् ईमहे । इन्द्राग्नी वनेमहि ॥ [RV ७.९४.९]} {स्वाहा} इति (कौसू-१.५.२
ऐन्द्राग्नस्य हविषोअमावास्यायाम् (कौसू-१.५.३
प्राक् स्विष्टकृतः पार्वणहोमौ समृद्धिहोमाः काम्यहोमाश् च (कौसू-१.५.४
{पूर्णा पश्चात् [७.८०(=८५).१]} इति पौर्णमास्याम् (कौसू-१.५.५
{यत् ते देवा अकृण्वन् भागधेयम् [७.७९.१]} इत्य् अमावास्यायाम् (कौसू-१.५.६
{आकूत्यै त्वा स्वाहा । कामाय त्वा स्वाहा । समृधे त्वा स्वाहा । आकूत्यै त्वा कामाय त्वा समृधे त्वा स्वाहा । [cf. TS ३.४.२.१ आदि]} {ऋचा स्तोमं समर्धय गायत्रेण रथन्तरं । बृहद् गायत्रवर्तनि ॥ [TS ३.१.१०.१ आदि]} {स्वाहा} (कौसू-१.५.७
{पृथिव्याम् अग्नये समनमन् [४.३९.१-८]} इति संनतिभिश् च {प्रजापते न त्वद् एतान्य् अन्यः [७.८०(=८५).३]} इति च (कौसू-१.५.८
उपस्तीर्याज्यं सर्वेषाम् उत्तरतः सकृत्सकृद् अवदाय द्विर् अवत्तम् अभिघारयति (कौसू-१.५.९
न हवींषि (कौसू-१.५.१०
{आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनुप्रवोढुम् । अग्निर् विद्वान् स यजात् स इद् धोता सो ऽध्वरान् स ऋतून् कल्पयाति ॥ [सकल PS १९.४७.६ = श्ष् १९.५९.३, RV १०.२.३ आदि]} {अग्नये स्विष्टकृते स्वाहा} इत्य् उत्तरपूर्वार्धेअवयुतं हुत्वा सर्वप्रायश्चित्तीयान् होमान्जुहोति (कौसू-१.५.११
{स्वाहेष्टेभ्यः स्वाहा । वषड् अनिष्टेभ्यः स्वाहा । भेषजं स्विष्ट्यै स्वाहा । निष्कृतिर् दुरिष्ट्यै स्वाहा । दैवीभ्यस् तनूभ्यः स्वाहा । [-, cf. Bऔध्श्ष् १.२१॒३२.१०, ःिर्श्ष् २.६.१]} {अयाश् चाग्ने ऽस्य् अनभिशस्तिश् च सत्यम् इत् त्वम् अया असि । अयासा मनसा कृतो ऽयास् +सन् [ed. ऽयास्य] हव्यम् ऊहिषे । आ [+अया?] नो धेहि भेषजम् ॥ [ंष् १.४.३॒५१.१०, Kष् ५.४॒५७.१-४, (कौसू-९७.४, ःिर्श्ष् २.६.२ आदि]} {स्वाहा} इति । {ओं स्वाहा भूः स्वाहा भुवः स्वाहा स्वः स्वाहों भूर् भुवः स्वः स्वाहा} इति (कौसू-१.५.१२

{यन् मे स्कन्नं मनसो जातवेदो यद् वास्कन्दद् धविषो यत्रयत्र । उत्प्रुषो विप्रुषः सं जुहोमि सत्याः सन्तु यजमानस्य कामाः ॥ [अब्॒ -, cd॒ Vष्K २.५.३]} {स्वाहा} इति (कौसू-१.६.१
{यन् मे स्कन्नं [अब्॒ -, cd॒ Vष्K २.३८(=२.५.२)]} {यद् अस्मृति [७.१०६(=१११).१]} इति च स्कन्नास्मृतिहोमौ (कौसू-१.६.२
{यद् अद्य त्वा प्रयति [७.९७(=१०२).१-८]} इति सष्थितहोमाः (कौसू-१.६.३
{मनसस् पते [७.९७(=१०२).८]} इति उत्तमं चतुर्गृहीतेन (कौसू-१.६.४
बर्हिर् आज्यशेषेअनक्ति [शेषेणानक्ति?] (कौसू-१.६.५
{पृथिव्यै त्वा [-]} इति मूलम् {अन्तरिक्षाय त्वा [-]} इति मध्यं {दिवे त्वा [-]} इति अग्रम् एवं त्रिः (कौसू-१.६.६
{सं बर्हिर् अक्तम् [७.९८(=१०३).१]} इत्य् अनुप्रहरति यथादेवतम् (कौसू-१.६.७
स्रुवम् अग्नौ धारयति (कौसू-१.६.८
यद् आज्यधान्यां तत् संस्रावयति {संस्रावभागास् तविषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश् च देवाः । इमं यज्ञम् अभि विश्वे गृणन्तः स्वाहा देवा अमृता मादयन्ताम् ॥ [cf. PSK २०.३५.२?, TS १.१.१३.२-३]} इति (कौसू-१.६.९
{स्रुवो ऽसि घृताद् अनिशितः सपत्नक्षयणो दिवि षीद । अन्तरिक्षे सीद पृथिव्यां सीदोत्तरो ऽहं भूयासम् अधरे मत्सपत्नाः [Kष् ३१.१४॒१५.२०, cf. Bहार्श्ष् ४.११.१, आअप्श्ष् २.४.२ आदि]} इति स्रुवं प्राग्दण्डं निदधाति (कौसू-१.६.१०
{वि मुञ्चामि ब्रह्मणा जातवेदसम् अग्निं होतारम् अजरं रथस्पृतम् । सर्वा देवानां जनिमानि विद्वान् यथाभागं वहतु हव्यम् अग्निः ॥ [PS १२.१९.९]} {अग्नये स्वाहा} इति समिधम् आदधाति (कौसू-१.६.११
{एधो ऽसि [७.८९(=९४).४अ]} इति द्वितीयां {समिद् असि [७.८९(=९४).४ब्]} इति तृतीयम् (कौसू-१.६.१२
{तेजो ऽसि [७.८९(=९४).४च्]} इति मुखं विमार्ष्टि (कौसू-१.६.१३
दक्षिणेनाग्निं त्रीन् विष्णुक्रमान् क्रमते {विष्णोः क्रमो ऽसि [१०.५.२५-२७]} इति दक्षिणेन पादेनानुसंहरति सव्यम् (कौसू-१.६.१४
{सूर्यस्यावृतम् [१०.५.३७]} इत्य् अभिदक्षिणम् आवर्तते (कौसू-१.६.१५
{अगन्म स्वः [१६.९.३-४]} इत्य् आदित्यम् ईक्षते (कौसू-१.६.१६
{इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च । ब्रह्मणा स्थापितं पात्रं पुनर् उत्थापयामसि ॥ [-, cf. ६.८५.२अब्, PS १९.६.२अब्, आVড়रिश् ३७.१९.२]} इत्य् अपरेणाग्निम् उदपात्रं परिहृत्योत्तरेणाग्निम् {आपो हि ष्ठा मयोभुवः [१.५.१-५?]} इति मार्जयित्वा बर्हिषि पत्न्याञ्जलौ निनयति {समुद्रं वः प्र हिणोमि [१०.५.२३-२४]} इति {इदं जनासः [१.३२.१-४]?} इति वा (कौसू-१.६.१७
{वीरपत्न्य् अहं भूयासम् [-]} इति मुखं विमार्ष्टि (कौसू-१.६.१८
{व्रतानि व्रतपतये [cf. (कौसू-५.६.१६(=४२.१७)॒ PS १९.५१.४]} इति समिधम् आदधाति (कौसू-१.६.१९
{सत्यं त्वर्तेन [cf. TB २.१.११]} इति परिषिच्यउदञ्चि हविरुच्छिष्टान्य् उद्वासयति (कौसू-१.६.२०
पूर्णपात्रं दक्षिणा (कौसू-१.६.२१
{नादक्षिणं हविः कुर्वीत यः कुरुते कृत्याम् आत्मनः कुरुते [cf. Kष् ३७.१२॒९३.३f.]} इति ब्राह्मणम् (कौसू-१.६.२२
{अन्वाहार्यं ब्राह्मणान् भोजयति (कौसू-१.६.२३
यद् वै यज्ञस्यानन्वितं भवति तद् अन्वाहार्येणान्वाह्रियते (कौसू-१.६.२४
एतद् अन्वाहार्यस्यान्वाहार्यत्वम् [-]} (कौसू-१.६.२५
{ईड्या वा अन्ये देवाः सपर्येण्या अन्ये । देवा ईड्या देवा ब्राह्मणाः सपर्येण्याः (कौसू-१.६.२६
यज्ञेनएवईड्यान् प्रीणाति अन्वाहार्येण सपर्येण्यान् (कौसू-१.६.२७
तेअस्यउभे प्रीता यज्ञे भवन्तीति [cf. Kष् ८.१३॒९७.११ff.]} (कौसू-१.६.२८
इमौ दर्शपूर्णमासौ व्याख्यातौ (कौसू-१.६.२९
दर्शपूर्णमासाभ्यां पाकयज्ञाः (कौसू-१.६.३०
कुम्भीपाकाद् एव व्युद्धारं जुहुयात् (कौसू-१.६.३२
अधिश्रयणपर्यग्निकरणअभिघारणउद्वासनअलंकरणउत्पवनैः संस्कृत्य (कौसू-१.६.३३
अथापि श्लोकौ भवतः {आज्यभागान्तं प्राक्तन्त्रम् ऊर्ध्वं स्विष्टकृता सह । हवींषि यज्ञ आवापो यथा तन्त्रस्य तन्तवः [-, अत्त्रिबुतेद् तो ङ्B ब्य् षायण ई, p. ३४९] ॥} {पाकयज्ञान् समासाद्यएकाज्यान् एकबर्हिषः । एकस्विष्टकृतः कुर्यात्नानापि सति दैवतेइति ॥ [आअश्व्ङ्ष् १.३.१०]} (कौसू-१.६.३४
एतेनएवामावास्यो व्याख्यातः (कौसू-१.६.३५
ऐन्द्राग्नोअत्र द्वितीयो भवति (कौसू-१.६.३६
तयोर् व्यतिक्रमे {त्वम् अग्ने व्रतपा असि [१९.५९]} {कामस् तद् अग्रे [१९.५२]} इति शान्ताः (कौसू-१.६.३७

अश्नात्य् अनादेशे स्थालीपाकः (कौसू-१.७.१
पुष्टिकर्मसु सारूपवत्से (कौसू-१.७.२
आज्यं जुहोति (कौसू-१.७.३
समिधम् आदधाति (कौसू-१.७.४
आवपति व्रीहियवतिलान् (कौसू-१.७.५
भक्षयति क्षीरौदनपुरोडाशरसान् (कौसू-१.७.६
मन्थओदनौ प्रयछति (कौसू-१.७.७
पूर्वं त्रिषप्तीयम् (कौसू-१.७.८
उदकचोदनायाम् उदपात्रं प्रतीयात् (कौसू-१.७.९
पुरस्ताद्उत्तरतः संभारम् आहरति (कौसू-१.७.१०
गोर् अनभिप्रापाद् वनस्पतीनाम् (कौसू-१.७.११
सूर्योदयनतः (कौसू-१.७.१२
पुरस्ताद्उत्तरतोअरण्ये कर्मणां प्रयोगः (कौसू-१.७.१३
उत्तरत उदकान्ते प्रयुज्य कर्माण्य् अपां सूक्तैर् आप्लुत्य प्रदक्षिणम् आवृत्य अप उपस्पृश्यानवेक्षमाणा ग्रामम् उदाव्रजन्ति (कौसू-१.७.१४
आश्यबन्ध्याप्लवनयानभक्षाणि संपातवन्ति (कौसू-१.७.१५
सर्वाण्य् अभिमन्त्र्याणि (कौसू-१.७.१६
स्त्रीव्याधिताव् आप्लुतावसिक्तौ शिरस्तः प्रक्रम्या प्रपदात् प्रमार्ष्टि (कौसू-१.७.१७
पूर्वं प्रपाद्य प्रयछति (कौसू-१.७.१८
त्रयोदश्यादयस् तिस्रो दधिमधुनि वासयित्वा बध्नाति (कौसू-१.७.१९
आशयति (कौसू-१.७.२०
अन्वारब्धायाभिमन्त्रणहोमाः (कौसू-१.७.२१
पश्चाद् अग्नेश् चर्मणि हविषां संस्कारः (कौसू-१.७.२२
आनडुहः शकृत्पिण्डः (कौसू-१.७.२३
जीवघात्यं चर्म (कौसू-१.७.२४
अकर्णोअश्मा (कौसू-१.७.२५
आप्लवनावसेचनानाम् आचामयति च (कौसू-१.७.२६
संपातवताम् अश्नाति न्यङ्क्ते वा (कौसू-१.७.२७
अभ्याधेयानां धूमं नियछति (कौसू-१.७.२८
शुचिना कर्मप्रयोगः (कौसू-१.७.२९
पुरस्ताद्धोमवत्सु निशाकर्मसु पूर्वाह्णे यज्ञोपवीती शालानिवेशमं समूहयत्य् उपवत्स्यद्भक्तम् अशित्वा स्नातोअहतवसनः प्रयुङ्क्ते (कौसू-१.८.१
स्वस्त्ययनेषु च (कौसू-१.८.२
ईज्यानां दिश्यान् बलीन् हरति (कौसू-१.८.३
प्रतिदिशम् उपतिष्ठते (कौसू-१.८.४
सर्वत्राधिकरणम् कर्तुर् दक्षिणा (कौसू-१.८.५
त्रिर् उदकक्रिया (कौसू-१.८.६
अनन्तराणि समानानि युक्तानि (कौसू-१.८.७
शान्तं संभारम् (कौसू-१.८.८
अधिकृतस्य सर्वम् (कौसू-१.८.९
विषये [ed. विशये॑ सेए Caland, AZ, अ.ल्.॑ ष्पेइजेर् ंुसेउम् ९ २४९ दिसग्रेएस्] यथान्तरम् (कौसू-१.८.१०
{प्र यछ पर्शुम् [१२.३.३१]} इति दर्भलवनं प्रयछति (कौसू-१.८.११
{अरातीयोः [१०.६.१]} इति तक्षति (कौसू-१.८.१२
{यत् त्वा शिक्वः [१०.६.३]} इति प्रक्षालयति (कौसू-१.८.१३
{यत्यत् कृष्णः [१२.३.१३]} इति मन्त्रोक्तम् (कौसू-१.८.१४
पलाशउदुम्बरजम्बुकाम्पीलस्रग्वङ्घशिरीषस्रक्त्यवरणबिल्वजङ्गिडकुटकगर्ह्यगलावलवेतसशिम्बलसिपुनस्यन्दनअरणिकाअश्मयोक्ततुन्युपूतुदारवः शान्ताः (कौसू-१.८.१५
चितिप्रायश्चित्तिशमीशमकासवंशाशाम्यवाकातलाशपलाशवाशाशिंशपाशिम्बलसिपुनदर्भअपामार्गआकृतिलोष्टवल्मीकवपादूर्वाप्रान्तव्रीहियवाः शान्ताः (कौसू-१.८.१६
प्रमन्दउशीरशललीउपधानशकधूमा जरन्तः (कौसू-१.८.१७
सीसनदीसीसे अयोरजांसि कृकलासशिरः सीनानि (कौसू-१.८.१८
दधि घृतं मधूदकम् इति रसाः (कौसू-१.८.१९
व्रीहियवागोधूमउपवाकतिलप्रियङ्गुश्यामाका इति मिश्रधान्यानि (कौसू-१.८.२०
ग्रहणम् आ ग्रहणात् (कौसू-१.८.२१
यथार्थम् उदर्कान् योजयेत् (कौसू-१.८.२२
{इहैव ध्रुवाम् [३.१२]} {एह यातु [६.७३]} {यमो मृत्युः [६.९३]} {सत्यं बृहत् [१२.१]} इत्य् अनुवाको वास्तोष्पतीयानि (कौसू-१.८.२३
{दिव्यो गन्धर्वः [२.२]} {इमं मे अग्ने [६.१११]} {यौ ते माता [८.६]} इति मातृनामानि (कौसू-१.८.२४
{स्तुवानम् [१.७]} {इदं हविः [१.८]} {निस्सालाम् [२.१४]} {अरायक्षयणम् [२.१८.३]} {शं नो देवी पृश्निपर्णी [२.२५]} {आ पश्यति [४.२०]} {तान्त् सत्यौजाः [४.३६]} {त्वया पूर्वम् [४.३७]} {पुरस्ताद् युक्तः [५.२९]} {रक्षोहणम् [८.३-४]} इति अनुवाकश् चातनानि (कौसू-१.८.२५

{अम्बयो यन्ति [१.४]} {शंभुमयोभू [१.५-६]} {हिरण्यवर्णाः [१.३३]} {निस्सालाम् [२.१४]} {ये अग्नयः [३.२१.१-७]} {ब्रह्म जज्ञानम् [४.१.१]} इत्य् एका {उत देवाः [४.१३]} मृगारसूक्तान्य् उत्तमं वर्जयित्वा [४.२३-२९] {अप नः शोशुचद् अघम् [४.३३]} {पुनन्तु मा [६.१९]} {सस्रुषीः [६.२३]} {हिमवतः प्रस्रवन्ति [६.२४]} {वायोः पूतः पवित्रेण [६.५१]} {शं च नो मयश् च नः [६.५७.३]} {अनडुद्भ्यस् त्वं प्रथमं [६.५९]} {मह्यम् आपः [६.६१]} {वैश्वानरो रश्मिभिः [६.६२]} {यमो मृत्युः [६.९३]} {विश्वजित् [६.१०७]} {संज्ञानम् नः [७.५२]} {यद्य् अन्तरिक्षे [७.६६]} {पुनर् मैत्व् इन्द्रियम् [७.६७]} {शिवा नः [७.६८.३]} {शं नो वातो वातु [७.६९]} {अग्निं ब्रूमो वनस्पतीन् [११.६]} इति (कौसू-१.९.१
{पृथिव्यै श्रोत्राय [६.१०]} इति त्रिः प्रत्यासिञ्चति (कौसू-१.९.२
{अम्बयो यन्ति [१.४]} {शंभुमयोभू [१.५-६]} {हिरण्यवर्णाः [१.३३]} शंततीयं च [४.१३] {यद्य् अन्तरिक्षे [७.६६]} {पुनर् मैत्व् इन्द्रियम् [७.६७]} {शिवा नः [७.६८.३]} {शं नो वातो वातु [७.६९]} {अग्निं ब्रूमो वनस्पतीन् [११.६]} इति (कौसू-१.९.३
{पृथिव्यै श्रोत्राय [६.१०]} इति त्रिः प्रत्यासिञ्चति (कौसू-१.९.४
इति शान्तियुक्तानि (कौसू-१.९.५
उभयतः सावित्र्य् उभयतः {शं नो देवी [१.६]} (कौसू-१.९.६
अहतवासः कंसे शान्त्युदकं करोति (कौसू-१.९.७
{अतिसृष्टो अपां वृषभः [१६.१.१]} इत्य् अपोअतिसृज्य सर्वा इमा आप ओषधय इति पृष्ट्वा सर्वा इत्य् आख्यात ओं बृहस्पतिप्रसूतः करवाणीत्य् अनुज्ञाप्यओं सवितृप्रसूतः कुरुतां भवान् इत्य् अनुज्ञातः कुर्वीत (कौसू-१.९.८
पूर्वया कुर्वीतेति गार्ग्यपार्थश्रवसभागालिकाङ्कायनउपरिबभ्रवकौशिकजाटिकायनकौरुपथयः (कौसू-१.९.९
अन्यतरया कुर्वीतेति युवा कौशिको युवा कौशिकः (कौसू-१.९.१०
इति अथर्ववेदे कौशिकसूत्रे प्रथमो ऽध्यायः समाप्तः