कौशिक सूत्र / सप्तमोऽध्यायः
दिखावट
{स्वस्तिदा [१.२१.१]} {ये ते पन्थानो [७.५५.१/१२.१.४७]}इत्य् अध्वानं दक्षिणेन प्रक्रामति (कौसू-७.१[५०].१ व्युदस्यतिअसंख्याताः शर्कराः (कौसू-७.१[५०].२ तृणानि छित्वाउपतिष्ठते (कौसू-७.१[५०].३ {आरे [१.२६.१]}{अमूः पारे [१.२७.१]} {पातं न [६.३.१]}{य एनं परिषीदन्ति [६.७६.१]} यद् आयुधं दण्डेन व्याख्यातम् (कौसू-७.१[५०].४ दिष्ट्या मुखं विमाय संविशति (कौसू-७.१[५०].५ त्रीणि पदानि प्रमायउत्तिष्ठति (कौसू-७.१[५०].६ तिस्रो दिष्टीः (कौसू-७.१[५०].७ {प्रेतं पादौ [१.२७.४]}इत्य् +अवसस्य (ed.॒ अवशस्य॑ सेए Caland, Kल्. ष्छ्र्., p. ६१) (कौसू-७.१[५०].८ पाययति (कौसू-७.१[५०].९ {उपस्थास् ते [१२.१.६२]}इति त्रीणिओप्यातिक्रामति (कौसू-७.१[५०].१० {स्वस्ति मात्र [१.३१.४]} इति निशिउपतिष्ठते (कौसू-७.१[५०].११ {इन्द्रम् अहं [३.१५.१]}इति पण्यं संपातवद् उत्थापयति (कौसू-७.१[५०].१२ निमृज्य दिग्युक्ताभ्यां {दोषो गाय [६.१.१]} {पातं न [६.३-६.७]} इति पञ्च{अनडुद्भ्यस् [६.५९.१]}{यमो मृत्युर् [६.९३.१]} {विश्वजित् [६.१०७.१]}{शकधूमं [६.१२८.१]} {भवाशर्वौ [४.२८.१/११.२.१/११.६.९]}इत्य् उपदधीत (कौसू-७.१[५०].१३ उत्तमेन सारूपवत्सस्य रुद्राय त्रिर् जुहोति (कौसू-७.१[५०].१४ उपउत्तमेन सुहृदो ब्राह्मणस्य शकृत्पिण्डान् पर्वसुआधाय शकधूमं किम् अद्याहर् इति पृछति (कौसू-७.१[५०].१५ भद्रं सुमङ्गलिम् इति प्रतिपद्यते (कौसू-७.१[५०].१६ युक्तयोर् {मा नो देवा [६.५६.१]} {यस् ते सर्पो [१२.१.४६]}इति शयनशालाउर्वराः परिलिखति (कौसू-७.१[५०].१७ तृणानि युगतर्द्मना संपातवन्ति द्वारे प्रचृतति (कौसू-७.१[५०].१८ ऊबध्यं संभिनत्ति (कौसू-७.१[५०].१९ निखनति (कौसू-७.१[५०].२० आदधाति (कौसू-७.१[५०].२१ अपामार्गप्रसूनान् कुद्रीचीशफान् परीचीनमूलान् (कौसू-७.१[५०].२२ {उद् इतस् [४.३.१]}इति खादिरं शङ्कुं संपातवन्तम् उद्गृह्णन् निखनन् गा अनुव्रजति (कौसू-७.२[५१].१ निनयनं समुह्य चारे सारूपवत्सस्यइन्द्राय त्रिर् जुहोति (कौसू-७.२[५१].२ दिश्यान् बलीन् हरति (कौसू-७.२[५१].३ प्रतिदिशम् उपतिष्ठते (कौसू-७.२[५१].४ मध्ये पञ्चमम् अनिर्दिष्टम् (कौसू-७.२[५१].५ शेषं निनयति (कौसू-७.२[५१].६ {ब्रह्म जज्ञानं [४.१.१/५.६.१]}{भवाशर्वौ [४.२८.१/११.२.१/११.६.९]}इत्य् आसन्नम् अरण्ये पर्वतं यजते (कौसू-७.२[५१].७ अन्यस्मिन् भवशर्वपशुपतिउग्ररुद्रमहादेवईशानानां पृथग् आहुतीः (कौसू-७.२[५१].८ गोष्ठे च द्वितीयम् अश्नाति (कौसू-७.२[५१].९ दर्भान् आधाय धूपयति (कौसू-७.२[५१].१० भूत्यै वः पुष्ट्यै व इति प्रथमजयोर् मिथुनयोर् मुखम् अनक्ति (कौसू-७.२[५१].११ तिस्रो नलदशाखा वत्सान् पाययति (कौसू-७.२[५१].१२ शाखयाउदकधारया गाः परिक्रामति (कौसू-७.२[५१].१३ {अश्मवर्म मे [५.१०.१]}इति षड् अश्मनः संपातवतः +स्रक्तिषूपरि(ed.॒ स्रक्तिषु पर्य्॑ सेए Caland, Kल्. ष्छ्र्., p. ६१)अधस्तान् निखनति (कौसू-७.२[५१].१४ {अलसाला [६.१६.४]}इत्य् आलभेषजम् (कौसू-७.२[५१].१५ त्रीणि सिलाञ्जालाग्राणिउर्वरामध्ये निखनति (कौसू-७.२[५१].१६ {हतं तर्दं [६.५०.१]}इति अयसा सीसं कर्षन्न् उर्वरां परिक्रामति (कौसू-७.२[५१].१७ अश्मनोअवकिरति (कौसू-७.२[५१].१८ तर्दम् अवशिरसं वदनात् केशेन समुह्यउर्वरामध्ये निखनति (कौसू-७.२[५१].१९ उक्तं चारे (कौसू-७.२[५१].२० बलीन् हरतिआशाया आशापतयेअश्विभ्यां क्षेत्रपतये (कौसू-७.२[५१].२१ यदाएतेभ्यः कुर्वीत वाग्यतस् तिष्ठेद् आस्तमयाद् (कौसू-७.२[५१].२२ {ये पन्थानो [६.५५.१]}इति परीत्यउपदधीत (कौसू-७.३[५२].१ प्रयछति (कौसू-७.३[५२].२ {यस्यास् ते [६.८४.१]} {यत् ते देवी [६.६३.१]} {विषाणा पाशान् [६.१२१.१]} इत्य् उन्मोचनप्रतिरूपं संपातवन्तं करोति (कौसू-७.३[५२].३ वाचा बद्धाय भूमिपरिलेखम् (कौसू-७.३[५२].४ {आयने [६.१०६.१]}इति शमनम् अन्तरा ह्रदं करोति (कौसू-७.३[५२].५ शाले च (कौसू-७.३[५२].६ अवकया शालां परितनोति (कौसू-७.३[५२].७ शप्यमानाय प्रयछति (कौसू-७.३[५२].८ निदग्धं प्रक्षालयति (कौसू-७.३[५२].९ {महीम् ऊ षु [७.६.२]}इति तरणानिआलम्भयति (कौसू-७.३[५२].१० दूरात्नावं संपातवतीं नैमणिं बध्नाति (कौसू-७.३[५२].११ {प्रपथे [७.९.१]}इति नष्टएषिणां प्रक्षालिताभ्यक्तपाणिपादानां दक्षिणान् पाणीन् निमृज्यउत्थापयति (कौसू-७.३[५२].१२ एवं संपातवतः (कौसू-७.३[५२].१३ निमृज्यएकविंशतिं शर्करास्चतुष्पथेअवक्षिप्यावकिरति (कौसू-७.३[५२].१४ {नमस्कृत्य [७.१०२.१]}इति मन्त्रोक्तम् (कौसू-७.३[५२].१५ अंहोलिङ्गानाम् आपो भोजनहवींषिअभिमर्शनउपस्थानम् आदित्यस्य (कौसू-७.३[५२].१६ स्वयं हविषां भोजनम् (कौसू-७.३[५२].१७ {विश्वे देवा [१.३०.१]}इत्य् आयुष्याणि (कौसू-७.३[५२].१८ स्थालीपाके घृतपिण्डान् प्रतिनीयाश्नाति (कौसू-७.३[५२].१९ {अस्मिन् वसु [१.९.१]} {यद् आबध्नन् [१.३५.१]} {नव प्राणान् [५.२८.१} इति युग्मकृष्णलम् आदिष्टानां स्थालीपाकेआधाय बध्नाति (कौसू-७.३[५२].२० आशयति (कौसू-७.३[५२].२१ {आयुर्दा [२.१३.१]} इति गोदानं कारयिष्यन् संभारान् संभरति (कौसू-७.४[५३].१ अमम्रिम् ओजोमानीं दूर्वाम् अकर्णम् अश्ममण्डलम् आनडुहशकृत्पिण्डं षड् दर्भप्रान्तानि कंसम् अहते वसने शुद्धम् आज्यम् शान्ता ओषधीर् नवम् उदकुम्भम् (कौसू-७.४[५३].२ बाह्यतः शान्तवृक्षस्यइध्मं प्राञ्चम् उपसमाधाय (कौसू-७.४[५३].३ परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिर् उदपात्रम् उपसाद्य परिचरणेनाज्यं परिचर्य (कौसू-७.४[५३].४ नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च (कौसू-७.४[५३].५ पश्चाद् अग्नेः प्राङ्मुख उपविश्यान्वारब्धाय शान्त्युदकं करोति (कौसू-७.४[५३].६ तत्रएतत् सूक्तम् अनुयोजयति (कौसू-७.४[५३].७ त्रिर् एवाग्निं संप्रोक्षति त्रिः पर्युक्षति (कौसू-७.४[५३].८ त्रिः कारयमाणम् आचामयति च संप्रोक्षति च (कौसू-७.४[५३].९ शकृत्पिण्डस्य स्थालरूपं कृत्वा सुहृदे ब्राह्मणाय प्रयछति (कौसू-७.४[५३].१० तत् सुहृद् दक्षिणतोअग्नेर् उदङ्मुख आसीनो धारयति (कौसू-७.४[५३].११ अथास्मैअन्वारब्धाय करोति (कौसू-७.४[५३].१२ {आयुर्दा [२.१३.१]} इत्य् अनेन सूक्तेनाज्यं जुह्वन् मूर्ध्नि संपातान् आनयति (कौसू-७.४[५३].१३ दक्षिणे पाणौअश्ममण्डलेउदपात्रेउत्तरसंपातान् स्थालरूप आनयति (कौसू-७.४[५३].१४ अमम्रिम् ओजोमानीं चउदपात्रेअवधाय (कौसू-७.४[५३].१५ स्थालरूपे दूर्वां शान्त्युदकम् उष्णोदकं चएकधाभिसमासिच्य (कौसू-७.४[५३].१६ {आयम् अगन् सविता क्षुरेण [६.६८.१]}इत्य् उदपात्रम् अनुमन्त्रयते (कौसू-७.४[५३].१७ {अदितिः श्मश्रु [६.६८.२]}इत्य् उन्दति (कौसू-७.४[५३].१८ {यत् क्षुरेण [८.२.१७]}इत्य् उदक्पत्त्रं क्षुरम् अद्भि श्चोत्य त्रिः प्रमार्ष्टि (कौसू-७.४[५३].१९ {येनावपत् [६.६८.३]}इति दक्षिणस्य केशपक्षस्य दर्भपिञ्जुल्या केशान् अभिनिधाय प्रछिद्य स्थालरूपे करोति (कौसू-७.४[५३].२० एवम् एव द्वितीयं करोति (कौसू-७.४[५३].२१ एवं तृतीयम् (कौसू-७.४[५३].२२ एवम् एवउत्तरस्य केशपक्षस्य करोति (कौसू-७.४[५३].२३ अथ नापितं समादिशतिअक्षण्वन् वप केशश्मश्रुर् ओम परिवप नखानि कुरुइति (कौसू-७.५[५४].१ {पुनः प्राणः [६.५३.२]} {पुनर् मैत्व् इन्द्रियं [७.६७.१]}इति त्रिर् निमृज्य (कौसू-७.५[५४].२ त्वयि महिमानं सादयामीत्य् अन्ततो योजयेत् (कौसू-७.५[५४].३ अथएनम् उप्तकेशश्मश्रुं कृतनखम् (ed.॒ कृत्तनखं॑ सेए Caland, Kल्. ष्छ्र्., p. ६१) आप्लावयति (कौसू-७.५[५४].४ {हिरण्यवर्णाः [१.३३.१]}इत्य् एतेन सूक्तेन गन्धप्रवादाभिर् अलंकृत्य (कौसू-७.५[५४].५ {स्वाक्तं (ed.॒ स्वक्तं॑ सेए Caland, Kल्. ष्छ्र्., p. ७८) मे [७.३०.१]}इत्य् आनक्ति (कौसू-७.५[५४].६ अथएनम् अहतेन वसनेन परिधापयति {परि धत्त [२.१३.२]}इति द्वाभ्याम् (कौसू-७.५[५४].७ {एह्य् अश्मानम् आ तिष्ठ [२.१३.४]}इति दक्षिणेन पादेनाश्ममण्डलम् आस्थाप्य प्रदक्षिणम् अग्निम् अनुपरिणीय (कौसू-७.५[५४].८ अथास्य वासो निर्मुष्णाति {यस्य ते वासः [२.१३.५]}इत्य् अनया (कौसू-७.५[५४].९ अथएनम् अपरेणाहतेन वसनेनाछादयति{अयं वस्ते गर्भं पृथिव्या [१३.१.१६]} इति पञ्चभिः (कौसू-७.५[५४].१० {यथा द्यौः [२.१५.१]}{मनसे चेतसे धिय [६.४१.१]} इति महाव्रीहीणां स्थालीपाकं श्रपयित्वा शान्त्युदकेनउपसिच्याभिमन्त्र्य प्राशयति (कौसू-७.५[५४].११ {प्राणापानौ [२.१६.१]} {ओजो ऽसि [२.१७.१]}इत्य् उपदधीत (कौसू-७.५[५४].१२ {तुभ्यम् एव जरिमन् [२.२८.१]}इति कुमारं मातापितरौ त्रिः संप्रयछेते (कौसू-७.५[५४].१३ घृतपिण्डाअन् आशयतः (कौसू-७.५[५४].१४ चूडाकरणम् च गोदानेन व्याख्यातम् (कौसू-७.५[५४].१५ परिधापनाश्ममण्डलवर्जम् (कौसू-७.५[५४].१६ {शिवे ते स्तां [८.२.१४]}इति परिदानान्तानि (कौसू-७.५[५४].१७ {पार्थिवस्य [२.२९.१]} {मा प्र गाम [१३.१.५९]}इति चतस्रः सर्वाणिअपियन्ति (कौसू-७.५[५४].१८ अमम्रिम् ओजोमानीं च दूर्वां च केशान्च शकृत्पिण्डं चएकधाब्दिसमाहृत्य (कौसू-७.५[५४].१९ शान्तवृक्षस्यउपरिआदधाति (कौसू-७.५[५४].२० अधिकरणं ब्रह्मणः कंसवसनं गौर् दक्षिणा (कौसू-७.५[५४].२१ ब्राह्मणान् भक्तेनउपेप्सन्ति (कौसू-७.५[५४].२२ उपनयनम् (कौसू-७.६[५५].१ {आयम् अगन् [६.६८.१]}इति मन्त्रोक्तम् (कौसू-७.६[५५].२ {यत् क्षुरेण [८.२.१७]}इत्य् उक्तम् (कौसू-७.६[५५].३ {येनावपत् [६.६८.३]}इति शकृद् अपिञ्जूलि (कौसू-७.६[५५].४ लौकिकं च समानाम् आ परिधानात् (कौसू-७.६[५५].५ उपेतपूर्वस्य नियतं सवान् दास्यतोअग्नीन् आधास्यमानपर्यवेतव्रतदीक्षिष्यमाणानाम् (ed.॒ आधास्यमानः पर्य्-॑ सेए Caland, Kल्. ष्छ्र्., p. ६१) (कौसू-७.६[५५].६ सोष्णोदकं शान्त्युदकं प्रदक्षिणम् अनुपरिणीय पुरस्ताद् अग्नेः प्रत्यङ्मुखम् अवस्थाप्य (कौसू-७.६[५५].७ आह ब्रूहि (कौसू-७.६[५५].८ ब्रह्मचर्यम् आगम् उप मा नयस्वइति (कौसू-७.६[५५].९ को नामासि किंगोत्र इत्य् असौइति यथा नामगोत्रे भवतस् तथा प्रब्रूहि (कौसू-७.६[५५].१० आर्षेयं मा कृत्वा बन्धुम् अन्तम् उपनय (कौसू-७.६[५५].११ आर्षेयं त्वा कृत्वा बन्धुम् अन्तम् उपनयामीति (कौसू-७.६[५५].१२ ओं भूर् भुवः स्वर् जनद् ओम् इत्य् अञ्जलौउदकम् आसिञ्चति (कौसू-७.६[५५].१३ उत्तरो ऽसानि ब्रह्मचारिभ्य इत्य् उत्तमं पाणिम् अन्वादधाति (कौसू-७.६[५५].१४ एष म आदित्यपुत्रस् तन् मे गोपायस्वइत्य् आदित्येन समीक्षते (कौसू-७.६[५५].१५ {अपक्रामन् पौरुषेयाद् वृणानो [७.१०५.१]} इत्य् एनं बाहुगृहीतं प्राञ्चम् अवस्थाप्य दक्षिणेन पाणिना नाभिदेशेअभिसंस्तभ्य जपति (कौसू-७.६[५५].१६ {अस्मिन् वसु वसवो धारयन्तु [१.९.१]}{विश्वे देवा वसवो [१.३०.१]}{आ यतु मित्र [३.८.१]}{अमुत्रभूयाद् [७.५३.१]} {अन्तकाय मृत्यवे [८.१.१]}{आ रभस्व [८.२.१]}{प्राणाय नमो [११.४.१]} {विषासहिम् [१७.१.५]} इत्य् अभिमन्त्रयते (कौसू-७.६[५५].१७ अथापि परित्वरमाण {आ यातु मित्र [३.८.१]}इत्य् अपि खलुएतवताएवउपनीतो भवति (कौसू-७.६[५५].१८ प्रछाद्य त्रीन् प्राणायामान् कृत्वावछाद्य वत्सतरीम् उदपात्रे समवेक्षयेत् (कौसू-७.६[५५].१९ {सम् इन्द्र नो [७.९७.२]}{सं वर्चसा [६.५३.३]}इति द्वाभ्याम् उत्सृजन्ति गाम् (कौसू-७.६[५५].२० {श्रद्धाया दुहिता [६.१३३.४]}इति द्वाभ्यां भाद्रमौञ्जीं मेखलां बध्नाति (कौसू-७.७[५६].१ मित्रावरुणयोस् त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयछामीति पालाशं दण्डं प्रयछति (कौसू-७.७[५६].२ मित्रावरुणयोस् त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृह्णामि । सुश्रवः सुश्रवसं मा कुर्व् अवक्रो ऽविथुरो ऽहं भूयासम् इति प्रतिगृह्णाति (कौसू-७.७[५६].३ {श्येनो ऽसि [६.४८.१]}इति च (कौसू-७.७[५६].४ अथएनं व्रतादानीयाः समिध आधापयति (कौसू-७.७[५६].५ {अग्ने व्रतपते व्रतं चरिष्यामि तच् छकेयं तत् समापेयं तन् मे राध्यतां तन् मे समृध्यतां तन् मे मा व्यनशत् तेन राध्यासं तत् ते प्रब्रवीमि तद् उपाकरोमि अग्नये व्रतपतये स्वाहा [cf. TS १.५.१०.३ आदि]} (कौसू-७.७[५६].६ {वायो व्रतपते । सूर्य व्रतपते । चन्द्र व्रतपते । आपो व्रतपत्न्यो । देवा व्रतपतयो । व्रतानां व्रतपतयो व्रतम् अचारिषं तद् अशकं तत् समाप्तं तन् मे राद्धं तन् मे समृद्धं तन् मे मा व्यनशत् तेन राधो ऽस्मि तद् वः प्रब्रवीमि तद् उपाकरोमि व्रतेभ्यो व्रतपतिभ्यः स्वाह [cf. TS १.६.६.३ आदि]} (कौसू-७.७[५६].७ अथएनं बद्धमेखलम् आहितसमित्कं सावित्रीं वाचयति (कौसू-७.७[५६].८ पच्छः प्रथमम् (कौसू-७.७[५६].९ ततोअर्धर्चशः (कौसू-७.७[५६].१० ततः संहिताम् (कौसू-७.७[५६].११ अथएनं संशास्ति{अग्नेश् चासि ब्रह्मचारिन् मम चापो ऽशान कर्म कुरूर्ध्वस् तिष्ठन् मा दिवा स्वाप्सीः समिध आधेहि [cf. ंन्B १.६.२३]} (कौसू-७.७[५६].१२ अथएनं भूतेभ्यः परिददाति{अग्नये त्वा परिददामि ब्रह्मणे त्वा परिददाम्य् उदङ्क्याय त्वा शूल्वाणाय परिददामि शत्रुंजयाय त्वा क्षात्राणाय परिददामि मार्त्युंजयाय त्वा मार्त्यवाय परिददाम्य् अघोराय त्वा परिददामि तक्षकाय त्वा वैशालेयाय परिददामि हाहाहूहूभ्यां त्वा गन्धर्वाभ्यां परिददामि योगक्षेमाभ्यां त्वा परिददामि भयाय च त्वाभयाय च परिददामि विश्वेभ्यस् त्वा देवेभ्यः परिददामि सर्वेभ्यस् त्वा देवेभ्यः परिददामि विश्वेभ्यस् त्वा भूतेभ्यः परिददामि सर्वेभ्यस् त्वा भूतेभ्यः परिददामि सप्रजापतिकेभ्यः [cf. Bहार्ङ्ष् १.८॒८.१ff.]} (कौसू-७.७[५६].१३ {स्वस्ति चरताद् इह [cf. PS २०.५३.२, ःिर्ङ्ष् १.५.१]}इति {मयि रमन्तां ब्रह्मचारिणः [-]}इत्य् अनुगृह्णीयात् (कौसू-७.७[५६].१४ नानुप्रणुदेत् (कौसू-७.७[५६].१५ {प्रणीतीर् अभ्यावर्तस्व [७.१०५.१]}इत्य् अभ्यात्मम् आवर्तयति (कौसू-७.७[५६].१६ {यथापः प्रवता यन्ति यथा मासा अहर्जरम् । एवा मा ब्रह्मचारिणो धातर् आ यन्तु सर्वदा ॥ [PS २०.५२.९]} स्वाहाइत्य् आचार्यः समिधम् आदधाति (कौसू-७.७[५६].१७ {श्रद्धाया [ed. misprint श्राधया॑ सेए Caland, Kल्. ष्छ्र्., p. ५१, Bलोओम्fइएल्द् ङ्ङा १९०२ ५१४] दुहिता [६.१३३.४]}इति द्वाभ्यां भाद्रमौञ्जीं मेखलां ब्राह्मणाय बध्नाति (कौसू-७.८[५७].१ मौर्वीं क्षत्रियाय धनुर्ज्यां वा (कौसू-७.८[५७].२ क्षौमिकीं वैश्याय (कौसू-७.८[५७].३ मित्रावरुणयोस् त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयछामीति पालाशं दण्डं ब्राह्मणाय प्रयछति (कौसू-७.८[५७].४ आश्वत्थं क्षत्रियाय (कौसू-७.८[५७].५ न्यग्रोधावरोहं वैश्याय (कौसू-७.८[५७].६ यदिअस्य दण्डो भज्येत {य ऋते चिद् अभिश्रिषः [१४.२.४७]}इत्य् एतयालभ्याभिमन्त्रयते (कौसू-७.८[५७].७ सर्वत्र शीर्णे भिन्ने नष्टेअन्यं कृत्वा {पुनर् मैत्व् इन्द्रियं [७.६७.१]}इत्य् आदधीत (कौसू-७.८[५७].८ अथ वासांसि (कौसू-७.८[५७].९ ऐणेयहारिणानि ब्राह्मणस्य (कौसू-७.८[५७].१० रौरवपार्षतानि क्षत्रियस्य (कौसू-७.८[५७].११ आजाविकानि वैश्यस्य (कौसू-७.८[५७].१२ सर्वेषां क्षौमशाणकम्बलवस्त्रम् (कौसू-७.८[५७].१३ काषायाणि (कौसू-७.८[५७].१४ वस्त्रं चापिअकाषायम् (कौसू-७.८[५७].१५ भवति भिक्षां देहीति ब्राह्मणश् चरेत् (कौसू-७.८[५७].१६ भिक्षां भवती ददात्व् इति क्षत्रियः (कौसू-७.८[५७].१७ देहि भिक्षां भवतीत् वैश्यः (कौसू-७.८[५७].१८ सप्त कुलानि ब्राह्मणश् चरेत् त्रीणि क्षत्रियो द्वे वैश्यः (कौसू-७.८[५७].१९ सर्वं ग्रामं चरेद् भैक्षं स्तेनपतितवर्जम् (कौसू-७.८[५७].२० {मय्य् अग्रे [७.८२.२]}इति पञ्चप्रश्नेन जुहोति (कौसू-७.८[५७].२१ {सं मा सिञ्चन्तु [७.३३.१]}इति त्रिः पर्युक्षति (कौसू-७.८[५७].२२ {यद् अग्ने तपसा तप [७.६१.१]}{अग्ने तपस् तप्यामह [७.६२.२]} इति द्वाभ्यां परिसमूहयति (कौसू-७.८[५७].२३ {इदम् आपः प्रवहत [७.८९.३]}इति पाणी प्रक्सालयते (कौसू-७.८[५७].२४ {सं मा सिञ्चन्तु [७.३३.१]}इति त्रिः पर्युक्षति (कौसू-७.८[५७].२५ {अग्ने समिधम् आहार्षं [१९.६४.१]}इत्य् आदधाति चतस्रः (कौसू-७.८[५७].२६ {एधो ऽस्य् [७.८९.४]}इत्य् ऊष्मभक्षं भक्षयतिआ निधनात् (कौसू-७.८[५७].२७ {त्वं नो मेधे [६.१०८.१]}इत्य् उपतिष्ठते (कौसू-७.८[५७].२८ {यद् अन्नम् [६.७१.१]} इति तिसृभिर् भैक्षस्य जुहोति (कौसू-७.८[५७].२९ अहरहः समिध आहृत्यएवं सायंप्रातर् अभ्यादध्यात् (कौसू-७.८[५७].३० मेधाजनन आयुष्यैर् जुहुयात् (कौसू-७.८[५७].३१ यथाकामं द्वादशरात्रम् अरसाशी भवति (कौसू-७.८[५७].३२ {भद्राय कर्णः क्रोशतु भद्रायाक्षि वि वेपताम् । परा दुःष्वप्न्यं सुव यद् भद्रं तन् न आ सुव ॥ अक्षिवेपं दुःष्वप्न्यम् आर्तिं पुरुषरेषिणीम् । तद् अस्मद् अश्विना युवम् अप्रिये प्रति मुञ्चतम् ॥ यत् पार्श्वाद् उरसो मे अङ्गादङ्गाद् अववेपते । अश्विना पुष्करस्रजा तस्मान् नः पातम् अंहसः [PS २०.५४.६-८]}इति कर्णं क्रोशन्तम् अनुमन्त्रयते (कौसू-७.९[५८].१ अक्षि वा स्फुरत् (कौसू-७.९[५८].२ {वि देवा जरसा [३.३१.१]}{उत देवा [४.१३.१]} {आवतस् त [५.३०.१]} {उप प्रियं [७.३२.१]}{अन्तकाय मृत्यवे [८.१.१]}{आ रभस्व [८.२.१]} {प्राणाय नमो [११.४.१]} {विषासहिं [१७.१.१]}इत्य् अभिमन्त्रयते (कौसू-७.९[५८].३ ब्राह्मणोक्तम् ऋषिहस्तश् च (कौसू-७.९[५८].४ {कर्मणे वां वेषाय वां सुकृताय वाम् [cf. TS १.१.४.१ आदि, (कौसू-१.१.४०]} इति पाणी प्रक्षाल्य (कौसू-७.९[५८].५ {निर् दुरर्मण्य [१६.२.१]} इति संधाव्य (कौसू-७.९[५८].६ {शुद्धा न आपस् [१२.१.३०]}इति निष्ठीव्य जीवाभिर् आचम्य (कौसू-७.९[५८].७ {एहि जीवं [४.९.१]}इत्य् आञ्जनमणिं बध्नाति (कौसू-७.९[५८].८ {वाताज् जातो [४.१०.१]}इति कृशनम् (कौसू-७.९[५८].९ {नव प्राणान् [५.२८.१]} इति मन्त्रोक्तम् (कौसू-७.९[५८].१० {घृताद् उल्लुप्तम् [५.२८.१४]} {आ त्वा चृतत्व् [५.२८.१२]} {ऋतुभिष् ट्वा [५.२८.१३]} [cf. PS २.५९.१०-१२] {मुञ्चामि त्वा [३.११.१]}{उत देवा [४.१३.१]} {आवतस् त [५.३०.१]} {उप प्रियं [७.३२.१]}{अन्तकाय मृत्यवे [८.१.१]}{आ रभस्व [८.२.१]} {प्राणाय नमो [११.४.१]} {विषासहिं [१७.१.१]}इत्य् अभिमन्त्रयते (कौसू-७.९[५८].११ {निर् दुरर्मण्य [१६.२.१]} इति सर्वसुरभिचूर्णैर् अरण्येअप्रतीहारं प्रलिम्पति (कौसू-७.९[५८].१२ अथ नामकरणम् (कौसू-७.९[५८].१३ {आ रभस्वेमाम् [८.२.१]} इत्य् अविछिन्नाम् उदकधाराम् आलम्भयति (कौसू-७.९[५८].१४ पूतुदारुं बध्नाति (कौसू-७.९[५८].१५ पाययति (कौसू-७.९[५८].१६ {यत् ते वासः [८.२.१६]}इत्य् अहतेनउत्तरसिचा प्रछादयति (कौसू-७.९[५८].१७ {शिवे ते स्तां [८.२.१४]}इति कुमारं प्रथमं निर्णयति (कौसू-७.९[५८].१८ {शिवौ ते स्तां [८.२.१८]}इति व्रीहियवौ प्राशयति (कौसू-७.९[५८].१९ {अह्ने च त्वा [८.२.२०]}इत्य् अहोरात्राभ्यां परिददाति (कौसू-७.९[५८].२० {शरदे त्वा [८.२.२२]}इत्य् ऋतुभ्यः (कौसू-७.९[५८].२१ {उद् अस्य केतवो [१३.२.१]} {मूर्धाहं [१६.३.१]} {विषासहिं [१७.१.१]} इत्य् उद्यन्तम् उपतिष्ठते (कौसू-७.९[५८].२२ मध्यंदिनेअस्तं यन्तं सकृत् पर्यायाभ्याम् (कौसू-७.९[५८].२३ अंहोलिङ्गानाम् आपो भोजनहवींषिउक्तानि (कौसू-७.९[५८].२४ उत्तमासु {यन् मातली रथक्रीतम् [११.६.२३]} इति सर्वासां द्वितीया (कौसू-७.९[५८].२५ {विश्वे देवा [१.३०.१]} इति विश्वान् आयुष्कामो यजते (कौसू-७.१०[५९].१ उपतिष्ठते (कौसू-७.१०[५९].२ {इदं जनास [१.३२.१]} इति द्यावापृथिव्यै पुष्टिकामः (कौसू-७.१०[५९].३ संपत्कामः (कौसू-७.१०[५९].४ {इन्द्र जुषस्व [२.५.१]}इतीन्द्रं बलकामः (कौसू-७.१०[५९].५ {इन्द्रम् अहं [३.१५.१]}इति पण्यकामः (कौसू-७.१०[५९].६ {उद् एनम् उत्तरं नय [६.५.१]} {यो ऽस्मान् [६.६.१]} {इन्द्रः सुत्रामा [७.९१.१]}इति ग्रामकामः (कौसू-७.१०[५९].७ ग्रामसांपदानाम् अप्ययः (कौसू-७.१०[५९].८ {यशसं मेन्द्रो [६.५८.१]}इति यशस्कामः (कौसू-७.१०[५९].९ {मह्यम् आपो [६.६१.१]}इति व्यचस्कामः (कौसू-७.१०[५९].१० {आगछत [६.८२.१]} इति जायाकामः (कौसू-७.१०[५९].११ {वृषेन्द्रस्य [६.८६.१]}इति वृषकामः (कौसू-७.१०[५९].१२ {आ त्वाहार्षम् [६.८७.१]} {ध्रुवा द्यौर् [६.८८.१]} इति ध्रौव्यकामः (कौसू-७.१०[५९].१३ {त्यम् ऊ षु [७.८५.१]} {त्रातारम् [७.८६.१]} {आ मन्द्रैर् [७.११७.१]} इति स्वस्त्ययनकामः (कौसू-७.१०[५९].१४ {समास् त्वाग्ने [२.६.१]}{अभ्य् अर्चत [७.८२.१]}इत्य् अग्निं संपत्कामः (कौसू-७.१०[५९].१५ {पृथिव्याम् [४.३९.१]} इति मन्त्रोक्तम् (कौसू-७.१०[५९].१६ {तद् इद् आस [५.२.१]} {धीती वा [७.१.१]}इतीन्द्राग्नी (कौसू-७.१०[५९].१७ {यस्येदम् आ रजो [६.३३.१]}{अथर्वाणं [७.२.१]}{अदितिर् द्यौर् [७.६.१]} {दितेः पुत्राणाम् [७.७.१]}{बृहस्पते सवितर् [७.१६.१]} इत्य् अभ्युदितं ब्रह्मचारिणं बोधयति (कौसू-७.१०[५९].१८ {धाता दधातु [७.१७.१]} {प्रजापतिर् जनयति [७.१९.१]}{अन्व् अद्य नो [७.२०.१]} {यन् न इन्द्रो [७.२४.१]} {ययोर् ओजसा [७.२५.१]} {विष्णोर् नु कं [७.२६.१]}{अग्नाविष्णू [७.२९.१]} {सोमारुद्रा [७.४२.१]} {सिनीवालि [७.४६.१]} {बृहस्पतिर् नः [७.५१.१]}{यत् ते देवा अकृण्वन् [७.७९.१]} {पूर्णा पश्चाद् [७.८०.१]}{प्रजापते [७.८०.३]}{अभ्य् अर्चत [७.८२.१]} {को अस्या नो [७.१०३.१]}इति प्रजापतिम् (कौसू-७.१०[५९].१९ {अग्न इन्द्रश् च [७.११०.१]}इति मन्त्रोक्तान् सर्वकामः (कौसू-७.१०[५९].२० {य ईशे [२.३४.१]} {ये भक्षयन्तो [२.३५.१]}इतीन्द्राग्नी लोककामः (कौसू-७.१०[५९].२१ अन्नं ददाति प्रथमम् (कौसू-७.१०[५९].२२ पशूपाकरणम् उत्तमम् (कौसू-७.१०[५९].२३ सवपुरस्ताद्धोमा युज्यन्ते (कौसू-७.१०[५९].२४ {दोषो गाय [६.१.१]}इत्य् अथर्वाणं समावृत्याश्नाति (कौसू-७.१०[५९].२५ {अभयं द्यावापृथिवी [६.४०.१]} {श्येनो ऽसि [६.४८.१]}इति प्रतिदिशं सप्तर्षीन् अभयकामः (कौसू-७.१०[५९].२६ उत्तरेण दीक्षितस्य वा ब्रह्मचारिणो वा दण्डप्रदानं (कौसू-७.१०[५९].२७ {द्यौश् च म [६.५३.१]} इति द्यावापृथिव्यै विरिष्यति (कौसू-७.१०[५९].२८ {यो अग्नौ [७.८७.१]}इति रुद्रान् स्वस्त्ययनकामः स्वस्त्ययनकामः (कौसू-७.१०[५९].२९
- इति अथर्ववेदे कौशिकसूत्रे सप्तमो ऽध्यायः समाप्तः