कौसल्येयो ...सौमित्रिवत्सलः

विकिपुस्तकानि तः

मूलम्
कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥५॥

पदच्छेदः
कौसल्येयः दृशौ पातु विश्वामित्रप्रियः श्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥५॥

अन्वयः
कौसल्येयः (मम) दृशौ पातु। विश्वामित्रप्रियः (मम) श्रुती (पातु)।मखत्राता घ्राणं पातु। सौमित्रिवत्सलः मुखं (पातु) ॥५॥

सरलार्थः
कौसल्यापुत्रः मम नेत्रयोः रक्षणं करोतु।विश्वामित्रस्य प्रियशिष्यः रामः मम कर्णयोः रक्षणं करोतु।यज्ञस्य रक्षिता रामः मम नासिकां रक्षतु।लक्ष्मणः यस्य प्रियः सः रामः मम मुखं रक्षतु॥५

सन्धिविग्रहः

सन्धिः विग्रहः सूत्रम्
कौसल्येयो दृशौ
कौसल्येयस् दृशौ ससजुषो रुः।८.२.६६

हशि च।६.१.११२

समासविग्रहः ५
विश्वामित्रप्रियः
विश्वामित्रस्य प्रियः विश्वामित्रप्रियः।...षष्ठी।२.२.८


'मखत्राता
मखानां त्राता मखत्राता।... षष्ठी।२.२.८

सौमित्रिवत्सलः
सौमित्रिः वत्सलः यस्य सः।...अनेकमन्यपदार्थे।२.२.२४

रामरक्षास्तोत्रम् - सान्वयं सार्थम्