क्रियादक्षो दक्षः...

विकिपुस्तकानि तः

मूलम्
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां।
ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः।।
क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः।
ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः।। २१।।

पदच्छेदः-
क्रियादक्षः दक्षः क्रतुपतिः अधीशः तनुभृतां।ऋषीणाम् आर्त्विज्यं शरणद सदस्याः सुर-गणाः।।
क्रतुभ्रंशः त्वत्तः क्रतुफल-विधान-व्यसनिनः।ध्रुवं कर्तु: श्रद्धा-विधुरम् अभिचाराय हि मखाः।। २१।।

अन्वयः-
हे शरणद, तनुभृताम् अधीशः क्रियादक्षः दक्षः क्रतुपतिः, ऋषीणाम् आर्त्विज्यं सुर-गणाः सदस्याः (तथापि)क्रतुफल-विधान-व्यसनिनः त्वत्तः क्रतुभ्रंशः जातः।हि कर्तुः श्रद्धा-विधुरम् मखाः ध्रुवं अभिचाराय ।। २१।।

सरलार्थः-
हे शरणद, यज्ञफलदानं इति तव व्यसनम् अस्ति।दक्षस्य यज्ञे क्रियादक्षः दक्षः यजमानः आसीत्।ऋषयः ऋत्विजः आसन्।सर्वे देवाः सदस्याः आसन्। तथापि क्रतुफलदातुः तव सकाशाद् एव यज्ञस्य ध्वंसः जातः। श्रद्धारहितः यज्ञाः कर्तुः नाशाय एव कल्पन्ते।२१


शिवस्तोत्राणि      शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=क्रियादक्षो_दक्षः...&oldid=6176" इत्यस्माद् प्रतिप्राप्तम्