गोरक्षाशतकम्
ॐ हठ-योग-गोरक्ष-शतक-प्रारम्भः।
श्री-गुरुं परमानन्दं वन्दे स्वानन्द-विग्रहम्।
यस्य संनिध्य-मात्रेण चिदानन्दायते तनुः॥१॥
अन्तर्-निश्चलितात्म-दीप-कलिका-स्वाधार-बन्धादिभिः
यो योगी युग-कल्प-काल-कलनात् त्वं जजेगीयते।
ज्ञानामोद-महोदधिः समभवद् यत्रादिनाथः स्वयं
व्यक्ताव्यक्त-गुणाधिकं तम् अनिशं श्री-मीननाथं भजे॥२॥
नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानम् उत्तमम्।
अभीष्टं योगिनां ब्रूते परमानन्द-कारकम्॥३॥
गोरक्षः शतकं वक्ति योगिनां हित-काम्यया।
ध्रुवं यस्यावबोधेन जायते परमं पदम्॥४॥
एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम्।
यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि॥५॥
द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम्।
शमनं भव-तापस्य योगं भजति सज्जनः॥६॥
आसनं प्राण-संयामः प्रत्याहारोथ धारणा।
ध्यानं समाधिर् एतानि योगाङ्गानि भवन्ति षट्॥७॥
आसनानि तु तावन्ति यावत्यो जीव-जातयः।
एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः॥८॥
चतुराशीति-लक्षाणां एकम् एकम् उदाहृतम्।
ततः शिवेन पीठानां षोडेशानं शतं कृतम्॥९॥
आसनेभ्यः समस्तेभ्यो द्वयम् एव विशिष्यते।
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम्॥१०॥
योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन्
मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम्।
स्थाणुः संयमितेन्द्रियोचल-दृशा पश्यन् भ्रुवोर् अन्तरम्
एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते॥११॥
वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्
एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते॥१२॥
षट्-चक्रं षोडशाधारं त्रिलक्षं व्योम-पञ्चकम्।
स्व-देहे ये न जानन्ति कथं सिध्यन्ति योगिनः॥१३॥
एक-स्तम्भं नव-द्वारं ग्ढ़ं पञ्चाधिदैवतम्।
स्व-देहं ये न जानन्ति कथं सिध्यन्ति योगिनः॥१४॥
चतुर्दलं स्याद् आधारः स्वाधिष्ठानं च षट्-दलम्।
नाभौ दश-दलं पद्मं सूर्य-सङ्ख्य-दलं हृदि॥१५॥
कण्ठे स्यात् षोडश-दलं भ्रू-मध्ये द्विदलं तथा।
सहस्र-दलम् आख्यातं ब्रह्म-रन्ध्रे महा-पथे॥१६॥
आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम्।
योनि-स्थानं द्वयोर् मध्ये काम-रूपं निगद्यते॥१७॥
आधाराख्यं गुद-स्थानं पङ्कजं च चतुर्-दलम्।
तन्-मध्ये प्रोच्यते योनिः कामाक्षा सिद्ध-वन्दिता॥१८॥
योनि-मध्ये महा-लिङ्गं पश्चिमाभिमुखं स्थितम्।
मस्तके मणिवद् बिम्बं यो जानाति स योगवित्॥१९॥
तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरत्।
त्रिकोणं तत्-पुरं वह्नेर् अधो-मेढ्रात् प्रतिष्ठितम्॥२०॥
यत् समाधौ परं ज्योतिर् अनन्तं विश्वतो-मुखम्।
तस्मिन् दृष्टे महा-योगे यातायातं न विद्यते॥२१॥
स्व-शब्देन भवेत् प्राणः स्वाधिष्ठानं तद्-आश्रयः।
स्वाधिष्ठानात् पदाद् अस्मान् मेढ्रम् एवाभिधीयते॥२२॥
तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया।
तन्-नाभि-मण्डलं चक्रं प्रोच्यते मणि-पूरकम्॥२३॥
द्वादशारे महा-चक्रे पुण्य-पाप-विवर्जिते।
तावज् जीवो भ्रमत्य् एव यावत् तत्त्वं न विन्दति॥२४॥
ऊर्ध्वं मेढ्राद् अधो नाभेः कन्द-योनिः खगाण्डवत्।
तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः॥२५॥
तेषु नाडि-सहस्रेषु द्विसप्ततिर् उदाहृताः।
प्रधानं प्राण-वाहिन्यो भूयस् तत्र दश स्मृताः॥२६॥
इडा च पिङ्गला चैव सुषुम्णा च तृतीयका।
गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी॥२७॥
अलम्बुषा कुहूश् चैव शङ्खिनी दशमी स्मृता।
एतन् नाडि-मयं चक्रं ज्ञातव्यं योगिभिः सदा॥२८॥
इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा।
सुषुम्णा मध्य-देशे तु गान्धारी वाम-चक्षुषि॥२९॥
दक्षिणे हस्ति-जिह्वा च पूषा कर्णे च दक्षिणे।
यशस्विनी वाम-कर्णे चासने वाप्य् अलम्बुषा॥३०॥
कुहूश् च लिङ्ग-देशे तु मूल-स्थाने च शङ्खिनी।
एवं द्वारम् उपाश्रित्य तिष्ठन्ति दश-नाडिकाः॥३१॥
इडा-पिङ्गला-सुषुम्णा च तिस्रो नाड्य उदाहृताः।
सततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः॥३२॥
प्राणोपानः समानश् चोदानो व्यानौ च वायवः।
नागः कूर्मोथ कृकरो देवदत्तो धनञ्जयः॥३३॥
हृदि प्राणो वसेन् नित्यं अपानो गुद-मण्डले।
समानो नाभि-देशे स्याद् उदानः कण्ठ-मध्यगः॥३४॥
उद्गारे नागाख्यातः कूर्म उन्मीलने स्मृतः।
कृकरः क्षुत-कृज् ज्ञेयो देवदत्तो विजृम्भणे॥३५॥
न जहाति मृतं चापि सर्व-व्यापि धनञ्जयः।
एते सर्वासु नाडीषु भ्रमन्ते जीव-रूपिणः॥३६॥
आक्षिप्तो भुज-दण्डेन यथोच्चलति कन्दुकः।
प्राणापान-समाक्षिप्तस् तथा जीवो न तिष्ठति॥३८॥
प्राणापान-वशो जीवो ह्य् अधश् चोर्ध्वं च धावति।
वाम-दक्षिण-मार्गेण चञ्चलत्वान् न दृश्यते॥३९॥
रज्जु-बद्धो यथा श्येनो गतोप्य् आकृष्यते।
गुण-बद्धस् तथा जीवः प्राणापानेन कृष्यते॥४०॥
अपानः कर्षति प्राणः प्राणोपानं च कर्षति।
ऊर्ध्वाधः संस्थिताव् एतौ संयोजयति योगवित्॥४१॥
ह-कारेण बहिर् याति स-कारेण विशेत् पुनः।
हंस-हंसेत्य् अमुं मन्त्रं जीवो जपति सर्वदा॥४२॥
षट्-शतानित्वहो-रात्रे सहस्राण्य् एक-विंशतिः।
एतत् सङ्ख्यान्वितं मन्त्र जीवो जपति सर्वदा॥४३॥
अजपा नाम गायत्री योगिनां मोक्ष-दायिनी।
अस्याः सङ्कल्प-मात्रेण सर्व-पापैः प्रमुच्यते॥४४॥
अनया सदृशी विद्या अनया सदृशो जपः।
अनया सदृशं ज्ञानं न भूतं न भविष्यति॥४५॥
कुन्दलिन्याः समुद्भूता गायत्री प्राण-धारिणी।
प्राण-विद्या महा-विद्या यस् तां वेत्ति स योगवित्॥४६॥
कन्दोर्ध्वं कुण्डली शक्तिर् अष्टधा कुण्डलाकृति।
ब्रह्म-द्वार-मुखं नित्यं मुखेनाच्छाद्य तिष्ठति॥४७॥
येन द्वारेण गन्तव्यं ब्रह्म-स्थानम् अनामयम्।
मुखेनाच्छाद्य तद्-द्वारं प्रसुप्ता परमेश्वरी॥४८॥
प्रबुद्धा वह्नि-योगेन मनसा मारुता हता।
सूचीवद् गुणम् आदाय व्रजत्य् ऊर्ध्वं सुषुम्णया॥४९॥
प्रस्फुरद्-भुजगाकारा पद्म-तन्तु-निभा शुभा।
प्रबुद्धा वह्नि-योगेन व्रत्य ऊर्ध्वं सुषुम्णया॥५०॥
उद्घटयेत् कपातं तु यथा कुञ्चिकया हठात्।
कुण्डलिन्या तथा योगी मोक्ष-द्वारं प्रभेदयेत्॥५१॥
कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं
गाढं वक्षसि सन्निधाय चिबुकं ध्यात्वा च तत् प्रेक्षितम्।
वारं वारम् अपानम् ऊर्ध्वम् अनिलं प्रोच्चारयेत् पूरितं
मुञ्चन् प्राणम् उपैति बोधम् अतुलं शक्ति-प्रबोधान् नरः॥५२॥
अङ्गानां मर्दनं कुर्याच् छ्रम-जातेन वारिणा।
कट्व्-अम्ल-लवण-त्यागी क्षीर-भोजनम् आचरेत्॥५३॥
ब्रह्मचारी मिताहारी त्यागी योग-परायणः।
अब्दाद् ऊर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा॥५४॥
सुस्निग्धं मधुराहारं चतुर्थांश-विवर्जितम्।
भुज्यते सुर-सम्प्रीत्यै मिताहारः स उच्यते॥५५॥
कन्दोर्ध्वं कुण्डली शक्तिर् अष्टधा कुण्डलाकृतिः।
बन्धनाय च मूढानां योगिनां मोक्षदा स्मृता॥५६॥
महामुद्रां नमो-मुद्राम् उड्डियानं जलन्धरम्।
मूल-बन्धं च यो वेत्ति स योगी सिद्धि-भाजनम्॥५७॥
शोधनं नाडि-जालस्य चालनं चन्द्र-सूर्ययोः।
रसानां शोषणं चैव महा-मुद्राभिधीयते॥५८॥
वक्षो-न्यस्त-हनुर् निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा
हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम्।
आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै रेचयेद्
एषा पातक-नाशिनी सुमहती मुद्रा नॄणां प्रोच्यते॥५९॥
चन्द्राङ्गेन समभ्यस्य सूर्याङ्गेनाभ्यसेत् पुनः।
यावत् तुल्या भवेत् सङ्ख्या ततो मुद्रां विसर्जयेत्॥६०॥
न हि पथ्यम् अपथ्यं वा रसाः सर्वेपि नीरसाः।
अपि मुक्तं विषं घोरं पीयूषम् अपि जीर्यते॥६१॥
क्षय-कुष्ठ-गुदावर्त-गुल्माजीर्ण-पुरोगमाः।
तस्य दोषाः क्षयं यान्ति महामुद्रां तु योभ्यसेत्॥६२॥
कथितेयं महामुद्रा महा-सिद्धि-करा नॄणाम्।
गोपनीया प्रयत्नेन न देया यस्य कस्यचित्॥६३॥
कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा।
भ्रुवोर् अन्तर्गता दृष्टिर् मुद्रा भवति खेचरी॥६४॥
न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा।
न च मूर्च्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम्॥६५॥
पीड्यते न स रोगेण लिप्यते न च कर्मणा।
बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम्॥६६॥
चित्तं चरति खे यस्माज् जिह्वा चरति खे गता।
तेनैषा खेचरी नाम मुद्रा सिद्धैर् निरूपिता॥६७॥
बिन्दु-मूलं शरीरं तु शिरास् तत्र प्रतिष्ठिताः।
भावयन्ति शरीरं या आपाद-तल-मस्तकम्॥६८॥
खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः।
न तस्य क्षरते बिन्दुः कामिन्यालिङ्गितस्य च॥६९॥
यावद् बिन्दुः स्थितो देहे तावत् काल-भयं कुतः।
यावद् बद्धा नभो-मुद्रा तावद् बिन्दुर् न गच्छति॥७०॥
चलितोपि यदा बिन्दुः सम्प्राप्तश् च हुताशनम्।
व्रजत्य् ऊर्ध्वं हृतः शक्त्या निरुद्धो योनि-मुद्रया॥७१॥
स पुनर् द्विविधो बिन्दुः पण्डुरो लोहितस् तथा।
पाण्डुरं शुक्रम् इत्य् आहुर् लोहितं तु महाराजः॥७२॥
सिन्दूर-द्रव-सङ्काशं रवि-स्थाने स्थितं रजः।
शशि-स्थाने स्थितो बिन्दुस् तयोर् ऐक्यं सुदुर्लभम्॥७३॥
बिन्दुः शिवो रजः शक्तिर् बिन्दुम् इन्दू रजो रविः।
उभयोः सङ्गमाद् एव प्राप्यते परमं पदम्॥७४॥
वायुना शक्ति-चारेण प्रेरितं तु महा-रजः।
बिन्दुनैति सहैकत्वं भवेद् दिव्यं वपुस् तदा॥७५॥
शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम्।
तयोः समरसैकत्वं योजानाति स योगवित्॥७६॥
उड्डीनं कुरुते यस्माद् अविश्रान्तं महा-खगः।
उड्डीयानं तद् एव स्यात् तव बन्धोभिधीयते॥७७॥
उदरात् पश्चिमे भागे ह्य् अधो नाभेर् निगद्यते।
उड्डीयनस्य बन्धोयं तत्र बन्धो विधीयते॥७८॥
बध्नाति हि सिराजालम् अधो-गामि शिरो-जलम्।
ततो जालन्धरो बन्धः कण्ठ-दुःखौघ-नाशनः॥७९॥
जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे।
पीयूषं न पतत्य् अग्नौ न च वायुः प्रकुप्यति॥८०॥
पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम्।
अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धोभिधीयते॥८१॥
अपान-प्राणयोर् ऐक्यात् क्षयान् मूत्र-पुरीषयोः।
युवा भवति वृद्धोपि सततं मूल-बन्धनात्॥८२॥
पद्मासनं समारुह्य सम-काय-शिरो-धरः।
नासाग्र-दृष्टिर् एकान्ते जपेद् ओङ्कारम् अव्ययम्॥८३॥
भूर् भुवः स्वर् इमे लोकाः सोम-सूर्याग्नि-देवताः।
यस्या मात्रासु तिष्ठन्ति तत् परं ज्योतिर् ओम् इति॥८४॥
त्रयः कालास् त्रयो वेदास् त्रयो लोकास् त्रयः स्वेराः।
त्रयो देवाः स्थिता यत्र तत् परं ज्योतिर् ओम् इति॥८५॥
क्रिया चेच्छा तथा ज्ञाना ब्राह्मी रौद्री च वैष्णवी।
त्रिधा शक्तिः स्थिता यत्र तत् परं ज्योतिर् ओम् इति॥८६॥
आकाराश् च तथो-कारो म-कारो बिन्दु-संज्ञकः।
तिस्रो मात्राः स्थिता यत्र तत् परं ज्योतिर् ओम् इति॥८७॥
वचसा तज् जयेद् बीजं वपुषा तत् समभ्यसेत्।
मनसा तत् स्मरेन् नित्यं तत् परं ज्योतिर् ओम् इति॥८८॥
शुचिर् वाप्य् अशुचिर् वापि यो जपेत् प्रणवं सदा।
लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा॥८९॥
चले वाते चलो बिन्दुर् निश्चले निश्चलो भवेत्।
योगी स्थाणुत्वम् आप्नोति ततो वायुं निरोधयेत्॥९०॥
यावद् वायुः स्थितो देहे तावज् जीवनम् उच्यते।
मरणं तस्य निष्क्रान्तिस् ततो वायुं निरोधयेत्॥९१॥
यावद् बद्धो मरुद् देहे यावच् चित्तं निराकुलम्।
यावद् दृष्टिर् भ्रुवोर् मध्ये तावत् काल-भयं कुतः॥९२॥
अतः काल-भयाद् ब्रह्मा प्राणायाम-परायणः।
योगिनो मुनयश् चैव ततो वायुं निरोधयेत्॥९३॥
षट्-त्रिंशद्-अङ्गुलो हंसः प्रयाणं कुरुते बहिः।
वाम-दक्षिण-मार्गेण ततः प्राणोभिधीयते॥९४॥
शुद्धिम् एति यदा सर्वं नाडी-चक्रं मलाकुलम्।
तदैव जायते योगी प्राण-संग्रहणे क्षमः॥९५॥
बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत्।
धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत्॥९६॥
अमृतं दधि-सङ्काशं गो-क्षीर-रजतोपमम्।
ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत्॥९७॥
दक्षिणो श्वासम् आकृष्य पूरयेद् उदरं शनैः।
कुम्भयित्वा विधानेन पुरश् चन्द्रेण रेचयेत्॥९८॥
प्रज्वलज्-ज्वलन-ज्वाला-पुञ्जम् आदित्य-मण्डलम्।
ध्यात्वा नाभि-स्थितं योगी प्राणायामे सुखी भवेत्॥९९॥
प्राणं चोदिडया पिबेन् परिमितं भूयोन्यया रेचयेत्
पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वा त्यजेद् वामया।
सूर्य-चन्द्रमसोर् अनेन विधिना बिम्ब-द्वयं ध्यायतः
शुद्धा नाडि-गणा भवन्ति यमिनो मास-त्रयाद् ऊर्ध्वतः॥१००॥
यथेष्ठं धारणं वायोर् अनलस्य प्रदीपनम्।
नादाभिव्यक्तिर् आरोग्यं जायते नाडि-शोधनात्॥१०१॥
इति गोरक्ष-शतकं सम्पूर्णम्।