सामग्री पर जाएँ

ग,घ...

विकिपुस्तकानि तः

गम्यः =
प्रतिपाद्यः।प्रतीतिविषयः।
यथा सप्त पदार्थाः इति तर्कसङ्ग्रहस्य गम्यः, प्रतिपाद्यः, प्रतीतिविषयः वा ।
यथा दन्तधावनोपयोगीनि द्रव्याणि इति ‘अर्कन्यग्रोधखदिरकरञ्जककुभादिजम्’ इत्यादेः सूत्रस्य गम्यः, प्रतिपाद्यः, प्रतीतिविषयः वा ।।

गुणवान् =
कर्मवान्। क्रियावान्। गुणी।द्रव्यम्।
यथा घटः गुणवान्, क्रियावान्, कर्मवान्, गुणी द्रव्यं वा।
यथा कफः कर्मवान्, क्रियावान्, गुणवान्, गुणी द्रव्यं वा।

गुणी =
कर्मवान्, क्रियावान्, गुणवान्, द्रव्यम्।
यथा घटः गुणी, क्रियावान्, कर्मवान्, गुणवान् द्रव्यं वा।
यथा कफः गुणी, कर्मवान्, क्रियावान्, गुणवान् द्रव्यं वा।

ग्रहः =
ज्ञानम्।धी:।प्रतीतिः।प्रत्ययः।बुध्दिः।बोधः।संवित्।।
यथा देवदत्तः घटं जानाति इत्युक्ते देवदत्तस्य घटग्रहः, घटज्ञानम् , घटधीः, घटप्रतीतिः, घटप्रत्ययः, घटबुध्दिः, घटबोधः, घटसंवित् वा अस्ति।
यथा वैद्यः शरीरं जानाति इत्युक्ते वैद्यस्य शरीरग्रहः, शरीरज्ञानम् , शरीरधीः, शरीरप्रतीतिः, शरीरप्रत्ययः, शरीरबुध्दिः, शरीरबोधः, शरीरसंवित् वा ।

घ्राणग्राह्यत्वम् =
घ्राणत्वम्।घ्राणेन्द्रियग्राह्यप्रत्यक्षविषयत्वम्।
यथा पुष्पगन्धे घ्राणग्राह्यत्वं,घ्राणत्वं,घ्राणेन्द्रियग्राह्यप्रत्यक्षविषयत्वं वा विद्यते।।
यथा पूयगन्धे घ्राणग्राह्यत्वं,घ्राणत्वं,घ्राणेन्द्रियग्राह्यप्रत्यक्षविषयत्वं वा विद्यते।।

घ्राणत्वम् =
घ्राणेन्द्रियग्राह्यप्रत्यक्षविषयत्वम्।घ्राणग्राह्यत्वम्।
यथा पुष्पगन्धे घ्राणत्वं,घ्राणेन्द्रियग्राह्यप्रत्यक्षविषयत्वं,घ्राणग्राह्यत्वं वा विद्यते।
यथा पूयगन्धे घ्राणत्वं,घ्राणेन्द्रियग्राह्यप्रत्यक्षविषयत्वं,घ्राणग्राह्यत्वं वा विद्यते।।

घ्राणत्वम् =
घ्राणेन्द्रियजन्यप्रत्यक्षत्वम्।
गन्धज्ञाने घ्राणत्वं, घ्राणेन्द्रियजन्यप्रत्यक्षत्वं वा विद्यते।।
व्रणगतस्य पूयस्य गन्धज्ञानं भवति, इत्युक्ते गन्धज्ञाने घ्राणत्वं, घ्राणेन्द्रियजन्य-प्रत्यक्षत्वं वा विद्यते।।

घ्राणेन्द्रियग्राह्यप्रत्यक्षविषयत्वम् =
घ्राणत्वम्।घ्राणग्राह्यत्वम्।
यथा पुष्पगन्धे घ्राणेन्द्रियग्राह्यप्रत्यक्षविषयत्वं,घ्राणत्वं, घ्राणग्राह्यत्वं वा विद्यते।।
यथा पूयगन्धे घ्राणेन्द्रियग्राह्यप्रत्यक्षविषयत्वं,घ्राणत्वं, घ्राणग्राह्यत्वं वा विद्यते।।

घ्राणेन्द्रियजन्यप्रत्यक्षत्वम् =
घ्राणत्वम् ।
गन्धज्ञाने घ्राणेन्द्रियजन्यप्रत्यक्षत्वं, घ्राणत्वं वा विद्यते।
व्रणगतस्य पूयस्य गन्धज्ञानं भवति, इत्युक्ते गन्धज्ञाने घ्राणत्वं, घ्राणेन्द्रियजन्य-प्रत्यक्षत्वं वा विद्यते।।

न्यायशास्त्रीयशब्दपर्यायसङ्ग्रहः

"https://sa.wikibooks.org/w/index.php?title=ग,घ...&oldid=7296" इत्यस्माद् प्रतिप्राप्तम्