चमसाधिकरणम्

विकिपुस्तकानि तः
Jump to navigation Jump to search

चमसवदविशेषात्।१.४.८
पू.- अजामेकाम्... श्वेता.४.५ इत्यत्र अजाशब्देन साङ्ख्योक्तं प्रधानमभिप्रेतम्।अत: श्रुतिमूला प्रधानकल्पना।
वे.- न।यथा ‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्न: (बृह. २.२.३)इत्यस्मिन् मन्त्रे ‘अयं नामासौ चमस:’ इति निरूपणं न शक्यते, तथा अत्रापि ‘अजा नाम प्रधानम्’ इति निरूपयितुं न शक्यते।

ज्योतिरुपक्रमा तु तथा ह्यधीयते एके।१.४.९
वे.- परमेश्वरादुत्पन्ना ज्योति:प्रमुखा तेजोबन्नलक्षणा चतुर्विधस्य भूतग्रामस्य प्रकृतिभूतेयमजा।नात्र लोहितकृष्णशुक्लशब्दै: गुणत्रयं विवक्षितम्, अपि तु भूतत्रयं विवक्षितम्। यतो हि एके शाखिन: तेजोबन्नानि रोहितकृष्णशुक्लरूपै: अधीयते- ‘यदग्ने रोहितं रूपं, तेजसस्तद्रूपं, यच्छुक्लं तदपां, यत्कृष्णं तदन्नस्येति।’ अत: रोहितादिशब्दै: तेजोबन्नानां प्रत्यभिज्ञा भवति।
वे.- असन्दिग्धेन सन्दिग्धस्य नियमनं न्याय्यम्।अत्र, ‘ब्रह्मवादिनो वदन्ति किंकारणं ब्रह्म-(श्वे. १.१) इत्युपक्रम:। ‘ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम् (श्वे.१.३)इति परमेश्वरशक्ते: समस्तजगद्विधायिन्या: बोध: भवति।मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्।यो योनिं योनिमधितिष्ठत्येक:।(श्वे.४.१०,११) इति वाक्यशेषे तस्या: एव शक्तेरवगम:।अत: न प्रधानाख्या स्वतन्त्रा काचित् प्रकृति: अजाशब्देनात्राम्नाता।प्रकरणात्तु अजा नाम दैवी शक्ति: या अव्याकृतनामरूपा।
पू.- तस्या: त्रैरूप्यं कथम्?
वे.-तस्या विकारा: तेजोबन्नानि।स्वविकारविषयक-त्रैरूप्येण तस्या अपि त्रैरूप्यमुक्तम्।
पू.- कथं तेजोबन्नानां त्रैरूप्येण अजापि त्रिरूपा इति प्रतिपत्ति: शक्या? यतो हि न तेजोबन्नादिषु अजात्वं विद्यते।
वे.- अत्रोत्तरमुच्यते –

कल्पनोपदेशाच्च मध्वादिवदविरोध:।१.४.१०
वे.- नायमजाशव्द: यौगिक:।कल्पनोपदेशोऽयम्।चराचरयोने: तेजोबन्नलक्षणाया: अजारूपककल्पनात्र उपदिश्यते।यथा –
१ आदित्यस्यामधुनोऽपि मधुत्बकल्पना।(छा. ३.१)
२ वाचश्चाधेनो: धेनुत्वम्।(बृ. ५.८)
३ द्युलोकादीनामनग्नीनामग्नित्वम्।(बृ .८.२.३)
एवमेव अनजाया: अजात्वं कल्प्यते।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्     प्रथमाध्याये चतुर्थ: पाद:
"https://sa.wikibooks.org/w/index.php?title=चमसाधिकरणम्&oldid=5589" इत्यस्माद् प्रतिप्राप्तम्