चित्सुखीयानुमाने प्रतिरोधानुमानम्...

विकिपुस्तकानि तः

प्र.-चित्सुखीयानुमाने प्रतिरोधानुमानं शङ्कन्ताम्।
उ.- प्रतिरोधानुमानशङ्काविवेचनस्य क्रम: एवं भविष्यति –
१ सन्दर्भ:
२ प्रतिरोधानुमानप्रयोग:
३ तत्र सिद्धान्तिना दर्शित: ‘अप्रसिद्धविशेषणम्’ इति दोष:।
४ पूर्वपक्षेण कृत: तत्परिहार:
५ सिद्धान्तिना उद्धृत: व्यभिचारदोष:
६ तस्य पूर्वपक्षेण कृतं निवारणम्

१ सन्दर्भ:-
अयं पट: एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, अंशित्वात्, इतरांशिवत् इति एतत् चित्सुखीयानुमानम्।अंशित्वप्रकरणस्य आरम्भ: अनेन अनुमानेन जात:।अस्मिन् अनुमाने पूर्वपक्षेण प्रतिरोधानुमानं प्रदर्शितं, तदेवम्-

२ प्रतिरोधानुमानप्रयोग:
अयं पट: ... पक्ष:।
एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी न ... साध्यम्
एतत्तन्त्वारब्धत्वात् ... हेतु:
यत्र एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वाभाव: (यत्र साध्याभाव:)तत्र एतत्तन्त्वारब्धत्वं न (तत्र हेत्वभाव:)पटान्तरवत्।
अत्र अन्वयव्याप्ति: न शक्या।यतो हि तस्या: उदाहरणम् ‘अयं पट:’ इत्येव भविष्यति।‘अयं पट:’ तु पक्ष:। तत्र साध्यं सन्दिग्धम् अस्ति अत: स: उदाहरणं भवितुं नार्हति।अत: व्यतिरेकव्याप्ति: उक्ता।

३ तत्र सिद्धान्तिना दर्शित: ‘अप्रसिद्धविशेषणम्’ इति दोष:
‘एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी न (अत्यन्ताभावप्रतियोगित्वाभाव:)’ इति अस्मिन् साध्ये-
एतत्तन्तुनिष्ठत्वं ............ विशेषणांश:, अत्यन्ताभावप्रतियोगित्वाभाव: ... विशेष्यांश:।
एतत्तन्तुनिष्ठत्वम् इति विशेषणम् अस्मिन् पटे एव प्रसिद्धं, नान्यत्र।अत: अप्रसिद्धविशेषणम् इति दोष: अत्र विद्यते।

४ पूर्वपक्षेण कृत: तत्परिहार:-
एतत्तन्तुनिष्ठत्वम् अप्रसिद्धं नास्ति।यतो हि एतत्तन्तुनिष्ठत्वं पटरूपादिषु अपि विद्यते, न केवलम् अस्मिन् पटे।
सिद्धान्ती - नैवम्।यद्यपि तन्तुरूपादिकम् एतत्तन्तुनिष्ठमस्ति, तथापि पटग्रहणेन तेषामपि ग्रहणं चित्सुखाचार्याणाम् अभिमतम्।अत: एतत्तन्तुनिष्ठत्वं पटव्यतिरिक्ते तन्तुरूपादौ अस्ति अत: विशेषणं प्रसिद्धम् इति वक्तुं न शक्यते।
अत्र पूर्वपक्ष: सामान्यां विशेषणप्रसिद्धिम् अनुमानेन साधयति-
एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं किञ्चिन्निष्ठाभावप्रतियोगि संसर्गाभावप्रतियोगित्वव्याप्यत्वात्, प्रागभावप्रतियोगित्ववत् ।
अनेन अनुमानेन एतन्निष्ठात्यन्ताभावप्रतियोगित्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगि इति साधितम्।तेन ‘विशेषणांश: अप्रसिद्ध:’ इति एष दोष: निरकृत:।

५ सिद्धान्तिना उद्धृत: व्यभिचारदोष:-
साध्यम्- किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वम्
हेतु:- संसर्गाभावप्रतियोगित्वव्याप्यत्वम्
अयं हेतु: साध्याभाववद्वृत्ति: अस्ति इति सिद्धान्ती दर्शयति।तदेवम्- न्यायमते आकाश: कुत्रापि वृत्तित्वेन नास्ति।आकाशस्य वृत्तित्वेन अत्यन्ताभाव: सर्वत्र वर्तते।घटादौ आकाशात्यन्ताभाव: अस्ति।घटादौ संसर्गाभावप्रतियोगित्वव्याप्यत्वम् अपि अस्ति।एवम् आकाशाभावे हेतु: (संसर्गाभावप्रतियोगित्वव्याप्यत्वम्)अस्ति परं साध्यं (किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वम्) नास्ति यतो हि आकाशाभाव: केवलान्वयी अस्ति।साध्याभाववद्वृत्ति: अयं हेतु: अत: व्यभिचारी।

६ अस्य व्यभिचारदोषस्य पूर्वपक्षेण कृतं निवारणम्-
आकाशात्यन्ताभाव: संसर्गाभावप्रतियोगित्वस्य व्याप्य: अस्ति इति सिद्धान्तिन: मतम् अयुक्तम्।प्रमेयत्वादौ केवलान्वयिधर्मे आकाशात्यन्ताभाव: अस्ति परं संसर्गाभावप्रतियोगित्वव्याप्यत्वं नास्ति अत:-
अयं पट: एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी न , एतत्तन्त्वारब्धत्वात् इति अस्माकम् अनुमानं निर्दोषम्।
अनेन अनुमाने सिद्धान्तिन: अनुमानस्य प्रतिरोध: भवति।
. . . . . . . . . . .
दीर्घोत्तरप्रश्ना: