चित्सुखीयानुमाने सोपाधिकत्वदोस्य निराकरणम्

विकिपुस्तकानि तः

प्र.- चित्सुखीयानुमाने सोपाधिकत्वदोषं प्रदर्श्य निराकुरुत।
उ.- अद्वैतसिद्धिकारेण अंशित्वप्रकरणस्यारम्भे चित्सुखीयमनुमानमेवं प्रतिपादितम्-
अयं पट: एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, अंशित्वात्, इतरांशिवत्।
अस्मिन् अनुमाने –
पक्ष:- अयं पट:
साध्यम् – एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम्
हेतु:- अंशित्वम्।
अत्र पूर्वपक्षेण सोपाधिकत्वं दर्शितम्।पूर्वपक्षोक्त: उपाधि: ‘एतत्तन्त्वनारब्धत्वम्’।
यत्र एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वं (साध्यम्) तत्र एतत्तन्त्वनारब्धत्वम् (उपाधि:) यथा पटान्तरे।एतद् उपाधे: साध्यव्यापकत्वम्। यत्र अंशित्वं (हेतु:) तत्र एतत्तन्वनारब्धत्वम् (उपाधि:) इति न यथा अस्मिन् पटे।अस्मिन् पटे अंशित्वमस्ति परम् एतत्तन्त्वनारब्धत्वं नास्ति, एतत्तन्त्वारब्धत्वम् अस्ति।एतदुपाधे: साधनाव्यापकत्वम्।
एवं सोपाधिकत्वात् चित्सुखीयमनुमानं न प्रमाणम्।

सिद्धान्तिना अस्याक्षेपस्य निराकरणमेवं कृतम्-
पूर्वपक्षोक्त: उपाधि:- एतत्तन्त्वनारब्धत्वम्।उपाधिं प्रदर्शयता पक्षेण ‘उपाध्यभावे साध्याभाव:’ इति एतदर्थकम् अनुमानं प्रस्तोतव्यं भवति।यतो हि उपाधि: सत्प्रतिपक्षदर्शनेन सार्थ: भवति।अत्र उपाध्यभाव: एतत्तन्त्वारब्धत्वम्।साध्याभाव: एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वाभाव:।पूर्वपक्षेण एवं प्रतिपादनीयम्-
अयं पट:,
एतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगी,(चित्सुखीयसाध्याभाव:)
एतत्तन्त्वारब्धत्वात् (पूर्वपक्षोक्तोपाधे: अभाव:)
यत्र एतत्तन्त्वारब्धत्वं तत्र एतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वं यथा अयं पट:।
पूर्वपक्षविवक्षितम् एतदनुमानम् उपाधिदोषग्रस्तम्।अत्र उपाधि: अस्ति- एतत्तन्तुनिष्ठप्रागभावाप्रतियोगित्वम्।
यत्र एतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वं (पूर्वपक्षस्य साध्यम्)
तत्र एतत्तन्तुनिष्ठप्रागभावाप्रतियोगित्वम् (सिद्धान्तिना दर्शित: उपाधि:)
इति उपाधे: साध्यव्यापकत्वम्।
यत्र एतत्तन्त्वारब्धत्वं (पूर्वपक्षस्य साधनम् )
तत्र एतत्तन्तुनिष्ठप्रागभावाप्रतियोगित्वम् इति न ।अस्मिन् पटे एतत्तन्त्वारब्धत्वमस्ति परम् एतत्तन्तुनिष्ठप्रागभावाप्रतियोगित्वं नास्ति।तत्तु पटान्तरे विद्यते, नास्मिन् पटे।एतदुपाधे: साधनाव्यापकत्वम्।
तस्मात् पूर्वपक्षदर्शितेन (एतत्तन्तु-अनारब्धत्वेन)उपाधिना चित्सुखीयानुमानस्य बाध: न भवति।

पूर्वपक्षस्य विवक्षितं यदनुमानं तत्र इतोऽपि एक: दोष: विद्यते – तन्तुसंयोगे व्यभिचार:।
संयोग: अव्याप्यवृत्ति: अस्ति इति न्यायमतम्।स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वम् अव्याप्यवृत्तित्वम्।संयोगस्य एतद् अव्याप्यवृत्तित्वम् अङ्गीकृतं चेत् तन्तुसंयोगे पूर्वपक्षस्य हेतु: साध्यं व्यभिचरति।
पूर्वपक्षोक्तं साध्यम्- एतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वम्।
अस्य साध्यस्याभाव:- एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम्।
अयं साध्याभाव: तन्तुसंयोगे वर्तते।हेतु: एतत्तन्त्वारब्धत्वम्। स: अपि तन्तुसंयोगे वर्तते। एवं हेतो: साध्याभाववद्वृत्तित्वम् आपन्नम्।अत: तन्तुसंयोगे पूर्वपक्षस्य हेतु: साध्यं व्यभिचरति।

पूर्वपक्षविवक्षितानुमाने तृतीयोऽपि दोष: अस्ति-
तस्य विवक्षितं साध्यम्- एतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वम्।
तेनोक्त: उपाधि: - एतत्तन्त्वारब्धत्वम्।
अनयो: व्यतिरेकेण व्याप्ति: एवं भवति-
यत्र एतत्तन्तुनिष्ठात्यन्ताभावाप्रतियोगित्वं तत्र एतत्तन्त्वनारब्धत्वम्।एषा व्याप्ति: तन्तुसंयोगे व्यभिचरति।अत: व्याप्तिग्रह: न भवति।एवं पूर्वपक्षस्य उपाधि: साध्यव्यापक: नास्ति।
तस्मात् चित्सुखीयानुमाने उपाधिदोष: न सम्भवति।


दीर्घोत्तरप्रश्ना: