च.वि.१.०७
रसदोषसन्निपाते तु ये रसा यैर्दोषैः समानगुणाः समानगुणभूयिष्ठा वा भवन्ति तेतानभिवर्धयन्ति, विपरीतगुणा विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति। एतद्व्यवस्थाहेतोः षट्त्वमुपदिश्यते रसानां परस्परेणासंसृष्टानां, त्रित्वं च दोषाणाम्॥ च.वि.१.७॥
पदच्छेदः-
रस-दोष-सन्निपाते तु ये रसाः यैः दोषैः समानगुणाः समानगुण-भूयिष्ठाः वा भवन्ति ते तान् अभिवर्धयन्ति, विपरीत-गुणाः विपरीतगुण-भूयिष्ठाः वा शमयन्ति अभ्यस्यमानाः इति।एतद् व्यवस्थाहेतोः षट्त्वम् उपदिश्यते रसानां परस्परेण असंसृष्टानां, त्रित्वं च दोषाणाम्॥ च.वि.१.७॥
अन्वयः-
रस-दोष-सन्निपाते तु ये रसाः यैः दोषैः समानगुणाः समानगुण-भूयिष्ठाः वा भवन्ति ते (अभ्यस्यमानाः) तान् अभिवर्धयन्ति, विपरीत-गुणाः विपरीतगुण-भूयिष्ठाः वा अभ्यस्यमानाः शमयन्ति इति।(परस्परेण असंसृष्टानां) रसानाम् एतत् षट्त्वं व्यवस्थाहेतोः उपदिश्यते
परस्परेण असंसृष्टानां, दोषाणां त्रित्वं च व्यवस्थाहेतोः उपदिश्यते ॥ च.वि.१.७॥
सरलार्थः-
कस्यचित् रसस्य केनचिद् दोषेण सह गुणशः आत्यन्तिकं साम्यम् अस्ति अथवा बहुशः साम्यम् अस्ति।यदा रसाः तथा दोषाः एकत्र आगच्छन्ति,तदा दोषैः सह आत्यन्तिकसाम्ययुक्ताः अथवा बहुसाम्ययुक्ताः एतादृशाः रसाः सततं सेविताः चेत्, तान् तान् दोषान् वर्धयन्ति।
कश्चिद् रसः कस्यचिद् दोषस्य गुणैः सह अत्यन्तं विपरीतगुणः अस्ति अथवा बहुशः विपरीतगुणः अस्ति।
दोषगुणैः सह अत्यन्तं विपरीतगुणाः अथवा बहुशः विपरीतगुणाः एतादृशाः रसाः सततं सेविताः चेत्, तान् तान् दोषान् शमयन्ति।
परस्परं संसर्गेण रसाः बहवः भवन्ति, तथापि परस्परं संसर्गरहितानां रसानाम् एव गणनां कृत्वा ‘रसाः षट्’ इति अत्र यद् उक्तं, तद् व्यवस्थानिमित्तम् उक्तम्।
परस्परं संसर्गेण दोषाः बहवः भवन्ति, तथापि परस्परं संसर्गरहितानां दोषाणाम् एव गणनां कृत्वा ‘त्रयः दोषाः’ इति अत्र यद् उक्तं, तद् व्यवस्थानिमित्तम् उक्तम्। च.वि.१.
आयुर्वेददीपिका-
अथ कया युक्त्या रसाः दोषान् जनयन्ति शमयन्ति च इति आह रसदोषेत्यादि। सन्निपाते इति अन्तःशरीरमेलके।तु-शब्दः विशेषे, तेन विपरीतगुणाः एव विशेषेण विपरीतगुणभूयिष्ठ-अपेक्षया शमयन्ति इति दर्शयति। रसानां तु यथा उपचाराद् गुणाः भवन्ति तद् अभिहितं “गुणागुणाश्रया नोक्ताः”(सू.अ.२६) इत्यादिना सूत्रे। अभ्यस्यमानाः इति न सकृद् उपयुज्यमानाः। अथ कस्मात् रस-दोष-संसर्ग-भूयस्त्वं परित्यज्य रस-षट्त्वं दोष-त्रित्वं च उच्यते? इति आह इत्येतद् इत्यादि। व्यवस्था इति रसदोष-संसर्ग-प्रपञ्च-सङ्क्षेपः । परस्परेण असंसृष्टानाम् इति पदं दोषाणाम् इति अनेन अपि योज्यम्॥ च.वि.१.७॥
सुशीला पञ्जिका-
रस-दोष-सन्निपाते इति।रसाः च दोषाः च रसदोषाः।रसदोषाणां सन्निपातः रसदोषसन्निपातः।
समानगुणाः इति।समानाः गुणाः येषु ते समानगुणाः इति बहुव्रीहिः।रसाः इति पदस्य विशेषणमिदम्।दोषैः समानगुणाः रसाः इत्यर्थः।
समानगुण-भूयिष्ठाः इति।समानाः गुणाः भूयिष्ठाः येषु ते समानगुणभूयिष्ठाः। भूयिष्ठाः प्रचुराः इति वाचस्पत्यः।समानगुणभूयिष्ठाः इति अपि रसविशेषणम्।दोषैः समानगुणभूयिष्ठाः रसाः इति अर्थः।
विपरीत-गुणाः इति।विपरीताः गुणाः येषु ते विपरीतगुणाः।दोषैः विपरीतगुणाः रसाः इति अर्थः।
विपरीतगुण-भूयिष्ठाः इति।विपरीताः गुणाः भूयिष्ठाः येषु ते विपरीतगुणभूयिष्ठाः।रसस्य एव विशेषणम् एतद्।दोषैः विपरीतगुणभूयिष्ठाः रसाः इत्यर्थः।
असंसृष्टानाम् इति।संसृष्टाः इति संसर्गयुक्ताः।न संसृष्टाः असंसृष्टाः।
व्यवस्थाहेतोः इति।हेतुः इति कारणम्।व्यवस्था एव हेतुः कारणम् इति व्यवस्थाहेतुः।व्यवस्थाकारणात् रसानां षट्त्वं तथा दोषाणां त्रित्वमुच्यते इत्यर्थः। च.वि.१.७
च.वि.१.०६ चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका च.वि.१.०८