सामग्री पर जाएँ

च.वि.१.१४

विकिपुस्तकानि तः

तत्र तैलं स्नेहौष्ण्यगौरवोपपन्नत्वाद्वातं जयति सततमभ्यस्यमानं; वातो हिरौक्ष्यशैत्यलाघवोपपन्नो विरुद्धगुणो भवति, विरुद्धगुणसन्निपाते हि भूयसाऽल्पमवजीयते,तस्मात्तैलं वातं जयति सततमभ्यस्यमानम्।सर्पिः खल्वेवमेव पित्तं जयति, माधुर्याच्छैत्यान्मन्दत्वाच्च; पित्तं ह्यमधुरमुष्णं तीक्ष्णं च।मधु च श्लेष्माणं जयति, रौक्ष्यात्तैक्ष्ण्यात् कषायत्वाच्च; श्लेष्मा हि स्निग्धो मन्दो मधुरश्च ।यच्चान्यदपि किञ्चिद्द्रव्यमेवं वातपित्तकफेभ्यो गुणतो विपरीतंस्यात्तच्चैताञ्जयत्यभ्यस्यमानम्॥ च.वि.१.१४॥

पदच्छेदः-
तत्र तैलं स्नेह-औष्ण्य-गौरव-उपपन्नत्वाद् वातं जयति सततम् अभ्यस्यमानं; वातः हि रौक्ष्य-शैत्य-लाघव-उपपन्नः विरुद्धगुणः भवति, विरुद्ध-गुण-सन्निपाते हि भूयसा अल्पम् अवजीयते, तस्मात् तैलं वातं जयति सततमभ्यस्यमानम्। सर्पिः खलु एवम् एव पित्तं जयति, माधुर्यात् शैत्यात् मन्दत्वात् च; पित्तं हि अमधुरम् उष्णं तीक्ष्णं च।मधु च श्लेष्माणं जयति, रौक्ष्यात् तैक्ष्ण्यात् कषायत्वात् च; श्लेष्मा हि स्निग्धः मन्दः मधुरः च ।यत् च अन्यद् अपि किञ्चिद् द्रव्यम् एवं वात-पित्त-कफेभ्यः गुणतः विपरीतं स्यात् तत् च एतान् जयति अभ्यस्यमानम्॥ च.वि.१.१४॥

अन्वयः-
तत्र तैलं स्नेह-औष्ण्य-गौरव-उपपन्नत्वात् सततम् अभ्यस्यमानं वातं जयति ; वातः हि रौक्ष्य-शैत्य-लाघव-उपपन्नः विरुद्धगुणः भवति, हि विरुद्ध-गुण-सन्निपाते भूयसा अल्पम् अवजीयते, तस्मात् सततमभ्यस्यमानं तैलं वातं जयति । सर्पिः खलु एवम् एव पित्तं जयति, माधुर्यात् शैत्यात् मन्दत्वात् च; पित्तं हि अमधुरम् उष्णं तीक्ष्णं च। मधु च श्लेष्माणं जयति, रौक्ष्यात् तैक्ष्ण्यात् कषायत्वात् च; श्लेष्मा हि स्निग्धः मन्दः मधुरः च । यत् च अन्यद् अपि किञ्चिद् द्रव्यम् एवं वात-पित्त-कफेभ्यः गुणतः विपरीतं स्यात् तत् च अभ्यस्यमानम् एतान् जयति ॥ च.वि.१.१४॥

सरलार्थः-
तत्र तैलं स्नेह-औष्ण्य-गौरवगुणैः युक्तम् अस्ति।तस्य सततं प्रयोगः भवति चेत् तद् वातं जयति।वातः रौक्ष्य-शैत्य-लाघवगुणैः युक्तः अतः सः तैल-विरुद्ध-गुणैः युक्तःअस्ति।यदा विरुद्धगुणानाम् एकत्र निपातः भवति,तदा बलवता गुणेन दुर्बलः गुणः पराभूतः भवति।अतः तैलं यदि सततं प्रयुक्त, तर्हि तद् वातं जयति। घृतं मधुरं शीतं तथा मन्दम्।तद् अनया रीत्या एव पित्तं जयति।यतो हि पितम् मधुरविपरीतम् उष्णं तथा तीक्ष्णम् अस्ति। मधु रूक्षं, तीक्ष्णं तथा कषायरसम्।एतैः विपरीतगुणैः मधु कफं जयति।यतो हि कफः स्निग्धः, मन्दः तथा मधुरः। अन्यद् अपि यत्किमपि द्रव्यं वातात् पित्तात् कफाद् वा गुणदृष्ट्या विपरीतम् अस्ति,तत् सततम् प्रयुक्तं चेत् वातं पित्तं तथा कफं जयति॥ च.वि.१.१४

आयुर्वेददीपिका-
सततम् अभ्यस्यमानम् इति अविच्छेदेन उपयुज्यमानम्। विरुद्धगुणः इति तैल-गुणेभ्यः विपरीतगुणः।विरुद्धगुणसन्निपाते इति विरुद्धगुणयोः मेलके। ननु विरुद्ध-गुणयोः मध्ये भूयसा अल्पं जीयते, तत् कथं तैलं वातं जयति? न हि अस्य वातं प्रति भूयस्त्वं युक्तम् इति आह सततम् अभ्यस्यमानम् इति। सतत-उपयोगेन हि तैलं वाताद् अधिकं भवति, तेन वातं जयति इति अर्थः। सर्पिः खलु एवम् एव इति सर्पिः अपि सततम् अभ्यस्यमानम् इति अर्थः। अमधुरम् इति रौक्ष्य-लाघव-अवृष्यत्वादिना मधुरविपरीतं कटुरसम् इति अर्थः। इह च प्रभावशब्देन सामान्येन द्रव्यशक्तिः उच्यते, न अचिन्त्यशक्तिः; तेन तैल-आदीनां स्नेह-औष्ण्य-आदिगुणाद् अपि वातादि-शमनं द्रव्यप्रभावाद् एव भवति। सर्पिषि च यद्यपि मधुरः रसः पित्तप्रशमे व्याप्रियते, तथा अपि माधुर्यशैत्यमन्दत्वैः पित्तशमनं सर्पिःकार्यम् एव, तेन द्रव्य-प्रभावः एव वाच्यः । यदा तु रसद्वारा कार्यं द्रव्यस्य चिन्त्यते, तदा रसप्रभावः इति व्यपदेशः भवति। एवं कषायानुरसे मधुनि च समाधानं वाच्यम्। अन्ये तु ब्रुवते यत् तैलादीनां वातादिशमनत्वं प्रति अचिन्त्यः एव प्रभावः अयम् उच्यते; तत्र च तैल-वातयोः विरुद्धगुणयोः मेलके तैलम् एव वातं जयति, न तु वातः तैलम् इति तैलस्य अचिन्त्यप्रभावः; एवं सर्पिर्मधुनोः अपि पित्तश्लेष्महरणे प्रभावात् ज्ञेये। एतत् च अन्ये न इच्छन्ति, यतः तैलादीनां सततम् अभ्यस्यमानम् इति पदेन आधिक्यम् एव वातादि-जयकारणम् उक्तं; तथा यत् च अन्यद् अपि किञ्चिद् द्रव्यम् इत्यादि-ग्रन्थेन द्रव्य-चिन्त्यप्रभावं परित्यज्य सामान्येन गुणवैपरीत्यम् एव अभ्यासाद् वातादिजयहेतुः उच्यते॥ च.वि.१.१४॥

सुशीला पञ्जिका-
स्नेहौष्ण्यगौरवोपपन्नत्वाद् इति।स्नेहः च औष्ण्यं च गौरवं च स्नेहौष्ण्यगौरवाणि। स्नेहौष्ण्यगौरवैः उपपन्नत्वं स्नेहौष्ण्यगौरवोपपन्नत्वम्। उपपन्नत्वमिति सङ्गतत्वम्।

विभाषा गुणेऽस्त्रियाम् । अष्टा.२.३.२५

इति अनेन हेत्वर्थे पञ्चमी विभक्तिः एषा।अतः ‘तैलं स्नेहेन औष्ण्येन गौरवेण च सङ्गतम् अस्ति अतः’ इति समस्तपदस्य अर्थः भवति।
सततम् अभ्यस्यमानम् इति ।अभ्यस्यमानम् इति विशेषणम्। अभ्यस्यमानम् इति तस्य
पुंलिङ्गे द्वितीयाविभक्तौ एकवचनम्,
नपुंसकलिङ्गे प्रथमाविभक्तौ एकवचनं तथा
नपुंलकलिङ्गे द्वितीयाविभक्तौ एकवचनम्।
अतः तैलम् इति पदस्य अपि तद् विशेषणं सम्भवति, वातम् इति पदस्य अपि विशेषणं सम्भवति।तथापि अत्र तैलस्य विशेषणं तद् न तु वातस्य।कुतः इति चेत् सम्भवतन्त्रयुक्तेः।सततं सेवनाभ्यासः तैलस्य सम्भवति, न तु वातस्य।
रौक्ष्यशैत्यलाघवोपपन्नः इति।रौक्ष्यं च शैत्यं च लाघवं च रौक्ष्यलाघवशैत्यानि। रौक्ष्यलाघवशैत्येः उपपन्नः रौक्ष्यशैत्यलाघवोपपन्नः।
विरुद्धगुणः इति।विरुद्धाः गुणाः यस्य सः विरुद्धगुणः इति बहुव्रीहिः।वातस्य विशेषणमिदम्।
विरुद्धगुणसन्निपाते इति।विरुद्धगुणः इति समासः उक्तः।विरुद्धगुणानां सन्निपातः विरुद्धगुणसन्निपातः।
अमधुरम् इति।न मधुरम् अमधुरम्।नञः षडर्थाः वर्तन्ते-
सादृश्यं तदभावश्च तदन्यत्वं तदल्पता।
अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः॥
प्रकृते विरोधार्थेन नञ् प्रयुक्तः।अतः अमधुरम् इति मधुरविरुद्धम्।अतः एव चक्रपाणिः टीकते- वातपित्तकफेभ्यः इति।
अमधुरम् इति रौक्ष्य-लाघव-अवृष्यत्वादिना मधुरविपरीतं कटुरसम् इति अर्थः।
वातपित्तकफेभ्यः इति।वातः च पित्तं च कफः च वातपित्तकफाः।तेभ्यः विपरीतम् इति अन्वयः।
गुणतः इति।तसिप्रत्ययः सार्वविभक्तिकः।अत्र तृतीयार्थेन प्रयुक्तः। अतः गुणेन इति अर्थः।वातपित्तकफेभ्यः गुणेन विपरीतम् इति अन्वयः।
एतान् इति वातपित्तकफान्। च.वि.१.१४

च.वि.१.१३      चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका       च.वि.१.१५
"https://sa.wikibooks.org/w/index.php?title=च.वि.१.१४&oldid=7316" इत्यस्माद् प्रतिप्राप्तम्