सामग्री पर जाएँ

च.वि.१.२०

विकिपुस्तकानि तः

सूत्रम् -
सात्म्यं नाम तद् यदात्मन्युपशेते; सात्म्यार्थो ह्युपशयार्थः। तत्त्रिविधं प्रवरावरमध्यविभागेन; सप्तविधं तु रसैकैकत्वेन सर्वरसोपयोगाच्च। तत्र सर्वरसं प्रवरम्, अवरमेकरसं, मध्यं तु प्रवरावरमध्यस्थम्। तत्रावरमध्याभ्यां सात्म्याभ्यां क्रमेणैव प्रवरमुपपादयेत् सात्म्यम्। सर्वरसमपि च सात्म्यमुपपन्नः प्रकृत्याद्युपयोक्त्रष्टमानिसर्वाण्याहारविधिविशेषायतनान्यभिसमीक्ष्य हितमेवानुरुध्येत॥ च.वि.१.२०॥

पदच्छेदः-
सात्म्यं नाम तद् यद् आत्मनि उपशेते; सात्म्य-अर्थः हि उपशय-अर्थः।तत् त्रिविधं प्रवर-अवर-मध्य-विभागेन; सप्तविधं तु रस-एकैकत्वेन सर्वरस-उपयोगात् च।तत्र सर्वरसं प्रवरम्, अवरम् एकरसं, मध्यं तु प्रवर-अवर-मध्यस्थम्।तत्र अवर-मध्याभ्यां सात्म्याभ्यां क्रमेण एव प्रवरम् उपपादयेत् सात्म्यम्।सर्वरसम् अपि च सात्म्यम् उपपन्नः प्रकृति-आदि-उपयोक्तृ-अष्टमानि सर्वाणि आहार-विधि-विशेष-आयतनानि अभिसमीक्ष्य हितम् एव अनुरुध्येत॥ च.वि.१.२०॥

अन्वयः-
सात्म्यं नाम तद् यद् आत्मनि उपशेते; सात्म्य-अर्थः हि उपशय-अर्थः।तत् त्रिविधं प्रवर-अवर-मध्य-विभागेन; सप्तविधं तु रस-एकैकत्वेन सर्वरस-उपयोगात् च।तत्र सर्वरसं प्रवरम्, एकरसम् अवरम्, प्रवर-अवर-मध्यस्थं तु मध्यम् ।तत्र अवर-मध्याभ्यां सात्म्याभ्यां क्रमेण एव प्रवरम् उपपादयेत् सात्म्यम्।सर्वरसं सात्म्यम् उपपन्नः अपि च (पुरुषः) प्रकृति-आदि-उपयोक्तृ-अष्टमानि सर्वाणि आहार-विधि-विशेष-आयतनानि अभिसमीक्ष्य हितम् एव अनुरुध्येत॥ च.वि.१.२०॥

सरलार्थः-
यद् आत्मनि सुखेन वसति, तत् सात्म्यम्।उपशयशब्दस्य यः अर्थः, सः एव सात्म्यशब्दस्य अर्थः ।सात्म्यं त्रिविधं भवति प्रवरसात्म्यम् अवरसात्म्यं मध्य-सात्म्यं च।अथवा पृथग् एकस्य एकस्य रसस्य सात्म्यं तथा सर्वरसानां सात्म्यम् इति गणनया सात्म्यं सप्तविधं भवति।सर्वरसानां सात्म्यं प्रवरसात्म्यम्। एकस्य एव कस्यचिद् रसस्य सात्म्यम् अवरसात्म्यम्।प्रवरावरयोः मध्ये वर्तमानं मध्य-सात्म्यम्।एतेषु अवरसात्म्यात् तथा मध्यसात्म्यात् क्रमशः पुरुषः प्रवरसात्म्यम् अभ्यसेत्।यस्य सर्वे रसाः सात्म्याः, तादृशः पुरुषः अपि प्रकृत्यादीनि सर्वाणि अष्टौ आहारविधिविशेषायतनानि सम्यक् परीक्ष्य हितकरम् एव सेवेत। च.वि.१.२०॥

आयुर्वेददीपिका-
सात्म्यं नाम इति ओकसात्म्यं नाम इति अर्थः। (ओकादिति अभ्यासात् ।) उपशयार्थः इति उपशयशब्द-अभिधेयः इति अर्थः। तद् इति ओकसात्म्यम्। त्रिविधम् इति प्रवर-अवर-मध्यभेदेन। सप्तविधं तु एकैक-रसेन षट्, संसृष्टरस-उपयोगात् च एकम्, एवं सप्तविधम्। संसृष्टशब्देन द्विरसादयः षड्रसपर्यन्ताः गृह्यन्ते। प्रवर-अवर-मध्यस्थम् इति द्विरसादि-पञ्चरसपर्यन्तम्। अवर-मध्यमाभ्यां लक्षितः पुरुषः। प्रवरम् इति सर्वरसम्। सात्म्यम् उपपादयेत् अभ्यसेद् इति अर्थः। क्रमेण इति यथोक्त-अभ्यासक्रमेण। उपपादित-सर्वरससात्म्येन अपि च आहारः प्रशस्तप्रकृत्यादि-सम्पन्नः एव कर्तव्यः इति आह सर्वरसम् इत्यादि। अभिसमीक्ष्य इति हित-अहितत्वेन विचार्य। हितम् एव इति पदेन यद् एव प्रकृत्यादिना हितं तद् एव अनुरुध्येत सेवेत इति अर्थः॥ च.वि.१.२०॥

सुशीला पञ्जिका-
सात्म्य-अर्थः इति।सात्म्यस्य अर्थः सात्म्यार्थः।सात्म्यशब्दस्य वाच्यार्थः।
उपशय-अर्थः इति।उपशयस्य अर्थः उपशयार्थः।उपशयशब्दस्य वाच्यार्थः।
त्रिविधम् इति। तिस्रः विधाः प्रकाराः यस्य तत् त्रिविधम्।सात्म्यस्य विशेषणम्।
प्रवर-अवर-मध्य-विभागेन इति। प्रवरं च अवरं च मध्यं च प्रवरावरमध्यानि। तानि एव विभागः विभजनं प्रवरावरमध्यविभागः।अनेन विभजनेन सात्म्यं त्रिविधं भवति इत्यर्थः।
सप्तविधम् इति।सप्त विधाः प्रकाराः यस्य तत् सप्तविधम्।सात्म्यविशेषणम्। रस-एकैकत्वेन इति।

नित्यवीप्सयोः।(अष्टा.८.१.४)

इति एकशब्दस्य द्वित्वम्।एकःएकः इति।

एकं बहुव्रीहिवत्।(अष्टा.८.१.९)

इति बहुव्रीहिः एकः एकः च एकैकः।

तस्य भावः त्वतलौ (अष्टा.५.१.११९)

इति अनेन एकैकस्य भावः एकैकत्वम्।रसानाम् एकैकत्वम् रसैकैकत्वम्।
सर्वरस-उपयोगात् इति।सर्वे रसाः सर्वरसाः।सर्वरसानाम् उपयोगः सर्वरसोपयोगः।
सर्वरसम् इति।सर्वे रसाः यस्मिन् तत् सर्वरसम्।सात्म्यविशेषणम्।
एकरसम् इति।एकः रसः यस्मिन् तद् एकरसम्। सात्म्यविशेषणम्।
प्रवर-अवर-मध्यस्थं इति।प्रवरं च अवरं च प्रवरावरे सात्म्ये।प्रवरावरयोः मध्यं प्रवरावरमध्यम्।प्रवरावरमध्ये तिष्ठति इति प्रवरामध्यस्थम्।सात्म्यविशेषणमेतद्।

सुपि स्थः।(अष्टा.३.२.४)

इति सुपि उपपदे स्थाधातोः कः प्रत्ययः भवति।
अवर-मध्याभ्याम् इति।अवरं च मध्यं च अवरमध्ये सात्म्ये। प्रभृतिशब्दस्य अध्याहारः कार्यः।तेन ‘एताभ्याम् अवरमध्याभ्यां सात्म्याभ्यां प्रभृति प्रवरसात्म्यं क्रमेण अभ्यसेत्’ इति अन्वयः भवति।‘कार्तिक्याः प्रभृति’ इति भाष्यकारवचनात् (अष्टा.२.३.२८) प्रभृत्यादिशब्दानां योगे पञ्चमी भवति। प्रभृतिशब्दस्य अध्याहारं न कुर्मः चेत् अवरमध्याभ्याम् इति पञ्चम्याः प्रयोजनं वक्तुं न शक्यते।
‘अवरमध्याभ्यां सात्म्याभ्यां प्रभृति प्रवरसात्म्यं क्रमेण अभ्यसेत्’ इति अन्वये कर्तृपदं किम् इति आकाङ्क्षायां चक्रपाणिः व्याख्याति‘अवरमध्याभ्यां लक्षितः पुरुषः’इति ।पुरुषः इति अस्मिन् वाक्ये कर्ता।स च अवरमध्याभ्यां लक्षितः भवति।प्रकृते लक्षितशब्दस्य‘लक्षणया बोधितः’ इति अर्थः नास्ति।यतो हि अत्र लक्षणा नास्ति।लक्षणा अत्र न सम्भवति यतो हि ‘अवरमध्याभ्याम्’ इति पदस्य मुख्यार्थः बाधितः नास्ति।मुख्यार्थबाधः भवति चेत् एव लक्षणा क्रियते, नान्यथा।अतः लक्षितशब्दस्य अपरः अर्थः ग्राह्यः-

लक्षितः ज्ञातः। - न्यायकोशः।

अवरमध्याभ्यां ज्ञातः इत्यर्थः।कथम् अवरमध्याभ्यां ज्ञातः? सम्भवतन्त्रयुक्त्या ज्ञातः, न तु लक्षणया ज्ञातः इति।

सम्भवो नाम यद्यस्मिन्नुपपद्यते स तस्य सम्भवः ।च.सि.१२.४५ चक्रपाणिः

अवरं वा मध्यं वापि सात्म्यं पुरुषस्य एव सम्भवति, नान्यस्य ।अतः अस्मिन् वाक्ये पुरुषः ‘कर्ता’ इति ज्ञातः।
प्रकृति-आदि-उपयोक्तृ-अष्टमानि इति।प्रकृतिः आदौ येषां तानि प्रकृत्यादीनि। उपयोक्ता अष्टमः येषां तानि उपयोक्त्रष्टमानि। प्रकृत्यादीनि च तानि उपयोक्त्रष्टमानि च प्रकृति-आदि-उपयोक्तृ-अष्टमानि।आहारविधिविशेषायतनानां विशेषणम्।तादृशानि आहार-विधि-विशेष-आयतनानि,येषु प्रकृतिः इति प्रथमम् आयतनं विद्यते,तथा उपयोक्ता इति अष्टमम् आयतनमस्ति इति अर्थः।
आहार-विधि-विशेष-आयतनानि इति। अग्रिमसूत्रस्य व्याख्याने चक्रपाणिना अस्य पदस्य भञ्जनं दर्शितम् इति नात्र उच्यते।॥ च.वि.१.२०॥

च.वि.१.१९ चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका च.वि.१.२१

"https://sa.wikibooks.org/w/index.php?title=च.वि.१.२०&oldid=7310" इत्यस्माद् प्रतिप्राप्तम्