च.शा.१.०६६-०७६
६६-६७
[सम्पाद्यताम्] जायते बुद्धिरव्यक्ताद्बुद्ध्याऽहमिति मन्यते।परं खादीन्यहङ्कारादुत्पद्यन्ते यथाक्रमम्॥६६॥
ततः सम्पूर्णसर्वाङ्गो जातोऽभ्युदित उच्यते।६७।
पदच्छेदः-
जायते बुद्धिः अव्यक्ताद् बुद्ध्या अहम् इति मन्यते।परं खादीनि अहङ्काराद् उत्पद्यन्ते यथाक्रमम् ॥६६॥
ततः सम्पूर्ण-सर्व-अङ्गः जातः अभ्युदितः उच्यते।६७।
अन्वयः-
बुद्धिः अव्यक्ताद् जायते ।बुद्ध्या अहम् इति मन्यते।अहङ्काराद् परं खादीनि यथाक्रमम् उत्पद्यन्ते ॥६६॥ ततः सम्पूर्ण-सर्व-अङ्गः जातः अभ्युदितः (इति)उच्यते।६७।
सरलार्थः-
अव्यक्ततत्त्वात् बुद्धितत्त्वं जायते।बुद्धेः अहम् इति तत्त्वम् उत्पद्यते।अहङ्कारात् खादीनि क्रमशः भवन्ति।ततः स्थूलभूतोत्पत्तिः, तेन ‘सर्गः परिपूर्णतया सम्भूतः’ इति उच्यते।६६,६७
आयुर्वेददीपिका
सम्प्रति महाप्रलयान्तरं यथा आदिसर्गे बुद्ध्यादि-उत्पादो भवति तदाह जायते इत्यादि।बुद्ध्या अहम् इति मन्यते इति बुद्धेः जातेन अहङ्कारेण अहम् इति मन्यते इति अर्थः। खादीनि इति खादीनि सूक्ष्माणि तन्मात्ररूपाणि, तथा एकादश इन्द्रियाणि। वचनं हि “प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः” (सा.का.२२) इति।यथाक्रमम् इति यस्माद् अहङ्काराद् उत्पद्यते तेन क्रमेण; तत्र वैकृतात् सात्त्विकाद् अहङ्कारात् तैजससहायाद् एकादश इन्द्रियाणि भवन्ति, भूतादेः तु अहङ्कारात् तामसात् तैजससहायात् पञ्चतन्मात्राणि। यदुक्तं- “सात्विक एकादशकः प्रवर्तते वैकृताद् अहङ्कारात्।भूतादेः तन्मात्रः स तामसः तैजसादुभयम्” (सांका.२५) इति।ततः इति आहङ्कारिक-कार्यानन्तरं तन्मात्रेभ्यः उत्पन्नस्थूलभूतसम्बन्धात्। सम्पूर्णसर्वाङ्गः जात इति आदिसर्गः जातः॥६६॥
आयुर्वेददीपिकापद्धतिः –
सूत्रे खादीनि इति पदम् अस्ति।तस्य अर्थं कुरुते टीकाकारः पञ्चतन्मात्राणि तथा एकादशेन्द्रियाणि।खादीनि इति एषः बहुव्रीहिः समासः।खम् आदि येषु तानि खादीनि इति तस्य विग्रहः।अनेन समासेन प्रायः पञ्चानां भूतानां पञ्चानां तन्मात्राणां वा ग्रहणं भवति।अत्र टीकाकारेण तन्मात्राणां ग्रहणं कृतम्, एकादशेन्द्रियाणां ग्रहणम् अपि कृतम्।पदार्थतन्त्रुक्तिः एषा।
किम् अनया तन्त्रयुक्त्या साधितम्?आदिसर्गे इन्द्रियोत्पत्तेः समावेशः साधितः।यदि खादीनि इत्यस्य पदस्य अर्थम् एवं न कुर्मः तर्हि इन्द्रियाणाम् उत्पत्तिः कुतः जाता इति बोधः नैव भवति।अनया तन्त्रयुक्त्या सः बोधः भवति यत् ‘अहङ्कारादेव इन्द्रियोत्पत्तिः भवति’ इति।
६७-६९
[सम्पाद्यताम्] पुरुषः प्रलये चेष्टैः पुनर्भावैर्वियुज्यते॥६७॥
अव्यक्ताद्व्यक्ततां याति व्यक्तादव्यक्ततां पुनः। रजस्तमोभ्यामाविष्टश्चक्रवत् परिवर्तते॥६८॥
येषां द्वन्द्वे परा सक्तिरहङ्कारपराश्च ये। उदयप्रलयौ तेषां न तेषां ये त्वतोऽन्यथा॥६९॥
पदच्छेदः-
पुरुषः प्रलये च इष्टैः पुनः भावैः वियुज्यते॥६७॥
अव्यक्ताद् व्यक्ततां याति व्यक्ताद् अव्यक्ततां पुनः।
रजस्तमोभ्याम् आविष्टः चक्रवत् परिवर्तते॥६८॥
येषां द्वन्द्वे परा सक्तिः अहङ्कार-पराः च ये।
उदयप्रलयौ तेषां न तेषां ये तु अतः अन्यथा॥६९॥
अन्वयः-
पुरुषः प्रलये च इष्टैः भावैः पुनः वियुज्यते ॥६७॥अव्यक्ताद् व्यक्ततां याति व्यक्ताद् पुनः अव्यक्ततां (याति)।रजस्तमोभ्याम् आविष्टः (मनुष्यः)चक्रवत् परिवर्तते॥६८॥ येषां द्वन्द्वे परा सक्तिः ये च अहङ्कार-पराः , तेषाम् उदयप्रलयौ (भवतः)। ये तु अतः अन्यथा तेषाम् (उदयप्रलयौ) न (भवतः)॥६९
सरलार्थः-
प्रलयकाले पुरुषः महदादिभिः इष्टैः भावैः वियुक्तः भवति।॥६७॥(प्रपञ्चः) प्रथमम् अव्यक्तदशायाम् अस्ति, सः अव्यक्ताद् व्यक्तद्शां याति।व्यक्तावस्थातः पुनः अव्यक्तावस्थां गच्छति।यः मनुष्यः रजस्तमोभ्यां युक्तः अस्ति, सः अस्मिन् प्रपञ्चे चक्रवत् परिवर्तते॥६८॥ ये जनाः रजस्तमोरूपे द्वन्द्वे आसक्ताः सन्ति, तथा येषाम् अहङ्कारः प्रकृष्टः अस्ति, तेषां जनानां जन्ममरणे सम्भवतः। ये तु रजस्तमोरूपे द्वन्द्वे आसक्ताः न भवन्ति, येषां च अहङ्कारः न्यूनः, तेषां जन्ममरणे न भवतः। ॥६९
आयुर्वेददीपिका
एवम् आदिसर्गे प्रकृतेः महदादिसर्गं दर्शयित्वा महाप्रलये प्रकृतौ अवव्यक्तरूपायां बुद्ध्यादीनां लयम्
आह पुरुषः इत्यादि।इष्टैः भावैः इति पुरुष-उपभोगार्थम् इष्टैः बुद्ध्यादिभिः। अन्ये तु एवम्भूतसङ्गं जन्मनि , बुद्ध्यादिवियोगं च मरणे ब्रुवते। तद् न, जन्ममरणयोः बुद्ध्यादीनां विद्यमानत्वात्। उक्तं हि- “अतीन्द्रियैस्तैरतिसूक्ष्मरूपैरात्मा कदाचिन्न विमुक्तपूर्वः। नैवेन्द्रियैर्नैव मनोमतिभ्यां न चाप्यहङ्कारविकारदोषैः” इति (शा.२) तथा अन्यत्र अपि उक्तं “पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम्। संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्” (सांका.४०) इति । तस्मात् महाप्रलये एव प्रकृतौ लयः, तथा आदिसर्गे एव प्रकृतेः महदादिसृष्टिः इति। एतदेव प्रपञ्चं लयं च प्रकृतेः आह अव्यक्ताद् इत्यादि। अव्यक्ताद् इति प्रकृतेः, व्यक्तताम् इति महदादि-महाभूतपर्यन्त-प्रपञ्चरूपतां याति। व्यक्ताद् इति महाभूतप्रपञ्चादि-अवस्थातः पुनः अव्यक्तरूपतां याति गच्छति; महाप्रलये हि महाभूतानि तन्मात्रेषु लयं यान्ति, तन्मात्राणि तथा इन्द्रियाणि च अहङ्कारे लयं यान्ति, अहङ्कारः बुद्धौ, बुद्धिः च प्रकृतौ इति लयक्रमः। अयं च लयक्रमः मोक्षे अपि भवति। परं तु तत्र तं पुरुषं प्रति पुनः सर्गं न आरभते प्रकृतिः। अयं संसारः कुतः भवति इति आह रज इत्यादि।आविष्टः युक्तः। चक्रवत् परिवर्तत इति पुनः पुनः लय-सर्गाभ्यां युज्यते। द्वन्द्वे इति रजस्तमोरूपे मिथुने। अहङ्कारपरा इति अहङ्कारात् मम इदम् इत्यादि-मिथ्याज्ञानपराः। उदयप्रलयौ जन्ममरणे, किंवा लयसर्गौ। अतः अन्यथा इति ये रागद्वेषविमुक्ताः निरहङ्काराः च तेषां न उदयप्रलयौ भवतः ॥६७ - ६९॥
अरुन्धतीपद्धतिः –
‘जायते महदव्याक्ताद्’ इत्यत्र सर्गः दर्शितः।अत्र प्रलयः वर्ण्यते।
एतेषु सूत्रेषु नरस्य जन्ममृत्यू वर्णितौ इति केचन मन्यन्ते।अभ्युदितः इति जन्मार्थकः शब्दः।प्रलयः इति मरणार्थकः शब्दः।
चक्रपाणिः तद् न अनुमन्यते।तस्य कारणं सः वदति ‘जन्ममरणयोः बुद्ध्यादीनां विद्यमानत्वात्’ इति।
एतेषु सूत्रेषु बुद्ध्यादीनां चेतनेन सह संयोगः वर्णितः, वियोगः च वर्णितः।जन्मनि मरणे च बुद्ध्यादीनां चेतनेन सह संयोगः अस्ति एव।तदर्थं प्रमाणवचनम् उद्धरति ‘आत्मा कदाचिन्न वियुक्तपूर्वः’ इति।अनागतस्य द्वितीयाध्यायस्थवचनस्य अवेक्षणेन एतद् निर्णीतम्। अतःअनागतावेक्षा तन्त्रयुक्तिः एषा।चेतनेन सह बुद्ध्यादीनां संयोगः जायते सर्गारम्भे।चेतनेन सह बुद्ध्यादीनां वियोगः जायते प्रलयकाले।अतः अत्र जन्ममरणयोः वर्णनं नास्ति, सर्गप्रलययोः अस्ति।
७०-७४
[सम्पाद्यताम्] प्राणापानौ निमेषाद्या जीवनं मनसो गतिः।इन्द्रियान्तरसञ्चारः प्रेरणं धारणं च यत्॥७०॥
देशान्तरगतिः स्वप्ने पञ्चत्वग्रहणं तथा।दृष्टस्य दक्षिणेनाक्ष्णा सव्येनावगमस्तथा॥७१॥
इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना धृतिः।बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः॥७२॥
यस्मात् समुपलभ्यन्ते लिङ्गान्येतानि जीवतः।न मृतस्यात्मलिङ्गानि तस्मादाहुर्महर्षयः॥७३॥
शरीरं हि गते तस्मिञ् शून्यागारमचेतनम्। पञ्चभूतावशेषत्वात् पञ्चत्वं गतमुच्यते॥७४॥
पदच्छेदः-
प्राण-अपानौ निमेष-आद्याः जीवनं मनसः गतिः।
इन्द्रियान्तरसञ्चारः प्रेरणं धारणं च यत्॥७०॥
देशान्तरगतिः स्वप्ने पञ्चत्वग्रहणं तथा।
दृष्टस्य दक्षिणेन अक्ष्णा सव्येन अवगमः तथा॥७१॥
इच्छा द्वेषः सुखं दुःखं प्रयत्नः चेतना धृतिः।
बुद्धिः स्मृतिः अहङ्कारः लिङ्गानि परमात्मनः॥७२॥
यस्मात् समुपलभ्यन्ते लिङ्गानि एतानि जीवतः।
न मृतस्य आत्मलिङ्गानि तस्मात् आहुः महर्षयः॥७३॥
शरीरं हि गते तस्मिन् शून्यागारम् अचेतनम्।
पञ्चभूत-अवशेषत्वात् पञ्चत्वं गतम् उच्यते॥७४॥
अन्वयः-
प्राण-अपानौ, निमेष-आद्याः, जीवनं, मनसः गतिः, (मनसः) इन्द्रियान्तरसञ्चारः, (मनसः) यत् प्रेरणं, धारणं च, (मनसः) स्वप्ने देशान्तरगतिः, तथा पञ्चत्वग्रहणं, तथा दक्षिणेन अक्ष्णा दृष्टस्य सव्येन अवगमः, इच्छा, द्वेषः, सुखं, दुःखं, प्रयत्नः, चेतना, धृतिः,बुद्धिः, स्मृतिः, अहङ्कारः, (इति एतानि) परमात्मनः लिङ्गानि॥७२॥
यस्मात् एतानि लिङ्गानि जीवतः समुपलभ्यन्ते, न मृतस्य, तस्मात् महर्षयः (एतानि) आत्मलिङ्गानि आहुः॥७३॥
हि तस्मिन् गते शरीरं शून्यागारम् अचेतनं (भवति)।(तत् शरीरं) पञ्चभूत-अवशेषत्वात् ‘पञ्चत्वं गतम्’ (इति) उच्यते ॥७४॥
सरलार्थः-
निःश्वासः उच्छ्वासः, निमेषाद्याः नेत्रक्रियाः, जीवनं, मनसः गमनं, मनसः एकस्मात् इन्द्रियात् अन्यत् इन्द्रियं प्रति गमनं, मनसः प्रेरणं तथा धारणं, मनसः स्वप्ने अन्यदेशं प्रति गमनं, मरणोत्तरम् अवशिष्टः देहः पञ्चभूतात्मकः इति ज्ञानं, दक्षिणनेत्रेण दृष्टस्य द्रव्यस्य वामनेत्रेण अपि समानं ज्ञानं, इच्छा, द्वेषः, सुखं, दुःखं, प्रयत्नः, चेतना, धृतिः, बुद्धिः, स्मृतिः, अहङ्कारः, इति एतानि पुरुषलिङ्गानि सन्ति॥७२॥
एतानि लक्षणानि सजीवस्य शरीरे दृश्यन्ते, न मृतस्य शरीरे।अतः महर्षयः एतानि ‘आत्मनः लक्षणानि’ इति वदन्ति।७३
यतो हि आत्मा यदा शरीरात् निर्गच्छति, तदा शरीरं शून्यं गृहम् इव जडं भवति।तस्मिन् शरीरे केवलं पञ्च भूतानि अवशिष्टानि भवन्ति।अतः ‘शरीरं पञ्चत्वं गतम्’ इति शब्दप्रयोगः भवति।७४
आयुर्वेददीपिका
‘किं लिङ्गं पुरुषस्य च’ इत्यस्य उत्तरं प्राणापानौ इत्यादि।प्राणापानौ उच्छ्वासनिःश्वासौ। निमेषाद्या इति आद्यशब्दग्रहणेन उन्मेषाद्याः प्रेक्षणविशेषाः गृह्यन्ते। मनसो गतिः इति मनसा पाटलिपुत्रगमनादिरूपा। इन्द्रियान्तरसञ्चारः अपि मनसः एव, यथा चक्षुः परित्यज्य मनः स्पर्शनम् अधितिष्ठति इत्यादि। प्रेरणं च तथा धारणं च मनसः एव इति ज्ञेयम्। देशान्तरगतिः स्वप्ने इति छेदः। पञ्चत्वग्रहणं मरणज्ञानम्। सव्येन अवगमः इति सव्येन अक्ष्णा सः एव अयं दक्षिणाक्षिदृष्टः घटः इति अवगम इति अर्थः। चेतना ज्ञानमात्रम्। बुद्धिः तु ऊहापोहज्ञानम्। अथ कथम् एतानि आत्मानं गमयन्ति इति आह यस्माद् इत्यादि। जीवतः इति पञ्चभूत-अतिरिक्त-आत्मसंयुक्तस्य।
अरुन्धतीपद्धतिः –
सूत्रे प्राणापानौ इति पदं विद्यते।तस्य अर्थं चक्रपाणिः ब्रूते उच्छ्वासनिःश्वासौ इति। ननु प्राणापानशब्दयोः एतौ अर्थौ न भवतः।
सत्यम् एतौ अभिधेयार्थौ न भवतः।परं प्राणापानशब्दयोः एतौ लक्ष्यार्थौ चक्रपाणिना प्रोक्तौ।
ननु यत्र मुख्यार्थेन तात्पर्यं न ज्ञायते तत्र एव लक्षणा आश्रयणीया।अत्र प्राणापानशब्दयोः मुख्यार्थेन अपि तात्पर्यं ज्ञायते।किमर्थम् अत्र लक्ष्यार्थः गृह्यते चक्रपाणिना?
नात्र प्राणापानशब्दयोः मुख्यार्थेन तात्पर्यं ज्ञायते।प्राणापानौ अस्मिन् शास्त्रे वातदोषस्वरूपौ।वातदोषश्च भौतिकः।निरात्मदेहे अपि सः सम्भवति।मरणक्षणे आत्मा लिङ्गशरीरेण सह व्युत्क्रामति।तदा स्थूलः पाञ्चभौतिकः देहः तथैव विसृज्यते।तस्मिन् चेतानाधातुशून्ये देहे वातपित्तकफाः कञ्चित्कालम् अवतिष्ठन्ते एव।तस्मिन् अवधौ निरात्मनि देहे आत्मलिङ्गयोः प्राणापानयोः प्रसक्तिः स्यात्।तेन व्यभिचारदोषः स्फुटः।एवं प्राणापानशब्दयोः मुख्यार्थेन अत्र निर्वाहः न भवति।तस्मात् लक्षणा अनिवार्यतया चक्रपाणिना आश्रिता।उच्छ्वासनिःश्वासौ तु जीवच्छरीरे एव भवतः न निरात्मशरीरे।
निमेषाद्याः इत्यत्र आद्यशब्देन प्रेक्षणविशेषाः ग्राह्याः इति चक्रपाणिः।एते प्रेक्षणविशेषाः भरतेन नाट्यशास्त्रे अष्टमेऽध्याये सविस्तरं वर्णिताः।ततः ते ज्ञेयाः।
आयुर्वेददीपिका
पञ्चत्वं तु यद्यपि जीवतः न भवति किन्तु मृतस्य एव, तथाऽपि पञ्चत्वं मृतशरीरे दृश्यमानं विपर्ययात् पञ्चत्वाभावात् जीवत्-शरीर-लिङ्गं भवति इति ज्ञेयम्।
अरुन्धतीपद्धतिः –
पञ्चत्वग्रहणस्य चक्रपाणिना दत्तं विवरणम् इत्थम्- पञ्चत्वग्रहणं नाम पञ्चत्वस्य ज्ञानम्। एतद् लिङ्गं विपर्ययेण ग्राह्यम्।मृतशरीरे पञ्चत्वस्य ज्ञानं भवति, तादृशज्ञानं जीवच्छरीरे न भवति इति एतत् शरीरस्थपुरुषस्य लिङ्गम्।
केचन पञ्चत्वग्रहणस्य व्याख्यानम् अन्यथा कुर्वन्ति।चक्रपाणिकृतां विपर्ययलक्षणां ते न अनुमन्यन्ते।अतः पञ्चत्वग्रहणम् इत्येव पुरुषलिङ्गम् ते अङ्गीकुर्वन्ति।तदर्थं तैः दत्ता उपपत्तिः एवम् –
मृतदेहस्य कोथः आरभ्यते।तदा देहे विद्यमानेषु पञ्चसु भूतेषु एकम् एकं भूतं विनाशं याति। अन्ततः अस्थीनि तावद् अवशिष्यन्ते। एवं क्रमेण मृतदेहः पाञ्चभौतिकत्वतः पार्थिवत्वपर्यन्तं ह्रासं याति।तस्मात् तत्र पञ्चत्वस्य ग्रहणं न भवति।जीवच्छरीरे तथा नास्ति।जीवच्छरीरं सदैव पाञ्चभौतिकम् एव अस्ति।अतः तत्र पञ्चत्वग्रहणं भवति।
चक्रपाणिदत्ते विवरणे विपर्ययलक्षणा आश्रिता।अत्र तस्याः आवश्यकता नास्ति। तथापि विपर्ययलक्षणां परिहर्तुं कृतेन अनेन अर्थकरणेन अपरः दोषः जायते- उत्सूत्रत्वम्। सूत्रार्थविरुद्धमिदं विवरणं भवति।स्वयं सूत्रकारः अग्रे वदति -
शरीरं हि गते तस्मिन् शून्यागारम् अचेतनम्।पञ्चभूत-अवशेषत्वात् पञ्चत्वं गतम् उच्यते ॥७४॥
अतः जीवच्छरीरे पञ्चत्वग्रहणं भवति, मृतशरीरे न भवति इति कथनम् अयुक्तम्।किञ्च अन्ततः अवशिष्टानि अस्थीनि अपि पाञ्चभौतिकानि एव सन्ति अस्माकं शास्त्रे, न पृथ्वीमात्रजातानि।अतः चक्रपाणिकृतः अर्थः एव साधुत्वं भजते।
आयुर्वेददीपिका
अत्र एव उदाहृताः च प्राणापान-आदयो न भूतमात्रे भवन्ति, निरात्मकेषु इष्टका-मृतशरीरादिषु -अदर्शनात्। न च मनः एव भूतातिरिक्तम् आत्मा भवितुम् अर्हति, यतः तस्य अपि करणरूपस्य प्रेरणादि आत्मना कर्त्रा कर्तव्यम्। न अपि इन्द्रियाणि आत्मत्वेन स्वीकर्तुं पार्यन्ते, यतः तथा सति इन्द्रियान्तर-पलब्धम् अर्थं न इन्द्रियाणि यज्ञदत्त-उपलब्धम् अर्थं देवदत्तः इव प्रतिसन्धातुं समर्थानि भवेयुः; अस्ति च इन्द्रियान्तर-उपलब्धार्थ-प्रतिसन्धानं, यथा ‘सुरभि चन्दनं स्पृशामि’ इति अत्र तस्मात् मन-इन्द्रिय-भूत-अतिरिक्तः आत्मा तिष्ठति इति ज्ञेयम् ।
अरुन्धतीपद्धतिः –
‘किं लिङ्गं पुरुषस्य च’ इति प्रश्नः अधिकृतः।प्राणापानादीनि लिङ्गानि पुरुषस्य इति तस्य उत्तरम्।तथापि चार्वाकादयः केचन पुरुषाख्यं स्वतन्त्रं चेतनं त्तत्त्वं न मन्यन्ते।तेषु केचन ‘भूतेभ्यः एव चैतन्यं जायते’ इति मन्यन्ते ते भूतात्मवादिनः। केचन मनः एव आत्मा इति मन्यन्ते।ते मनआत्मवादिनः।केचन इन्द्रियाणि एव आत्मा इति मन्यन्ते।ते इन्द्रियात्मवादिनः। एतेषां मतानां प्रत्याख्यानं चक्रपाणिः अत्र करोति अत्रैवेत्यादिना।
तत्र प्रथमं मतं भूतात्मवादिनाम्। इष्टका वा मृतशरीरं वा भूतात्मकं भवति।तत्र तु प्राणापानादिलिङ्गानि न दृश्यन्ते। भूतमात्रेभ्यः एव यदि चैतन्यं जायते तर्हि तत्रापि प्राणापानादीनाम् आत्मलिङ्गानां दर्शनं भवितुम् अर्हति।तद् न भवति अतः भूतात्मवादः न ग्राह्यः।
द्वितियं मतम् मनआत्मवादः।वस्तुतः मनः करणम्।तद् एव आत्मा भवितुं नार्हति।तत्र इदमनुमानम् –
मनः सकर्तृकम्, करणत्वात्
यद् यत् करणं, तत् तत् सकर्तृकम्।यथा कुठारादि।
मनः अपि करणम् अतः कञ्चित् चेतनं कर्तारम् अपेक्षते।स्वयं तदेव कर्ता न भविष्यति। तस्मात् मनआत्मवादिनां मतमपि अग्राह्यम्।
तृतीयं मतम् इन्द्रियात्मवादः।इन्द्रियात्मवादे इन्द्रियाणि एव आत्मा।यदि तथा अस्ति तर्हि इन्द्रियान्तरोपलब्धस्य विषयस्य प्रतिसन्धानं न स्यात्।इन्द्रियान्तरम् इति अन्यद् इन्द्रियम्। उपलब्धम् इति ज्ञातम्।प्रतिसन्धानम् इति सम्बन्धः।अन्येन इन्द्रियेण ज्ञातस्य विषयस्य एकस्मिन् एव इन्द्रिये सम्बन्धः न स्यात् इति अर्थः।
एष विषयः चक्रपाणिना एकेन उदाहरणेन स्पष्टीकृतः।‘अहं सुरभि चन्दनं स्पृशामि’ इति अनुभवः।अत्र एकः कश्चित् सुरभिगन्धम् अनुभवति।सः एव स्पर्शमपि अनुभवति।यदि इन्द्रियम् आत्मा तर्हि घ्राणेन्द्रियम् इति कश्चित् भिन्नः ज्ञाता, स्पर्शेन्द्रियम् इति कश्चित् भिन्नः ज्ञाता। अत्र तु एकस्य एव ज्ञातुः गन्धस्पर्शोभयानुभवः अस्ति।तस्मात् इन्द्रेयेभ्यः भिन्नः कश्चित् ज्ञाता आत्मा स्वीकर्तव्यः।इन्द्रियात्मवादः एवमग्राह्यः।
आयुर्वेददीपिका
अत्र यद्यपि बुद्धिशब्देन चेतना-धृति-स्मृति-अहङ्काराः प्राप्यन्ते एव बुद्धिप्रकारत्वेन, तथा अपि पृथक् पृथग् अर्थगमकत्वेन पुनः पृथग् उपात्ताः।तथा हि चेतना गुणत्वेन अचेतन-खादिभूत-अतिरिक्तधर्मेण आत्मानं गमयति,धृतिः तु नियमात्मिका नियन्तारम् आत्मानं गमयति, बुद्धिः तु ऊह-अपोहयोः एकं कारणं गमयति आत्मानं, स्मृतिः तु पूर्व-अनुभूत-अर्थस्मर्तारं स्थायिनम् आत्मानं गमयति इत्यादि अनुसरणीयम्। आत्माधिष्ठान-अभावे शरीरे प्राणादि-अभावम् आह शरीरम् इत्यादि। शून्यागारम् इव शून्यागारं यथा अधिष्ठातृशून्यम्, एवं मृतशरीरम् अपि। षड्धातुकं शरीरं, तत्र षष्ठे आत्मनि गते पञ्चभूतात्मकं शरीरं भवति, तेन पञ्चत्वं गतम् उच्यते ॥७०-७४ ॥
अरुन्धतीपद्धतिः –
बुद्धेः ग्रहणेन चेतनायाः, धृतेः, स्मृतेः, अहङ्कारस्य च ग्रहणं भवति।यतो हे बुद्धेः एव एते विशेषाः।तथापि सूत्रे प्रत्येकं तत्त्वस्य पृथक् पृथक् ग्रहणं कृतम्।तत् किमर्थम्? इति आशङ्कायाः उत्तरं वदति चक्रपाणिः ‘पृथक्पृथगर्थगमकत्वेन’ इति।
एतेषु प्रत्येकं तत्त्वं पृथक् रीत्या शरीरस्थम् आत्मानं गमयति, बोधयति।कथमिति अग्रे विवृतम्।
चेतना इत्युक्ते ज्ञानम्।स च गुणः।गुणः सदैव गुणिनम् आश्रयते।अतः यः यः गुणः सः सः गुणि-आश्रितः इति व्याप्त्या चेतनायाः आश्रयभूतः कश्चिद् गुणी अनुमीयते।
चेतनागुणः क्वचिदाश्रितः,
गुणत्वात्।
यः यः गुणः सः सः क्वचिदाश्रितः यथा गन्धः पृथिव्याम्।
चेतना अपि गुणः, अतः सः क्वचिदाश्रितः।
अनेन अनुमानेन चेतनायाः कश्चिद् आश्रयः ज्ञातः।स आश्रयः भूतादिः जडः भवितुं नार्हति।अतः पुरुषः चेतनाश्रयत्वेन गम्यते।एवं चेतना सजीवशरीरस्थं पुरुषं गमयति।
स्मृतिः अनुभूतस्य एव विषयस्य भवति। अनुभवमात्रजन्यं ज्ञानं स्मृतिः।अतः स्मृतिः गुणपदार्थः।अतः यत्र स्मृतिः अस्ति तत्र कश्चन स्मर्ता अपेक्षितः।
स्मृतिः क्वचिदाश्रिता,
गुणत्वात्।
यः यः गुणः, सः सः क्वचिदाश्रितः यथा गन्धः पृथिव्याम्।
स्मृतिः ज्ञानभेदः।अतः सा जडाश्रिता भवितुं नार्हति।तस्मात् पुरुषः एव तस्याः आश्रयत्वेन अङ्गीकार्यः।एवं स्मृतिः सजीवशरीरस्थं पुरुषं गमयति।
‘स्मृतिः स्थायिनम् आत्मानं गमयति’ इति चक्रपाणिवचनम्।आत्मशब्दस्य स्थायी इति विशेषणं तेन प्रयुक्तम्।सजीवशरीरे स्मृतेः आत्मसद्भावः सिद्ध्यति, आत्मनः स्थायित्वम् अपि सिदध्यति इति तस्य अभिप्रायः।यतो हि स्मृतिः सदैव अनुभवजन्या अस्ति।तेन पूर्वं यद् अनुभूतं, तस्य एव स्मरणं सम्भवति।अनुभवक्षणे यः चेतनः आत्मा आसीत् स एव स्मरणक्षणे अस्ति अतः स्मरणं शक्यम्।अनुभविता आत्मा यदि क्षणभङ्गुरः अस्ति तर्हि स्मरणस्य सम्भावना एव नास्ति।अतः स्मृतिदर्शनात् आत्मसद्भावः यथा सिद्ध्यति तथा आत्मनः स्थायित्वम् अपि सिद्ध्यति।
धृतेः स्वरूपं नियमनम्।नियमनम् इति व्यापारः।ततः व्यापारवान् कश्चिद् अनुमीयते।
धृतिः व्यापारवदपेक्षिणी,
व्यापारत्वात्।
यः यः व्यापारः सः सः व्यापारवदपेक्षी।यथा गमनव्यापारः देवदत्तादिकं व्यापारवन्तम् अपेक्षते।
धृतिः अपि व्यापारः।अतः सः व्यापारवन्तं कञ्चन अपेक्षते।
शरीरे भूतादिसङ्घातः जडत्वात् स्वातन्त्र्येण व्यापारवान् भवितुं नार्हति।अतः पुरुषः एव व्यापारवान् इति सिद्धम्।धृतिः एवं सजीवशरीरस्थं पुरुषं गमयति।
‘अहम्’ इति या प्रतीतिः, सा एव अहङ्कारः।
अहङ्कारः क्वचिदाश्रितः, प्रतीतित्वात् ।
यत्र प्रतीतित्वं, तत्र क्वचिदाश्रितत्वं यथा घटादिप्रतीतिः।
प्रतीतेः आश्रयः जडः भूतादिसङ्घातः न सम्भवति।अतः पुरुषः एव अहङ्काराश्रयः।अहङ्कारः एवं रीत्या सजीवशरीरस्थं पुरुषं गमयति।
यथा अत्र पुनर्वसुना पुरुषलिङ्गानि उक्तानि तथा याज्ञवल्केनापि उक्तानि।तानि अत्र सङ्गृह्यन्ते-
कोऽन्यथैकेन नेत्रेण दृष्टमन्येन पश्यति।१४९
वाचं को वा विजानाति पुनः संश्रुत्य संश्रुताम्॥
अतीताथ स्मृतिः कस्य को वा स्वप्नस्य कारकः।१५०
जातिरूपवयोवृत्तविद्यादिभिरहङ्कृतः॥
शब्दादिविषयोद्योगं कर्मणा मनसा गिरा॥१५१ याज्ञ.स्मृतिः यतिधर्मप्र.
तथा एतानि अपि पुरुषलिङ्गानि तत्रैवोक्तानि याज्ञवल्केन-
अहङ्कारः स्मृतिर्मेधा द्वेषो बुद्धिः सुखं धृतिः।
इन्द्रियान्तरसञ्चार इच्छा धारणजीविते॥१७४
स्वर्गः स्वप्नश्च भावानां प्रेरणं मनसो गतिः।
निमेषश्चेतना यत्न आदानं पाञ्चभौतिकम्।१७५
यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः।
तस्मादस्ति परो देहादात्मा सर्वस्य ईश्वरः॥१७६॥ याज्ञ.स्मृतिः यतिधर्मप्र.
७५-७६
[सम्पाद्यताम्] अचेतनं क्रियावच्च मनश्चेतयिता परः।युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः ॥७५॥
चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते। अचेतनत्वाच्च मनः क्रियावदपि नोच्यते॥७६॥
पदच्छेदः-
अचेतनं क्रियावत् च मनः चेतयिता परः।
युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः॥७५॥
चेतनावान् यतः च आत्मा ततः कर्ता निरुच्यते।
अचेतनत्वात् च मनः क्रियावद् अपि न उच्यते॥७६॥
अन्वयः-
मनः अचेतनं क्रियावत् च।चेतयिता परः। मनसा युक्तस्य तस्य विभोः क्रियाः निर्दिश्यन्ते ॥७५॥ यतः च आत्मा चेतनावान्, ततः कर्ता निरुच्यते।
अचेतनत्वात् च मनः क्रियावद् अपि (कर्तृ) न उच्यते ॥७६॥
सरलार्थः-
मनः चैतन्यरहितं तथा सक्रियम् अस्ति।तस्य प्रेरकः आत्मा अस्ति।विभुः आत्मा मनसा सह युक्तः भवति, तदा ‘आत्मनः क्रिया’ इति निर्देशः भवति। आत्मा चेतनः अस्ति अतः ‘कर्ता’ इति उच्यते।मनः वस्तुतः सक्रियम् अस्ति, तथापि तद् अचेतनम् अस्ति अतः ‘कर्तृ’ इति न उच्यते।
आयुर्वेददीपिका
‘निष्क्रियस्य क्रिया तस्य कथम्’ इत्यस्य उत्तरम् अचेतनम् इत्यादि। चेतयिता परः इति परः आत्मा चेतयिता परं न तु साक्षात् क्रियावान्। ननु, यदि एवं, कथं तस्य क्रिया इति आह युक्तस्य इत्यादि। आत्माधिष्ठितस्य एव मनसः क्रिया उपचाराद् आत्मनः क्रिया इति उच्यते इति अर्थः। एतद् एव उपपादयति चेतनावान् इत्यादि ।चेतनेन हि आत्मना अधिष्ठितं मनः क्रियासु प्रवर्तते, चेतना-अनधिष्ठितं तु मनः क्रियासु न प्रवर्तते; तेन यत्कृता सा क्रिया सः एव क्रियावान् इति व्यपदेष्टुं युज्यते, न तु अचेतनं मनः; तत् पराधीनक्रियत्वेन परमार्थतः क्रियावद् अपि कर्तृत्वेन न उच्यते इति वाक्यार्थः; न उच्यते इति ‘कर्तृ’ इति शेषः॥७५-७६॥
अरुन्धतीपद्धतिः –
‘मनः न उच्यते’ इति सूत्रस्थपदानि।तत्र वाक्यशेषतन्त्रयुक्त्या चक्रपाणिः कर्तृ इति पदं योजयति।
सहचरणादिनिमित्तेन अतद्भावे तद्वदभिधानम् उपचारः।आत्मनि सक्रियत्वं नास्ति।तथापि आत्मनि क्रिया अस्ति इति अभिधानम् अत्र कृतम्।एषः उपचारः।अस्य उपचारस्य निमित्तम् आत्मनः चेतनत्वम् ।
०५३-०६५ चरकसंहिता-आयुर्वेददीपिकयोः अरुन्धती-पद्धतिः ०७७-०९४