च.शा.१.११८-१२९

विकिपुस्तकानि तः
Jump to navigation Jump to search

११८-१२७[सम्पाद्यताम्]

अत्युग्रशब्दश्रवणाच्छ्रवणात् सर्वशो न च।शब्दानां चातिहीनानां भवन्ति श्रवणाज्जडाः॥११८॥
परुषोद्भीषणाशस्ताप्रियव्यसनसूचकैः।शब्दैः श्रवणसंयोगो मिथ्यासंयोग उच्यते॥११९॥
असंस्पर्शोऽतिसंस्पर्शो हीनसंस्पर्श एव च।स्पृश्यानां सङ्ग्रहेणोक्तः स्पर्शनेन्द्रियबाधकः॥१२०॥
यो भूतविषवातानामकालेनागतश्च यः।स्नेहशीतोष्णसंस्पर्शो मिथ्यायोग स उच्यते॥१२१॥
रूपाणां भास्वतां दृष्टिर्विनश्यत्यतिदर्शनात्।दर्शनाच्चातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात्॥१२२॥
द्विष्टभैरवबीभत्सदूरातिश्लिष्टदर्शनात्। तामसानां च रूपाणां मिथ्यासंयोग उच्यते॥१२३॥
अत्यादानमनादानमोकसात्म्यादिभिश्च यत्।रसानां विषमादानमल्पादानं च दूषणम्॥१२४॥
अतिमृद्वतितीक्ष्णानां गन्धानामुपसेवनम्। असेवनं सर्वशश्च घ्राणेन्द्रियविनाशनम्॥१२५॥
पूतिभूतविषद्विष्टा गन्धा ये चाप्यनार्तवाः। तैर्गन्धैर्घ्राणसंयोगो मिथ्यायोगः स उच्यते॥१२६॥
इत्यसात्म्यार्थसंयोगस्त्रिविधो दोषकोपनः।१२७।<

पदच्छेदः-
अति-उग्रशब्दश्रवणात् श्रवणात् सर्वशः न च। शब्दानां च अतिहीनानां भवन्ति श्रवणात् जडाः॥११८॥
परुष-उद्भीषण-अशस्त-अप्रिय-व्यसनसूचकैः। शब्दैः श्रवणसंयोगः मिथ्यासंयोगः उच्यते॥११९॥
असंस्पर्शः अतिसंस्पर्शः हीनसंस्पर्शः एव च। स्पृश्यानां सङ्ग्रहेण उक्तः स्पर्शनेन्द्रिय-बाधकः॥१२०॥
यः भूत-विष-वातानाम् अकालेन आगतः च यः। स्नेह-शीत-उष्णसंस्पर्शः मिथ्यायोगः सः उच्यते॥१२१॥
रूपाणां भास्वतां दृष्टिः विनश्यति अतिदर्शनात्। दर्शनात् च अतिसूक्ष्माणां सर्वशः च अपि अदर्शनात्॥१२२॥
द्विष्ट-भैरव-बीभत्स-दूर-अतिश्लिष्ट-दर्शनात् । तामसानां च रूपाणां मिथ्यासंयोगः उच्यते॥१२३॥
अति-आदानम् अनादानम् ओकसात्म्यादिभिः च यत्। रसानां विषमादानम् अल्प-आदानं च दूषणम्॥१२४॥
अतिमृदु-अतितीक्ष्णानां गन्धानाम् उपसेवनम्| असेवनं सर्वशः च घ्राणेन्द्रिय-विनाशनम्॥१२५॥
पूतिभूत-विष-द्विष्टाः गन्धाः ये च अपि अनार्तवाः। तैः गन्धैः घ्राणसंयोगः मिथ्यायोगः सः उच्यते॥१२६॥
इति असात्म्य-अर्थसंयोगः त्रिविधः दोषकोपनः।१२७।

अन्वयः-
अति-उग्रशब्दश्रवणात् सर्वशः न च श्रवणात् अतिहीनानां शब्दानां श्रवणात् च जडाः भवन्ति ॥११८॥ परुष-उद्भीषण-अशस्त-अप्रिय-व्यसनसूचकैः शब्दैः श्रवणसंयोगः मिथ्यासंयोगः उच्यते॥११९॥ स्पृश्यानाम् असंस्पर्शः अतिसंस्पर्शः हीनसंस्पर्शः एव च सङ्ग्रहेण स्पर्शनेन्द्रिय-बाधकः उक्तः ॥१२०॥ भूत-विष-वातानां यः (संस्पर्शः), अकालेन आगतः च यः स्नेह-शीत-उष्णसंस्पर्शः सः मिथ्यायोगः उच्यते॥१२१॥ भास्वतां रूपाणाम् अतिदर्शनात् दृष्टिः विनश्यति । अतिसूक्ष्माणां दर्शनात् च(दृष्टिः विनश्यति ) सर्वशः अदर्शनात् च अपि (दृष्टिः विनश्यति )॥१२२॥ द्विष्ट-भैरव-बीभत्स-दूर-अतिश्लिष्ट-दर्शनात् तामसानां च रूपाणां (दर्शनात् दृष्टिः विनश्यति )।(सः)मिथ्यासंयोगः उच्यते॥१२३॥ रसानाम् अति-आदानम् अनादानम् ओकसात्म्यादिभिः विषमादानं च अल्प-आदानं च यत् (तद्) दूषणम्॥१२४॥ अतिमृदु-अतितीक्ष्णानां गन्धानाम् उपसेवनं, सर्वशः असेवनं च घ्राणेन्द्रिय-विनाशनम्॥१२५॥ पूतिभूत-विष-द्विष्टाः ये गन्धाः (ये) च अपि अनार्तवाः(गन्धाः),तैः गन्धैः घ्राणसंयोगः सः मिथ्यायोगः उच्यते॥१२६॥ इति त्रिविधः असात्म्य-अर्थसंयोगः दोषकोपनः।१२७।

सरलार्थः-
पुरुषाः अति-उग्रशब्दश्रवणात्, शब्दानाम् सर्वशः अ-श्रवणात् तथा मन्दतराणां शब्दानां श्रवणात् च जडाः भवन्ति ॥११८॥ परुषैः, भयकरैः, उद्भीषण-अशस्त-अप्रिय-व्यसनसूचकैः शब्दैः यः श्रवणेन्द्रियस्य संयोगः सः मिथ्यासंयोगः॥११९॥ तैलोद्वर्तनादीनां स्पृश्यानाम् भावानां सर्वथा असंस्पर्शः अतिसंस्पर्शः हीनसंस्पर्शः एव च सङ्क्षेपेण स्पर्शनेन्द्रिय-बाधकः भवति ॥१२०॥ भूत-विष-वातानां यः स्पर्शः सः मिथ्यायोगः। अकालेन आगतः च यः स्नेह-शीत-उष्णसंस्पर्शः सः अपि मिथ्यायोगः उच्यते॥१२१॥ भास्वतां रूपाणाम् अतिदर्शनात् दृष्टिः विनश्यति । अतिसूक्ष्माणां दर्शनात् च दृष्टिः विनश्यति । सर्वशः अदर्शनात् च अपि दृष्टिः विनश्यति ॥१२२॥ द्विष्ट-भैरव-बीभत्स-दूर-अतिश्लिष्ट-दर्शनात् तामसानां च रूपाणां दर्शनात् दृष्टिः विनश्यति।एतादृशैः रूपैः सह चक्षुरिन्द्रियस्य संयोगः मिथ्यासंयोगः उच्यते॥१२३॥ आहार-रसानाम् अतिमात्रया आदानम् सर्वथा अनशनं तथा अल्पमात्रया अशनं रसनेन्द्रियस्य दूषकं भवति। ओकसात्म्यवशात् आहारविधिविशेषायतनैः विषमम् आहरणं च रसनेन्द्रियस्य दूषकं भवति॥१२४॥ अतिमृदु-गन्धानाम् तथा अतितीक्ष्ण-गन्धानाम् आघ्राणं, सर्वशः अनाघ्राणं च घ्राणेन्द्रियस्य बाधकं भवति॥१२५॥ पूतिभूत-विष-द्विष्टाः ये गन्धाः तैः सह घ्राणेन्द्रियस्य संयोगः मिथ्यायोगः।ये च ऋतुविपरीताः गन्धाः ,तैः गन्धैः घ्राणसंयोगः सः मिथ्यायोगः उच्यते॥१२६॥ इति त्रिविधः असात्म्य-अर्थसंयोगः दोषकोपनः भवति।१२७।

आयुर्वेददीपिका
क्रम-आगतम् असात्म्य-इन्द्रियार्थसंयोगं विवृणोति अत्युग्रेत्यादि।सर्वशः न चेति सर्वथा उग्रशब्द-अश्रवणात् । स्पृश्यानाम् इति स्पृश्यत्वेन उक्तानां शास्त्रे अभ्यङ्ग-उत्सादन-आदीनाम्। भूताः सविषक्रिमिपिशाचादयः। यः भूत-विष-वातादीनां संस्पर्शः,

अरुन्धतीपद्धतिः –
‘भूताः सविषक्रिमिपिशाचादयः’ इति चक्रपाणिः लिखति अन्यथाप्रतिपत्तिनिरासार्थम्। भूतशब्दः पृथिव्यादिषु पञ्चसु प्रसिद्धः।अतः अत्रापि भूतशब्देन पृथिव्यादयः इति अन्यथाबोधः कदाचित् स्यात्।परम् अत्र सः अर्थः न ग्राह्यः।अतः भूतशब्दस्य अर्थः चक्रपाणिना उक्तः।
पदार्थतन्त्रयुक्तिः एषा।भूतशब्दस्य यदि एवम् अर्थं न कुर्मः तर्हि ‘पृथिव्यादिभूतानां स्पर्शः मिथ्यायोगः’ इति सूत्रार्थः भवति। स च अतिव्याप्तिदोषग्रस्तः।यस्य कस्यापि पृथिव्यादेः भूतस्य स्पर्शः मिथ्यायोगः न भवति। भूतपदस्य ‘सविषक्रिमिपिशाचादयः’ इति अर्थः कृतः अतः वाक्यार्थः ज्ञातः।तस्मादेषा पदार्थतन्त्रयुक्तिः।
ननु यस्य कस्यापि पृथिव्यादेः स्पर्शः स्पर्शस्य मिथ्यायोगः न भवतीति मान्यं तथापि सविषपृथिव्यादीनां स्पर्शः मिथ्यायोगे गणनीयः एव।
सत्यम्।सविषाणां पृथिव्यादीनां स्पर्शः स्पर्शस्य मिथ्यायोगः एव।परं सः अग्रे पृथग् गणितः ‘विषवातानां स्पर्शः’ इति।तस्मात् भूतशब्दस्यार्थे वातादीनां भूतानां समावेशः न विवक्षितः।

आयुर्वेददीपिका
तथा अकालेन आगतः स्नेह-शीत-उष्णसंस्पर्शः च इति योजना। तत्र अकाले स्नेहसंस्पर्शः यथा अजीर्णे कफवृद्धिकाले अभ्यङ्गस्पर्शः, एवं शीते शीतस्पर्शः, उष्णे च उष्णस्पर्शः अकालेन आगतः ज्ञेयः।

अरुन्धतीपद्धतिः –
अकालेनागतश्च यः इति सूत्रस्थानि पदानि।अकालेन आगतः इति विशेषणम्।तस्य विशेष्यं किम्? सूत्रे ‘स्पर्शः’ इति स्वतन्त्रं पदं नास्ति।तथापि अधिकरणतन्त्रयुक्तेः बलात् ‘स्पर्शः’ इति ग्राह्यम्।तथा सति अ
यदि अयं वाक्यार्थः गृह्यते, तर्हि
नित्यं स्नेहार्द्रशिरसः शिरःशूलं न जायते।(च.सू.५.८१)
इति स्नेहेन शिरःस्पर्शोपदेशः व्यर्थः स्यात्।
काननानि च शीतानि जलानि कुसुमानि च।ग्रीष्मकाले निषेवेत... ।(च.सू.६.३२)
इति शीतस्पर्शसेवनोपदेशः व्यर्थः स्यात्।
हेमन्तेऽभ्यस्यतस्तोयम् उष्णमायुर्न हीयते।(च.सू.६.१३)
इति उष्णजलसेवनोपदेशः व्यर्थः स्यात्।
अतः नायमर्थः युक्तः।
चक्रपाणिः योगतन्त्रयुक्तेः प्रयोगमत्र कुरुते। अकालागतः इत्यस्य विशेषणत्वेन तथा स्नेहशीतोष्णसंस्पर्शः इति एतस्य विशेष्यत्वेन योजनां सः करोति।तेन अकालप्राप्तः स्नेहस्पर्शः, अकालप्राप्तः शीतस्पर्शः तथा अकालप्राप्तः उष्णस्पर्शः मिथ्यायोगसंज्ञकः भवति इत्यर्थः निष्पद्यते।निर्दुष्टः च अयमर्थः। अकालप्राप्ताः स्नेहशीतोष्णस्पर्शाः के इति अपि उदाहरणरूपेण तेन अग्रे उक्तम्।

आयुर्वेददीपिका
सर्वशः च अपि अदर्शनाद् इति भास्वतां सूक्ष्माणां च सर्वथा अदर्शनात्। अतिश्लिष्टम् इति नेत्रप्रत्यासन्नम्। तामसानां च रूपाणां दर्शनाद् विनश्यति दृष्टिः इति सम्बन्धः। मिथ्यायोगः सः इति द्विष्टभैरव-आदिदर्शनरूपः। अतिसूक्ष्मदर्शनं च मिथ्यायोगः एव ज्ञेयः।

अरुन्धतीपद्धतिः –
मूले ‘विनश्यति दृष्टिः’ इति पदे अन्यस्यां पङ्क्तौ स्तः, ‘दर्शनात्’ इति पदम् अन्यस्यां पङ्क्तौ विद्यते, ‘तामसानां च रूपाणाम्’ इति पदानि अन्यस्यां पङ्क्तौ सन्ति।चक्रपाणिः एतत् सर्वं योजयति।ततः ‘तामसानां च रूपाणां दर्शनाद् विनश्यति दृष्टिः’ इति वाक्यं भवति।एषा योगतन्त्रयुक्ति:।
मिथ्यासंयोग उच्यते इति स्वतन्त्रं वाक्यम्।द्विष्टभैरवदर्शनादिः यः उक्तः सः मिथ्यासंयोगः ज्ञेयः इत्यर्थः।

आयुर्वेददीपिका
ओकसात्म्यादिभिः इति विषमादानम् इति सम्बन्धः। ओकसात्म्यादिवैषम्येण च राशिदोषवर्जं प्रकृत्यादिसप्तदोषा ग्रहीतव्याः। त्रिविध इति अयोग-अतियोगमिथ्यायोगरूपः॥११८- १२६॥

अरुन्धतीपद्धतिः –
‘ओकसात्म्यादिभिः’ इति पदं सूत्रस्य पूर्वार्धे वर्तते।‘विषमादानम्’ इति पदं सूत्रस्य उत्तरार्धे वर्तते।तथापि तयोः अन्वयः कार्यः इति सूचयति चक्रपाणिः ओकसात्म्यादिभिः इति वचनेन।योगतन्त्रयुक्तिः एषा।एवमन्वयः न क्रियते चेत् अर्थबोधः दुष्करः भवति।
कस्यचित् रसस्य अतिमात्रया अशनं तद्रसस्य अतियोगः।कस्यचिद्रसस्य सर्वथा वर्जनं, तस्य अयोगः।तस्य रसस्य अत्यल्पम् आहरणम् अपि अयोगः।कस्यचित् रसस्य विषमादानं तस्य मिथ्यायोगः।रसस्य विषमादानं नाम किम् इति स्पष्टीकरोति टीकाकारः।
अत्र वैषम्यं नाम दोषः।ओकसात्म्यादिवैषम्यं नाम ओकसात्म्यादिदोषाः।आदिपदेन कस्य ग्रहणं कार्यम्? प्रकृतिः करणं संस्कारः कालः देशः उपयोगसंस्था उपयोक्ता इति एतेषां सप्तानाम् आहारविधिविशेषायतनानां ग्रहणं कार्यम्।प्रकृतिदोषेण रसादानं, करणदोषेण रसादानं, संस्कारदोषेण रसादानं, कालदोषेण रसादानं, देशदोषेण रसादानं, उपयोगसंस्थादोषेण रसादानं तथा उपयोक्तृदोषेण रसादानम इति एतत् सर्वं रसमिथ्यायोगः उच्यते।
ननु रसविमानीयाध्याये मुनिना अष्टौ आहारविधिविशेषायतनानि विवृतानि।इह सप्तैव दृश्यन्ते कथम्?अस्य प्रश्नस्य समाधानमुक्तं चक्रपाणिना
‘राशिदोषवर्जं प्रकृत्यादिसप्तदोषा ग्रहीतव्याः’ इति।
राशिदोषः कुतो नात्र ग्राह्य? गोबलीवर्दन्यायेन अत्र राशिदोषः वर्जनीयः।
गोशब्दः उभयलिङ्गे वर्तते।अतः ‘गौः’ इत्युक्ते ‘धेनुः’ इत्यपि अर्थबोधः भवति, ‘वृषभः’ इत्यपि अर्थबोधः भवति।तथापि ‘गोबलीवर्दौ’ इति उक्ते गोशब्देन धेनुः इत्येव अर्थः ग्राह्यः भवति, न वृषभः इति।वृषभार्थकस्य बलीवर्दस्य पृथगुक्तत्वात्।
प्रकृते अपि राशिसंज्ञकस्य आयतनस्य दोषः अत्यादानम् अनादानम् अल्पादानम् इति एतैः पदैः पृथगुक्तः।पुनः आदिपदेन तस्य ग्रहणं नावश्यकम्।अतः सप्तानामेव आयतनानां ग्रहणं कार्यम्। ओकसात्म्येन विषमादानस्य निदर्शनं स्वयं मुनिना उक्तम् –
ये ह्यतिलवणसात्म्याः पुरुषाः, तेषामपि खालित्यपालित्यानि वलयः च अकाले भवन्ति।– च.वि.१.१८
प्रकृत्याद्युपयोक्त्रष्टमानि सर्वाण्याहारविधिविशेषातनानि अभिसमीक्ष्य हितमेवानुरुध्येत।– च.वि.१.२०
प्रकृत्यादीनाम् अभिसमीक्षां विना एव यदि कश्चित् मधुरादीन् रसान् आहरति,तर्हि रसाणां मिथ्यायोगः सः।निदर्शनानि अत्र उच्यन्ते।
प्रकृतिवैषम्यं यथा- क्षीरं मधुरं च विरेचनप्रकृतिकं च।मधुररसप्रीत्या यदि कश्चित् क्षीरस्य एतां प्रकृतिम् अनभिसमीक्ष्य क्षीरं सेवते तर्हि मधुररसस्य विषमादानम् इदम्। एषः मधुररसस्य मिथ्यायोगः।
करणवैषम्यं यथा-मधुरप्रीत्या कश्चिद् मन्दकं दधि खादति।तत्र आतञ्चनसंस्कारः पूर्णतां न गतः इति करणवैषम्यम् इदम्।एतद् मधुररसस्य विषमादानम्।मिथ्यायोगः अयम्।
संयोगवैषम्यं यथा-लवणरसप्रीत्या कश्चिद् दुग्धेन सह लवणं संयोज्य खादति।यथोक्तं मुनिना -
ते हि पयसा सहापि लवणम् अश्नन्ति...।च.वि.१.१८
लवणरसस्य विषमादानम् इदम्। अयं लवणरसस्य संयोगवैषम्यजन्यः मिथ्यायोगः।
देशवैषम्यं यथा- मधुररसप्रीत्या आनूपदेशे मधुरप्रचुरभोजनम्।देशवैषम्यजन्यः मिथ्यायोगोऽयम्।
कालवैषम्यं यथा- मधुरप्रीत्या कश्चिद् भोजनान्ते मधुरं खादति।मधुरेण भोजनं समापयति।भोजनान्तकालः आवस्थिकः कालः ।तदा मधुररसादानं विषमादानसंज्ञकम्।एषः कालवैषम्यजन्यः मिथ्यायोगः।
उपयोगसंस्थावैषम्यं यथा- भोजनादौ मधुरः भोजनमध्ये अम्ललवणौ तथा भोजनान्ते कटुतिक्तकषायरसाः इति उपयोगसंस्था। तत्र स्वच्छन्दतया क्रमपरिवर्तनं नाम रसानां विषमादानम्।एषः उपयोगसंस्थावैषम्यजन्यः मिथ्यायोगः।
उपयोक्तृवैषम्यं यथा- स्थूलस्य मधुरप्रचुरं भोजनम्।उपयोक्तृवैषम्यजन्यः अयं मधुररसस्य मिथ्यायोगः।
‘अत्युग्रशब्दश्रवणात्’ इत्यतः आरभ्य इत्यसात्म्यार्थसंयोगस्त्रिविधः इति एतावत्पर्यन्तं सविस्तरं विवृतः असात्म्येन्द्रियार्थसंयोगः।तत्र अतियोगः समाविष्टः यथा ‘अतिसंस्पर्शः’।तत्र मिथ्यायोगः समाविष्टः यथा ‘तैर्गन्धैर्घ्राणसंयोगो मिथ्यायोगः स उच्यते’।तत्र हीनयोगः समाविष्टः यथा ‘हीनसंस्पर्श एव च’।तथा तत्र अयोगः अपि समाविष्टः यथा ‘श्रवणात् सर्वशो न च’।एवमेते चत्वारः भेदाः जाताः अतियोगः, मिथ्यायोगः हीनयोगः अतियोगश्चेति।कथं तर्हि मुनिः वदति ‘इत्यसात्म्यार्थसंयोगः त्रिविधः’ इति?
उच्यते।हीनयोगः अयोगे एव अन्तर्भूतः।तस्मात् त्रिविधः एव असात्म्येन्द्रियसंयोगः गण्यते।तत्र उपपत्तिः एषा –
अयोगः इति नञ्समासः।नञः च षड् अर्थाः सम्भवन्ति-
सादृश्यं तदभावश्च तदन्यत्वं तदल्पता।अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः॥
एतेषु अर्थेषु तदल्पता इति अन्यतमः अर्थः।हीनयोगशब्दे स एवार्थः अभिप्रेतः।अतः हीनयोगस्य अयोगे समावेशः न दुष्टः।अतः एव चक्रपाणिः त्रिविधत्वम् एवं विवृणोति –
त्रिविध इति अयोग-अतियोगमिथ्यायोगरूपः॥
अन्यत्रापि त्रिविधः असात्म्येन्द्रियसंयोगः अयोगातियोगमिथ्यायोगरूपः एव भवति। क्वचित् प्रयोजनवशात् हीनयोगस्य पृथग् वचनं दृश्यते, न तु तस्य पृथग् गणनम् अस्ति।

१२७[सम्पाद्यताम्]

असात्म्यमिति तद्विद्याद्यन्न याति सहात्मताम्॥१२७॥

पदच्छेदः-
असात्म्यम् इति तद् विद्यात् यद् न याति सह-आत्मताम्॥१२७॥

अन्वयः-
यत् (शरीरेण) सह आत्मतां न याति, तद् असात्म्यम् इति विद्यात् ॥१२७॥

सरलार्थः-
यद् शरीरेण सह न एकीभवति, विकृतरूपं याति, तद् असात्म्यम् इति ज्ञातव्यम्।

आयुर्वेददीपिका
असात्म्यार्थं दर्शयति- असात्म्यम् इत्यादि। सह इति मिलितं शरीरेण। आत्मताम् अविकृतरूपतां न याति; एतेन, यद् उपयुक्तं प्राकृतरूप-उपघातकं भवति, तद् असात्म्यम् इति॥१२७॥

अरुन्धतीपद्धतिः –
सूत्रे सह इति अव्ययं विद्यते।एतद् अव्ययं तृतीयान्तं पदम् आकाङ्क्षते।तत् तु सूत्रे नास्ति।अतः वाक्यशेषतन्त्रयुक्त्या ‘शरीरेण’ इति तृतीयान्तं पदं टीकाकारेण गृहीतम्।
ननु असात्म्यं न केवलं शरीरोपघातकं, इन्द्रियोपघातकम् अपि भवति।यथा उक्तं मुनिना-
रूपाणां भास्वतां दृष्टिर्विनश्यत्यतिदर्शनात्।
अतः शरीरेण इन्द्रियेण च सह यद् एकतां न याति तद् असात्म्यम् इति चक्रपाणिना वक्तव्यम्।
नैवम्।शरीरशब्देन स्थूलसूक्ष्मयोः उभयोः अपि शरीरयोः ग्रहणं विवक्षितम्।इन्द्रियाणि सूक्ष्मशरीरे अन्तर्भवन्ति अतः ‘इन्द्रियेण सह यद् एकतां न याति’ इति पृथग्वचनं नावश्यकम्।

१२८[सम्पाद्यताम्]

मिथ्यातिहीनयोगेभ्यो यो व्याधिरुपजायते।शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियको बुधैः॥१२८॥

पदच्छेदः-
मिथ्या-अति-हीन-योगेभ्यः यः व्याधिः उपजायते।शब्दादीनां सः विज्ञेयः व्याधिः ऐन्द्रियकः बुधैः॥१२८॥

अन्वयः-
शब्दादीनां मिथ्या-अति-हीन-योगेभ्यः यः व्याधिः उपजायते, सः व्याधिः बुधैः ऐन्द्रियकः विज्ञेयः॥१२८॥

सरलार्थः-
शब्दादीनां विषयाणां मिथ्यायोगात् अथवा अतियोगात् अथवा हीनयोगात् यः रोगः जायते, सः रोगः ‘ऐन्द्रियकः’ रोगः इति बुधाः जानन्ति।१२८

आयुर्वेददीपिका
इत्थम् असात्म्यार्थजस्य व्याधेः इन्द्रियद्वारभूतत्वेन ऐन्द्रियकत्वं दर्शयन् आह मिथ्या इत्यादि हीनयोगेन इह अयोगः ग्राह्यः। ऐन्द्रियकः इति इन्द्रियद्वारभूतः||१२८||

अरुन्धतीपद्धतिः –
ऐन्द्रियकशब्दस्य कोशे अर्थः एवं दत्तः –
ऐन्द्रियक (त्रि.) - इन्द्रियेण प्रकाश्यः वुञ्।
१ इन्द्रियप्रकाश्ये प्रत्यक्षात्मके ज्ञाने।
२ तद्विषये च। - वाचस्पत्यम्
इन्द्रियग्राह्यं ज्ञानम् अथवा ऐन्द्रियज्ञानस्य विषयः इति उभौ अपि कोशस्थौ एतौ अर्थौ प्रकृते न प्रतिपन्नौ, यतो हि व्याधेः विशेषणरूपेण ऐन्द्रियकशब्दः अत्र प्रयुक्तः।अतः अन्यः सङ्गतः अर्थः प्रतिपादनीयः। तदर्थं चक्रपाणिः निर्वचनतन्त्रयुक्तिम् आश्रयते।
‘इन्द्रियात् आगतः’ इति अनेन अर्थेन इन्द्रियशब्दात् अण् इति तद्धितप्रत्ययः कृतः।ततः ऐन्द्रियम् इति रूपं साधितम्।
इन्द्रिय – अण्..... तत आगतः।(अष्टाध्यायी ४.३.७४)
ऐन्द्रियः।
अनन्तरं संज्ञायां कन् इति सूत्रेण ऐन्द्रियकशब्दः साधितः।
ऐन्द्रियः- कन् ..... संज्ञायां कन्।(अष्टाध्यायी४.३.१४७ )
ऐन्द्रियकः।
अस्य सकलस्य निर्वचनस्य सारः भवति ‘इन्द्रियद्वारतः शरीरं प्रविष्टः’ इति।
अन्यथाप्रतिपत्तेः निरासः अपि अनेन निर्वचनेन जातः।तस्य इदम्।(अष्टाध्यायी ४.३.१२०) इति सूत्रेण ‘इन्द्रियस्य अयम् ऐन्द्रियकः’ इति अर्थः सम्भवति।अथवा तत्र भवः। (अष्टाध्यायी ४.३.५३) इत्यनेन सूत्रेण ‘इन्द्रिये भवः ऐन्द्रियकः’ इति अर्थः अपि सम्भवति।एतौ अर्थौ यद्यपि व्याकरणदृष्ट्या अत्र सम्भवतः तथापि चरकवचनेन सह विरुद्ध्येते।यतो हि
इति असात्म्य-अर्थसंयोगः त्रिविधः दोषकोपनः। (च.शा.१.१२७)
इति वचनात् असात्म्येन्द्रियजन्यः व्याधिः दोषकोपनः अपि अस्ति,न केवलम् इन्द्रियस्य रोगः न वा केवलम् इन्द्रिये भवः। अतः इन्द्रियद्वारेण प्राप्तः ऐन्द्रियकः इति चक्रपाणिकृतः अर्थः एव साधुः।
‘ऐन्द्रियकव्याधिः’ इति एतस्याः संज्ञायाः विधायकसूत्रमिदम्।सूत्रे अस्मिन् हीनयोगः इति पदम् अस्ति।तस्य वाच्यार्थः भवति ‘न्यूनमात्रया योगः’।एतमर्थं स्वीकुर्मः चेत् अयोगजरोगस्य ‘ऐन्द्रियकव्याधिः’ इति संज्ञा न भविष्यति।तस्मात् हीनयोगशब्दस्य मुख्यार्थः ‘न्यूनमात्रया योगः’ बाधितः।
मुख्यार्थबाधे सति लक्षणा आश्रयणीया।हीनयोगस्य लक्षणया ‘अयोगः’ इति अर्थः कार्यः। लक्षणा कार्या चेत् वाच्यार्थ-लक्ष्यार्थयोः सम्बन्धः दर्शनीयः।‘समयोगाद् अपकृष्टत्वम्’ इति उभयोः अर्थयोः साधर्म्यम्।एषः साधर्म्यसम्बन्धः एव वाच्यार्थलक्ष्यार्थयोः सम्बन्धः।
ननु हीनयोगशब्दस्य ‘अयोगः’ इति अर्थं लक्षणया स्वीकुर्मः चेत् हीनयोगजन्यव्याधेः ऐन्द्रियकसंज्ञा न भवति।
नैवम्।अयोगे हीनयोगः अन्तर्भूतः इति पूर्वं (च.शा१.१२६ चक्रपाणिपद्धतिः।) दर्शितम्। अतः लक्षणा क्रियते चेत् ‘हीनः योगः’ अपि गृह्यते, ‘न योगः’ अपि गृह्यते।यतो हि अजहत्स्वार्थ-लक्षणा इयम्।यथा काकेभ्यः दधि रक्ष्यताम् इत्यत्र काकशब्दस्य ‘दधिबाधकाः’ इति लक्ष्यार्थः क्रियते तदा दधिबाधकेषु काकाः अपि समाविष्टाः कुक्कुरमार्जारादयः अन्ये अपि दधिबाधकाः समाविष्टाः।
ननु वृथायं प्रयासः क्रियते अयोगजव्याधेः ऐन्द्रियकसंज्ञालाभाय। अयोगजस्य व्याधेः ऐन्द्रियकसंज्ञा स्वयं मुनेः नाभिप्रेता।अत एव सः सूत्रे हीनयोगशब्दम् उक्तवान्, न तु अयोगशब्दम्।यदा इन्द्रियार्थयोगः एव न भवति, तदा तज्जस्य व्याधेः ‘ऐन्द्रियकः’ इति संज्ञा एव न उपपद्यते।तस्मात् मास्तु लक्षणाव्यापारः।हीनयोगशब्दस्य मुख्यार्थः एव ग्राह्यः।
अत्र उच्यते।ऐन्द्रियकशब्दस्य निर्वचनं पूर्वं कृतम्।इन्द्रियद्वारेण शरीरं प्राप्तः रोगः ऐन्द्रियकः इति निर्वचनप्राप्तः अर्थः।इन्द्रियार्थसम्बन्ध: अतिमात्रया अस्ति वा न्यूनमात्रया अस्ति वा मिथ्या अस्ति वा सर्वथा नास्ति वा इति विशेषः अत्र न संज्ञाप्रयोजकः।अयोगजन्यः व्याधिः यस्मात् इन्द्रियद्वारेण एव शरीरं प्रविशति तस्मात् तस्य अपि ऐन्द्रियकसंज्ञा उपपद्यते।तस्याः च लाभार्थं लक्षणा अनिवार्या।
एतत् सर्वम् आलोच्य एव चक्रपाणिः वदति ‘हीनयोगेन इह अयोगः ग्राह्यः’ इति।

१२९[सम्पाद्यताम्]

वेदनानामशान्तानामित्येते हेतवः स्मृताः।सुखहेतुः समस्त्वेकः समयोगः सुदुर्लभः॥१२९॥

पदच्छेदः-
वेदनानाम् अशान्तानाम् इति एते हेतवः स्मृताः। सुखहेतुः समः तु एकः समयोगः सुदुर्लभः॥१२९॥

अन्वयः-
अशान्तानाम् वेदनानाम् इति एते हेतवः स्मृताः।सुखहेतुः तु एकः समः (योगः)। समयोगः सुदुर्लभः (अस्ति)॥१२९॥

सरलार्थः-
अशान्तानाम् वेदनानाम् इति एतानि कारणानि सन्ति।सुखवेदनायाः हेतुः तु एकः समः (योगः)। सः समयोगः सुदुर्लभः (अस्ति)॥१२९॥

आयुर्वेददीपिका
दुःखरूपवेदनाहेतुं प्रपञ्चोक्तम् उपसंहरति- वेदनानाम् इत्यादि। अशान्तानाम् इति दुःखानाम्। अथ सुखरूपवेदनाहेतुः कः इति आह- सुखेत्यादि। समयोगः इति कालबुद्धीन्द्रियार्थानां सम्यग्योगः। सुदुर्लभः इति कालादिसम्यग्योगस्य अयोगादिविरहत्वेन सुदुर्लभत्वात्। प्रायः हि कालादीनां मध्ये अन्यतरेण अपि अयोगादिना पुरुषः सम्बध्यते; तेन च नित्यातुराः एव पुरुषाः भवन्ति, अल्पं च रोगम् अनादृत्य स्वस्थव्यपदेशः पुरुषाणां क्रियते इति भावः॥१२९॥

अरुन्धतीपद्धतिः –
कारणं वेदनानां किम् इति प्रश्नः अग्निवेशेन पृष्टः। वेदनाः सुखरूपाः सन्ति तथा दुःखरूपाः सन्ति।सुखरूपा वेदना स्वास्थ्यम्।दुःखरूपवेदना अस्वास्थ्यम्।दुःखरूपवेदनायाः कारणं किम् इत्यस्य उत्तरम् उक्तम् –
धीधृतिस्मृतिविभ्रंशः सम्प्राप्तिः कालकर्मणाम्।असात्म्यार्थागमश्चेति ज्ञातव्या दुःखहेतवः॥च.शा.१.९८॥
इति सूत्रे।अधुना दुःखवेदनाहेतुविवरणं समाप्य सुखवेदनानां कारणं किम् इति वदति मुनिः- सुखहेतुः समस्त्वेकः इति।

११०-११७   चरकसंहिता-आयुर्वेददीपिकयोः अरुन्धती-पद्धतिः         १३०-१४१
"https://sa.wikibooks.org/w/index.php?title=च.शा.१.११८-१२९&oldid=6395" इत्यस्माद् पुनः प्राप्तिः