च.सू.५.१०३,१०४

विकिपुस्तकानि तः
Jump to navigation Jump to search

नगरी नगरस्येव रथस्येव रथी यथा।स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत्॥१०३

पदच्छेदः -
नगरी नगरस्य इव रथस्य इव रथी यथा।स्वशरीरस्य मेधावी कृत्येषु अवहितः भवेत्॥१०३

अन्वयः -
यथा नगरी नगरस्य इव, रथी रथस्य इव,मेधावी स्वशरीरस्य कृत्येषु अवहितः भवेत्॥१०३

सरलार्थः -
यथा नगरी नगरस्य कृत्येषु अवहितः भवति, रथी रथस्य कृत्येषु अवहितःभवति, तथा मेधावी जनः स्वशरीरस्य कृत्येषु अवहितः भवेत्॥१०३

आयुर्वेददीपिका
सम्प्रति अनुक्तस्वस्थविधि-उपसङ्ग्रहार्थं तथा उपदिष्टस्य अवधानेन करणार्थम् आह- नगरी- इत्यादि। कृत्येषु करणीयेषु उक्तेषु अनुक्तेषु च। नगरदृष्टान्तेन आन्तरप्रत्यवायहेतुविघातकारिणि कृत्ये अवधानं दर्शयति, रथदृष्टान्तेन च बाह्यस्पर्शादिपरिहारके कृत्ये अवधानं दर्शयति। नगर-उच्छेदे हि अन्तरो दुष्टजनसम्बन्धः एव हेतुः प्रायः भवति, रथभङ्गे तु बाह्यश्वभ्रविषमपतनादिः॥१०३

अरुन्धती पद्धतिः

दृष्टान्तः दार्ष्टान्तिकः
१ नगरी नगरस्य कृत्येषु दक्षः भवति तथा मेधावी शरीरान्तर्गतानां स्वास्थ्य-प्रत्यवायहेतूनां विनाशे दक्षः स्यात्।
२ रथी रथस्य कृत्येषु दक्षः भवति तथा मेधावी शरीरबाह्यानां स्वास्थ्य-प्रत्यवायहेतूनां विनाशे दक्षः स्यात्।

भवति चात्र-
वृत्त्युपायान्निषेवेत ये स्युर्धर्माविरोधिनः।शममध्ययनं चैव सुखमेवं समश्नुते॥१०४

पदच्छेदः -
भवति चात्र-
वृत्ति-उपायात् निषेवेत ये स्युः धर्म-अविरोधिनः। शमम् अध्ययनं च एव सुखम् एवं समश्नुते॥१०४

अन्वयः -
ये धर्म-अविरोधिनः स्युः (तादृशान्) वृत्ति-उपायात् निषेवेत ।शमम् अध्ययनं च एव निषेवेत । एवं सुखं समश्नुते॥१०४

सरलार्थः -
ये धर्म-अविरोधिनः स्युः,तादृशान् वृत्ति-उपायात् निषेवेत।शमम् अध्ययनं च एव निषेवेत । एवं नरः सुखं समश्नुते॥१०४

आयुर्वेददीपिका
प्रधानभूतां शरीरप्रति-अवेक्षां कृत्वा स्वस्थेन सता यत् अन्यत् च कर्तव्यं तत् आह- वृत्ति-उपायान् इत्यादि। वृत्तिः वर्तनं, तस्य उपायाः कृषि-आदयः धन-एषणायां तिस्रैषणीये वाच्याः। शमः शान्तिः, अध्ययनं वेद-अध्ययनं, निषेवेत इति सम्बन्धः। एवं सति सुखं समश्नुते प्राप्नोति। एतेन कृष्यादिभ्यो अर्थः, शान्ति-अध्ययनाभ्यां धर्मः, अर्थधर्माभ्यां च सुखलक्षणः कामः, इति त्रिवर्ग-अनुष्ठानं दर्शितं भवति॥१०४

अरुन्धती पद्धतिः
धर्मः अर्थः कामः इति अस्य त्रिवर्गस्य प्राप्तेः उपायः अत्र सूचितः।स एवम्-

धर्माविरोधिनः वृत्त्युपायाः कृष्यादयः।ततः अर्थप्राप्तिः
शमः वेदाध्ययनम्।ततः धर्मप्राप्तिः
धर्मार्थाभ्याम् कामप्राप्तिः
एवं सूत्रोक्तैः उपायैः धर्मः अर्थः कामः इति अस्य त्रिवर्गस्य प्राप्तिः


चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च

"https://sa.wikibooks.org/w/index.php?title=च.सू.५.१०३,१०४&oldid=6897" इत्यस्माद् प्रतिप्राप्तम्