च.सू.५.१०५-१११

विकिपुस्तकानि तः
Jump to navigation Jump to search

तत्र श्लोकाः-
मात्रा द्रव्याणि मात्रां च संश्रित्य गुरुलाघवम्।द्रव्याणां गर्हितोऽभ्यासो येषां, येषां च शस्यते॥१०५
अञ्जनं धूमवर्तिश्च त्रिविधा वर्तिकल्पना।धूमपानगुणाः कालाः पानमानं च यस्य यत्॥१०६
व्यापत्तिचिह्नं भैषज्यं धूमो येषां विगर्हितः।पेयो यथा यन्मयं च नेत्रं यस्य च यद्विधम्॥१०७
नस्यकर्मगुणा नस्तःकार्यं यच्च यथा यदा।भक्षयेद्दन्तपवनं यथा यद्यद्गुणं च यत्॥१०८
यदर्थं यानि चास्येन धार्याणि कवलग्रहे।तैलस्य ये गुणा दिष्टाः शिरस्तैलगुणाश्च ये॥१०९
कर्णतैले तथाऽभ्यङ्गे पादाभ्यङ्गेऽङ्गमार्जने।स्नाने वाससि शुद्धे च सौगन्ध्ये रत्नधारणे॥११०
शौचे संहरणे लोम्नां पादत्रच्छत्रधारणे।गुणा मात्राशितीयेऽस्मिंस्तथोक्ता दण्डधारणे॥१११

पदच्छेदः -
तत्र श्लोकाः-
मात्रा द्रव्याणि मात्रां च संश्रित्य गुरुलाघवम्।द्रव्याणां गर्हितः अभ्यासः येषां, येषां च शस्यते॥१०५
अञ्जनं धूमवर्तिः च त्रिविधा वर्तिकल्पना।धूमपानगुणाः कालाः पानमानं च यस्य यत्॥१०६
व्यापत्तिचिह्नं भैषज्यं धूमः येषां विगर्हितः।पेयः यथा यन्मयं च नेत्रं यस्य च यद्विधम्॥१०७
नस्यकर्मगुणाः नस्तःकार्यं यत् च यथा यदा।भक्षयेद् दन्तपवनं यथा यद्यद्गुणं च यत्॥१०८
यद्-अर्थं यानि च आस्येन धार्याणि कवलग्रहे।तैलस्य ये गुणाः दिष्टाः शिरस्-तैलगुणाः च ये॥१०९
कर्णतैले तथा अभ्यङ्गे पाद-अभ्यङ्गे अङ्गमार्जने।स्नाने वाससि शुद्धे च सौगन्ध्ये रत्नधारणे॥११०
शौचे संहरणे लोम्नां पादत्र-छत्रधारणे।गुणाः मात्राशितीये अस्मिंन् तथोक्ता दण्डधारणे॥१११

अन्वयः -
तत्र श्लोकाः-
मात्रा, द्रव्याणि, मात्रां संश्रित्य गुरुलाघवं च, येषां द्रव्याणाम् अभ्यासः गर्हितः, येषां च शस्यते, अञ्जनं, त्रिविधा धूमवर्तिः च, वर्तिकल्पना, धूमपानगुणाः, कालाः, यस्य यत् च पानमानं, व्यापत्तिचिह्नं, भैषज्यं, येषां धूमः विगर्हितः,यथा पेयो, यस्य यत्-मयं यद्विधं च नेत्रं च, नस्यकर्मगुणाः, यत् च यथा यदा नस्तःकार्यं,दन्तपवनं यथा भक्षयेद् यत् च दन्तपवनं यद्यद्गुणं, यदर्थं यानि च आस्येन कवलग्रहे धार्याणि ,तैलस्य ये गुणाः दिष्टाः ये च शिरस्तैलगुणाः, कर्णतैले तथा अभ्यङ्गे पाद-अभ्यङ्गे अङ्गमार्जने, स्नाने, शुद्धे वाससि च सौगन्ध्ये, रत्नधारणे,शौचे लोम्नां संहरणे, पादत्र-छत्रधारणे तथा दण्डधारणे गुणाः अस्मिंन् मात्राशितीये उक्ताः। १११

सरलार्थः -
तत्र श्लोकाः-
अस्मिंन् मात्राशितीये एतद् उक्तम् - मात्रा, द्रव्याणि, मात्रां संश्रित्य गुरुलाघवं च, येषां द्रव्याणाम् अभ्यासः गर्हितः तानि द्रव्याणि, येषाम् अभ्यासः शस्यते तानि द्रव्याणि, अञ्जनं, त्रिविधा धूमवर्तिः च, वर्तिकल्पना, धूमपानगुणाः, धूमपानस्य कालाः, यस्य यत् च पानप्रमाणं, व्यापत्तिचिह्नं, भैषज्यं, येषां धूमः विगर्हितः ते जनाः,यथा पेयः सः विधिः, यस्य यत्-मयं यद्विधं च नेत्रं च, नस्यकर्मगुणाः, यत् च यथा यदा नस्तःकार्यं, दन्तपवनं यथा भक्षयेद् यत् च दन्तपवनं यद्यद्गुणं, यदर्थं यानि च आस्येन कवलग्रहे धार्याणि ,तैलस्य ये गुणाः दिष्टाः ये च शिरस्तैलगुणाः ,कर्णतैले तथा अभ्यङ्गे पाद-अभ्यङ्गे अङ्गमार्जने, स्नाने, शुद्धे वाससि च सौगन्ध्ये, रत्नधारणे,शौचे लोम्नां संहरणे, पादत्र-छत्रधारणे तथा दण्डधारणे गुणाः। १११

आयुर्वेददीपिका
मात्रा-इत्यादि अध्यायार्थसङ्ग्रहः। मात्र उक्ता यावत् हि अस्य अशनम् इत्यादिना। तथा द्रव्याणि तत्र शालि-इत्यादिना। मात्रां च अश्रित्य गुरुलाघवम् इति प्रकृतिलघूनि अपि मात्राम् एव अपेक्षन्ते इति एवं प्रकारेण उक्तम्। पानस्य मानं पानमानम्, आपानाः त्रिः त्रयः त्रयः इत्यादि। नस्तःकार्यं यत् इति अणुतैलम्। यथा इति पिचुना इत्यादि। यदा इति प्रावृट्शरद्-इत्यादि। शेषं सुगमम्॥१०५-१११

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने मात्राशितीयो नाम पञ्चमोऽध्यायः समाप्तः॥५

अरुन्धती पद्धतिः

किं प्रतिपादितम्? कुत्र प्रतिपादितम्?
मात्रा मात्राशी स्यात् ... मात्राप्रमाणं वेदितव्यं भवति॥४
द्रव्याणि तत्र शालिषष्टिक...।५
मात्रां च संश्रित्य गुरुलाघवम् ...प्रकृतिलघून्यपि मात्रापेक्षीणि भवन्ति... प्रकृति-गुरूण्यपि ...मात्रामेवापेक्षन्ते॥५
येषां द्रव्याणाम् अभ्यासः गर्हितः गुरु पिष्टमयं ...न जातु भुक्तवान् खादेत्।९

वल्लूरं ...नाभ्यसेत् ... मांसं कृशं नैवोपयोजयेत्।१०
कूर्चिकांश्च... न शीलयेत्॥११

येषाम् अभ्यासः शस्यते षष्टिकान् ...मधु चाभ्यसेत्॥१२

तच्च नित्यं प्रयुञ्जीत ...च यत्॥१३

अञ्जनम् सौवीरमञ्जनं...ध्रुवमञ्जनमिष्यते॥१८

...नभसीन्दुवत्।२०

धूमवर्तिः हरेणुकां ...पिबेत् प्रायोगिकीं सुखाम्।२५
त्रिविधा वर्तिकल्पना ...पिबेत् प्रायोगिकीं सुखाम्।२५

वसाघृत... वर्तिं मधुरकैः कृत्वा स्नैहिकीं ...
धूमं मूर्धविरेचने।२७

धूमपानगुणाः गौरवं शिरसः शूलं … व्याधयः स्युः शिरोगताः।३३
धूमपानकालाः प्रयोगपाने तस्याष्टौ कालाः ...

नावनाञ्जननिद्रान्ते चात्मवान् धूमपो भवेत्।३५

धूमस्य यस्य यत् पानमानम् ... पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः।३६

परं द्विकालपायी... वैरेच्यं त्रिचतुः पिबेत्।

धूमस्य व्यापत्तिचिह्नम् बाधिर्यम् ... अकाले चातिपीतश्च धूमः कुर्यादुपद्रवान्।
धूमव्यापत्तेः भैषज्यम् तत्रेष्टं सर्पिषः पानं... श्लेष्मपित्ते विरूक्षणम्॥४०
धूमः येषां विगर्हितः परं त्वतः प्रवक्ष्यामि धूमो येषां विगर्हितः...

एषु धूममकालेषु मोहात् पिबति यो नरः।रोगास्तस्य प्रवर्धन्ते दारुणा धूमविभ्रमात्।४६

धूमः यथा पेयः धूमयोग्यः पिबेत् ...चक्षुषी।४८

ऋज्वङ्गचक्षुः ...धूममात्मवान्।४९
नेन्द्रियं बाधते धूमो मात्राकालनिषेवितः।५२

यस्य धूमस्य यद्विधं नेत्रम् चतुर्विंशतिकं नेत्रं...कोलास्थ्यग्रप्रमाणितम्॥५०
यस्य धूमस्य यन्मयं नेत्रम् बस्तिनेत्रसमद्रव्यं धूमनेत्रं प्रशस्यते।५१
नस्यकर्मगुणाः वर्षे वर्षेऽणुतैलं ...न तस्य चक्षुः ...

जरा न लभते बलम्।६३

यत् नस्तःकार्यं चन्दनागुरुणी...
... दद्यादेषोऽणुतैलस्य नावनीयस्य संविधिः।
तैलमेतत् ... गुणान्।७१
अस्य मात्रां ... नियतेन्द्रियः।
यदा नस्तःकार्यं स्निग्धस्विन्नोत्तमाङ्गस्य पिचुना नावनैस्त्रिभिः।

त्र्यहात्त्र्यहाच्च सप्ताहमेतत् कर्म समाचरेत्॥६९

दन्तपवनं यथा भक्षयेद् भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्।
दन्तपवनं यद्यद्गुणं आपोथिताग्रं द्वौ कालौ कषायकटुतिक्तकम्॥७१
दन्तपवनं यत् करञ्जकरवीरार्कमालतीककुभासनाः॥७३

शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः।

यद्-अर्थम् आस्येन धार्याणि धार्याण्यास्येन वैशद्यरुचिसौगन्ध्यमिच्छता॥७६
यानि आस्येन धार्याणि जातीकटुकपूगानां लवङ्गस्य फलानि च।

कक्कोलस्य फलं पत्रं ताम्बूलस्य शुभं तथा।
तथा कर्पूरनिर्यासः सूक्ष्मैलायाः फलानि च॥७७

कवलग्रहे तैलस्य ये गुणाः हन्वोर्बलं ... तैलगण्डूषधारणात्॥८०
शिरस्-तैलगुणाः च ये नित्यं स्नेहार्द्रशिरसः ...मूर्ध्नि तैलनिषेवणात्॥८३
कर्णतैले गुणाः न कर्णरोगा वातोत्था...नित्यं कर्णतर्पणात्॥८४
अभ्यङ्गे गुणाः स्नेहाभ्यङ्गात्... नरोऽल्पजर एव च॥८९
पाद-अभ्यङ्गे गुणाः खरत्वं ...पादाभ्यङ्गनिषेवणात्॥९०

जायते सौकुमार्यं ...पादाभ्यङ्गेन पादयोः॥९२

अङ्गमार्जने गुणाः दौर्गन्ध्यं ... हन्ति शरीरपरिमार्जनम्॥९३
स्नाने गुणाः पवित्रं ...स्नानमोजस्करं परम्॥९४
शुद्धे वाससि गुणाः काम्यं ... शस्तं निर्मलाम्बरधारणम्॥९५
सौगन्ध्ये गुणाः वृष्यं ...गन्धमाल्यनिषेवणम्॥९६
रत्नधारणे गुणाः धन्यं ... रत्नाभरणधारणम्॥९७
शौचे गुणाः मेध्यं ... शौचाधानमभीक्ष्णशः॥९८
लोम्नां संहरणे गुणाः पौष्टिकं वृष्यमायुष्यं शुचि रूपविराजनम्।

केशश्मश्रुनखादीनां कल्पनं सम्प्रसाधनम्॥९९

पादत्र-धारणे गुणाः चक्षुष्यं ...पादत्रधारणम्॥१००
छत्रधारणे गुणाः ईतेः प्रशमनं ...छत्रधारणमुच्यते॥१०१
दण्डधारणे गुणाः स्खलतः सम्प्रतिष्ठानं ... भयघ्नं दण्डधारणम्॥१०२

अस्मिन् अध्यायार्थसङ्ग्रहे धूमपानस्य सम्यग्योग-अयोग-अतियोगलक्षणानि न उल्लिखितानि, जिह्वानिर्लेखनं नोक्तम्।येषां विषयाणां समावेशः अत्र उपसंहारे नास्ति, परम् अध्याये तद्विषये वचनानि दृश्यन्ते, ते सर्वे अंशाः ‘अनार्षाः’ इति चक्रपाणिः मन्यते।तत्र टीकां कर्तुं न उत्सहते च। पदच्छेदः -
इति अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने मात्राशितीयो नाम पञ्चमः अध्यायः समाप्तः॥५

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च

"https://sa.wikibooks.org/w/index.php?title=च.सू.५.१०५-१११&oldid=6898" इत्यस्माद् प्रतिप्राप्तम्