च.सू.५.१०,११

विकिपुस्तकानि तः

वल्लूरं शुष्कशाकानि शालूकानि बिसानि च।नाभ्यसेद्गौरवान्मांसं कृशं नैवोपयोजयेत्॥१०
कूर्चिकांश्च किलाटांश्च शौकरं गव्यमाहिषे।मत्स्यान् दधि च माषांश्च यवकांश्च न शीलयेत्॥११

पदच्छेदः -
वल्लूरं शुष्कशाकानि शालूकानि बिसानि च। न अभ्यसेद् गौरवात् मांसं कृशं न एव उपयोजयेत्॥१०
कूर्चिकांन् च किलाटान् च शौकरं गव्य-माहिषे। मत्स्यान् दधि च माषान् च यवकान् च न शीलयेत्॥११

अन्वयः -
गौरवात् वल्लूरं शुष्कशाकानि शालूकानि बिसानि च न अभ्यसेद् , कृशं मांसं न एव उपयोजयेत्।कूर्चिकान् च किलाटान् च शौकरं (मांसं) गव्य-माहिषे (मांसे)।मत्स्यान् दधि च माषान् च यवकान् च न शीलयेत्॥११

सरलार्थः -
शुष्कमांसं, शुष्कशाकानि, शालूकानि, बिसानि च गुरुद्रव्याणिः अतः तेषां सततं भक्षणं न भवेत्।कृशं मांसं न एव खादेत्।कूर्चिकान् च किलाटान् च शूकरस्य मांसं गव्यमांसं, माहिषं मांसं, मत्स्यान् दधि च माषान् च यवकान् च वारं वारं न खादेत्॥११

आयुर्वेददीपिका
वल्लूरं शुष्कमांसम्| न अभ्यसेत् न निरन्तरम् उपयुञ्ज्यात्। अनभ्यासहेतुम् आह- गौरवात् इति। मांसं कृशम् अपुष्टं रोगात् उपरतमृगादिसम्भवम् इति अर्थः।एतत् च अपथ्यत्वात् एव निषिद्धं, न गौरवात् इति ब्रुवते। कूर्चिकः क्षीरेण समं दधि तक्रं वा पक्वं; किलाटः कूर्चिकपिण्डः, नष्टक्षीरस्य घनः भागः इति अन्ये। शौकरम् इति शूकरमांसं, शौकरसाहचर्याद् गव्यमाहिषे अपि मांसे एव बोद्धव्ये। यवकः शूकधान्यविशेषः। वक्ष्यति हि- “यवकः शूकधान्यानाम् अपथ्यतमत्वे प्रकृष्टतमः भवति” (सू.अ.२५) इति१०-११

अरुन्धती पद्धतिः
वल्लूरादि बिसान्तं न अभ्यसेत् इति एकः निषेधः।कृशं मांसं न उपयोजयेत् इति अपरः निषेधः।‘न अभ्यसेत्’ इति वचनेन वल्लूरादीनां बिसान्तानां द्रव्याणाम् अभ्यासमात्रस्य निषेधः कृतः अस्ति, न प्रयोगस्य।अभ्यासः सततशीलनम्। कृशमांसस्य तु प्रयोगः अपि निषिद्धः ‘न उपयोजयेत्’ इति वचनेन।
वल्लूरादीनाम् अभ्यासः कुतः निषिद्धः? गौरवात् ।अयं निषेधहेतुः मुनिना स्वयं ग्रन्थे निबद्धः।कृशमांसस्य प्रयोगः कुतः निषिद्धः? अत्र निषेधहेतुः मुनिना नोक्तः।सः स्वयं प्रज्ञया तर्क्यः। तथा चक्रपाणिना तर्केण निषेधहेतुः उक्तः ‘अपथ्यत्वात्’ इति।अत्र तर्कः एवम्-

कृशमांसम् अपथ्यम् प्रतिज्ञा
सर्वथा निषिद्धत्वात् हेतुः
यत्र सर्वथा निषिद्धत्वं, तत्र अपथ्यत्वं यथा विरुद्धाहारः उदाहरणम्
कृशमांसमपि सर्वथा निषिद्धम् उपनयः
अतः कृशमांसम् अपथ्यम् निगमनम्

ऊह्यतन्त्रयुक्तेः प्रयोगः एषः।
शौकरं गव्यं तथा माहिषम् इति त्रीणि विशेषणानि सूत्रे सन्ति।त्रीणि अपि विशेषणानि तद्धितप्रत्ययान्तानि।‘शूकरस्य इदं शौकरम्’ इति अण् प्रत्ययः।‘महिष्याः इदं माहिषम्’ इत्यत्रापि अण् प्रत्ययः।‘गोः इदं गव्यम्’ इति यत् प्रत्ययः।‘न शीलयेत्’ इति सततं न प्रयुञ्जीत।शूकरस्य गोः तथा महिष्याः सततं न प्रयुञ्जीत इति सूत्रार्थः।
शूकरस्य किं न शीलयेत्? गोः किं न शीलयेत्? तथा महिष्याः किं न शीलयेत्? इति एतेषां त्रयाणां विशेषणानां विशेष्याकाङ्क्षा अस्ति।
शूकरस्य मांसम् आहारे प्रयुज्यते, न दुग्धम्।अतः ‘शौकरं न शीलयेत् ’ इति वचनेन शूकरमांस-शीलनस्य निषेधः कृतः इति स्पष्टम्।एवं शौकरशब्दस्य विशेष्यं ‘मांसम्’ इति औचित्यवशात् निर्णीतः अर्थः।अर्थनिर्णयार्थम् औचित्यस्य एतादृशं साहाय्यं स्वीकर्तुं भर्तृहरिणा उक्तम्-
वाक्यात् प्रकरणादर्थादौचित्याद् देशकालतः ।
शब्दार्थाः प्रविभज्यन्ते न रूपादेव केवलात् ।।वाक्यपदीये वाक्यकाण्डे ३१४
...औचित्यादपि शब्दार्थव्यवस्थानं दृश्यते, यथा सीरासिमुसलैः केवलैरनिर्दिष्टक्रियापरैरप्यौचित्याद् विलेखनयुद्धावहननलक्षणसमुचितक्रियापदाक्षेपे शब्दार्थनिर्णयः पर्यवस्यति ।

अधुना गव्यं तथा माहिषम् इत्यस्य विशेष्यं निर्णेतव्यम्। यथा शौकरशब्दस्य विशेष्यं निर्णेतुम् औचित्यस्य साहाय्यं स्वीकृतं, तथा अत्र न शक्यते।यतो हि अत्र महिष्याः गोः च मांसम् आहारे प्रयुज्यते, तयोः दुग्धमपि घृतमपि च आहारे प्रयुज्यते। अतः सन्देहः भवति यत् ‘गव्यं माहिषं नोपयोजयेत्’ इति वचनेन गोमहिष्योः मांसं निषिद्धम् उत दुग्धम्? अथवा घृतम्? चक्रपाणिः ब्रूते -
शौकरसाहचर्याद् गव्यमाहिषे अपि मांसे एव बोद्धव्ये।
शौकरशब्दस्य विशेष्यत्वेन मांसशब्दस्य अध्याहारः कृतः।इदानीं मांसशब्देन एव गव्यशब्दस्य माहिषशब्दस्य च विशेष्याकाङ्क्षा पूर्यते, यतो हि शौकरशब्दस्य सन्निधौ एव गव्यमाहिषशब्दौ पठितौ।अतः गव्यशब्देन गोमांसं तथा माहिषशब्देन माहिषमांसं ग्राह्यम् ।
गव्यं तथा माहिषम् इति एतयोः अर्थयोः निर्णयार्थं चक्रपाणिना ‘साहचर्यम्’ इति साधनम् अत्र उक्तम्।तदपि भर्तृहरिणा अर्थनिर्णयार्थं प्रतिपादितम्-
संसर्गो विप्रयोगश्च साहचर्यं विरोधिता ।..... शब्दार्थंस्यानवच्छेदे विशेषस्मृतिहेतवः।।
वाक्यपदीये वाक्यकाण्डे ३१६
साहचर्याद्यथा रामलक्ष्मणावित्युक्ते लक्ष्मणसाहचर्याद् दाशरथेरेव प्रतीतिः ।
किञ्च वाग्भटवचनमपि अत्र प्रमाणमस्ति-
कृशशुष्कवराहाविगोमत्स्यमहिषामिषम्।... न शीलयेत्॥अ.हृ.सू.८.४०
केषुचित् पुस्तकेषु ‘गव्यमाहिषे’ इत्यस्य स्थाने ‘गव्यमामिषम्’ इति पाठभेदः दृश्यते। अस्मिन् पाठे तु स्पष्टतया आमिषम् इति विशेष्यं पठितम्।
‘यवकान् न शीलयेत्’ इति अत्रोक्तम्।अग्रिमसूत्रे ‘यवान् अभ्यसेत्’ इति वक्ष्यति। न अनयोः विरोधः, यतो हि यवः यवकाद् भिन्नः।

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.१०,११&oldid=7195" इत्यस्माद् प्रतिप्राप्तम्