च.सू.५.१२

विकिपुस्तकानि तः
Jump to navigation Jump to search

षष्टिकाञ्छालिमुद्गांश्च सैन्धवामलके यवान्।आन्तरीक्षं पयः सर्पिर्जाङ्गलं मधु चाभ्यसेत्॥१२

पदच्छेदः -
षष्टिकान् शालिमुद्गान् च सैन्धव-आमलके यवान्। आन्तरीक्षं पयः सर्पिः जाङ्गलं मधु च अभ्यसेत्॥१२

अन्वयः -
षष्टिकान् शालिमुद्गान् च सैन्धव-आमलके यवान्,आन्तरीक्षं, पयः, सर्पिः ,जाङ्गलं मधु च अभ्यसेत्॥१२

सरलार्थः -
षष्टिकः, शालिमुद्गः, सैन्धवम्, आमलकं, यवः, आन्तरीक्षं जलं, घृतं, तथा सर्पिः ,जाङ्गलं मांसं, मधु च अभ्यसेत्॥१२

आयुर्वेददीपिका
अभ्यस्यान् दर्शयति- षष्टिकान् इत्यादि। इह षष्टिकः आदौ पठ्यते रक्तशालिम् अनु प्रधानत्वख्यापनार्थम्। आन्तरीक्षम् इति आन्तरीक्षं पानीयम्। पयः क्षीरम्। जाङ्गलम् इति जाङ्गलदेशभवं मृग-आदिमांसम्। इह सैन्धवाभ्यासः अन्नसंस्कारत्वेन मात्रया अभिप्रेतः; तेन, “त्रीणि द्रव्याणि न अति उपयुञ्जीत पिप्पल्यः लवणं क्षारः” (वि.अ.१) इति यद् वक्ष्यति तेन समं विरोधः न भवति, तत्र लवण-अतियोगस्य प्रतिषिद्धत्वात्॥१२

अरुन्धती पद्धतिः
अस्मिन् एव अध्याये पञ्चमे सूत्रे लघुद्रव्याणाम् आवली पठिता तत्र शालिषष्टिकमुद्गेति वचने।तस्मिन् सूत्रे शालि आदौ पठिता, ततः षष्टिकः पठितः।अस्य क्रमस्य उपपत्तिः चक्रपाणिना एवं कथिता-
तत्र लघुवर्गः एव प्रथमं पठ्यते, पथ्यतमत्वात्; तत्र अपि आदौ रक्तशालिः आहारद्रव्यप्रधानत्वात्।
अधुना अस्मिन् सूत्रे षष्टिकः प्रथमं पठितः ततः शालिः।अत्र चक्रपाणिना उपपत्तिः उच्यते -
इह षष्टिकः आदौ पठ्यते रक्तशालिम् अनु प्रधानत्वख्यापनार्थम्। शालिः एव प्रधानं द्रव्यं, पथ्यतमत्वात्।अतः पञ्चमे सूत्रे सा आदौ गणिता।ततः प्राधान्यक्रमे द्वितीयस्थाने षष्टिकः विद्यते इति सूचयितुं मुनिना अस्मिन् सूत्रे षष्टिकः आदौ गणितः इति चक्रपाणेः आशयः।
अन्तरीक्षात् आगतम् आन्तरीक्षम्।दिव्योदकस्य पर्यायः।ननु आन्तरीक्षम् इति विशेषणम्।तस्य विशेष्यं वक्तव्यम्।तच्च सन्निधौ उक्तं पयः इति।परम् आन्तरीक्षम् इति भिन्नं द्रव्यं चक्रपाणिना गणितं, पयः इति च भिन्नम्।तयोः विशेषणविशेष्यभावम् अङ्गीकृत्य आन्तरीक्षं पयः इति एकमेव द्रव्यं गणनीयम्।अन्यथा आन्तरीक्षशब्दस्य विशेष्याकाङ्क्षा न पूर्यते।
तत्र ब्रूमः।आन्तरीक्षशब्देन आकाशात् पतितमुदकम् उच्यते।
आन्तरीक्षम् - अन्तरीक्षभवे जले च। - वाचस्पत्यः
अतः नात्र विशेष्याकाङ्क्षा अवशिष्यते।किञ्च स्वयं मुनिना अपि आकाशात् आगतं जलम् इति अर्थेन आन्तरीक्षशब्दस्य प्रयोगः अन्यत्र कृतः-
वआन्तरीक्षम् उदकानाम् (पथ्यतमत्वे श्रेष्ठतमम्)।च.सू.२५.३८
तस्मात् ‘आन्तरीक्षम्’ इति अन्तरीक्षाद् आगतमुदकं तथा ‘पयः’ क्षीरम् इति भिन्ने द्वे द्रव्ये चक्रपाणिना गणिते, तदुचितमेव।
ननु सूत्रे उक्तम्- जाङ्गलं मधु च अभ्यसेत् इति।
तत्र सन्देहः भवति यत् अत्र जाङ्गलशब्दः मांसविशेषणम् आहोस्वित् मधुविशेषणम्? मांसस्य विशेषणं मन्तव्यं चेत् मांसशब्दस्य अध्याहारः कार्यः।तदपेक्षया मधुविशेषणं मन्तव्यम्।तत्र उपस्थितिकृतलाघवम् अस्ति।
नैवम्।जाङ्गलं मधु इति किमपि द्रव्यं शास्त्रे न प्रसिद्धम्।मधुनः चत्वारः भेदाः मुनिना उक्ताः -
माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं मधुजातयः।च.सू.२७.२४३
जाङ्गलं मधु इति कोऽपि भेदः कुत्रापि न विद्यते।अतः जाङ्गलमिति मधुविशेषणं भवितुं नार्हति।
मांसस्य जाङ्गलभेदः तु उक्तः-
..... विज्ञेया जाङ्गला मृगाः।च.सू.२७.४६
अतः जाङ्गलमिति मांसस्य एव विशेषणं मन्तव्यं, न मधुनः।
एवम् आन्तरीक्षं, पयः, जाङ्गलं तथा मधु इत्यादीनां चक्रपाणिना कथिताःअर्थाः निर्दोषाः।

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च

"https://sa.wikibooks.org/w/index.php?title=च.सू.५.१२&oldid=6879" इत्यस्माद् प्रतिप्राप्तम्