च.सू.५.१३

विकिपुस्तकानि तः

तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते।अजातानां विकाराणामनुत्पत्तिकरं च यत्॥१३

पदच्छेदः -
तत् च नित्यं प्रयुञ्जीत स्वास्थ्यं येन अनुवर्तते। अजातानां विकाराणाम् अनुत्पत्तिकरं च यत्॥१३

अन्वयः-
यत् अजातानां विकाराणाम् अनुत्पत्तिकरं येन च स्वास्थ्यम् अनुवर्तते तत् च नित्यं प्रयुञ्जीत ।

सरलार्थः -
यद् अनुत्पन्नानां विकाराणाम् उत्पत्तिं न करोति,तथा येन स्वास्थ्यम् अनुवर्तते, तद् नित्यं सेवनीयम्।

आयुर्वेददीपिका
मात्राशि-इत्यादिना स्वास्थ्यपरिपालन-उपायः उच्यते, अतिबहु च स्वस्थपरिपालनं तन्त्रे वक्तव्यं, तत् च इह अभिधीयमानं ग्रन्थगौरवम् आवहति, अनभिधीयमानं च ग्रन्थस्य न्यूनताम् आपादयति; अतः तत्सूत्रमात्रेण उद्देष्टुम् आह- तत् च इत्यादि। सुष्ठु निर्विकारत्वेन अवतिष्ठते इति स्वस्थः, तस्य भावः स्वास्थ्यम्; उद्वेजकधातुवैषम्य-विरहितधातुसाम्यम् इति अर्थः। तत् च स्वास्थ्यम् उभयथा परिपाल्यते विशुद्ध-आहार- आचाराभ्यां सदा क्षीयमाणशरीरपोषणेन, प्रत्यवायहेतुपरिहारेण च; यथा- दीपपरिपालनं स्नेहवर्तिदानात् पोषणेन क्रियते, तथा शलभ-वात-आदिनिर्वापकहेतुपरिहारेण च। शरीरप्रत्यवायहेतुः च द्विविधः- बुद्धिदोषाद् विषमशरीरन्यास-आदिः वात-आदिकारकः, दुष्परिहरः च कालविशेषः स्वभावात् इह हेमन्तादिः कफचयादिकारकः। तत्र श्लोकपूर्वार्धेन स्वास्थ्यपोषकहेतुम् आह, उत्तरार्धेन तु अजातानाम् इति आदिना स्वास्थ्यविघातकहेतुपरिहारम् आह। यदि अपि च अजातानां विकाराणाम् अनुत्पत्तिः स्वभावसिद्धा विद्यत एव, विद्यमाने च करोति अर्थो मुख्यो नास्ति, तथा अपि इदम् एव अजातविकाराणाम् अनुत्पत्तिकरणं यत् तद्-विकारहेतुपरिहरणं तथा दुष्परिहरकालविशेषजनितदोषहरणं, यथा वक्ष्यति- “माधवप्रथमे मासि नभस्यप्रथमे पुनः। सहस्यप्रथमे च एव वाहयेत् दोषसञ्चयम् ” (सू.अ.७) इति; तथा हेतु-अन्तरनिरपेक्ष -उत्पद्यमानचक्षुःश्लेष्महरणार्थम् अञ्जनम्; एवम आदि॥१३

अरुन्धती पद्धतिः
प्रकृतस्य सूत्रस्य प्रतिपाद्यविषयः कः?
किं द्रव्यं नित्यं प्रयोज्यम् इत्यस्य उत्तरम्।
सत्यम्।परं नैतावदेव।प्रदेशतन्त्रयुक्तेः आधारः स्वीक्रियते चेत् अधिकः अर्थः ज्ञायते।सा तन्त्रयुक्तिः ईदृशी-
प्रदेशो नाम यद्बहुत्वादर्थस्य कार्त्स्न्येनाभिधातुमशक्यमेकदेशेनाभिधीयते; यथा-“अनुपानैकदेशोऽयमुक्तः प्रायोपयोगिकः’ (सू.२७अ.) इत्यादि।च.सि.१२.४२
प्रकृतसूत्रस्य अर्थकरणे इयं तन्त्रयुक्तिः चक्रपाणिना आधारीकृता।तेन प्रकृतसूत्रे मुनिः किं प्रतिपादयितुम् इच्छति इति अधिकं स्पष्टतया ज्ञातम् -
मात्राशि-इत्यादिना स्वास्थ्यपरिपालन-उपायः उच्यते, अतिबहु च स्वस्थपरिपालनं तन्त्रे वक्तव्यं, तत् च इह अभिधीयमानं ग्रन्थगौरवम् आवहति, अनभिधीयमानं च ग्रन्थस्य न्यूनताम् आपादयति; अतः तत्सूत्रमात्रेण उद्देष्टुम् आह- तत् च इत्यादि।- चक्रपाणिः

तन्त्रयुक्तेः आधारं विना ज्ञातः अर्थः किं द्रव्यं नित्यं प्रयोज्यम् इत्यस्य उत्तरम्।
प्रदेशतन्त्रयुक्त्या ज्ञातः अर्थः अतिविस्तृतस्य स्वास्थ्यपरिपालनोपायस्य सङ्क्षेपेण सूचनम्।

अहो अस्थाने उपदेशः एषः।मात्राशितम् अधिकृत्य कृतः अयमध्यायः।तत्र ‘किं द्रव्यं नित्यं प्रयोज्यम्’ इत्यस्य चर्चा अपि न स्थानमर्हति, न वा ‘अतिविस्तृतस्य स्वास्थ्यपरिपालनोपायस्य सङ्क्षेपेण सूचनम्’ अत्र स्थानमर्हति।मात्रशितीयाध्याये मात्राविषयिणी एव चर्चा भवेत्, नान्यस्य विषयस्य।अतः ब्रूमः अस्थाने उपदेशः अयम् इति।
नैवं मन्तव्यम्।स्वास्थ्यपरिपालनोपयस्य उपदेशः अस्मिन् मात्राशितीये अध्याये स्थानम् अर्हति ‘कार्यैक्यसङ्गत्या’।ययोः कार्यम् एकं, तयोः सङ्गतिः विद्यते।
मात्रावद्ध्यशनमशितमनुपहत्य प्रकृतिं बलवर्णसुखायुषा योजयत्युपयोक्तारमवश्यमिति॥८
इति मुनिवचनेन मात्रावदशनं तथा स्वास्थ्यपरिपालनम् इति एतयोः कार्यकारणभावः ज्ञातः। तत्र मात्रवदशनं कारणं, स्वास्थ्यपरिपालनं कार्यम्।एतद् विज्ञाय जिज्ञासा उत्पद्यते यत् स्वस्थ्यपरिपालनरूपं कार्यं साधयितुम् इतोऽपि कानिचन कारणानि सन्ति वा इति।सा जिज्ञासा स्वास्थ्यपरिपालनोपायस्य उपदेशेन पूर्यते। अतः मात्राशितीयाध्यायेऽस्मिन् स्वास्थ्यपरिपालनचर्चा न असङ्गता।
सूत्रे स्वास्थ्यम् इति पदं वर्तते।तस्य अर्थः वक्तव्यः चेत् आदौ स्वस्थशब्दस्य अर्थः विचारणीयः। स्वस्थशब्दस्य नाना निर्वचनानि सन्ति, यथा -
स्वः परलोके तिष्ठति इति स्वस्थः।
स्वेन तिष्ठति इति स्वस्थः।स्वभावेन वर्तमानः इत्यर्थः।
सुखेन अवतिष्ठते इति स्वस्थः।सुखी इत्यर्थः।
स्वस्मिन् तिष्ठति इति स्वस्थः।अविचलः इत्यर्थः।
एतासु एकापि निरुक्त्तिः ‘नीरोगः’ इति अर्थं न प्रकटयति।अस्मिन् शास्त्रे तु नीरोगार्थकः स्वस्थशब्दप्रयोगः वारंवारं क्रियते।अतः चक्रपाणिना निर्वचनतन्त्रयुक्तिः अत्र आदृता।
निर्वचनं निरुक्तिः- यथा-“विविधं सर्पति यतो विसर्पस्तेन सञ्ज्ञितः” (चि.अ.२१) इत्यादि। च.सि.१२.४४
एतां तन्त्रयुक्तिमादृत्य स्वस्थशब्दस्य अर्थः उक्तः-
सुष्ठु निर्विकारत्वेन अवतिष्ठते इति स्वस्थः, …..।
अस्मिन् चक्रपाणिना उक्ते निर्वचने -
१ सु तथा अव इति द्वौ उपसर्गौ गृहीतौ, न तु स्व इति एकं पदम्।
२ तिष्ठति-धातुः केवलं प्रयुक्तः चेत् परस्मैपदे वर्तते, परम् अव-उपसर्गात् उत्तरं प्रयुक्तः चेत् सः आत्मनेपदे वर्तते।अतः ‘अवतिष्ठते ’ इति रूपं, न तु अवतिष्ठति इति।
३ सु इति उपसर्गस्य सुष्ठु साधु इति अर्थः गृहीतः, तेन रोगराहित्यम् निर्विकारत्वम् इति अभिप्रेतः अर्थः प्राप्तः।

दीर्घञ्जीवितीयाध्याये (च.सू.१.६७) स्वस्थशब्दस्य एषा एव निरुक्ति: चक्रपाणिना उक्ता।
अहो शशशृङ्गपालनवदिदं स्वास्थ्यपालनम्!शशशृङ्गं नैव सम्भवति,का वार्ता तत्पालनोपायस्य? अतः तत्पालनोपायविषये चर्चा व्यर्था।तथैव स्वास्थ्यमपि न सम्भवति।किमर्थं तस्य पालनोपायाः उपदिश्यन्ते?
स्वास्थ्यपालनमस्य शास्त्रस्य अन्यतरत् प्रयोजनम्।कथमुच्यते स्वास्थ्यमेव न सम्भवतीति?
श्रूयताम्।स्वास्थ्यम् इति धातुसाम्यम्।तदेव न सम्भवति।यः खलु नरः ‘स्वस्थः’ इति भवद्भिः अनुमतः, तस्य भोजनोत्तरं कफचयः ध्रुवः,ततः पित्तचयः ध्रुवः, ततः कटु-अवस्थापाककाले वातचयः अपि ध्रुवः।दिवसारम्भे कफवृद्धिः, दिवसमध्ये पित्तवृद्धिः, दिवसान्ते वातवृद्धिः इति एतद् नियतम्।एवं निशायाः पूर्वमध्योत्तरभागेषु तस्य तस्य दोषस्य वृद्धिः अनिवार्या।का वार्ता तर्हि धातुसाम्यस्य?
नैवम्।आत्यन्तिकं धातुसाम्यं सर्वथा असम्भवमिति यदुक्तं भवता, तत्सत्यम्।तथापि इह शास्त्रे ईषद् धातुवैषम्यमपि उद्वेजकविकारं न करोति चेत्, धातुसाम्यत्वेन एव व्यवह्रियते।एतच्च चक्रपाणिः अग्रे स्पष्टं वदिष्यति-
... यो ह्यल्पः, सः नास्ति एव इति कृत्वा अल्पेऽपि धातुवैषम्ये धातुसाम्यव्यवहारः सिद्धो भवति...।च.सू.९.४ चक्रपाणिः
अनेन एव अभिप्रायेण अत्रापि स्वास्थ्यशब्दस्य अर्थं वदति चक्रपाणिः
...सुष्ठु निर्विकारत्वेन अवतिष्ठते इति स्वस्थः, तस्य भावः स्वास्थ्यम्; उद्वेजकधातुवैषम्य-विरहितधातुसाम्यम् इति अर्थः।
अस्तु सम्भवति स्वस्थः, सम्भवति स्वस्थस्य भावः स्वास्थ्यम्।तस्य स्वास्थ्यस्य परिपालनोपायः अस्मिन् सूत्रे सङ्क्षेपेण कथितः इति उच्यते।कोऽयं स्वास्थ्यपरिपालनोपायः?
द्विधा स उपायः-
तत् च स्वास्थ्यम् उभयथा परिपाल्यते विशुद्ध-आहार-आचाराभ्यां सदा क्षीयमाणशरीरपोषणेन, वायहेतुपरिहारेण च ...। - चक्रपाणिः
दृष्टान्तः चात्र श्रूयताम्-
यथा- दीपपरिपालनं स्नेहवर्तिदानात् पोषणेन क्रियते, तथा शलभ-वात-आदिनिर्वापकहेतुपरिहारेण च।- चक्रपाणिः
दृष्टान्तदार्ष्टान्तिकयोः समन्वयः एवम् –

दृष्टान्तः दार्ष्टान्तिकः
साध्यम् दीपपरिपालनम् स्वास्थ्यपरिपालनम्
साधनम् १ स्नेहवर्तिदानात् पोषणेन विशुद्धाहाराचाराभ्यां सदा क्षीयमाणशरीरपोषणेन
साधनम् २ शलभ-वात-आदिनिर्वापकहेतुपरिहारेण च प्रत्यवायहेतुपरिहारेण च

अयं द्विविधः स्वास्थ्यपालनोपायः प्रकृतसूत्रे कथमिव सूचितः?
तत्र श्लोकपूर्वार्धेन स्वास्थ्यपोषकहेतुम् आह, उत्तरार्धेन तु अजातानाम् इति आदिना स्वास्थ्यविघातकहेतुपरिहारम् आह।-चक्रपाणिः

!पूर्वार्धः |स्वास्थ्यं येनानुवर्तते। |स्वास्थ्यपोषकहेतुः |- !उत्तरार्धः |अजातानां विकाराणाम् अनुत्पत्तिकरं च यत् |स्वास्थ्यविघातकहेतुपरिहारः |} अथ पृच्छामः का नाम विकारानुत्पत्तिः?
विकार-प्रागभावः।
बाढम।परं प्रागभावः तु अनादिः वर्तते।विकाराणाम् अनुत्पत्तिं करोति इति विकारानुत्पत्तिकरम्। यदि विकारानुत्पत्तिः अनादिः, तर्हि विकारानुत्पत्तिकरम् इति विरुद्धार्थकमिदम्।
नैवम्।

विकारप्रागभावः × विकारहेतुः विकारप्रागभावनाशः विकारः
विकारप्रागभावः + विकारहेतुपरिहारः विकारप्रागभावस्य अनुवर्तनम् विकारः न

यदि अपि च अजातानां विकाराणाम् अनुत्पत्तिः स्वभावसिद्धा विद्यत एव, विद्यमाने च करोति अर्थो मुख्यो नास्ति, तथा अपि इदम् एव अजातविकाराणाम् अनुत्पत्तिकरणं यत् तद्-
विकार-हेतु-परिहरणम् .....चक्रपाणिः

भवतु एवम्।तथापि स्वास्थ्यविघातकानां हेतूनां परिहारः कथं शक्यः?
किं तत्र अशक्यम्?
उच्यते।स्वास्थ्यविघातकाः हेतवः तावत् त्रयः असात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, कालः च।एतेषु त्रिषु आद्ययोः द्वयोः परिहारः शक्यः।कालः कथं परिहरणीयः?
शरीरप्रत्यवायहेतुः च द्विविधः- बुद्धिदोषाद् विषमशरीरन्यास-आदिः वात-आदिकारकः, दुष्परिहरः च कालविशेषः स्वभावात् इह हेमन्तादिः कफचयादिकारकः।-चक्रपाणिः

स्वास्थ्य-प्रत्यवाय-हेतुः
असात्म्येन्द्रियार्थसंयोगः
स्वास्थ्य-प्रत्यवाय-हेतुः
प्रज्ञापराधः
स्वास्थ्य-प्रत्यवाय-हेतुः
कालः
परिहार्यः परिहार्यः अपरिहार्यः

सत्यं कालः अपरिहार्यः इति।कालविशेषजन्यं दोषवैषम्यम् अवश्यं भवति।तत्र कालविशेषस्य परिहारः न शक्यः चेदपि कालविशेषजन्यस्य दोषवैषम्यस्य परिहारः तु समये समये शक्यः।अयमपि स्वास्थ्यप्रत्यवायहेतोः परिहारः एव।उक्तः च अयमर्थः विकारानुत्पत्तिविवरणे-
इदम् एव अजातविकाराणाम् अनुत्पत्तिकरणं यत् तद्-विकार-हेतु-परिहरणं तथा दुष्परिहर-कालविशेष-जनित-दोषहरणम्...। चक्रपाणिः

स्वास्थ्य-प्रत्यवाय-हेतुः असात्म्येन्द्रियार्थसंयोगः स्वास्थ्य-प्रत्यवाय-हेतुः प्रज्ञापराधः स्वास्थ्य-प्रत्यवाय-हेतुः कालविशेषः
परिहर्तुं शक्यते अतः परिहर्तुं शक्यते अतः परिहर्तुं न शक्यते अतः
परिहरणीयः परिहरणीयः दोषवैषम्यं जनयति
स्वास्थ्यप्रत्यवायः न स्वास्थ्यप्रत्यवायः न तद् दोषवैषम्यं परिहरणीयम्
स्वास्थ्यप्रत्यवायः न

परं कालविशेषजन्यस्य दोषवैषम्यस्य परिहारः कथमिव कार्यः? उच्यते -
दुष्परिहरकालविशेषजनितदोषहरणं, यथा वक्ष्यति- “माधवप्रथमे मासि नभस्यप्रथमे पुनः। सहस्यप्रथमे च एव वाहयेत् दोषसञ्चयम् ” (सू.अ.७) इति; तथा हेतु-अन्तरनिरपेक्ष-उत्पद्यमान-चक्षुःश्लेष्महरणार्थम् अञ्जनम्; एवम आदि॥-चक्रपाणिः

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.१३&oldid=7193" इत्यस्माद् प्रतिप्राप्तम्