सामग्री पर जाएँ

च.सू.५.१४

विकिपुस्तकानि तः

अत ऊर्ध्वं शरीरस्य कार्यमक्ष्यञ्जनादिकम्।स्वस्थवृत्तिमभिप्रेत्य गुणतः सम्प्रवक्ष्यते॥१४

पदच्छेदः -
अतः ऊर्ध्वं शरीरस्य कार्यम् अक्षि-अञ्जन-आदिकम्। स्वस्थवृत्तिम् अभिप्रेत्य गुणतः सम्प्रवक्ष्यते॥१४

अन्वयः
अत उर्ध्वं, स्वस्थवृत्तिम् अभिप्रेत्य शरीरस्य अक्षि-अञ्जन-आदिकम् कार्यं गुणतः सम्प्रवक्ष्यते ।

सरलार्थः
इतः अग्रे , स्वस्थवृत्तिम् अभिप्रेत्य शरीरस्य अक्षि-अञ्जन-आदिकं यत् कार्यं, तत् गुणैः सह वर्णयामः।

आयुर्वेददीपिका
अतः ऊर्ध्वम् इत्यादि। अतः स्वास्थ्य-अनुवृत्तिकारणकथनात् उर्ध्वं, कार्यम् अवश्यकार्यं, स्वस्थवृत्तिम् अभिप्रेत्य स्वस्थवृत्त-अनुष्ठाने, अक्षि-अञ्जनादि अवश्यं कार्यम् इति अर्थः; अञ्जनशब्दः अभ्यञ्जने अपि वर्तते, तत् अर्थम् अक्षि-अञ्जनम् इति उक्तम्। अञ्जनम् एव आदौ उपाहितं प्रधान-अवयवचक्षुःपरिपालकत्वात्। उक्तं च- “चक्षुः प्रधानं सर्वेषाम् इन्द्रियाणां विदुः बुधाः। घननीहारयुक्तानां ज्योतिषाम् इव भास्करः” इति। यदि वा स्वस्थवृत्तम् अधिकृत्य यत् अञ्जन- आदि, तत् उच्यते; रोगेषु तु यत् अञ्जन-आदि, तत् रोगचिकित्सासु वक्तव्यम्। यदि अपि च एतत् अञ्जनादि रोगहरम् अपि वक्तव्यं, तथा अपि प्रायः स्वस्थवृत्तमतम् एतत् इति स्वस्थवृत्तम् अभिप्रेत्य इति उक्तम्॥१४

अरुन्धती पद्धतिः
स्वास्थ्यानुवृत्तेः कारणम् उक्तम् ।
किं तत्?
स्वास्थ्यानुवृत्तिकराणां भावानां नित्यसेवनं तथा विकारोत्पादकभावानां वर्जनम् इति उभयविधं स्वास्थ्यानुवृत्तेः कारणम्।
ततः अनन्तरं किं वक्तव्यम्?
यत् सूत्रमात्रेण उक्तं तस्य प्रपञ्चः वक्तव्यः। स्वास्थ्यानुवृत्तिकराणां भावानां विधिः विस्तरेण वक्तव्यः, विकारोत्पादकभावानां निषेधोऽपि सविस्तरं वक्तव्यः।सर्वमेतत् स्वस्थचतुष्केऽस्मिन् चिकीर्षितं मुनिना।तदेवम् -

अध्यायः विधेः उदाहरणम् निषेधस्य उदाहरणम्
मात्राशितीयः सौवीरमञ्जनं... प्रयोजयेत्।१४ दिवा तन्न प्रयोक्तव्यम्...।१६
तस्याशितीयः भजेद् भूमिगृहं चोष्णम्...।१४ वर्जयेदन्नपानानि वातलानि लघूनि च।१८
नवेगान्धारणीयः शरीरचेष्टा...स्थैर्यार्था बलवर्द्धनी... ...तां समाचरेत्।३० न वेगान् धारयेद् धीमान्...।१
इन्द्रियोपक्रमणीयः ओषधीः प्रशस्ताः धारयेत्।२१ नानृतं ब्रूयात्।२६

इदानीं तावद् विधिः वक्तव्यः।
कुतः एतद् ज्ञातं यदिदानीं विधिः वक्तव्यः इति?
सूत्रे ‘कार्यम्’ इति पदं निविष्टं, ततः ज्ञातम्।
स्वस्थस्य वृत्तिः स्वस्थवृत्तिः।वृत्तिः वर्तनम् आचारणम्।स्वस्थस्य स्वास्थ्यरक्षार्थं यद् आवश्यकम् आचरणं, तत् ‘स्वस्थवृत्तिम् अभिप्रेत्य कार्यम् अक्ष्यभ्यञ्जनादिकम् ’ इति पदैः सूत्रे परामृष्टम्।तदधुना अस्माभिः सम्यक् प्रवक्ष्यते इति मुनेः प्रतिज्ञा।
भवता अत्र स्वस्थवृत्तिमभिप्रेत्य इत्यस्य अन्वयः कार्यपदेन सह कृतः।
आम्।किं तेन?
वयमन्यमन्वयमत्र पश्यामः।
कीदृशः अन्यः अन्वयः?
‘स्वस्थवृत्तिमभिप्रेत्य’ इत्यस्य अन्वयं वयं ‘सम्प्रवक्ष्यते’ इति क्रियया सह कर्तुम् इच्छामः।
तथा भवतु।उभयोः अन्वययोः तुलनां कुर्मः।

कार्यं स्वस्थवृत्तिम् अभिप्रेत्य सम्प्रवक्ष्यते स्वस्थवृत्तिम् अभिप्रेत्य (यत्) कार्यं (तत्) सम्प्रवक्ष्यते
कार्यम् अवश्यकार्यं, स्वस्थवृत्तिम् अभिप्रेत्य स्वस्थवृत्त-अनुष्ठाने, अक्षि-अञ्जनादि अवश्यं कार्यम् इति अर्थः स्वस्थवृत्तम् अधिकृत्य यत् अञ्जन- आदि, तत् उच्यते; रोगेषु तु यत् अञ्जन-आदि, तत् रोगचिकित्सासु वक्तव्यम्।
अभिप्रेत्य इति पदस्य सम्प्रवक्ष्यते इति क्रियया सह अन्वयः। अभिप्रेत्य इति पदस्य कार्यम् इति नाम्ना सह अन्वयः।
शरीरस्य (यानि अवश्यकार्याणि, तेषु )अक्षि-अञ्जन-आदिकं कार्यं स्वस्थानुष्ठानोपयोगि अस्ति, रोगचिकित्सोपयोगि अपि अस्ति।परम् अत्र तु स्वस्थानुष्ठानोपयोगित्वेन (स्वस्थवृत्तिम् अभिप्रेत्य)गुणतः सम्प्रवक्ष्यते । स्वस्थोपयोगि (स्वस्थवृत्तिम् अभिप्रेत्य) शरीरस्य अक्षि-अञ्जन-आदिकं यद् यत् कार्यं, तत् गुणतः सम्प्रवक्ष्यते। रोगोपचाररूपं यत् अञ्जनादिकं वक्तव्यं तत् तस्य तस्य रोगस्य चिकित्सायां वदिष्यामः।
कार्यं स्वस्थानुष्ठानोपयोगि अस्ति अतः उपदिश्यते। स्वस्थानुष्ठानोपयोगि यत् कार्यं, तद् उच्यते।
परमत्र अञ्जनादीनां रोगहरत्वमपि पठितम्। स्वस्थोपयोगित्वेन एव कार्यं वक्तव्यं चेत् रोगहरत्वं किमर्थम् उच्यते? परमत्र अञ्जनादीनां रोगहराणि कार्याणि अपि पठितानि। स्वस्थानुष्ठानोपयोगि कार्यं वक्तव्यं चेत् रोगहरकार्याणि किमर्थम् उच्यन्ते?
यदि अपि च एतत् अञ्जनादि रोगहरम् अपि वक्तव्यं, तथा अपि प्रायः स्वस्थवृत्तमतम् एतत् इति स्वस्थवृत्तम् अभिप्रेत्य इति उक्तम्॥ यदि अपि च एतत् अञ्जनादि रोगहरम् अपि वक्तव्यं, तथा अपि प्रायः स्वस्थवृत्तमतम् एतत् इति स्वस्थवृत्तम् अभिप्रेत्य इति उक्तम्॥

अक्षि-अञ्जनम् इति व्यर्थः शब्दप्रयोगः।अञ्जनम् नेत्रे एव क्रियते, नान्यत्र।अतः अञ्जनम् इति शब्दः पर्याप्तः।
न।अञ्जनम् अङ्गस्य अपि क्रियते।अभ्यञ्जनम् अभ्यङ्गः इति विख्याता क्रिया सा। ततः भेदं दर्शयितुम् अक्षि-अञ्जनम् इति शब्दप्रयोगः सार्थः एव।
अञ्जनशब्दः अभ्यञ्जने अपि वर्तते, तदर्थम् अक्षि-अञ्जनम् इति उक्तम्।- चक्रपाणिः
शरीरस्य नैकानि कार्याणि स्वस्थेन आचरणीयानि सन्ति।तत्र अञ्जनमेव आदौ किमिति उच्यते?अत्र स्पष्टीकरोति चक्रपाणिः -
अञ्जनम् एव आदौ उपाहितं प्रधान-अवयवचक्षुःपरिपालकत्वात्। उक्तं च- “चक्षुः प्रधानं सर्वेषाम् इन्द्रियाणां विदुः बुधाः। घननीहारयुक्तानां ज्योतिषाम् इव भास्करः” इति। - चक्रपाणिः

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.१४&oldid=7192" इत्यस्माद् प्रतिप्राप्तम्