च.सू.५.१५

विकिपुस्तकानि तः
Jump to navigation Jump to search

सौवीरमञ्जनं नित्यं हितमक्ष्णोः प्रयोजयेत्।पञ्चरात्रेऽष्टरात्रे वा स्रावणार्थे रसाञ्जनम्॥१५

पदच्छेदः -
सौवीरम् अञ्जनं नित्यं हितम् अक्ष्णोः प्रयोजयेत्। पञ्चरात्रे अष्टरात्रे वा स्रावणार्थे रसाञ्जनम्॥१५

अन्वयः -
सौवीरम् अञ्जनं अक्ष्णोः हितम्।तत् नित्यं प्रयोजयेत् ,रसाञ्जनम् (अक्ष्णोः) स्रावणार्थे पञ्चरात्रे वा अष्टरात्रे(प्रयोजयेत्) ।

सरलार्थः -
सौवीराञ्जनं नेत्रयोः हितकरम्।तस्य नित्यं प्रयोगः भवेत्।नेत्रस्रावणार्थं रसाञ्जनस्य प्रयोगः कार्यः। सः प्रयोगः पञ्चभिः रात्रिभिः अथवा अष्टभिः रात्रिभिः कार्यः।

आयुर्वेददीपिका
सौवीरम् इत्यादि। सुवीरानदीभवं सौवीरम्। नित्यं प्रति-अहम्। अक्ष्णोः इति द्विवचनम् अक्षि-गोलकद्वये अपि अञ्जनविधानार्थम्। पञ्चरात्र-अष्टरात्रग्रहणम् अदूरान्तरकाले नियमदर्शनार्थम्। तेन दोषकालम् अपेक्ष्य अर्वाक् मध्ये ऊर्ध्वं च कर्तव्यं स्रावणम् अञ्जनम् इति भवति॥१५

अरुन्धती पद्धतिः
सौवीरशब्दस्य निरुक्तिं सूचयति चक्रपाणिः।तद्धितान्तः शब्दोऽयम्।सुवीरा नाम नदी। तस्याम् एतद् अञ्जनं भवति।अतः तत्र भवः।- अष्टाध्यायी४.३.५३
इति सूत्रेण सुवीराशब्दात् अण्-प्रत्ययः भवति - सुवीरा + अण्।
ततः सौवीरम् इति शब्दः व्युत्पाद्यते।
नित्यशब्दस्य प्रत्यहम् इति अर्थः उक्तः चक्रपाणिना।प्रसिद्धार्थः शब्दः अयम्।तथापि चक्रपाणिः तस्यार्थं वदति।कुतः? उच्यते। त्रयोदशे सूत्रे अयमेव शब्दः पठितः-
तच्च नित्यं प्रयुञ्जीत...।च.सू.५.१३
तस्मिन् सूत्रे तस्य अर्थः आसीत् ‘सततम्’ इति।सः अर्थः अत्रापि अस्ति वा इति सन्देहः न स्यात् इति एतदर्थम् अत्र चक्रपाणिः नित्यशब्दस्य प्रकृतवाक्ये विवक्षितम् अर्थं स्पष्टीकरोति- प्रत्यहम्।
अस्तु तत्।परम् अञ्जनं तु निशायां कार्यम् इति अग्रे मुनिः वदिष्यति।अतः नित्यपदस्य ‘प्रतिनिशम्’ इति अर्थः चक्रपाणिना वक्तव्यः।प्रत्यहम् इति कुतः वदति?
नैवम्।निशाकालः मुनिना स्रावणाञ्जनविषये उक्तः।प्रकृते सौवीराञ्जनप्रयोगस्य कालः उच्यते।सौवीराञ्जनं दिवा क्रियते।अतः नित्यपदस्य ‘प्रत्यहम्’ इति अर्थः न दुष्टः।
अदूरश्च अन्तरः च तयोः समाहारः अदूरान्तरम्।अदूरान्तरं कालः अदूरान्तरकालः। पञ्चरात्रस्य अदूरकालः चतुर्थी रात्रिः, तृतीया वा रात्रिः।अष्टरात्रस्य अदूरकालः नवमी दशमी वा रात्रिः।अन्तरकालः षष्ठी सप्तमी वा रात्रिः।
पञ्चरात्र-अष्टरात्रग्रहणम् अदूरान्तरकाले नियमदर्शनार्थम्। तेन दोषकालम् अपेक्ष्य अर्वाक् मध्ये ऊर्ध्वं च कर्तव्यं स्रावणम् अञ्जनम् इति भवति॥१५

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च

"https://sa.wikibooks.org/w/index.php?title=च.सू.५.१५&oldid=6882" इत्यस्माद् प्रतिप्राप्तम्