सामग्री पर जाएँ

च.सू.५.१६-२४

विकिपुस्तकानि तः

चक्षुस्तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम्।ततः श्लेष्महरं कर्म हितं दृष्टेः प्रसादनम्॥१६
दिवा तन्न प्रयोक्तव्यं नेत्रयोस्तीक्ष्णमञ्जनम्।विरेकदुर्बला दृष्टिरादित्यं प्राप्य सीदति॥१७
तस्मात् स्राव्यं निशायां तु ध्रुवमञ्जनमिष्यते॥१८

पदच्छेदः -
चक्षुः तेजोमयं तस्य विशेषात् श्लेष्मतः भयम्। ततः श्लेष्महरं कर्म हितं दृष्टेः प्रसादनम्॥१६
दिवा तत् न् प्रयोक्तव्यं नेत्रयोः तीक्ष्णम् अञ्जनम्। विरेकदुर्बला दृष्टिः आदित्यं प्राप्य सीदति॥१७
तस्मात् स्राव्यं निशायां तु ध्रुवम् अञ्जनम् इष्यते॥१८

अन्वयः -
चक्षुः तेजोमयम्। तस्य ( तेजसस्य चक्षुषः)विशेषात् श्लेष्मतः भयं विद्यते।ततः दृष्टेः प्रसादनम् श्लेष्महरं कर्म हितं ।दिवा नेत्रयोः तत् तीक्ष्णम् अञ्जनम् न प्रयोक्तव्यम्,(यतो हि ) विरेकदुर्बला दृष्टिः आदित्यं प्राप्य सीदति।तस्मात् स्राव्यम् अञ्जनं तु ध्रुवं निशायाम् इष्यते ।

सरलार्थः
नेत्रे तेजोमहाभूतस्य प्राबल्यम् अस्ति।अतः नेत्रस्य कफात् विशेषं भयम् अस्ति।अतः दृष्टेः प्रसादाय श्लेष्मनाशकं कर्म हितकरं भवति।नेत्रयोः तीक्ष्णम् अञ्जनं दिवसकाले न करणीयम्। स्रावणेन दृष्टिः दुर्बला भवति।सा दुर्बला दृष्टिः सूर्यस्य किरणैः आहता भवति।अतः स्रावणम् अञ्जनं तु निश्चयेन रात्रौ एव कार्यम्।

आयुर्वेददीपिका
स्रावण-अञ्जनप्रकरण-उपपत्तिम् आह- चक्षुः इत्यादि। चक्षुरिन्द्रियस्य तैजसस्य श्लेष्मतः आप्यात् त्तैजसविरुद्धत्वेन हेतुना, विशेषात् इति वातापित्तभयात् अधिकत्वेन भयं भवति। श्लेष्मजये च स्रावणं प्रधानं, तस्मात् स्राव्यम् इति अर्थः। स्रावण- अञ्जनकालं नियमयति- निशायाम् इत्यादि। ध्रुवम् अवश्यं निशायाम् एव, अञ्जनं प्रति आसन्नत्वात् स्रावण-अञ्जनम्। जतूकर्णेन अपि स्रावणरसाञ्जनं निशायाम् एव विहितं; यत् उक्तं- “सप्ताहात् रसाञ्जनं नक्तम्” इति। शालाक्ये अपि उक्तं- “विरेकदुर्बला दृष्टिः आदित्यं प्राप्य सीदति। रात्रौ स्वप्नगुणात् च अक्षि पुष्यति अञ्जनकर्षि(र्शि)तम्” इति। सौवीर-अञ्जनं तु विरेचनं न भवति, चक्षुःप्रसादमात्रं करोति, तेन तत् दिवा क्रियमाणं न विरोधि। अन्ये तु व्याख्यानयन्ति- ध्रुवं नित्यकर्तव्यं सौवीर-अञ्जनं यत् तत् निशि कर्तव्यं, स्रावण-अञ्जनं तु श्लेष्म-उद्रेकविषये(यि) वमनवत् पूर्वाह्ण एव कर्तव्यम्॥१६-१७

अरुन्धती पद्धतिः
चक्षुषः श्लेष्मणः भयम् इति वचनं पर्याप्तम्।विशेषात् इति पदेन किं प्रयोजनम्?
उच्यते। ‘चक्षुषः विशेषतः श्लेष्मणः भयम्’ इत्युक्ते अर्थापत्ति-तन्त्रयुक्त्या ‘सामान्यतः वात-पित्ताभ्यां भयम्’ इति अर्थः लभ्यते।
सौवीराञ्जनं तथा रसाञ्जनम् इति द्वे अञ्जने प्रकृते। ‘निशायां तु ध्रुवमञ्जनमिष्यते’ इति वचने किमञ्जनं निशायाम् इष्यते इति विशेषणं नोक्तम्।अतः प्रकृतयोः किमञ्जनं निशायां प्रयोक्तव्यम् ?यत्किमपि भवतु वा?
न तथा।साहचर्यवशादत्र निर्णयः कार्यः।
अञ्जनं प्रति आसन्नत्वात् स्रावण-अञ्जनम्।-चक्रपाणिः
आसन्नत्वं साहचर्यम्।अनेन प्रमाणेन शब्दार्थस्य निश्चयः क्रियते।
क्वोक्तमेतत् प्रमाणम्?
संसर्गो विप्रयोगश्च साहचर्यं विरोधिता ।..... शब्दार्थंस्यानवच्छेदे विशेषस्मृतिहेतवः।। वाक्यपदीये वाक्यकाण्डे ३१६
साहचर्याद्यथा रामलक्ष्मणावित्युक्ते लक्ष्मणसाहचर्याद् दाशरथेरेव प्रतीतिः ।
प्रकृते अञ्जनशब्दस्य साहचर्ये ‘स्राव्यम्’ इति शब्दः अस्ति अतः अञ्जनशब्देन स्रावणमञ्जनमेव ग्राह्यमिति निर्णयः।जतूकर्णवचनमपि अत्र प्रमाणम्।

यथा हि कनकादीनां मलिनां विविधात्मनाम्॥१८
धौतानां निर्मला शुद्धिस्तैलचेलकचादिभिः।एवं नेत्रेषु मर्त्यानामञ्जनाश्च्योतनादिभिः॥१९
दृष्टिर्निराकुला भाति निर्मले नभसीन्दुवत्।२०

पदच्छेदः -
यथा हि कनक-आदिनां मलिनां विविध-आत्मनाम्॥१८
धौतानां निर्मला शुद्धिः तैलचेलकच-आदिभिः। एवं नेत्रेषु मर्त्यानाम् अञ्जन-आश्च्योतन-आदिभिः॥१९

दृष्टिः निराकुला भाति निर्मले नभसि इन्दुवत्।२०

अन्वयः -
यथा हि विविध-आत्मनां मलिनां कनक-आदिनां तैलचेलकच-आदिभिः धौतानां शुद्धिः निर्मला (भवति) एवं मर्त्यानाम् नेत्रेषु अञ्जन-आश्च्योतन-आदिभिः निराकुला दृष्टिः निर्मले नभसि इन्दुवत् भाति

सरलार्थः -
यथा नानाविधानां मलिनानां सुवर्णादीनां तैलेन वस्त्रेण केशेन वा धावनं कृतं चेत् तेषां निर्मला शुद्धिः भवति।तथैव मनुष्याणां नेत्रे विद्यमाना दृष्टिः अञ्जनेन, आश्चोतनेन च निराकुला भवति। निर्मले गगने यथा चन्द्रः प्रकाशते, तथा तादृशी दृष्टिः प्रकाशते।१९,२०

आयुर्वेददीपिका
अञ्जनगुणम् आह- यथा हि इत्यादि। शुद्धिः स्वाभाविकी; सा आगन्तुधूल्यादि-उपनयनेन (अपनयनेन) निर्मला सति भाति। आश्च्योतनं नेत्रविरेकार्थं द्रव-औषधदानं, तत् च इह अनभिहितम् अपि फल-ऐक्यात्त् अभिहितम्, आदिशब्देन पुटपाक-आदीनां ग्रहणम्॥१८-१९॥

अरुन्धती पद्धतिः
दृष्टान्तदार्ष्टान्तिकयोः समन्वयः कथं कार्यः? उच्यते-

चक्षुस्तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम्।ततः श्लेष्महरं कर्म हितं दृष्टेः प्रसादनम्॥१६
दिवा तन्न प्रयोक्तव्यं नेत्रयोस्तीक्ष्णमञ्जनम्।विरेकदुर्बला दृष्टिरादित्यं प्राप्य सीदति॥१७
तस्मात् स्राव्यं निशायां तु ध्रुवमञ्जनमिष्यते॥१८पदच्छेदः -
चक्षुः तेजोमयं तस्य विशेषात् श्लेष्मतः भयम्। ततः श्लेष्महरं कर्म हितं दृष्टेः प्रसादनम्॥१६
दिवा तत् न् प्रयोक्तव्यं नेत्रयोः तीक्ष्णम् अञ्जनम्। विरेकदुर्बला दृष्टिः आदित्यं प्राप्य सीदति॥१७
तस्मात् स्राव्यं निशायां तु ध्रुवम् अञ्जनम् इष्यते॥१८ अन्वयः -
चक्षुः तेजोमयम्। तस्य ( तेजसस्य चक्षुषः)विशेषात् श्लेष्मतः भयं विद्यते।ततः दृष्टेः प्रसादनम् श्लेष्महरं कर्म हितं ।दिवा नेत्रयोः तत् तीक्ष्णम् अञ्जनम् न प्रयोक्तव्यम्,(यतो हि ) विरेकदुर्बला दृष्टिः आदित्यं प्राप्य सीदति।तस्मात् स्राव्यम् अञ्जनं तु ध्रुवं निशायाम् इष्यते । सरलार्थः
नेत्रे तेजोमहाभूतस्य प्राबल्यम् अस्ति।अतः नेत्रस्य कफात् विशेषं भयम् अस्ति।अतः दृष्टेः प्रसादाय श्लेष्मनाशकं कर्म हितकरं भवति।नेत्रयोः तीक्ष्णम् अञ्जनं दिवसकाले न करणीयम्। स्रावणेन दृष्टिः दुर्बला भवति।सा दुर्बला दृष्टिः सूर्यस्य किरणैः आहता भवति।अतः स्रावणम् अञ्जनं तु निश्चयेन रात्रौ एव कार्यम्। आयुर्वेददीपिका
स्रावण-अञ्जनप्रकरण-उपपत्तिम् आह- चक्षुः इत्यादि। चक्षुरिन्द्रियस्य तैजसस्य श्लेष्मतः आप्यात् त्तैजसविरुद्धत्वेन हेतुना, विशेषात् इति वातापित्तभयात् अधिकत्वेन भयं भवति। श्लेष्मजये च स्रावणं प्रधानं, तस्मात् स्राव्यम् इति अर्थः। स्रावण- अञ्जनकालं नियमयति- निशायाम् इत्यादि। ध्रुवम् अवश्यं निशायाम् एव, अञ्जनं प्रति आसन्नत्वात् स्रावण-अञ्जनम्। जतूकर्णेन अपि स्रावणरसाञ्जनं निशायाम् एव विहितं; यत् उक्तं- “सप्ताहात् रसाञ्जनं नक्तम्” इति। शालाक्ये अपि उक्तं- “विरेकदुर्बला दृष्टिः आदित्यं प्राप्य सीदति। रात्रौ स्वप्नगुणात् च अक्षि पुष्यति अञ्जनकर्षि(र्शि)तम्” इति। सौवीर-अञ्जनं तु विरेचनं न भवति, चक्षुःप्रसादमात्रं करोति, तेन तत् दिवा क्रियमाणं न विरोधि। अन्ये तु व्याख्यानयन्ति- ध्रुवं नित्यकर्तव्यं सौवीर-अञ्जनं यत् तत् निशि कर्तव्यं, स्रावण-अञ्जनं तु श्लेष्म-उद्रेकविषये(यि) वमनवत् पूर्वाह्ण एव कर्तव्यम्॥१६-१७ अरुन्धती पद्धतिः
चक्षुषः श्लेष्मणः भयम् इति वचनं पर्याप्तम्।विशेषात् इति पदेन किं प्रयोजनम्?
उच्यते।चक्षुषः विशेषतः श्लेष्मणः भयम्’ इत्युक्ते अर्थापत्ति-तन्त्रयुक्त्या ‘सामान्यतः वात-पित्ताभ्यां भयम्’ इति अर्थः लभ्यते।
सौवीराञ्जनं तथा रसाञ्जनम् इति द्वे अञ्जने प्रकृते। ‘निशायां तु ध्रुवमञ्जनमिष्यते’ इति वचने किमञ्जनं निशायाम् इष्यते इति विशेषणं नोक्तम्।अतः प्रकृतयोः किमञ्जनं निशायां प्रयोक्तव्यम् ?यत्किमपि भवतु वा?
न तथा।साहचर्यवशादत्र निर्णयः कार्यः।
अञ्जनं प्रति आसन्नत्वात् स्रावण-अञ्जनम्।-चक्रपाणिः
आसन्नत्वं साहचर्यम्।अनेन प्रमाणेन शब्दार्थस्य निश्चयः क्रियते।
क्वोक्तमेतत् प्रमाणम्?
संसर्गो विप्रयोगश्च साहचर्यं विरोधिता ।..... शब्दार्थंस्यानवच्छेदे विशेषस्मृतिहेतवः।। वाक्यपदीये वाक्यकाण्डे ३१६
साहचर्याद्यथा रामलक्ष्मणावित्युक्ते लक्ष्मणसाहचर्याद् दाशरथेरेव प्रतीतिः ।
प्रकृते अञ्जनशब्दस्य साहचर्ये ‘स्राव्यम्’ इति शब्दः अस्ति अतः अञ्जनशब्देन स्रावणमञ्जनमेव ग्राह्यमिति निर्णयः।जतूकर्णवचनमपि अत्र प्रमाणम्। यथा हि कनकादीनां मलिनां विविधात्मनाम्॥१८
धौतानां निर्मला शुद्धिस्तैलचेलकचादिभिः।एवं नेत्रेषु मर्त्यानामञ्जनाश्च्योतनादिभिः॥१९
दृष्टिर्निराकुला भाति निर्मले नभसीन्दुवत्।२०पदच्छेदः -
यथा हि कनक-आदिनां मलिनां विविध-आत्मनाम्॥१८
धौतानां निर्मला शुद्धिः तैलचेलकच-आदिभिः। एवं नेत्रेषु मर्त्यानाम् अञ्जन-आश्च्योतन-आदिभिः॥१९ दृष्टिः निराकुला भाति निर्मले नभसि इन्दुवत्।२० अन्वयः -
यथा हि विविध-आत्मनां मलिनां कनक-आदिनां तैलचेलकच-आदिभिः धौतानां शुद्धिः निर्मला (भवति) एवं मर्त्यानाम् नेत्रेषु अञ्जन-आश्च्योतन-आदिभिः निराकुला दृष्टिः निर्मले नभसि इन्दुवत् भाति सरलार्थः -
यथा नानाविधानां मलिनानां सुवर्णादीनां तैलेन वस्त्रेण केशेन वा धावनं कृतं चेत् तेषां निर्मला शुद्धिः भवति।तथैव मनुष्याणां नेत्रे विद्यमाना दृष्टिः अञ्जनेन, आश्चोतनेन च निराकुला भवति। निर्मले गगने यथा चन्द्रः प्रकाशते, तथा तादृशी दृष्टिः प्रकाशते।१९,२० आयुर्वेददीपिका
अञ्जनगुणम् आह- यथा हि इत्यादि। शुद्धिः स्वाभाविकी; सा आगन्तुधूल्यादि-उपनयनेन (अपनयनेन) निर्मला सति भाति। आश्च्योतनं नेत्रविरेकार्थं द्रव-औषधदानं, तत् च इह अनभिहितम् अपि फल-ऐक्यात्त् अभिहितम्, आदिशब्देन पुटपाक-आदीनां ग्रहणम्॥१८-१९॥ अरुन्धती पद्धतिः
दृष्टान्तदार्ष्टान्तिकयोः समन्वयः कथं कार्यः? उच्यते-
दृष्टान्तः दार्ष्टान्तिकः
कनकादीनि तैजसद्रव्याणि नेत्रगता दृष्टिः
मलः वातादिदोषाः
तैलं, चेलं, केशाः आश्चोतनम्, अञ्जनं. तर्पणं. पुटपाकः
स्वाभाविकी शुद्धता (स्वाभाविकं तेजः) निरालकुला दृष्टिः
दृष्टान्तः दार्ष्टान्तिकः
कनकादीनि तैजसद्रव्याणि नेत्रगता दृष्टिः
मलः वातादिदोषाः
तैलं, चेलं, केशाः आश्चोतनम्, अञ्जनं. तर्पणं. पुटपाकः
स्वाभाविकी शुद्धता (स्वाभाविकं तेजः) निरालकुला दृष्टिः
भाति भाति
नभः नेत्रम्
चन्द्रः दृष्टिमण्डलम्

हरेणुकां प्रियङ्गुं च पृथ्वीकां केशरं नखम्॥२०
ह्रीवेरं चन्दनं पत्रं त्वगेलोशीरपद्मकम्।ध्यामकं मधुकं मांसी गुग्गुल्वगुरुशर्करम्॥२१
न्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वचः शुभाः।वन्यं सर्जरसं मुस्तं शैलेयं कमलोत्पले॥२२
श्रीवेष्टकं शल्लकीं च शुकबर्हमथापि च।पिष्ट्वा लिम्पेच्छरेषीकां तां वर्तिं यवसन्निभाम्॥२३
अङ्गुष्ठसम्मितां कुर्यादष्टाङ्गुलसमां भिषक्।शुष्कां निगर्भां तां वर्तिं धूमनेत्रार्पितां नरः॥२४
स्नेहाक्तामग्निसम्प्लुष्टां पिबेत् प्रायोगिकीं सुखाम्।२५

पदच्छेदः -
हरेणुकां प्रियङ्गुं च पृथ्वीकां केशरं नखम्॥२०
ह्रीवेरं चन्दनं पत्रं त्वग्-एला-उशीरपद्मकम्। ध्यामकं मधुकं मांसी गुग्गुलु-अगुरुशर्करम्॥२१
न्यग्रोध-उदुम्बर-अश्वत्थ-प्लक्ष-लोध्रत्वचः शुभाः। वन्यं सर्जरसं मुस्तं शैलेयं कमल-उत्पले॥२२
श्रीवेष्टकं शल्लकीं च शुकबर्हम् अथ अपि च। पिष्ट्वा लिम्पेत् शरेषीकां तां वर्तिं यवसन्निभाम्॥२३
अङ्गुष्ठसम्मितां कुर्यात् अष्टाङ्गुलसमां भिषक्॥ शुष्कां निगर्भां तां वर्तिं धूमनेत्र-अर्पितां नरः॥२४ स्नेहाक्ताम् अग्निसम्प्लुष्टां पिबेत् प्रायोगिकीं सुखाम्।२५

अन्वयः -
अथ भिषक् ,हरेणुकां प्रियङ्गुं च पृथ्वीकां केशरं नखम्,ह्रीवेरं, चन्दनं पत्रं त्वग्-एला-उशीरपद्मकम्, ध्यामकं मधुकं मांसी गुग्गुलु-अगुरुशर्करं,शुभाः न्यग्रोध-उदुम्बर-अश्वत्थ-प्लक्ष-लोध्रत्वचः, वन्यं सर्जरसं मुस्तं शैलेयं कमल उत्पले,श्रीवेष्टकं शल्लकीं च शुकबर्हम् अपि पिष्ट्वा यवसन्निभां शरेषीकां लिम्पेत्।तां वर्तिम् अङ्गुष्ठसम्मितां, अष्टाङ्गुल-समां, च कुर्यात् । नरः शुष्कां निगर्भां (वर्तिम्) स्नेहाक्ताम् अग्निसम्प्लुष्टां धूमनेत्र-अर्पितां तां प्रायोगिकीं सुखां वर्तिं पिबेत्॥ २५

सरलार्थः
अथ वैद्यः ,हरेणुकां प्रियङ्गुं च पृथ्वीकां केशरं नखम्,ह्रीवेरं, चन्दनं पत्रं त्वग्-एला-उशीरपद्मकम्,ध्यामकं मधुकं मांसी गुग्गुलु-अगुरुशर्करं,शुभाः न्यग्रोध-उदुम्बर-अश्वत्थ-प्लक्ष-लोध्रत्वचः, वन्यं सर्जरसं मुस्तं शैलेयं कमल उत्पले, श्रीवेष्टकं शल्लकीं च शुकबर्हम् इति एतेषां द्रव्याणं पेषणं कुर्यात्।ततः शरपुष्पस्य यवप्रमाणायां नालिकायाम् एतस्य पिष्टस्य लेपं कुर्यात्।अनेन लेपेन वर्तिः जायते।सा वर्तिः अङ्गुष्ठसम्मिता स्थूला, अष्टाङ्गुल-समा दीर्घा च भवेत्।यदा सा वर्तिः शुष्का भवति, तदा तत्रत्या शरनालिका आकृष्य निराकरणीया।ततः सा वर्तिः स्नेहयुक्ता करणीया।स्निघा सा वर्तिः अग्निना ज्वालयित्वा धूमनेत्रे सारणीया।एषा प्रायोगिकधूमपानार्थं वर्तिः।तां सुखजनिकां वर्तिं पिबेत्॥२०-२५

आयुर्वेददीपिका
इह एव अञ्जनान्ते धूमपानं विधास्यति- “नावन-अञ्जननिद्रान्ते” इत्यादिना; अतः अञ्जन-अनन्तरं धूमः अभिधीयते; उक्तं च शालाक्ये- “तीक्ष्ण-अञ्जनेन अञ्जितलोचनस्य यः सम्प्रदुष्टो न निरेति नेत्रात्। श्लेष्मा शिरःस्थः स तु पीतमात्रे धूमे प्रशान्तिं लभते क्षणेन” इति। हरेणुकाम् इत्यादि। हरेणुका रेणुका। पृथ्वीका कृष्णजीरकम्। केशरं नागकेशरम्। पद्मकं पद्मकाष्ठम्। ध्यामकं गन्धतृणम्। न्यग्रोध-आदीनां प्लक्षान्तानां त्वचः, तासां विशेषणं शुभा इति। वन्यं कैवर्तमुस्तकम्। शुकबर्हं ग्रन्थिपर्णकम्। शरेषीका शरपुष्पस्य नाली ‘शरिका’ इति प्रसिद्धा। अत्र विधानं- पिष्टैः भेषजैः शरिका तथा वेष्टयितव्या यथा अष्टाङ्गुलायता अङ्गुष्ठपरिणाहा च वर्तिः स्यात्, तस्यां च शुष्कायां सत्यां शरेषीकाम् आकृष्य स्नेहेन अभ्यज्य अग्निना (ना) एकस्मिन् अग्रेऽवदह्य वक्ष्यमाणधूमपान-नलिकायाम् अग्ररन्ध्रे निवेश्य अतः धूमः पेयः। प्रायोगिकी च नित्यपेयधूमवर्तिसञ्ज्ञा। सुखाम् इति अनेन अकटुकत्वम् अनत्ययत्वं च दर्शयति॥२०-२४

अरुन्धती पद्धतिः
अञ्जनमुपदिष्टम्।तदनन्तरं धूमपानमुच्यते।अत्र सङ्गतिः का?एककार्यता अत्र सङ्गतिः। अञ्जनस्य कार्यं कफस्रावणम्।तदेव कार्यं धूमपानस्यापि।अतः अञ्जनविधानाद् अनन्तरं धूमपानविधानं युज्यते।किञ्च स्वयं मुनिना धूमपानस्य कालः उक्तः -
नावन-अञ्जननिद्रान्ते चात्मवान् धूमपो भवेत्॥च.सू.५.३३
हरेणुकादिद्रव्याणि पिष्ट्वा शरेषीकां लेपयेद् इति उक्तम्।लेपस्तु द्रवद्रव्यं विना न सम्भवति।किं द्रवद्रव्यमत्र ग्राह्यम्?
जलमेव।
कुतः?
तथा परिभाषा विद्यते-
द्रवकार्येऽपि चानुक्ते सर्वत्र सलिलं स्मृतम्।च.कल्प.१२.१००
प्रायोगिकी धूमवर्तिः इत्यस्य कः अर्थः?
प्रयोगं नित्यमर्हति छेदा. ठञ्।नित्यप्रयोगार्हे।– वाचस्पत्यः

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.१६-२४&oldid=7354" इत्यस्माद् प्रतिप्राप्तम्