च.सू.५.१,२

विकिपुस्तकानि तः

अथातो मात्राशितीयमध्यायं व्याख्यास्यामः१॥
इति ह स्माह भगवानात्रेयः२ ॥

पदच्छेदः -
अथ अत: मात्राशितीयम् अध्यायं व्याख्यास्यामः ॥१
इति ह स्म आह भगवान् आत्रेयः ।२

अन्वयः -
अथ अत: (वयं) मात्राशितीयम् अध्यायं व्याख्यास्यामः ॥१
भगवान् आत्रेयः इति ह स्म आह ॥२

सरलार्थः-
भगवान् आत्रेयः उक्तवान् यत् अधुना वयं मात्राशितीय-संज्ञकस्य अध्यायस्य व्याख्यानं करिष्यामः।

आयुर्वेददीपिका
द्वितयम् इह शास्त्रप्रयोजनं यद् आतुरव्याधिहरणं स्वस्थस्य स्वास्थ्यरक्षणं च; यत् आह- स्वस्थ-आतुरपरायणम् (सू.अ.१) इति; तेन उत्पन्नव्याधिप्रतीकारद्वारा आतुररक्षणं भेषजचतुष्कम् अभिधाय स्वस्थचतुष्कः अभिधातव्यः; तत्र अपि स्वास्थ्यपरिपालनहेतुषु मात्रावत् अन्नं प्रधानं; यद् आह- प्राणिनां पुनः मूलम् आहारो बल-वर्ण-ओजसां च (सु.सू.अ.१) इति; तत् च इह मात्रावद् अन्नं विधीयते इति आदौ मात्राशितीयः एव अभिधीयते। मात्राशितम् अधिकृत्य कृत्यः अध्यायः मात्राशितीयः।यदि अपि अध्यायादौ ‘मात्राशी’ इति पदम् अनुश्रूयते, तथा अपि ‘मात्राशीयः’ इति सञ्ज्ञाप्रणयने कष्ट-उच्चारणभयात् तद्-अर्थपर-पर्यायशब्देन् इयं सञ्ज्ञा कृता; यथा ‘नवेगान्धारणीय’ (सू.अ.७) इत्यादिका सञ्ज्ञा॥१-२

अरुन्धती पद्धतिः
अथेयं जिज्ञासा यदस्य अध्यायस्य सङ्गतिः का? उच्यते।
अस्य शास्त्रस्य द्विविधं प्रयोजनं विद्यते- आतुरस्य व्याधीनां हरणं तथा स्वस्थस्य स्वास्थ्यस्य रक्षणम्।अनयोः यत् प्रथमं प्रयोजनम्, आतुरस्य व्याधीनां हरणम् इति, तद्विषये सूत्रस्थानस्य आरम्भे चत्वारः अध्यायाः प्रतिपादिताः। तेषां भेषजचतुष्कम् इति संज्ञा।
अधुना द्वितीयं प्रयोजनमुद्दिश्य स्वस्थचतुष्कस्य प्रसङ्गः।स्वास्थ्यं यैः उपायैः स्थिरं भवति, ते उपायाः अत्र वक्तव्याः।एवं प्रसङ्ग-सङ्गत्या भेषजचतुष्काद् अनन्तरं स्वस्थचतुष्कः आरभ्यते।
के ते स्वास्थ्यरक्षणस्य उपायाः? नैके सन्ति।दिनचर्या, ऋतुचर्या, वेगानाम् अधारणम् इत्येवमादयः।तत्रापि मात्रायुक्तः आहारः प्रधानः उपायः।यतो हि मात्रावता आहारेण प्राणिनः जीवन्ति।मात्रावता आहारेण प्राणिनां बलं वर्धते, वर्णः विलसति, ओजः च वर्धते। तस्मात् स्वस्थ-चतुष्के वक्तव्ये मात्रावान् आहारः एव प्रथमं स्थानम् अर्हति। तस्य प्रतिपादनम् अस्मिन् मात्राशितीये अध्याये भविष्यति। सूत्रस्थाने अयं पञ्चमः अध्यायः।
अध्यायस्य संज्ञा मात्राशितीयः इति।कथमयं शब्दः निष्पन्नः मात्राशितीयः इति? ‘मात्राशितम् अधिकृत्य कृतः अध्यायः’ इति अर्थेन प्रथमं मात्राशितशब्दात् छप्रत्ययः उत्पन्नः।
मात्राशित - छ ..... अधिकृत्य कृते ग्रन्थे। (अष्टाध्यायी ४.३.८७)
मात्राशितीयः
ननु अध्यायस्य आरम्भः मात्राशी इति अनेन शब्देन भवति।तस्मात् शब्दात् छप्रत्ययः कार्यः। मात्राशितम् इति शब्दात् कुतः छप्रत्ययः क्रियते?सत्यम्।मात्राशी इति शब्दात् छप्रत्ययः कार्यः। तथा सति मात्राशीयः इति रूपं निष्पद्यते।मात्राशीयः इति उच्चारणे कष्टप्रदम्।अतः मात्राशित-शब्दात् छप्रत्ययः कृतः।मात्रया अशितं मात्राशितम्।अनेन अर्थपरिवर्तनं न भवति, उच्चारणे कष्टमपि न भवति।

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.१,२&oldid=7202" इत्यस्माद् प्रतिप्राप्तम्