च.सू.५.२५-३३

विकिपुस्तकानि तः
Jump to navigation Jump to search

वसाघृतमधूच्छिष्टैर्युक्तियुक्तैर्वरौषधैः॥२५
वर्तिं मधुरकैः कृत्वा स्नैहिकीं धूममाचरेत्।२६

पदच्छेदः -
वसा-घृत-मधूच्छिष्टैः युक्तियुक्तैः वरौषधैः॥२५ वर्तिं मधुरकैः कृत्वा स्नैहिकीं धूमम् आचरेत्।२६

अन्वयः -
वसा-घृत-मधूच्छिष्टैः वरौषधैः मधुरकैः युक्तियुक्तैः स्नैहिकीं वर्तिं कृत्वा धूमम् आचरेत् ।

सरलार्थः
वसा, घृतं, सिक्थकं तथा जीवनीयगणोक्तैः उत्तमैः द्रव्यैः युक्त्या वर्तिः साधनीया।तस्याः धूमः पातव्यः॥२५,२६

आयुर्वेददीपिका
स्नैहिकधूमवर्तिम् आह- वसा इत्यादि। मधूच्छिष्टं सिक्थकम्।वरौषधैः इति मधुरकविशेषणं; मधुरकाणि जीवनीयानि जीवक-ऋषभक-आदीनि। युक्तियुक्तैः इति अनेन तथा वसादिग्रहणं कर्तव्यं, यथा वर्तिः कर्तुं पार्यत इति दर्शयति। वर्तिकरणं च पूर्ववत्। स्नैहिकी स्नेहनकारिका ॥२५॥

श्वेता ज्योतिष्मती चैव हरितालं मनःशिला॥२६
गन्धाश्चागुरुपत्राद्या धूमं मूर्धविरेचने।२७

पदच्छेदः -
श्वेता ज्योतिष्मती च एव हरितालं मनःशिला॥२६ गन्धाः च अगुरुपत्राद्याः धूमं मूर्धविरेचने ॥२७

अन्वयः -
मूर्धविरेचने श्वेता ज्योतिष्मती च हरितालं, मनःशिला, अगुरुपत्राद्या गन्धाः च एतैः धूमम् आचरेत् ॥

सरलार्थः -
मूर्धविरेचनार्थं श्वेता, ज्योतिष्मती च हरितालं, मनःशिला, अगुरु, पत्राद्याः गन्धाः च इति एतैः द्रव्यैः वर्तिं साधयित्वा धूमम् आचरेत् ॥२६,२७

आयुर्वेददीपिका
वैरेचनिकधूमपानवर्तिं दर्शयति- श्वेता इत्यादि। श्वेता अपराजिता। गन्धाः सुगन्धद्रव्याणि, तेषां विशेषणम् अगुरुपत्राद्याः, अगुरु च पत्राद्याः च अगुरुपत्राद्याः; अगुरुपत्राद्याः च ज्वरे वक्ष्यमाणः “अगुरुकुष्ठतगरपत्र” (चि.अ.३) इत्यादिगणो मन्तव्यः। अगुर्वाद्या इति न कृतं, कुष्ठतगरयोः अतितीक्ष्णत्वेन मस्तुलुङ्गक-स्रावभयात् परिहारार्थम्। वक्ष्यति च त्रिमर्मीये- “धूमवर्तिं पिबेत् गन्धैः अकुष्ठतगरैः तथा” (सि.अ.९) इति, शालाक्ये अपि उक्तं- “नतकुष्ठे स्रावयतो धूमवर्तिप्रयोजिते। मस्तुलुङ्गं विशेषेण तस्मात् ते न एव योजयेत्” इति; सुश्रुते अपि उक्तं- “एलादिना तगरकुष्ठवर्ज्येन” (सू.चि.अ.४०) इति॥२६

अरुन्धती पद्धतिः
अगुरुपत्रम् आद्यं येषां ते
अगुरुपत्राद्याः।अयं गणः कुत्र विद्यते?
नास्ति एतादृशः गणः। कस्तर्हि अगुरुपत्राद्याः इति अस्य अर्थः?
अगुरुसहितपत्राद्याः अगुरुपत्राद्याः।
तथापि पत्राद्याः गन्धद्रव्याः कुत्र उक्ता?
अस्मिन् एव ग्रन्थे चिकित्सितस्थाने ज्वरचिकित्साध्याये अगुर्वाद्यं तैलमुक्तम् (च.चि.३.२६७)। तत्र अगुरु-कुष्ठ-तगर-पत्र-नलद-शैलेयादीनि नैकानि द्रव्याणि पठितानि।सः एव कश्चिद् गणः इति कल्प्यते।
अस्तु।तर्हि अगुर्वाद्याः गन्धाः इत्येवम् ऋजु वक्तव्यम्।अगुरुसहिताः पत्राद्याः इति किमर्थम् उच्यते?
ब्रूमः।अगुर्वाद्याः गन्धाः इति उक्तं चेत् तत्र कुष्ठतगरयोः अपि ग्रहणं भवति।तच्च अनिष्टम्। अगुर्वादिषु द्रव्येषु विद्यमानानि, कुष्ठ-तगर-वर्जितानि द्रव्याणि अत्र ग्राह्याणि।अतः अगुरुसहिताः पत्राद्याः इति उच्यते।
एवम्? परं कुष्ठं तथा तगरं किमिति वर्जनीयम्?
कुष्ठतगरयोः अतितीक्ष्णत्वेन मस्तुलुङ्गक-स्रावभयात् ...।चक्रपाणिः

गौरवं शिरसः शूलं पीनसार्धावभेदकौ॥२७
कर्णाक्षिशूलं कासश्च हिक्काश्वासौ गलग्रहः।दन्तदौर्बल्यमास्रावः श्रोत्रघ्राणाक्षिदोषजः॥२८
पूतिर्घ्राणास्यगन्धश्च दन्तशूलमरोचकः।हनुमन्याग्रहः कण्डूः क्रिमयः पाण्डुता मुखे॥२९
श्लेष्मप्रसेको वैस्वर्यं गलशुण्ड्युपजिह्विका।खालित्यं पिञ्जरत्वं च केशानां पतनं तथा॥३०
क्षवथुश्चातितन्द्रा च बुद्धेर्मोहोऽतिनिद्रता।धूमपानात् प्रशाम्यन्ति बलं भवति चाधिकम्॥३१
शिरोरुहकपालानामिन्द्रियाणां स्वरस्य च।न च वातकफात्मानो बलिनोऽप्यूर्ध्वजत्रुजाः॥३२
धूमवक्त्रकपानस्य व्याधयः स्युः शिरोगताः।३३

पदच्छेदः -
गौरवं शिरसः शूलं पीनस-अर्धावभेदकौ२७
कर्ण-अक्षिशूलं कासः च हिक्काश्वासौ गलग्रहः। दन्तदौर्बल्यम् आस्रावः श्रोत्र-घ्राण-अक्षिदोषजः॥२८
पूतिः घ्राण-आस्यगन्धः च दन्तशूलम् अरोचकः। हनुमन्याग्रहः कण्डूः क्रिमयः पाण्डुता मुखे॥२९
श्लेष्मप्रसेको वैस्वर्यं गलशुण्डि-उपजिह्विका। खालित्यं पिञ्जरत्वं च केशानां पतनं तथा॥३०
क्षवथुः च अतितन्द्रा च बुद्धेः मोहः अतिनिद्रता। धूमपानात् प्रशाम्यन्ति बलं भवति च अधिकम्॥३१
शिरोरुहकपालानाम् इन्द्रियाणां स्वरस्य च। न च वातकफात्मानः बलिनः अपि उर्ध्वजत्रुजाः॥३२
धूमवक्त्रकपानस्य व्याधयः स्युः शिरोगताः।३३

अन्वयः -
धूमपानात् , गौरवं शिरसः शूलं पीनस-अर्धावभेदकौ, कर्ण-अक्षि शूलं कासः, हिक्का-श्वासौ च गलग्रहः, दन्तदौर्बल्यं श्रोत्र-घ्राण-अक्षिदोषजः आस्रावः, पूति-घ्राण-आस्यगन्धः च दन्तशूलम् अरोचकः, हनु-मन्या ग्रहः, कण्डूः, क्रिमयः, मुखे पाण्डुता, श्लेष्मप्रसेकः, वैस्वर्यं, गलशुण्डि उपजिह्विका,खालित्यं, पिञ्जरत्वं, च केशानां पतनं,क्षवथुः, च अतितन्द्रा, च बुद्धेः मोहः, अतिनिद्रता (इति एते रोगाः) प्रशाम्यन्ति, तथा शिरोरुहकपालानाम् इन्द्रियाणां स्वरस्य च बलम् अधिकं भवति। धूमवक्त्रकपानस्य बलिनः अपि उर्ध्वजत्रुजाः शिरोगताः वातकफात्मानो व्याधयः न च स्युः।

सरलार्थः -
धूमपानात् गौरवं, शिरसः शूलं, पीनसः, अर्धावभेदकः, कर्णशूलम्, अक्षिशूलं, कासः, हिक्का, श्वासः, गलग्रहः, दन्तदौर्बल्यं, कर्णदोषजः स्रावः, नासादोषजः स्रावः, नेत्रदोषजः स्रावः, पूतिः घ्राणगन्धः, पूतिः आस्यगन्धः, दन्तशूलम् अरोचकः, हनुग्रहः, मन्याग्रहः, कण्डूः, क्रिमयः, मुखे पाण्डुता, श्लेष्मप्रसेकः, वैस्वर्यं, गलशुण्डी, उपजिह्विका, खालित्यं, पिञ्जरत्वं, केशानां पतनं, क्षवथुः, अतितन्द्रा, बुद्धेः मोहः, अतिनिद्रता (इति एते रोगाः) प्रशाम्यन्ति, तथा केशानां, शिरःकपालानाम्, इन्द्रियाणां स्वरस्य च बलम् अधिकं भवति।यः धूमं मुखेन पिबति, तस्य प्रबलकारणैः उत्पन्नाः अपि उर्ध्वजत्रुजाः शिरोगताः वातकफजाः व्याधयः अपि न भवन्ति।
आयुर्वेददीपिका
धूमपानगुणान् दर्शयति- गौरवम् इत्यादि। शिरोरुहाः केशाः; कपालाः च शिरस एव। बलिनः अपि इति बलवत्कारणाः अपि इत्यर्थः। ऊर्ध्वजत्रुजत्वेन एव शिरोगताः अपि लब्धाः ते पुनः अभिधीयन्ते विशेषविधानार्थम्॥२७-३२

अरुन्धती पद्धतिः
‘धूमपानेन कपालानां बलमधिकं भवति’ इति सूत्रे उक्तम्।केषां कपालानां बलमधिकं भवति ? देहे कपालानि एतावन्ति सन्ति-
कपालानि जानु-नितम्ब-अंस-गण्ड-तालु-शङ्ख-शिरःसु कपालानि।सु.शा.५.२०
उच्यते। - कपालाः च शिरस एव – चक्रपाणिः
कथमेतत् निर्णीतम्?
साहचर्यात्।यथा रामलक्ष्मणौ इत्युक्ते रामः दाशरथिः वा जामदग्न्यः वेति सम्भ्रमो न भवति।लक्ष्मणपदस्य साहचर्यात् दाशरथिः रामः एव बुद्धौ उपस्थितः भवति।तथा अत्रापि शिरोरुहपदस्य साहचर्यात् शिरसः कपालाः एव बुद्धौ उपस्थिताः भवन्ति।
‘धूमवक्त्रकपानस्य बलिनः अपि व्याधयः न स्युः’ इति सूत्रे उक्तम्। बलिनः व्याधयः इत्यस्य कः अर्थः ?
बलिनः अपि इति बलवत्कारणाः अपि इत्यर्थः। - चक्रपाणिः
कथमेषः अर्थः कृतः?
उच्यते।
हेतवः पूर्वरूपाणि रूपाण्यल्पानि यस्य च।...सुखसाध्यस्य लक्षणम्...।च.सू.१०.११,१३
निमित्तपूर्वरूपाणां रूपाणां मध्यमे बले।...विद्यात्... कृच्छ्रसाध्यम्...।च.सू.१०.१४-१६
एवं यस्य हेत्वादयः अल्पाः, सः सुखसाध्यः व्याधिः, दुर्बलत्वात्।यस्य हेत्वादयः मध्यमाः, सः कष्टसाध्यः व्याधिः, सबलत्वात्।
अस्तु एतत्।तर्हि बलिनः व्याधयः नाम बलवत्कारण-पूर्वरूप-रूपाः व्याधयः इति अर्थः उचितः।केवलं बलवत्कारणाः व्याधयः इत्यर्थः न पर्याप्तः।
नैवम्।उत्पन्नस्य व्याधेः रूपाणि, पूर्वरूपाणि, हेतवः च सम्भवन्ति।उत्पद्यमानस्य व्याधेः पूर्वरूपाणि हेतवः च सम्भवन्ति।अनुत्पन्नस्य हेतवः एव सम्भवन्ति, न पूर्वरूपाणि, न वा रूपाणि। एवं व्याधौ अनुत्पन्ने सति, अनुत्पद्यमाने च सति तथापि हेतुसेवने सति व्याधेः सबलत्वं हेतुबलद्वारा एव निर्णेतव्यं भवति।न तत्र पूर्वरूपाणां रूपाणां वा चिन्ता कार्या।तस्मादेवं वदामः-
बलिनः अपि इति बलवत्कारणाः अपि इत्यर्थः। - चक्रपाणिः
हेतवः सेविताः,परं व्याधिस्तु न उत्पद्यमानः इति वचनं विरुद्ध् खलु?
न विरुद्धम्।किञ्च एतदेवात्र विवक्षितं यद् ‘हेतुः अस्ति परं व्याधिः नास्ति’ इति। ‘वातकफजनकाः नैके हेतवः सन्ति चेदपि वातकफजन्याः शिरोरोगाः धूमपस्य न भवन्ति, यतो हि धूमपानमत्र प्रतिबन्धकम् अस्ति’ इत्येव वक्तुमिच्छति आचार्यः।
‘धूमवक्त्रकपानस्य उर्ध्वजत्रुजाः शिरोगताः व्याधयः न स्युः’ इति सूत्रम्।अत्र ऊर्ध्व-जत्रुजाः इति एकं पदं पर्याप्तम्।तत्रैव शिरोगताः व्याधयः समाविष्टाः।किमर्थं तर्हीयं पुनरुक्तिः?
नात्र पुनरुक्तिदोषः द्रष्टव्यः। शिरोगताः इति पृथक् पदं ब्राह्मणवसिष्ठन्यायेन योजितम्। कोऽयं ब्राह्मणवसिष्ठन्यायः?
उच्यते।‘ब्राह्मणाः आगताः, वसिष्ठः अपि आगतः’ इति कश्चन उक्तवान्।किं ब्राह्मणेषु वसिष्ठस्य समावेशः न भवति? भवति एव।अतः ब्राह्मणाः आगताः इति एतावता एव वसिष्ठस्य आगमनमपि उक्तं भवति।कुतः तर्हि पुनः वचनम्?विशेषविधानार्थम्।अन्येभ्यः ब्राह्मणेभ्यः वसिष्ठः विशिष्टः।अतः तत् सूचयितुं वसिष्ठस्य पृथक् विधानं कृतम्।अत्रापि तथैव।ऊर्ध्वजत्रुगतरोगेभ्यः शिरोरोगाः विशिष्टाः।तत् सूचयितुं शिरोगताः रोगाः पुनः पृथक्वचनेन उच्यन्ते।तदेव वदति चक्रपाणिः -
ऊर्ध्वजत्रुजत्वेन एव शिरोगताः अपि लब्धाः ते पुनः अभिधीयन्ते विशेषविधानार्थम्॥-चक्रपाणिः

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च

"https://sa.wikibooks.org/w/index.php?title=च.सू.५.२५-३३&oldid=6884" इत्यस्माद् प्रतिप्राप्तम्