च.सू.५.३
मात्राशी स्यात्।आहारमात्रा पुनरग्निबलापेक्षिणी॥३
पदच्छेदः -
मात्राशी स्यात्। आहारमात्रा पुनः अग्निबल-अपेक्षिणी॥३
अन्वयः -
मात्राशी स्यात्।आहारमात्रा पुनः अग्निबल-अपेक्षिणी॥३
सरलार्थः
नरः मात्रया भोजनं कुर्यात्।आहारस्य मात्रा अग्नेः बलम् अनुसृत्य वर्तते।
आयुर्वेददीपिका
मात्रां मात्रावत् अन्नम् अशितुं भोक्तुं शीलं यस्य असौ मात्राशी, यदि वा मात्रया अशितुं भोक्तुं शीलं यस्य स तथा। तत्र इह मात्रा अन्-अपायिपरिमाणम्। अशिः इयम् इह अविशेषेण खाद्य-प्राश्य-लेह्य-पेयानाम्-अभ्यवहारे वर्तते। तेन मात्राशी स्यात् इति उक्तं खाद्य-प्राश्य-लेह्य-पेयानां मात्रया अभ्यवहरणं न उक्तम् इति यत् च उच्यते, तत् निरस्तं भवति। दृष्टः च अयम् अशिः खाद्य-आदि-अभ्यवहारे; यथा- दशमूलहरीतक्याम्- “एक-अभयां प्राश्य ततः च लेहात् शुक्तिं निहन्ति श्वयथुं प्रवृद्धम्” (चि.अ.१२.५१); तथा- “क्षीराशी तत् प्रयोजयेत्” (चि.अ.१.३.५३) इति। इतः च अवगन्तव्यम् अशिः अयं सर्व-अभ्यवहारे वर्तते, येन एतद् विवरणं सामान्येन एव कृतम्- आहारमात्रा पुनः इति, न पुनः अशितमात्रा पुनः इति। मात्रां व्याकरोति- आहार इत्यादि। अग्नेः बलम् उत्कृष्टं मध्यम् अल्पं वा अपेक्ष्य उत्कृष्टा मध्या अल्पा वा मात्रा भवति इति अग्निबल-अपेक्षिणी। पुनःशब्दः भेषज-आदि-मात्रां व्यायाममात्रां च व्यावर्तयति; तेन न सर्वमात्रा अग्निबल-अपेक्षिणी; यतो भेषजमात्रा व्याधि-आतुरबल-अपेक्षिणी वक्तव्या, व्यायामस्य तु दोषक्षय-अग्निवृद्धि-आदि-उत्पाद-श्रमक्लमादि-अनुत्पाद-अपेक्षिणी, व्यवस्थापयितव्या। यदि वा पुनःशब्दः पौनःपुन्ये, तेन आहारमात्रा पुनः पुनः अग्निबलम् अपेक्षते। एतद् उक्तं भवति- यत् एकस्मिन् पुरुषे एकदा या अग्निबलेन व्यवस्थापिता मात्रा सा न सर्वकालं भवति, यत ऋतुभेदेन वयोभेदेन च तस्य एव अग्निः कदाचित् विवृद्धः भवति, यथा- हेमन्ते यौवने च, कदाचित् मन्दः भवति, यथा- वर्षासु वार्धक्ये च; तेन अग्निबलभेदात् मात्रा अपि एकरूपा न भवति, किन्तु तत्-कालभवम् अग्निबलम् अपेक्ष्य पुनः पुनः मात्रा अपि भिद्यत इति॥३
अरुन्धती पद्धतिः
मात्राशी इत्यस्य विग्रहः कथं कार्यः?
मात्राम् अशितुं शीलं यस्य सः मात्राशी।
अथवा
मात्रया अशितुं शीलं यस्य सः मात्राशी।
उभयत्र
सुप्यजातौ णिनिस्ताच्छील्ये (३.२.७८)
इति सूत्रेण ताच्छील्ये णिनिः प्रत्ययः विहितः। अयं प्रत्ययः ताच्छील्यार्थे विद्यते। ताच्छील्यम् इति तत्स्वभावः।अतः यः क्चचिदेव मात्रया अश्नाति तस्य मात्राशी इति निर्देशः न भविष्यति। मात्रां मात्रया वा अशितुं शीलं स्वभावः यस्य सः मात्राशी।
उभयोः निरुक्त्योः कश्चन भेदः विद्यते वा? आम् ।सूक्ष्मः भेदः अस्ति।तथापि अर्थे अन्तरं न भवति।कः भेदः? उच्यते।
‘मात्राम् अशितुं शीलं यस्य सः मात्राशी’ इति निरुक्तौ मात्राशब्दस्य मुख्यार्थः स्वीकर्तुं न शक्यते।यतो हि मात्रा इत्युक्ते परिमाणम्।सः गुणः।गुणस्य भोजनं कथं वा स्यात्? अतः मात्राशब्दस्य मात्रादन्ने लक्षणा कार्या।तथा चक्रपाणिना दर्शितमपि।तेन ‘मात्रां भोक्तुम्’ इत्यस्य अर्थः भवति मात्रावदन्नं भोक्तुम्।मात्रया भोक्तुम् इत्यत्र मात्राशब्दस्य मुख्यार्थः ग्राह्यः।न तत्र कापि आपत्तिः।
ननु मात्रा इति परिमाणार्थकः शब्दः।अतः मात्राशी स्यात् इत्यस्य अर्थः भवति, परिमाणेन खादेत्।केन परिमाणेन इति तु न उक्तम्।अत्रोच्यते- प्रकृते मात्रा नाम तादृशं परिमाणं येन अपायः न भवति।‘तावदेव च भोक्तव्यं सुखं यावद् विजीर्यते’ इत्यर्थः।
सूत्रस्थाने विविधाशितपीतीयाध्याये मुनिः चतुर्विधम् अन्नं वर्णयिष्यति-
विविधम् अशितं पीतं, लीढं खादितम् ,,,।च.सू.२८.३
अत्र अन्नस्य चत्वारः भेदाः उक्ताः।तेषु अशितस्य मात्रया सेवनं तावत् प्रकृतसूत्रे उपदिष्टम् - मात्राशी स्यात् इति। पीतस्य ,लीढस्य खादितस्य मात्रया भोजनं विवक्षितं न वा? यदि विवक्षितं तर्हि अत्र कुतो नोक्तम् इति विप्रतिपत्तौ ब्रूमः।
मात्राशी स्यात् इत्यत्र अशनशब्दे पीतस्य, लीढस्य, तथा खादितस्य अपि अन्तर्भावः विद्यते।अतः चतुर्णाम् अपि अन्नभेदानां मात्रया सेवनम् उपदिष्टम् इति बोध्यम्।
किमत्र प्रमाणम्?मुनिना कृताः अशिधातोः प्रयोगाः अत्र प्रमाणम्।लेहार्थे मुनिना अशिधातोः प्रयोगः कृतः-
एक-अभयां प्राश्य ततः च लेहात् शुक्तिं निहन्ति श्वयथुं प्रवृद्धम् ।- चि.अ.१२.५१
एवं पानार्थे अपि अशिधातोः प्रयोगः दृश्यते -
क्षीराशी तत् प्रयोजयेत् । चि.अ.१.३.५३
अतः प्रकृतसूत्रे अपि अशनशब्देन सर्वेषाम् आहारभेदानां ग्रहणं न दोषाय।किञ्च अग्रिम-सूत्रे मात्रायाः अग्निबलापेक्षत्वम् उक्तम्।तत्र अपि आहारमात्रा इति प्रयोगः अस्ति, न तु अशनमात्रा इति।अतः अस्मिन् सूत्रे विद्यमानः अशिः धातुः सर्वेषाम् आहारभेदानां समावेशकः अस्ति इति स्पष्टम्।
‘अशिः इयम् इह अविशेषेण खाद्य-प्राश्य-लेह्य-पेयानाम्-अभ्यवहारे वर्तते।‘
इति चक्रपाणिः अत्र यद् वदति, तस्य शास्त्रीयपरिभाषया एवमर्थः भवति यद् अशिधातोः शक्तिः अविशेषेण खाद्यप्राश्यलेह्यपेयेषु अर्थेषु विद्यते।अस्याः शक्तेः ग्रहणं कथं भवति? तत्र चक्रपाणेः उत्तरम् अस्ति ‘आप्तोपदेशात्’ इति। स्वयमग्निवेशेन खाद्यादिषु अर्थेषु अशिधातोः प्रयोगः कृतः इति आप्तोपदेशः।तस्मात् अशिधातोः शक्तिः खाद्यप्राश्यलेह्यपेयेषु अर्थेषु विद्यते इति ज्ञायते।
अस्य शक्तिग्रहस्य अपरमेकं प्रमाणं चक्रपाणिः अग्रे उपस्थापयति-
‘इतः च अवगन्तव्यम् अशिः अयं सर्व-अभ्यवहारे वर्तते, येन एतद् विवरणं सामान्येन एव कृतम्- आहारमात्रा पुनः इति, न पुनः अशितमात्रा पुनः इति।‘
अग्रिमसूत्रे आहारमात्रा इति शब्दप्रयोगं मुनिः करोति।एतद् पूर्वसूत्रस्य विवरणस्वरूपम्।विवरणे अशिधातोः अर्थः आहारः इति कृतः अतः अपि अशिधातुः सर्वाभ्यवहारे वर्तते इति स्पष्टम्।यतो हि विवृतिः इत्यपि शक्तिग्रहोपायः अस्ति।
शक्तिग्रहोपायाः एवं सन्ति-
शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च।
वाक्यस्य शेषाद् विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः॥मुक्तावली शब्दखण्डः
पुनः इति अव्ययं व्यावर्तकम्।तेन कस्य कस्मात् व्यावर्तनं भवतीति वक्तव्यम्।तदुक्तं चक्रपाणिना आहारमात्रा भेषजमात्रातः, तथा व्यायाममात्रातः भिन्ना विचार्यते इति।
पुनः इति अव्ययस्य अपरमेकम् अर्थं ब्रूते चक्रपाणिः वारंवारम् इति।तेन ‘आहारमात्रा वारंवाम् अग्निबलम् अपेक्षते’ इति सूत्रार्थः भवति।नरस्य अग्निबलं सर्वषु ऋतुषु समानं नास्ति, सर्वासु वयोऽवस्थासु समानं नास्ति।अग्निबलं न्यूनाधिकं भवति, अतः पुनः पुनः आहारमात्रा अपि तदनुगुणं परिवर्तते।अतः पुनःशब्दस्य ‘वारंवारम्’ इति अर्थं स्वीकुर्मः चेत् वारंवारम् अग्निबलं परीक्ष्य आहारमात्रा निर्धारणीया इति अर्थः लभ्यते।
चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च