च.सू.५.३३-३६

विकिपुस्तकानि तः
Jump to navigation Jump to search

प्रयोगपाने तस्याष्टौ कालाः सम्परिकीर्तिताः॥३३
वातश्लेष्मसमुत्क्लेशः कालेष्वेषु हि लक्ष्यते।स्नात्वा भुक्त्वा समुल्लिख्य क्षुत्वा दन्तान्निघृष्य च।
नावनाञ्जननिद्रान्ते चात्मवान् धूमपो भवेत्।तथा वातकफात्मानो न भवन्त्यूर्ध्वजत्रुजाः॥३५
रोगास्तस्य तु पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः।३६

पदच्छेदः -
प्रयोगपाने तस्य अष्टौ कालाः सम्परिकीर्तिताः॥३३
वातश्लेष्मसमुत्क्लेशः कालेषु एषु हि लक्ष्यते। स्नात्वा भुक्त्वा समुल्लिख्य क्षुत्वा दन्तान् निघृष्य च।
नावन-अञ्जननिद्रान्ते च आत्मवान् धूमपः भवेत्। तथा वातकफात्मानः न भवन्ति उर्ध्वजत्रुजाः॥३५
रोगाः तस्य तु पेयाः स्युः आपानाः त्रिः त्रयः त्रयः ।३६

अन्वयः
तस्य प्रयोगपाने अष्टौ कालाः सम्परिकीर्तिताः,हि एषु कालेषु वातश्लेष्मसमुत्क्लेशः लक्ष्यते। आत्मवान् (नरः) स्नात्वा, भुक्त्वा, समुल्लिख्य, क्षुत्वा, दन्तान् निघृष्य च नावन-अञ्जन-निद्रा-अन्ते च धूमपः भवेत्।तथा तस्य वातकफात्मानः उर्ध्वजत्रुजाः रोगाः न भवन्ति ॥३५ आपानाः तु त्रिः त्रयः त्रयः पेयाः स्युः।३६

सरलार्थः
प्रायोगिकधूमपानसय अष्टौ कालाः उक्ताः।यतो हि एषु कालेषु वातश्लेष्मसमुत्क्लेशः दृश्यते। आत्मवान् (नरः) १स्नात्वा, २भुक्त्वा, ३समुल्लिख्य, ४क्षुत्वा, ५दन्तान् निघृष्य, ६नावनस्य अन्ते, ७अञ्जनस्य अन्ते, ८निद्रायाः अन्ते च धूमं पिबेत्।तथा तस्य वातकफजन्याः उर्ध्वजत्रुजाः रोगाः न भवन्ति ॥३५ प्रतिवारं त्रिधा धूमाभ्यवहारमोक्षाः इति त्रिवारं धूमपानं कार्यम्।३६

आयुर्वेददीपिका
धूमपानकालं दर्शयति- प्रयोग इत्यादि। प्रयोगपाने प्रायोगिकधूमपाने एते अष्टौ कालाः, स्नैहिकपाने तु वातवृद्धि- उपलक्षितः कालः, वैरेचनिकपाने तु श्लेष्मवृद्धि-उपलक्षितः मन्तव्यः। प्रायोगिकः एव प्रायः स्वस्थवृत्त-अधिकारे, तेन तत्-कालः एव कण्ठरवेण अभिधीयते; यदि वा प्रयोगपाने सततपाने स्वस्थ-अधिकार इति यावत्; तेन धूमत्रयस्य अपि एते कालाः भवन्ति। वातकफात्मशब्देन वातात्मानः कफात्मानः वातकफात्मानः च गृह्यन्ते। पेयाः स्युः इत्यादौ आपानाः धूम-अभ्यवहारमोक्षाः; एकैकस्मिन् स्नानादिधूमपानकाले त्रिः इति आवृत्तित्रयं कर्तव्याः; ते च आवृत्तित्रये अपि त्रिधा त्रिधा कर्तव्याः; एकैकस्मिन् धूमपानकाले नव धूम-अभ्यवहारमोक्षाः कर्तव्याः; त्रीन् त्रीन् अभ्यवहारान् कृत्वा विश्रामः अन्तरा कर्तव्यः इत्यर्थः॥३३-३५

अरुन्धती पद्धतिः
कोऽस्य ग्रन्थस्य प्रतिपाद्यः विषयः?
धूमपानस्य कालाः।
कस्य धूमपानस्य कालाः?
प्रायोगिकधूमपानस्य कालाः।
एवं तर्हि स्नैहिकस्य वैरेचनिकस्य वा धूमपानस्य कालाः के?
ते स्वयमूह्याः।
कथमूह्याः?
स्नैहिकपाने तु वातवृद्धि- उपलक्षितः कालः, वैरेचनिकपाने तु श्लेष्मवृद्धि-उपलक्षितः मन्तव्यः।- चक्रपाणिः
परं मुनिना यथा प्रायोगिकस्य धूमपानस्य कालाः स्पष्टमुक्ताः, तथा स्नैहिकस्य वैरेचनिकस्य च कालाः किमर्थं नोक्ताः?
प्रायोगिकः एव प्रायः स्वस्थवृत्त-अधिकारे, तेन तत्-कालः एव कण्ठरवेण अभिधीयते- चक्रपाणिः
अथवा स्नैहिकस्य वैरेचनिकस्य वा धूमपानस्य कालाः के इति प्रश्नस्य अपरथा अपि उत्तरं वक्तुं शक्यते।
किं तदुत्तरम्?
ये के अष्टौ कालाः अत्र धूमपानस्य उक्ताः, ते प्रायोगिकस्य अपि, स्नैहिकस्य अपि, वैरेचनिकस्य अपि धूमपानस्य मन्तव्याः।प्रायोगिकं धूमपानं स्वस्थाधिकारे अस्ति, अतः स्वस्थेन तावत् प्रतिदिनम् एतेषु कालेषु द्वयोः कालयोः धूमपानं कार्यम्।स्नैहिकं धूमपानं न प्रतिदिनं भवति। यदा भवति, तदा एतेषु एव अष्टसु कालेषु कश्चन एकः कालः चेतव्यः।वैरेचनिकं धूमपानमपि न प्रतिदिनं भवति।यदा भवति, तदा एतेषु उक्तेषु कालेषु त्रयः अथवा चत्वारः कालाः तदर्थं चेतव्याः।तदेव सङ्क्षेपेण उक्तं चक्रपाणिना-
यदि वा प्रयोगपाने सततपाने स्वस्थ-अधिकार इति यावत्; तेन धूमत्रयस्य अपि एते कालाः भवन्ति।-चक्रपाणिः
सूत्रे ‘वातकफात्मानः’ इति एकं रोगविशेषणं पठितम्।कः तस्य अर्थः?
ब्रूमः। वातः च कफः वातकफौ।द्वन्द्वसमासः एषः।वातकफौ आत्मानौ येषां ते वातकफात्मानः। आत्मशब्दः अत्र स्वरूपवाचकः।वातकफौ स्वरूपभूतौ येषां ते रोगाः वातकफात्मानः इत्यर्थः।आत्मपदं द्वन्द्वसमासस्य अन्ते विद्यते।अतः -
द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते।
इति नियमम् अनुसृत्य तस्य अन्वयः वातेन सह कफेन सह च कार्यः।स एवम् -
वातकफात्मशब्देन वातात्मानः कफात्मानः वातकफात्मानः च गृह्यन्ते।-चक्रपाणिः
‘पेयाः स्युः आपानाः’ इति सूत्रे उक्तम्।पाधातुना च गलाधःकरणं बोध्यते।अतः सन्देहः भवति यत् यथा जलपाने जलं गलस्य अधः क्रियते तथा धूमः अपि गलाधःकरणीयः वा?
नेति ब्रूमः।प्रकृते आपानशब्देन धूमस्य स्वीकारः मोक्षः चेति उभयं विवक्षितम्।
पेयाः स्युः इत्यादौ आपानाः धूम-अभ्यवहारमोक्षाः…।-चक्रपाणिः
परं पाधातोः अभ्यवहारमोक्षः इति अर्थः कथमुच्यते?
जहदजहल्लक्षणया।पानशब्दस्य नासया आस्येन वा अभ्यवहारः तथा गलाधःकरणम् इति मुख्यः अर्थः। तत्र गलाधःकरणम् इति अंशः त्यज्यते, मोक्षः इति अर्थः स्वीक्रियते च।
गलाधःकरणम् इति अंशः कुतः त्यज्यते?
बाधितत्वात्।
मुखेन घ्राणपो वमेत्।च.सू.५.४७
इति धूम-वमनपरवचनेन गलाधःकरणम् इति अर्थः बाधितः।अतः पानशब्दस्य ‘अभ्यवहारपूर्वकः मोक्षः’ इति लक्ष्यार्थः स्वीकृतः।
‘पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः’ इति वचने उपदिष्टः प्रयोगविधिः एवम्-
प्रथमवारं त्रयः अभ्यवहारमोक्षाः। ततः ईषद्विरामः।
ततः द्वितीयवारं त्रयः अभ्यवहारमोक्षाः। ततः ईषद्विरामः।
ततः तृतीयवारं त्रयः अभ्यवहारमोक्षाः।
एवम् एकस्मिन् धूमपानकाले नव अभ्यवहारमोक्षाः भवन्ति।त्रिवारं त्रयः त्रयः आपानाः इति अर्थः।
त्रिवारम् इति एषः अर्थः कथं निष्पन्नः?
त्रिः इति पदात्।
द्वित्रिचतुर्भ्यः सुच्।अष्टा.५.४.१८
अनेन सूत्रेण त्रिशब्दात् ‘क्रियाभ्यावृत्तिः’ इति अर्थेन सुच् प्रत्ययः विहितः।ततः त्रिः इति पदं निष्पन्नम्।तस्य अर्थः ‘त्रिवारम्’।

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.३३-३६&oldid=6885" इत्यस्माद् प्रतिप्राप्तम्