च.सू.५.३६-४०

विकिपुस्तकानि तः
Jump to navigation Jump to search

परं द्विकालपायी स्यादह्नः कालेषु बुद्धिमान्॥३६
प्रयोगे, स्नैहिके त्वेकं, वैरेच्यं त्रिचतुः पिबेत्।हृत्कण्ठेन्द्रियसंशुद्धिर्लघुत्वं शिरसः शमः॥३७
यथेरितानां दोषाणां सम्यक्पीतस्य लक्षणम्।३८

पदच्छेदः -
परं द्विकालपायी स्यात् अह्नः कालेषु बुद्धिमान्॥३६
प्रयोगे, स्नैहिके तु एकं, वैरेच्यं त्रिचतुः पिबेत्।हृत्-कण्ठ- इन्द्रियसंशुद्धिः लघुत्वं शिरसः शमः॥३७
यथा-ईरितानां दोषाणां सम्यक् पीतस्य लक्षणम्।३८

अन्वयः -
बुद्धिमान् (नरः) प्रयोगे अह्नः कालेषु द्विकालपायी परं स्यात्, स्नैहिके तु एकं पिबेत्, वैरेच्यं त्रिचतुः पिबेत्।
हृत्-कण्ठ- इन्द्रियसंशुद्धिः, शिरसः लघुत्वं , यथेरितानां दोषाणां शमः (इति एतत्) सम्यक् पीतस्य लक्षणम्।३८

सरलार्थः -
बुद्धिमान् (नरः) प्रयोगधूमार्थं दिने द्वयोः कालयोः धूमं पिबेत्। कालेषु द्विकालपायी परं स्यात्, स्नैहिकधूमार्थं तु दिने एकस्मिन् समये धूमं पिबेत्।वैरेचनिकधूमार्थं दिने त्रिषु अथवा चतुर्षु कालेषु धूमं पिबेत्।हृदयशुद्धिः, कण्ठशुद्धिः, इन्द्रियसंशुद्धिः, शिरसः लघुत्वं , विलायितानां दोषाणां शमः (इति एतत्) सम्यक् पीतस्य धूमस्य लक्षणम्।३८

आयुर्वेददीपिका
अष्टसु कालेषु एकस्मिन् एकस्मिन् दिवसे यस्मिन् धूमे यावान् यावान् पानकालनियमः तं दर्शयति- परम् इत्यादि। कालेषु स्नात्वा इत्यादिकालेषु। प्रयोगे प्रायोगिकधूमे। स्नैहिके तु एकमिति स्नैहिकधूमे एकम् एव कालं व्याप्य धूमं पिबेत् इति योज्यम्। त्रिचतुः इति वैरेच्ये दोषबल-अपेक्षो विकल्पः॥

अरुन्धती पद्धतिः
प्रतिदिनं धूमपानोचिताः अष्टौ कालाः उपरि उक्ताः।किं तेषु सर्वेषु कालेषु नव अभ्यवहार-मोक्षाः कर्तव्याः?
नेत्याह।एकस्मिन् दिवसे कस्य धूमप्रकारस्य कति अभ्यवहारमोक्षाः कर्तव्याः तदस्मिन् सूत्रे उच्यते।तदेवम्-

वचनम् धूमप्रकारः दिवसे पानकालाः प्रतिपानम् अभ्यवहारमोक्षाः दिवसे आहत्य अभ्यवहारमोक्षाः
द्विकालपायी..प्रयोगे प्रायोगिकः २×९= १८
स्नैहिके तु एकम् स्नैहिकः १×९= ०९
वैरेच्यं त्रिचतुः... वैरेचनिकः ३ अथवा

३×९=२७ अथवा ४×९=३६

‘स्नैहिके तु एकं… पिबेत्’ इति सूत्रम्।कथमत्र अन्वयः भवति? ‘एकस्मिन् काले’ इति अर्थः विवक्षितः।अतः एकशब्दात् सप्तमी विभक्तिः भवेत्।अत्र तु ‘एकं कालम्’ इति द्वितीया दृश्यते कथम्?
सत्यं, सप्तमी विभक्तिः भवेदिति।तथापि द्वितीया विभक्तिः अपि न दुष्यति।कालेन सह क्रियायाः अत्यन्तं संयोगः विवक्षितः चेद् कालवाचकशब्दात् द्वितीया विभक्तिः भवति।
कालाध्वनोरत्यन्तसंयोगे। - अष्टाध्यायी२.३.५
अत्र ‘स्नैहिकधूमपानक्रिया’ तथा ‘एकः कालः’ इति अनयोः अत्यन्तं संयोगः विवक्षितः, अतः ‘एकं कालम्’ इति द्वितीया विभक्तिः समुचिता एव।एतम् अत्यन्तसंयोगं मनसि कृत्वा एव व्याप्यशब्देन चक्रपाणिः द्वितीयाविभक्तिं स्पष्टीकरोति-
स्नैहिके तु एकमिति स्नैहिकधूमे एकम् एव कालं व्याप्य धूमं पिबेत् इति योज्यम्।-चक्रपाणिः
पूर्वतनसूत्रे ‘त्रिः पिबेत्’ इति वाक्यम् आसीत्।तत्र ‘त्रिः’ इति पदं सुच्प्रत्ययान्तम् इति दर्शितम्। अत्र ‘त्रिचतुः’ इति पदमपि तेनैव व्याकरणसूत्रेण सुचप्रत्ययान्तम् अवगन्तव्यम्।
‘वैरेच्यं त्रिचतुः पिबेत्’ इति सूत्रकारः।अनेन सन्देहः जायते यद् ‘वैरेच्यं त्रिवारं पिबेत् अथवा चतुर्वारम्’ ?
उभयमपि शास्त्रेणोक्तम् अतः विकल्पः मन्तव्यः।
किमयं विकल्पः ऐच्छिकः भवतु अथवा व्यवस्थितः?
व्यवस्थितः भवतु।
कथं भवेत् व्यवस्थितिः ?
दोषबलं न्यूनं चेत् त्रिवारं पिबेत्।दोषबलमधिकं चेत् चतुर्वारं पिबेत्।तदुक्तं चक्रपाणिना -
त्रिचतुः इति वैरेच्ये दोषबल-अपेक्षो विकल्पः॥चक्रपाणिः

बाधिर्यमान्ध्यमूकत्वं रक्तपित्तं शिरोभ्रमम्॥३८
अकाले चातिपीतश्च धूमः कुर्यादुपद्रवान्।तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम्॥३९
स्नैहिकं धूमजे दोषे वायुः पित्तानुगो यदि।शीतं तु रक्तपित्ते स्याच्छ्लेष्मपित्ते विरूक्षणम्॥४०

पदच्छेदः -
बाधिर्यम् आन्ध्य-मूकत्वं रक्तपित्तं शिरोभ्रमम्।३८
अकाले च अतिपीतः च धूमः कुर्यात् उपद्रवान्। तत्र इष्टं सर्पिषः पानं नावन-अञ्जनतर्पणम्॥३९
स्नैहिकं धूमजे दोषे वायुः पित्तानुगो यदि। शीतं तु रक्तपित्ते स्यात् श्लेष्मपित्ते विरूक्षणम्॥४०

अन्वयः -
धूमः अकाले च अतिपीतः बाधिर्यम्, आन्ध्य-मूकत्वं, रक्तपित्तं, शिरोभ्रमं च (एतान्) उपद्रवान् कुर्यात्।तत्र सर्पिषः पानम् इष्टम्।धूमजे दोषे यदि वायुः पित्तानुगः तर्हि तत्र स्नैहिकं नावन-अञ्जनतर्पणं स्यात् ।रक्तपित्ते तु शीतं नावन-अञ्जनतर्पणं स्यात् श्लेष्मपित्ते विरूक्षणं नावन-अञ्जनतर्पणं स्यात् ॥

सरलार्थः -
धूमः यदि अकाले पीतः अथवा अतिमात्रं पीतः, तर्हि सः बाधिर्यम्, आन्ध्यं, मूकत्वं, रक्तपित्तं, शिरोभ्रमं च करोति।तत्र घृतपानम् इष्टम्।धूमजे दोषे यदि वायुः पित्तानुगः भवति, तर्हि तत्र स्नैहिकं नावनं, स्नैहिकम् अञ्जनं, स्नैहिकं तर्पणं च करणीयम्।रक्तपित्ते तु शीतं नावनं,शीतम् अञ्जनं, शीतं तर्पणं च कार्यम्।श्लेष्मपित्ते विरूक्षणं नावनं, विरूक्षणम् अञ्जनं,तथा विरूक्षणं तर्पणं कार्यम् ॥

आयुर्वेददीपिका
बाधिर्य-इत्यादि। धूमजे इति अविधिप्रयुक्तधूमकृते यदि वायुः पित्तानुगः वृद्धः तदा नावन-अञ्जनतर्पणं स्नैहिकं स्नेहकृतं कर्तव्यं, शीतं शीतद्रव्यकृतं कर्तव्यं नावनादि एव, विरूक्षणम् अपि नावनादि एव॥३८-४०

अरुन्धती पद्धतिः
सूत्रे धूमजे दोषे इति शब्दप्रयोगः अस्ति।धूमजपदस्य अर्थं चक्रपाणिः वदति-
धूमजे इति अविधिप्रयुक्तधूमकृते ...।चक्रपाणिः
कथमेषः अर्थः कृतः? धूमात् जायते सः धूमजः इति अर्थकरणमुचितं स्यात्।
नैवम्।न हि सम्यक्पीतात् धूमात् कश्चिद् दोषः उत्पद्यते।अतः ‘धूमात् जायते’ इति धूमजशब्दस्य मुख्यः अर्थः बाधितः।मुख्यार्थे बाधिते सति लक्षणा कार्या।चक्रपाणिना तदेव कृतम्। ‘अविधिप्रयुक्तधूमकृतः’ इति धूमजशब्दस्य लक्ष्यार्थः।

अविधिप्रयुक्तधूमकृतः दोषः चिकित्सा
वायुः पित्तानुगः स्नैहिकं नावन-अञ्जन-तर्पणम्
रक्तं पित्तं च शीतं नावन-अञ्जन-तर्पणम्
श्लेष्मा पित्तं च विरूक्षणं नावन-अञ्जन-तर्पणम्

चक्रपाणिः शीतपदस्य विरूक्षणपदस्य च अन्वयं ‘नावनाञ्जनतर्पणम्’ इति पदेन सह करोति-
शीतं शीतद्रव्यकृतं कर्तव्यं नावनादि एव, विरूक्षणम् अपि नावनादि एव॥-चक्रपाणिः
नैतदुचितम्।
कुतः?
तादृशमन्वयं विनापि अर्थबोधः भवति अतः न कार्यः दूरान्वयः।
कः अर्थबोधः भवति?
रक्तपित्ते शीतं कर्तव्यम्, श्लेष्मपित्ते विरूक्षणं कर्तव्यम् इति अर्थः बुद्ध्यते।
नायं परिपूर्णः अर्थः।शीतं च विरूक्षणं चेति द्वे अपि विशेषणे।तयोः विशेष्याकाङ्क्षा अस्ति।सा न पूर्यते चेत् परिपूर्णः अर्थः अपि न बुद्ध्यते। तर्हि शीतं चिकित्सितं तथा विरूक्षणं चिकित्सितम् इति विशेष्ये अध्याहार्ये।
अहो आयासः! अर्के चेन्मधु विन्देत, किमर्थं पर्वतं व्रजेत्? द्वारस्थे अर्कक्षुपे एव मधु यदि लभ्यते तर्हि कोऽपि जनः मधुलाभार्थं किमर्थं पर्वतं प्रति गच्छेत्? पूर्वतने सूत्रे यदि समर्थं विशेष्यं लभ्यते तर्हि अनुपस्थितस्य कस्यचित् विशेष्यस्य अध्याहारे प्रयासः किमर्थं कार्यः? तस्मात् चक्रपाणिना कृतः अन्वयः उचितः एव।

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.३६-४०&oldid=6886" इत्यस्माद् प्रतिप्राप्तम्