च.सू.५.४

विकिपुस्तकानि तः
Jump to navigation Jump to search

यावद्ध्यस्याशनमशितमनुपहत्य प्रकृतिं यथाकालं जरां गच्छति तावदस्य मात्राप्रमाणं वेदितव्यं भवति॥४

पदच्छेदः -
यावत् हि अस्य अशनम् अशितम् अनुपहत्य प्रकृतिं यथाकालं जरां गच्छति तावत् अस्य मात्राप्रमाणं वेदितव्यं भवति॥४

अन्वयः -
यावत् हि अस्य (पुरुषस्य) अशनम् अशितम् अनुपहत्य प्रकृतिं यथाकालं जरां गच्छति तावत् अस्य ( फुरुषस्य) मात्राप्रमाणं वेदितव्यं भवति॥४

सरलार्थः-
पुरुषस्य यावन्मात्रं भोजनं यथाकालं पक्वं भवति, पचनकाले च कामपि विकृतिं न करोति, तावत् तस्य पुरुषस्य आहार-मात्रायाः प्रमाणम् इति ज्ञेयम्।

आयुर्वेददीपिका
अग्निबल-अपेक्षित्वम् एव विवृणोति- यावत् हि इत्यादि। यावत् इति यावत्-परिमाणम्। हिशब्दः हेतौ। अस्य इति भोक्तुः। अशनं चतुर्विधम् अपि भोज्यम्। अशितं भुक्तम्। प्रकृतिं वात-आदीनां रस-आदीनां च साम्य-अवस्थाम्। अनुपहत्य विकारम् अकृत्वा इति अर्थः । यथाकालम् इति निशाशेषे। तावत् इति पूर्वप्रमाण-अवच्छिन्नम् अशनं प्रति-अवमृशति। द्वितीयम् अस्य इति ग्रहणम् अन्यत्र प्रतिषेधार्थम्। तेन यस्य एव यावती मात्रा निर्विकारा, तस्य एव सा मन्तव्या न अन्येषां, प्रतिपुरुषम् अग्निबलस्य भिन्नत्वात्। यदि अपि च एकस्मिन् अपि पुरुषे काल-आदिभेदेन अग्निबलभेदः भवति, तथा अपि एकपुरुषे एकमात्राम् अवधार्य कियन्तम् अपि कालं तया एव मात्रया अग्निबलभेदहेतु-अभावे सति व्यवहारः भवति एव। मात्राप्रमाणं मात्रेयत्ता; मात्राप्रमाणशब्देन च इह मात्राप्रमाणवत् इति बोद्धव्यम्; अन्यथा, तावत्-शब्देन अवच्छिन्न-अशनवाचिना मात्राप्रमाणशब्दस्य गुणवाचिनः सामानाधिकरण्यं न स्यात्। ननु, प्रकृतिम् अनुपहत्य इति न कर्तव्यं विशेषणं, न हि आहारः यः यथाकालं जरां याति स मात्रादोषाद् विकारं करोति, करोति तु द्रव्यस्वभावसंस्कार-आदिदोषात्; यथा मन्दक-लकुच-आदयः यथाकालं जरां गच्छन्तः अपि दोषजनकाः भवन्ति एव; न तावता अपि तत्र मात्रा दुष्यति, यथा वक्ष्यति त्रिविधकुक्षीये- “न च केवलं मात्रावत्त्वात् एव आहारस्य कृत्स्नम् आहारफलसौष्ठवम् अवाप्तुं शक्यं, प्रकृति-आदीनाम् अष्टानाम् आहारविधिविशेष-आयतनानां भिन्नफलत्वात्” (वि.अ.२) इति। न एवं , द्विविधा हि मात्रा रसविमाने वक्तव्या- सर्वग्रहरूपा, परिग्रहरूपा च; तत्र समुदितस्य आहारस्य परिमाणं सर्वग्रहः, मधुर-अम्ल-आदीनाम् आहार-अवयवानां प्रत्येकं मात्रया ग्रहणं परिग्रहः; तेन यत्र आहारसमुदायपरिमाणं समुचितम् एव गृह्यते, आहार-अवयवानां तु मधुर-आदीनां स्वभावहितानाम् अपि अयथोक्तमानं स्यात्, तत्र आहार-अवयव-मात्रावैषम्यात् धातुवैषम्यं भवति एव्, अयथाकालं जरागमनं च स्यात्; तत् उक्तं- प्रकृतिम् अनुपहत्य इति विशेषणम्। अन्ये तु व्याख्यानयन्ति- ‘अस्य’ इति, ‘अशनम्’ इति, अशितम् इति च पदत्रयं प्रकरणात् एव लभ्यते; यत् पुनः क्रियते तद् विशेषप्रतिपादनार्थम्। तेन, अस्य इति अनेन परीक्षको भोक्ता अधिक्रियते, अशनम् इति अनेन च प्रशस्तम् अशनं प्रकृति-करण-संयोग-देश-काल-अविरुद्धम् उच्यते, अशितम् इति अनेन च यथाविधिभोजनम् उच्यते; तत् एवं सर्वगुणसम्पन्नः आहारः मात्रावान् उच्यते॥४॥

अरुन्धती पद्धतिः
कोऽस्य सूत्रस्य प्रतिपाद्यविषयः? मात्रा अग्निबलमपेक्षते इति प्रतिज्ञा पूर्वतनसूत्रे कृता।तस्याः विवरणम् इदानीम् आरभ्यते अस्मिन् सूत्रे।
हि-शब्दस्य अर्थः यस्मात्।अस्य इति सर्वनाम।सर्वनाम केनचित् नाम्ना सम्बद्धम् अस्ति।अत्र ‘अस्य’ इति सर्वनाम्ना कस्य नाम्नः परामर्थः भवति? भोक्तुः।
‘अशनं’ तथा ‘अशितम्’ इति उभौ अपि समानार्थकौ शब्दौ।कथं तयोः एकत्र प्रयोगः कृतः? नैवम्। उभयोः अर्थः अत्र भिन्नः विवक्षितः।‘अशनम्’ इति अन्नम्।द्रव्यं तत्।‘अशितम्’ इति भोजनस्य क्रिया। अतः तौ समानार्थकौ न।
अत्र प्रकृतिशब्दः वातलादिप्रकृतिवाचकः न।प्रकृतिः इति अत्र दोषाणां धातूनां च साम्यावस्था अभिप्रेता।अतः प्रकृतिः अत्र स्वास्थ्यपर्यायः।‘प्रकृतिमनुपहत्य’ इत्यस्य ‘स्वास्थ्यम् अनुपहत्य’ इत्यर्थः बोध्यः।अनुपहत्य इत्युक्ते उपघातम् अकृत्वा।स्वास्थ्यस्य उपघातम् अकृत्वा यावद् अन्नं जीर्यते, तावती अन्नस्य मात्रा इति सकलार्थः।
यथाकालम् इति निशाशेषे इति चक्रपाणिः ब्रूते।निशाशेषे इति ब्राह्ममुहूर्ते।यतो हि ह्यस्तनः आहारः जीर्णः वा न जीर्णः वा इति परीक्षा ब्राह्ममुहूर्ते करणीया भवति -
ब्राह्मे मुहूर्त उत्तिष्टेत् जीर्णाजीर्णं निरूपयन्।अ.सं.सू.३.१
‘यत्तदोर्नित्यसम्बन्धः’ इति नियमः।अतः सूत्रे यः ‘तावत्’ इति शब्दः अस्ति, तस्य सम्बन्धः ‘यावत्’ इति शब्देन योजनीयः।यावदन्नम् अशितं, तावदन्नम् इत्यर्थः।
सूत्रे अस्य इति पदं द्विवारं पठितम्-
यावत् हि अस्य (पुरुषस्य) अशनम् अशितम् ...तावत् अस्य ( फुरुषस्य) मात्राप्रमाणम्.. इति
किमयं पुनरुक्तदोषः?
न ।अस्ति द्विरुक्तौ कश्चन अभिप्रायः सूत्रकारस्य।प्रत्येकं जनस्य आहारमात्रा भिन्ना।अतः ‘यस्य यावता परिमाणेन भुक्तम् अन्नम् अनपायि, तस्य एव तावती एव आहारमात्रा इति अभिप्रायः।एकस्य या आहारमात्रा सा अपरस्य भवेदेव इति न।अतः एतम् अभिप्रायं प्रकटयितुं द्विवारम् अस्य इति पदं पठितम्।
अहो! वृथायं प्रयासः ‘प्रत्येकं जनस्य आहारमात्रा केवलं तस्य एव अस्ति’ इति दर्शयितुम्। यतो हि एकस्य भोक्तुः अपि आहारमात्रा स्थिरा कुत्र अस्ति? सा ऋतौ ऋतौ भिद्यते, वयोऽवस्थानुसारं च भिद्यते।एवं चेत् ‘एकस्य आहारमात्रा तस्य एव नियता भवति’ इति साधयितुं योऽयं द्विरुक्तेः आयासः कृतः, सः व्यर्थः एव।
नैवम्।एकस्य भोक्तुः आहारमात्रा ऋतौ ऋतौ अग्निबलानुसारं भिद्यते इति सत्यं, तथापि एकम् ऋतुम् अभिव्याप्य सा मात्रा स्थिरा भवति।अन्यस्मिन् ऋतौ परिवर्तेत।एकस्मिन् ऋतौ अग्निबलं स्थिरं भवति।क्वचित् अग्निबले भेदः केनचित् ऋतुभिन्नेन कारणेन सम्भवति। तदन्यत्।परं तत्तदृतुनियतम् अग्निबलं तस्मिन् तस्मिन् ऋतौ स्थिरं भवति।तस्मिन् ऋतौ, पूर्णं ऋतुमभिव्याप्य आहारमात्रा अपि स्थिरा भवति।अतः द्विवारम् अस्य इति पदं पठित्वा एकस्य एव भोक्तुः आहारमात्रा निर्धारिता इति उचितमेव।
ननु सूत्रस्य अन्वयः एवं भवति -
यावत् हि अस्य (पुरुषस्य) अन्नम् अशितम् तावत् अस्य ( फुरुषस्य) मात्राप्रमाणं वेदितव्यं भवति।
अत्र यावत्-शब्देन भुक्तस्य अन्नस्य परामर्शः भवति।अतः स्वाभाविकतया तावत्-शब्दः अपि भुक्तस्य अन्नस्य वाचकः भवति।परम् अग्रे ‘तावद् अन्नम् अस्य मात्राप्रमाणम्’ इति वचनमस्ति।तस्य अर्थस्य बाधः भवति।यतो हि अन्नं द्रव्यरूपम्।मात्रा इति परिमाणगुणः।तयोः समानाधिकरणता न सम्भवति ‘तावद् अन्नं नाम आहारमात्रा ’ इति।
एवं ‘तावद् अन्नं नाम मात्रा ’ इति वचने मात्राशब्दस्य ‘परिमाणम्’ इति मुख्यार्थः गृहीतः चेत् वाक्यस्य तात्पर्यं न ज्ञायते।अतः मात्रापदस्य मात्रावदन्ने लक्षणा करणीया।तेन ‘तावद् अन्नं नाम मात्रावद् अन्नम् ’ इति वाक्यं भवति।अस्य वाक्यस्य तात्पर्यं बुद्ध्यते।

वाक्यम् मात्राशब्दस्य मुख्यार्थः तात्पर्यानुपपत्तिः मात्राशब्दस्य लक्ष्यार्थः तात्पर्यार्थः
तावद् अन्नं (द्रव्यम्) नाम मात्रा परिमाणम् (गुणः) द्रव्यम् =गुणः मात्रावद् अन्नम् तावद् अन्नं नाम मात्रावद् अन्नम्

अन्योऽपि कश्चन आक्षेपः अत्र क्रियते।सूत्रे ‘प्रकृतिमनुपहत्य’ इति मात्रालक्षणे उक्तम्।तद् अनुचितम्।यतो हि प्रकृतेः उपघातः मात्रादोषादेव भवति इति न।मात्रा उचिता अस्ति तथापि द्रव्यस्वभावः, संस्कारः, संयोगः इति एतेषु आहारविधिविशेषायतनेषु क्वचिद् दोषः अस्ति चेदपि प्रकृति-उपघातः सम्भवति।एतच्च स्वयं मुनिना अपि प्रतिपादितम् -
“न च केवलं मात्रावत्त्वात् एव आहारस्य कृत्स्नम् आहारफलसौष्ठवम् अवाप्तुं शक्यं, प्रकृति-आदीनाम् अष्टानाम् आहारविधिविशेष-आयतनानां भिन्नफलत्वात्” (वि.अ.२) इति।
एवं यदा आहारे मात्रावत्त्वम् अस्ति परं स्वभावसंस्कारादिदोषात् प्रकृति-उपघातः भवति तदा मात्रालक्षणं तस्मिन् आहारे न घटते।एषः अव्याप्तिदोषः मात्रालक्षणस्य।तस्मात् मात्रालक्षणात् ‘प्रकृतिम् अनुपहत्य’ इति एतावान् अंशः निराकरणीयः।
अव्याप्तिदोषः

लक्षणम् प्रकृत्यनुपघातकत्वे सति परिमाणत्वम्
लक्ष्यम् मात्रा (स्वभावादिदोष-सहिता स्वभावादिदोष-रहिता च )
लक्ष्यैकदेशः स्वभावादिदोष-सहिता मात्रा
लक्ष्यैकदेशे अवृत्तित्वम् स्वभावादिदोष-सहितमात्रायां प्रकृत्यनुपघातकत्वं नास्ति।(प्रकृत्युपघातकत्वम् अस्ति)

चक्रपाणिना अयमाक्षेपः उद्धृतः, तस्य उत्तरमपि उक्तं ‘नैवम्’ इत्यादिवचनैः। मात्रादोषात् प्रकृत्युपघातः भवति, तथा स्वभावसंस्कारादिदोषादपि प्रकृत्युपघातः सम्भवति इति सत्यम्। तथापि स्वभावसंस्कारादीनां दोषः अवयवमात्रादोषः इति व्यवस्थाप्यते।मात्रा द्विविधा सर्वग्रहमात्रा प्रतिग्रहमात्रा च।समग्रस्य आहारस्य मात्रा सर्वग्रहमात्रा।तस्यां दोषः भवति चेत् प्रकृत्युपघातः भवति एव।यदि तस्यां दोषः न भवति परं स्वभावादिषु अन्येषु आहारविधि-विशेषायतनेषु दोषः भवति, तर्हि सः प्रतिग्रहमात्रादोषः मन्तव्यः।अतः तेन प्रकृत्युपघातः भवति चेत् मात्रालक्षणस्य अव्याप्तिदोषः न भवति।सर्वग्रहमात्रा तथा प्रतिग्रहमात्रा उभयोः पालनं भवति चेदेव ‘अनुपहत्य प्रकृतिम्’ इति फलं भवति।उभयोः एकस्याः अपि अतिक्रमः भवति चेत् प्रकृत्युपघातः भवति।तत्र उभयोः कस्याश्चित् मात्रातिक्रमः अस्ति अतः मात्रालक्षणं तत्र नैव घटते।न सा मात्रालक्षणस्य अव्याप्तिः।
अव्याप्तिदोषपरिहारः

लक्षणम् प्रकृत्यनुपघातकत्वे सति परिमाणत्वम्
लक्ष्यम् मात्रा (सर्वग्रह-परिग्रहोभयस्वरूपा)
अलक्ष्यम् स्वभावादिदोष-सहिता मात्रा (केवलं सर्वग्रहमात्रा।परिग्रहमात्राभावात्)
अलक्ष्ये अवृत्तित्वम् (न दोषः) स्वभावादिदोष-सहितमात्रायां प्रकृत्यनुपघातकत्वं नास्ति।(प्रकृत्युपघातकत्वम् अस्ति)

आहारः मात्रावान् अस्ति तथापि अन्येषां स्वभावसंस्कारादीनाम् आहारविधि-विशेषायतनानाम् अतिक्रमः भवति, तदा प्रकृत्युपघातः भवति।किमर्थं तर्हि मात्रालक्षणे ‘अनुपहत्य प्रकृतिम्’ इति अंशः समावेशनीयः? इति आक्षेपस्य एकमुत्तरं दत्तं यत् अन्येषां स्वभावसंस्कारादीनाम् आहारविधि-विशेषायतनानाम् अतिक्रमः अपि प्रतिग्रहमात्रायाः अतिक्रमः एव मन्तव्यः।अतः तादृशः आहारः ‘मात्रावान्’ इति नैव गणनीयः।सर्वग्रहमात्रावान् अपि सः प्रतिग्रहमात्राभाववान् अस्ति।अस्य आक्षेपस्य अपरमपि उत्तरं कैश्चित् दत्तम्।तत् चक्रपाणिना स्वटीकायाम् उद्धृतम् ‘अन्ये तु’ इत्यादिवचनैः।
अस्य द्वितीयस्य उत्तरस्य सारः एवं यत् मात्रालक्षणे अन्येषां स्वभावसंस्कारादीनाम् अपि पालनं मुनेः अभिप्रेतम् अस्ति।अतः आहारे मात्रातिक्रमः नास्ति, तथापि स्वभावसंस्कारादिषु दोषः भवति चेत् सः आहारः ‘मात्रावान्’ इति नैव मन्तव्यः।तादृशेन आहारेण प्रकृत्युपघातः भवति, तेन तत्र ‘अनुपहत्य प्रकृतिम्’ इति मात्रालक्षणं न घटते इति अपेक्षितमेव।
परं ‘मात्रालक्षणे अन्येषां स्वभावसंस्कारादीनाम् अपि पालनं मुनेः अभिप्रेतम् अस्ति’ इति कथमुच्यते?’ ब्रूमः।
सूत्रे अस्य अशनं तथा अशितम् इति त्रीणि पदानि विद्यन्ते।सूत्रे एतानि त्रीणि पदानि न भवन्ति चेदपि अर्थः सम्यक् ज्ञायते यथा -

यावद् हि अनुपहत्य प्रकृतिं यथाकालं जरां गच्छति तावद् मात्राप्रमाणं वेदितव्यं भवति॥४
किमर्थं तर्हि एतानि त्रीणि पदानि मुनिना सूत्रे निवेशितानि? अस्ति तेषां कश्चन विशेषः अभिप्रायः अतो निवेशितानि।कः विशेषाभिप्रायः तेषाम्? आहारविधिविशेषायतनानां समावेशः इति तेषां विशेषाभिप्रायः।स एवम् - अस्य इति अनेन पदेन भोक्ता उच्यते।अशनम् इति पदेन स्वभावः, संस्कारः,संयोगः, देशः कालः इति एतानि पञ्च आयतनानि बोद्ध्यन्ते।अशितम् इति पदेन उपयोगसंस्था इति एकम् विशेषायतनं कथ्यते।एवमनेन अन्यैः सप्तभिः आहारविधि-विशेषायतनैः सह विद्यमानम् अनपायि आहारपरिमाणं नाम मात्रा।

अव्याप्तिदोषः

लक्षणम् प्रकृत्यनुपघातकत्वे सति परिमाणत्वम्
लक्ष्यम् मात्रा
लक्ष्यैकदेशः स्वभावादिदोष-सहिता मात्रा
लक्ष्यैकदेशे अवृत्तित्वम् स्वभावादिदोष-सहितमात्रायां प्रकृत्यनुपघातकत्वं नास्ति।(प्रकृत्युपघातकत्वम् अस्ति)
अस्य (उपभोक्ता) +

अशनम् (स्वभावः, संस्कारः, संयोगः, देशः,कालः)+
अशितम् (उपयोगसंस्था)अन्यैः सप्तभिः आहारविधिविशेषायतनैः
सह विद्यमानम्

अनपायि आहारपरिमाणम् नाम मात्रा

अव्याप्तिदोषपरिहारः

लक्षणम् स्वभावादिदोषरहितत्वे सति प्रकृत्यनुपघातकत्वे सति परिमाणत्वम्
लक्ष्यम् मात्रा
अलक्ष्यम् स्वभावादिदोष-सहिता मात्रा
अलक्ष्ये अवृत्तित्वम् (न दोषः) स्वभावादिदोष-सहितमात्रायां स्वभावादिदोषरहितत्वं नास्ति।

उभयोः समाधानयोः एकत्र विमर्शः एवम् -

प्रकृत्यनुपघातकत्वे सति परिमाणत्वम् लक्षणम् स्वभावादिदोषरहितत्वे सति प्रकृत्यनुपघातकत्वे सति परिमाणत्वम्
मात्रा (सर्वग्रह-परिग्रहोभयस्वरूपा) लक्ष्यम् मात्रा (सर्वग्रहपरिग्रहान्यतररूपा)
स्वभावादिदोष-सहिता मात्रा (केवलं सर्वग्रहमात्रा परिग्रहमात्राभावात्) अलक्ष्यम् स्वभावादिदोष-सहिता मात्रा
स्वभावादिदोष-सहितमात्रायां प्रकृत्यनुपघातकत्वं नास्ति।(प्रकृत्युपघातकत्वम् अस्ति) अलक्ष्ये अवृत्तित्वम् (न दोषः) स्वभावादिदोष-सहितमात्रायां प्रकृत्यनुपघातकत्वं नास्ति।(प्रकृत्युपघातकत्वम् अस्ति)
चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.४&oldid=6871" इत्यस्माद् प्रतिप्राप्तम्