च.सू.५.४१-४६

विकिपुस्तकानि तः
Jump to navigation Jump to search

परं त्वतः प्रवक्ष्यामि धूमो येषां विगर्हितः।न विरिक्तः पिबेद्धूमं न कृते बस्तिकर्मणि॥४१
न रक्ती न विषेणार्तो न शोचन्न च गर्भिणी।न श्रमे न मदे नामे न पित्ते न प्रजागरे॥४२
न मूर्च्छाभ्रमतृष्णासु न क्षीणे नापि च क्षते।न मद्यदुग्धे पीत्वा च न स्नेहं न च माक्षिकम्॥४३
धूमं न भुक्त्वा दध्ना च न रूक्षः क्रुद्ध एव च।न तालुशोषे तिमिरे शिरस्यभिहिते न च॥४४
न शङ्खके न रोहिण्यां न मेहे न मदात्यये।एषु धूममकालेषु मोहात् पिबति यो नरः॥४५
रोगास्तस्य प्रवर्धन्ते दारुणा धूमविभ्रमात्।४६

पदच्छेदः -
परं तु अतः प्रवक्ष्यामि धूमः येषां विगर्हितः। न विरिक्तः पिबेत् धूमं न कृते बस्तिकर्मणि॥४१
न रक्ती न विषेण आर्तः न शोचन् न च गर्भिणी। न श्रमे न मदे न आमे न पित्ते न प्रजागरे॥४२
न मूर्च्छाभ्रमतृष्णासु न क्षीणे न अपि च क्षते। न मद्यदुग्धे पीत्वा च न स्नेहं न च माक्षिकम्॥४३
धूमं न भुक्त्वा दध्ना च न रूक्षः क्रुद्धः एव च। न तालुशोषे तिमिरे शिरसि अभिहिते न च॥४४
न शङ्खके न रोहिण्यां न मेहे न मदात्यये। एषु धूमम् अकालेषु मोहात् पिबति यः नरः॥४५
रोगाः तस्य प्रवर्धन्ते दारुणाः धूमविभ्रमात्।४६

अन्वयः -
अतः परं तु येषां धूमः विगर्हितः (तान्) प्रवक्ष्यामि।विरिक्तः धूमं न पिबेत् बस्तिकर्मणि कृते धूमं न पिबेत्।रक्ती धूमं न पिबेत् विषेण आर्तः धूमं न पिबेत्।शोचन् धूमं न पिबेत्। गर्भिणी च धूमं न पिबेत्। श्रमे धूमं न पिबेत् ।मदे धूमं न पिबेत् । आमे धूमं न पिबेत् ।पित्ते धूमं न पिबेत् । प्रजागरे धूमं न पिबेत् ।मूर्च्छाभ्रमतृष्णासु धूमं न पिबेत्। क्षीणे धूमं न पिबेत्।अपि च क्षते धूमं न पिबेत् ।मद्यदुग्धे पीत्वा च धूमं न पिबेत्।स्नेहं पीत्वा च धूमं न पिबेत्। माक्षिकम् पीत्वा धूमं न पिबेत्।दध्ना भुक्त्वा च धूमं न पिबेत्।रूक्षः धूमं न पिबेत्।क्रुद्धः धूमं न पिबेत् एव च।तालुशोषे धूमं न पिबेत्। तिमिरे धूमं न पिबेत्।शिरसि अभिहिते धूमं न पिबेत्। शङ्खके धूमं न पिबेत्। रोहिण्यां धूमं न पिबेत्। मेहे धूमं न पिबेत्। मदात्यये धूमं न पिबेत्।यः नरः एषु अकालेषु मोहात् धूमं पिबति, तस्य धूमविभ्रमात् दारुणाः रोगाः प्रवर्धन्ते ॥

सरलार्थः
अतः परं तु येषां धूमः विगर्हितः तान् प्रवक्ष्यामि।विरिक्तः धूमं न पिबेत् बस्तिकर्मणि कृते धूमं न पिबेत्।रक्ती धूमं न पिबेत्। विषेण आर्तः धूमं न पिबेत् ।शोचन् धूमं न पिबेत्। गर्भिणी धूमं न पिबेत्। श्रमे सति धूमं न पिबेत् ।मदे धूमं न पिबेत् ।आमे सति धूमं न पिबेत् । पित्ते धूमं न पिबेत्।प्रजागरे धूमं न पिबेत् ।मूर्च्छायां धूमं न पिबेत्। भ्रमे धूमं न पिबेत्।तृष्णायां धूमं न पिबेत्।क्षीणे धूमं न पिबेत् ।क्षते धूमं न पिबेत्।मद्यं पीत्वा अथवा दुग्धं पीत्वा च धूमं न पिबेत्।स्नेहं पीत्वा धूमं न पिबेत्।मधु पीत्वा धूमं न पिबेत्।दध्ना भुक्त्वा च धूमं न पिबेत्।रूक्षः नरः धूमं न पिबेत्।क्रुद्धः नरः धूमं न पिबेत् एव।तालुशोषे धूमं न पिबेत्। तिमिरे धूमं न पिबेत्।शिरसि अभिहिते धूमं न पिबेत्।शङ्खके धूमं न पिबेत्। रोहिण्यां धूमं न पिबेत्। मेहे धूमं न पिबेत्। मदात्यये धूमं न पिबेत्।यः नरःएषु अकालेषु मोहात् धूमं पिबति, तस्य धूमविभ्रमात् दारुणाः रोगाः प्रवर्धन्ते ॥

आयुर्वेददीपिका
न विरिक्त इत्यादौ प्रतिनिषेध्यं नकारकरणं निषेधगौरवदर्शनार्थम्। धूमं न भुक्त्वा इति पुनः धूमग्रहणं दध्ना भुक्तवतः विशेषप्रतिषेधार्थम्॥४१-४५

अरुन्धती पद्धतिः
अहो ग्रन्थगौरवम्!प्रतिवारं नकारस्य आवृत्तिः कृता।तेन ग्रन्थः वृथा वर्धितः।सकृत् नकारकरणेन अपि सर्वेषां निषेध्यानां निषेधः सिध्यति।
सत्यं, सकृत् नकारकरणेन सर्वेषां निषेध्यानां निषेधः सिध्यति इति।परं प्रतिनिषेध्यं नकारवचनेन नकारस्य बलं वर्धते।तच्च अपेक्षितम्।नकारस्य बहुवारम् आवृत्तिः कृता।ततः नकारस्य बलं वर्धितम्।तेन ‘अयं निषेधः दृढतया कठोरतया च पालनीयः’ इति मुनेः भावः ज्ञापितः भवति।
अस्तु।‘न विरिक्तः पिबेत् धूमम्’ इति वचने धूमम् इति द्वितीयान्तं पदं पठितम्।तस्य अनुवृत्तिः अग्रे सर्वेषु निषेधवाक्येषु भवति।तथापि ‘धूमं न भुक्त्वा दध्ना च’ इति निषेधवाक्ये पुनः धूमम् इति द्वितीयान्तं पदं पठितम्।तेन ग्रन्थः वृथा वर्धितः इति तु अवश्यम् अङ्गीकर्तव्यम्।
न।धूमपदस्य आवृत्तौ अस्ति किञ्चित् प्रयोजनम्।अतो नायं वृथा ग्रन्थविस्तरः।
किमस्ति प्रयोजनम्?
ब्रूमः।‘ब्राह्मणाः आगताः, वसिष्ठः चागतः’ इति केनचिदुक्तम्।ब्राह्मणेषु किं वसिष्ठस्य समावेशो न भवति? भवति, तथापि वसिष्ठस्य पृथग् उल्लेखः क्रियते।तेन तस्य अन्येभ्यः ब्राह्मणेभ्यः विशेषः ज्ञायते।एवमेव अत्र एकदा धूमं न पिबेत् इत्युक्तम्।पुनः दध्ना भुक्त्वा धूमं न पिबेत् इति पृथक्तया धूमस्य उल्लेखः कृतः।अयं विशेषतया कृतः प्रतिषेधः दधिभोजनोत्तरधूमपानस्य विशेषं हानिकरत्वं सूचयति।चक्रपाणिना एतदेवोक्तम्-
धूमं न भुक्त्वा इति पुनः धूमग्रहणं दध्ना भुक्तवतः विशेषप्रतिषेधार्थम्॥चक्रपाणिः

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च

"https://sa.wikibooks.org/w/index.php?title=च.सू.५.४१-४६&oldid=6887" इत्यस्माद् प्रतिप्राप्तम्