च.सू.५.४६-५१

विकिपुस्तकानि तः
Jump to navigation Jump to search

धूमयोग्यः पिबेद्दोषे शिरोघ्राणाक्षिसंश्रये॥४६
घ्राणेनास्येन कण्ठस्थे मुखेन घ्राणपो वमेत्।आस्येन धूमकवलान् पिबन् घ्राणेन नोद्वमेत्॥४७
प्रतिलोमं गतो ह्याशु धूमो हिंस्याद्धि चक्षुषी।४८

पदच्छेदः -
धूमयोग्यः पिबेत् दोषे शिरोघ्राण-अक्षिसंश्रये॥४६
घ्राणेन आस्येन कण्ठस्थे मुखेन घ्राणपः वमेत्। आस्येन धूमकवलान् पिबन् घ्राणेन न उद्वमेत्॥४७
प्रतिलोमं गतः हि आशु धूमः हिंस्यात् हि चक्षुषी।४८

अन्वयः -
शिरोघ्राण-अक्षिसंश्रये दोषे धूमयोग्यः (नरः) घ्राणेन (धूमं)पिबेत्।कण्ठस्थे दोषे धूमयोग्यः (नरः) आस्येन पिबेत्। घ्राणपः मुखेन (धूमं)वमेत्।आस्येन धूमकवलान् पिबन् घ्राणेन न उद्वमेत्। हि प्रतिलोमं गतः धूमः हि चक्षुषी आशु हिंस्यात् ।४८

सरलार्थः
यदि दोषः शिरसि, घ्राणे अथवा नेत्रे विद्यते तर्हि धूमयोग्यः नरः धूमं घ्राणेन पिबेत्।यदि दोषः कण्ठे विद्यते, तर्हि नरः धूमम् आस्येन पिबेत्।घ्राणेन पीत्वा मुखेन धूमं वमेत्।आस्येन पीत्वा धूमकवलान् घ्राणेन न उद्-वमेत्।यतो हि धूमः प्रतिलोमं गच्छति।यतः प्रतिलोमं गच्छति, तस्मात् धूमः चक्षुषी आशु हिंसति॥४८

आयुर्वेददीपिका
धूमयोग्य इत्यादौ घ्राणेन इति छेदः। प्रतिलोमं गत आस्यपीतः घ्राणं गतः इति अर्थः। हिशब्दद्वयं च हेतौ। तेन अयम् अर्थः- यस्मात् प्रतिलोमं विमार्गं गतो धूमः तस्मात् चक्षुषी हिंस्यात्, यस्मात् हिंस्यात् तस्माद् घ्राणेन न उद्वमेत् इति॥४६-४७

अरुन्धती पद्धतिः
इति पदं सूत्रे विद्यते।तस्य अन्वयः कुत्र कार्यः?
पूर्वतनवाक्ये।‘धूमयोग्यः शिरोघ्राण-अक्षिसंश्रये दोषे घ्राणेन पिबेत्’ इति एवम्।
परं ‘धूमयोग्यः पिबेत् दोषे शिरोघ्राण-अक्षिसंश्रये’ इत्यत्र वाक्यं निराकाङ्क्षं जातम्। सत्यं, तथापि अत्र वाक्यं न समापनीयम्।‘घ्राणेन’ इति अग्रे विद्यमानं पदम् अपि प्रथमे वाक्ये एव समावेश्य अन्वयः कार्यः इति चक्रपाणिः सूचयति -
धूमयोग्य इत्यादौ घ्राणेन इति छेदः।
‘हि’ इति अव्ययं हेत्वर्थकम्।‘प्रतिलोमं गतः हि आशु धूमः हिंस्यात् हि चक्षुषी’ इति अस्मिन् एकस्मिन् वाक्ये तस्य द्विवारं प्रयोगः कृतः।कथमन्वयः करणीयः?अत्र चक्रपाणिः उत्तरति -
यस्मात् प्रतिलोमं विमार्गं गतो धूमः तस्मात् चक्षुषी हिंस्यात्, यस्मात् हिंस्यात् तस्माद् घ्राणेन न उद्वमेत् इति।-चक्रपाणिः

यस्मात् (हेतुः १) तस्मात् (कार्यम्१) यस्मात् (हेतुः २) तस्मात् (कार्यम्२)
प्रतिलोमं गतो धूमः चक्षुषी हिंस्यात् चक्षुषी हिंस्यात् घ्राणेन न उद्वमेत्

ऋज्वङ्गचक्षुस्तच्चेताः सूपविष्टस्त्रिपर्ययम्॥४८
पिबेच्छिद्रं पिधायैकं नासया धूममात्मवान्।४९

पदच्छेदः -
ऋजु-अङ्गचक्षुः तत्-चेताः सु-उपविष्टः त्रिपर्ययम्॥४८
पिबेत् छिद्रं पिधाय एकं नासया धूमम् आत्मवान्।४९

अन्वयः
आत्मवान् तत्-चेताः सु-उपविष्टः ऋजु-अङ्गचक्षुः नासया एकं छिद्रं पिधाय त्रिपर्ययं धूमम् पिबेत् ।

सरलार्थः -
आत्मवान् एकाग्रमनाः साधु उपविष्टः ऋजु-अङ्गः, ऋजु-चक्षुः नरः नासया एकं छिद्रं पिधाय त्रिपर्ययं धूमम् पिबेत् ।

आयुर्वेददीपिका
सम्यक् उपविष्टः सु-उपविष्टः। त्रिपर्ययम् इति तु यदि अपि पूर्वम् एव उक्तम् ‘आपानाः त्रिः त्रयः त्रयः’ इति अनेन, तथा अपि त्रिपर्ययधूमपानपर्यन्तम् ऋजु-अङ्ग-चक्षुः-आदि कर्तव्यं न उपक्रम-मात्रे एव इति पुनर्-अभिधानेन दर्शयति। नासिकया अपि रन्ध्र-एकच्छिद्रं पिधाय पिबेत् न पुनः नासिकया एव पिबेत् इति नियमः॥४८

अरुन्धती पद्धतिः
परि सर्वतोभावेन।अयः शुभविधिः।पर्ययः सर्वः विधिः इत्यर्थः।त्रयः पर्ययाः आपानविधयः यस्मिन् सः त्रिपर्ययः।धूमविशेषणमिदम्।
ननु त्रिपर्ययम् इति विशेषणं निरर्थकम्।पूर्वम् ‘आपानाः त्रय़ त्रयः’ इति उक्तम्।अत्र तत्समानार्थकं त्रिपर्ययम् इति विशेषणं पुनरुक्तदोषम् आवहति।
नैवम्।अत्र त्रिपर्ययम् इति अनुवादः।
किमर्थम् इदम् अनुवचनं क्रियते?
प्रमाणान्तरसिद्धस्य किञ्चिद्धर्मविधानार्थम् अनुवचनं क्रियते।अत्र धूमपानं त्रिवारं कार्यम् इति पूर्ववचनेन सिद्धम्।अधुना अस्मिन् सूत्रे तस्य अनुवचनं क्रियते।अनुवचने अस्ति किञ्चित् प्रयोजनम्।
किं तत् प्रयोजनम्?
त्रिवारं धूमपानस्य कश्चिद् धर्मः अधुना वक्तव्यः।तदर्थम् उक्तस्य अनुवचनं कृतम्।
अस्तु ।कः तर्हि त्रिवारं धूमपानस्य धर्मविशेषः अस्मिन् सूत्रे उपदिश्यते?
ऋज्वङ्गता, ऋजुनेत्रता, तच्चित्तता, सुखासनं तथा आत्मवत्ता इति एते धर्माः त्रिवारं धूमपानस्य अत्र विहिताः।त्रिवारं धूमपानकाले एते धर्माः भवन्तु इति आचार्यस्य अभिप्रायः। अयमभिप्रायः चक्रपाणिना सङ्क्षेपेण उक्तः-
त्रिपर्ययम् इति तु यदि अपि पूर्वम् एव उक्तम् ‘आपानाः त्रिः त्रयः त्रयः’ इति अनेन, तथा अपि त्रिपर्ययधूमपानपर्यन्तम् ऋजु-अङ्ग-चक्षुः-आदि कर्तव्यं न उपक्रम-मात्रे एव इति पुनरभिधानेन दर्शयति।-चक्रपाणिः
‘नासया धूमं पिबेत्’ इति एतावद् वचनं पर्याप्तम्।एकं छिद्रं पिधाय’ इति अनेन अंशेन किं साधितम्?
नियमः साधितः।एकं नासाच्छिद्रं पिधाय अपरेण छिद्रेण एव धूमः पातव्यः इति नियमः। अयं नियमविधिः अधुना विशदीक्रियते।
‘नासया धूमं पिबेत्’ इति एतावन्मात्रोक्ते कदाचित् कश्चित् एकं नासारन्ध्रं पिधाय धूमं पास्यति, कदाचित् कश्चित् उभाभ्यां नासाच्छिद्राभ्यां समकाले धूमं पास्यति।उभयोः विध्योः समानकाले अनुष्ठानं न शक्यम्।एकस्मिन् समये कश्चिद् एकः एव शक्यः,न उभौ।तयोः यः कोऽपि विधिः भवतु इति मुनेः अभिप्रायः अस्ति चेत् सः किमपि विशिष्य न वदति।यदि तयोः कश्चिद् एकः एव विधिः मुनेः अभिप्रेतः, तर्हि सः तथा विशिष्य वदति।पकृते धूमपानस्य प्रथमः एव विधिः मुनेः अभिप्रेतः।यदि कश्चिद् द्वितीयविधिना धूमं पिबति, तर्हि मुनेः अभिप्रायः न सिद्ध्यति।एवं न भवेदिति एतदर्थं नियमविधिं वदति मुनिः- ‘एकं छिद्रं पिधाय’ इति।उभाभ्यां नासाच्छिद्राभ्यां कश्चिद् धूमं पिबति चेत् ‘एकं छिद्रं पिधाय पिबेत्’ इति विधेः पाक्षिकी अप्राप्तिः भवति, द्वयोः समकाले अनुष्ठानासम्भवात्।एतादृशीं पाक्षिकीम् अप्राप्तिं वारयितुं यः विधिः , सः नियमविधिः।
पक्षे अप्राप्तस्य प्रापको विधिः नियमविधिः।अर्थसङ्ग्रहः९३
एतदेव चक्रपाणिना उक्तम्-
नासिकया अपि रन्ध्र-एकच्छिद्रं पिधाय पिबेत्, न पुनः नासिकया एव पिबेत् इति नियमः।–चक्रपाणिः

चतुर्विंशतिकं नेत्रं स्वाङ्गुलीभिर्विरेचने॥४९
द्वात्रिंशदङ्गुलं स्नेहे प्रयोगेऽध्यर्धमिष्यते।ऋजु त्रिकोषाफलितं कोलास्थ्यग्रप्रमाणितम्॥५०
बस्तिनेत्रसमद्रव्यं धूमनेत्रं प्रशस्यते।५१

पदच्छेदः -
चतुर्विंशतिकं नेत्रं स्व-अङ्गुलीभिः विरेचने॥४९
द्वात्रिंशत्-अङ्गुलं स्नेहे प्रयोगे अधि-अर्धम् इष्यते।ऋजु त्रिकोषाफलितं कोलास्थि-अग्रप्रमाणितम्॥५०
बस्तिनेत्रसमद्रव्यं धूमनेत्रं प्रशस्यते।५१

अन्वयः -
विरेचने स्व-अङ्गुलीभिः चतुर्विंशतिकं नेत्रम् इष्यते ।,स्नेहे प्रयोगे अधि-अर्धम् (चतुर्विंशति-अङ्गुलम् इत्युक्ते) द्वात्रिंशत्-अङ्गुलम् इष्यते ।धूमनेत्रं ऋजु त्रिकोषाफलितं कोलास्थि-अग्रप्रमाणितम् बस्तिनेत्रसमद्रव्यं प्रशस्यते ॥

सरलार्थः
विरेचनधूमप्रयोगे स्व-अङ्गुलीभिः चतुर्विंशतिकं नेत्रम् अपेक्षितम् ।,स्नेहधूमप्रयोगे अधि-अर्धम् (चतुर्विंशति-अङ्गुलम् इत्युक्ते) द्वात्रिंशत्-अङ्गुलं नेत्रम् अपेक्षितम्।धूमनेत्रं ऋजु, त्रिकोषाफलितं भवेत्।नेत्रस्य अग्रं कोलास्थि-प्रमाणितम् स्यात्।धूमनेत्रस्य द्रव्यं बस्तिनेत्रसमं प्रशस्तम्॥५१

आयुर्वेददीपिका
- नेत्रं नलिका। चतुर्विंशतिकं चतुर्विंशति-अङ्गुलम्। अधि-अर्धं स- अर्धम् इति अर्थः; इह वैरेचनिकनेत्रम् एव चतुर्विंशति- अङ्गुलप्रमाणं स-अर्धं सत् षट्त्रिंशद्-अङ्गुलप्रमाणं प्रायोगिकधूमपाने; तत् तु जतूकर्णप्रत्ययात् बोद्धव्यम्। यत् आह- “स-अर्धः त्र्यंशयुतः पूर्णो हस्तः प्रायोगिक-आदिषु” इति। त्रिकोषाफलितम् इति त्रिभिः पर्वभिः भिन्नैः समन्वितम्॥४९-५०
अरुन्धती पद्धतिः

धूमप्रकारः नेत्रमानम् (स्व-अङ्गुलीभिः) नेत्रमानम्(स्व-अङ्गुलीभिः)
वैरेचनिकः चतुर्विंशतिकम् २४
स्नैहिकः द्वात्रिंशत्-अङ्गुलम् ३२
प्रायोगिकः अधि-अर्धं चतुर्विंशतिकम् ३६

ननु सूत्रे अध्यर्धम् इति उक्तम्।सन्निधौ द्वे माने उपस्थिते चतुर्विंशत्यङ्गुलं तथा द्वात्रिंशदङ्गुलम्।एतयोः कस्य अध्यर्धम् इति तु नोक्तम्।चक्रपाणिना चतुर्विशत्याः अध्यर्धं गृहीतम्-
इह वैरेचनिकनेत्रम् एव चतुर्विंशति-अङ्गुलप्रमाणं स-अर्धं सत् षट्त्रिंशद्-अङ्गुलप्रमाणं प्रायोगिकधूमपाने… चक्रपाणिः
किमत्र प्रमाणम् ?
एतत् प्रमाणम् -
तत् तु जतूकर्णप्रत्ययात् बोद्धव्यम्। यत् आह- “स-अर्धः त्र्यंशयुतः पूर्णो हस्तः प्रायोगिक-आदिषु” इति।-चक्रपाणिः

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च

"https://sa.wikibooks.org/w/index.php?title=च.सू.५.४६-५१&oldid=6888" इत्यस्माद् प्रतिप्राप्तम्