च.सू.५.५

विकिपुस्तकानि तः
Jump to navigation Jump to search

तत्र शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बरादीन्याहार-द्रव्याणि प्रकृतिलघून्यपि मात्रापेक्षीणि भवन्ति।तथा पिष्टेक्षु-क्षीरविकृतितिलमाषानूपौदकपिशितादीन्याहारद्रव्याणि प्रकृति-गुरूण्यपि मात्रामेवापेक्षन्ते॥५

पदच्छेदः
तत्र शालिषष्टिक-मुद्ग-लाव-कपिञ्जल-एण-शश-शरभ-शम्बर-आदीनि आहारद्रव्याणि प्रकृतिलघूनि अपि मात्रा-अपेक्षीणि भवन्ति।तथा पिष्ट-इक्षु-क्षीरविकृति-तिल-माष-आनूप-औदक-पिशित-आदीनि आहारद्रव्याणि प्रकृतिगुरूणि अपि मात्राम् एव अपेक्षन्ते॥५

अन्वयः -
तत्र प्रकृतिलघूनि शालिषष्टिक-मुद्ग-लाव-कपिञ्जल-एण-शश-शरभ-शम्बरादीनि आहारद्रव्याणि अपि मात्रा-अपेक्षीणि भवन्ति।
तथा प्रकृतिगुरूणि पिष्ट-इक्षु-क्षीरविकृति-तिल-माष-आनूप-औदक-पिशित-आदीनि आहारद्रव्याणि अपि मात्राम् एव अपेक्षन्ते॥५

सरलार्थः -
कानिचन द्रव्याणि स्वभावतः एव लघूनि सन्ति यथा शालिषष्टिकं, मुद्गः, लावः, कपिञ्जलः, एणः, शशः, शरभः, शम्बरम्।एतादृशानि लघूनि द्रव्याणि अपि मात्राम् अपेक्षन्ते।कानिचन द्रव्याणि स्वभावतः गुरूणि सन्ति यथा पिष्टम्, इक्षुविकृतिः,क्षीरविकृतिः, तिलं, माषः, आनूपमांसम्, औदकमांसम्।एतादृशानि गुरूणि द्रव्याणि अपि मात्राम् एव अपेक्षन्ते।

आयुर्वेददीपिका
मात्रालक्षणम् उपदिश्य व्यवहार-उपयोगिनं द्रव्यभेदेन मात्राभेदं दर्शयति- तत्र शालि-इत्यादि। तत्र लघुवर्गः एव प्रथमं पठ्यते, पथ्यतमत्वात्; तत्र अपि आदौ रक्तशालिः आहारद्रव्यप्रधानत्वात्। कपिञ्जलः गौरतित्तिरिः, एणः कृष्णसारः, शरभः महाशृङ्गी हरिणः, शम्बरः तद्-विशेषः। अन्नपानविधौ “शीतः स्निग्धः अगुरुः स्वादुः” (सू.अ.२७) इति षष्टिकगुणकथने “अगुरुः” इति अकारप्रश्लेषो द्रष्टव्यः, तेन इह् षष्टिकस्य लघुत्वप्रतिपादनं न विरुध्यते। अपि समुच्चये, तेन प्रकृतिलघूनि करणलघूनि च लाजादीनि मात्रा-अपेक्षीणि भवन्ति इति लभ्यते। एवं प्रकृतिगुरूणि अपि इति अत्र अपि संस्कारगुरुशक्तुपिण्ड-आदिग्रहणं वाच्यम्। आदिशब्दः अत्र प्रकारवाची, शालिषष्टिक-आदिगण-अभावात्। विकृतिशब्दः पिष्ट-इक्षुक्षीरैः सम्बध्यते, क्षीरविकृतिः क्षीरकृताः भक्ष्याः; पिशितम् आनूप-औदकाभ्यां सम्बध्यते॥५

अरुन्धती पद्धतिः
मात्रालक्षणम् उक्तम्।अधुना गुरूणां द्रव्याणां तथा लघूनां द्रव्याणाम् अपि मात्रया भोजनं विवक्षितम् इति प्रतिपादयति मुनिः।
लघुद्रव्याणां कानिचन उदाहरणानि सूत्रे उक्तानि।तत्र षष्टिकम् अपि उक्तम्।षष्टिकस्य गुणाः अन्नपानविध्यध्याये एवमुक्ताः
“शीतः स्निग्धो गुरुः स्वादुः” (सू.अ.२७) इति
अत्र तु षष्टिकस्य लघुगुणद्रव्येषु समावेशः कृतः।ननु विप्रतिपत्तिः एषा।
नैवम्। “शीतः स्निग्धोऽगुरुः स्वादुः” (सू.अ.२७) इति अकारस्य समावेशः अस्ति इति बोद्धव्यम्।तेन विप्रतिपत्तिः न स्यात्।
ननु ‘प्रकृतिलघूनि मात्रापेक्षीणि भवन्ति’ इति एतावदेव वक्तव्यम्।अपिशब्देन किं साधितम्?
समुच्चयः साधितः।
कस्य केन समुच्चयः साधितः?
प्रकृतिलघुद्रव्याणां करणलघुद्रव्यैः सह समुच्चयः साधितः।यानि द्रव्याणि प्रकृत्या लघूनि तानि मात्रापेक्षीणि भवन्ति, यानि द्रव्याणि प्रकृत्या गुरूणि परं संस्कारवशात् लघूनि भवन्ति तानि अपि मात्रापेक्षीणि भवन्ति इत्यर्थः।
अपिशब्देन समुच्चयः साधितः इति ज्ञातम्।परमत्र प्रकृतिलघुद्रव्याणां प्रकृतिगुरुद्रव्यैः सह समुच्चयः अस्ति इति किमर्थं न मन्तव्यम्? उभयस्वरूपाणि द्रव्याणि मात्रापेक्षीणि सन्ति इति सूत्रकारस्य आशयः अस्ति एव।
न तथा मन्तव्यम्।
कः क्लेशः?
उच्यते।प्रकृतिगुरुद्रव्याणि मात्रापेक्षीणि सन्ति इति स्वतन्त्रं वचनं विद्यते।अतः पूर्वतनवचने अपिशब्देन प्रकृतिगुरुद्रव्याणां समुच्चयः नापेक्षितः।यः खलु अर्थः कण्ठरवेण उक्तः, तस्य अर्थापत्त्या साधनं मास्तु।सिद्धसाधनदोषः भवति।यः अर्थः तथा नोक्तः तस्य साधनम् अर्थापत्त्या कार्यम्।
अपरोऽपि क्लेशः अस्ति।अपिशब्देन प्रकृतिगुरुद्रव्याणां समुच्चयः कृतः चेत् करणलघुद्रव्याणां मात्रापेक्षितत्वम् अनुक्तं भवति। करणलघुद्रव्याणां मात्रापेक्षितत्वं तु अपेक्षितम्।अतः अपिशब्देन करणलघुद्रव्याणां समुच्चयः चक्रपाणिना सूचितः, सः एव साधुः।
एवं तर्हि ‘प्रकृतिगुरूणि अपि मात्रापेक्षीणि भवन्ति’ इति वचने सः एव न्यायः अङ्गीकार्यः वा?
आम् तुल्यन्यायेन अत्रापि प्रकृत्या लघूनां परं संस्कारेण गुरुत्वम् आपन्नानाम् द्रव्याणां समुच्चयः कार्यः।तेन संस्कारगुरुद्रव्याणि अपि मात्राम् अपेक्षन्ते इति अर्थः लभ्यते।
‘शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बरादीनि’ इति समस्तं पदं सूत्रेऽस्ति। कथं तस्य बिग्रहः कार्यः? आदिः आरम्भः।‘शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बराणि आरम्भे सन्ति येषां तानि’ इति विग्रहः कार्यः वा? तथा कुर्मः चेत् शालिषष्टिकं यत्र आरम्भे उक्तं सः गणः कुत्र प्रतिपादितः? मुद्गः यत्र आरम्भे उक्तः, सः गणः क्व अस्ति?
न सन्ति तादृशाः गणाः।अतः एव आदिशब्दस्य आरम्भः इति अर्थः अत्र न ग्राह्यः। आदिशब्दः अत्र प्रकारवाचकः।तेन विग्रहः एवं भविष्यति
शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बराणाम् आदिः (प्रकारः) इव प्रकारः येषां तानि शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बरादीनि द्रव्याणि।एतेषु सर्वेषु द्रव्येषु अनुगतः एकः प्रकारः नाम लघुत्वम्।अतः लघुप्रकारकाणि द्रव्याणि इत्यर्थः।
पिष्ट-इक्षु-क्षीरविकृति-तिल-माष-आनूप-औदक-पिशितानि इत्यपि इतरेतरद्वन्द्वः समासः। तस्यापि विग्रहः शालिषष्टिकादिवत् कार्यः। सत्यं तथापि तत्र त्रयः द्वन्द्वसमासाः सन्ति।ते एवम्-
१ पिष्टं च इक्षुः च क्षीरं च पिष्टेक्षुक्षीराणि । - इतरेतरद्वन्द्वः।
पिष्टेक्षुक्षीराणां विकृतयः पिष्टेक्षुक्षीरविकृतयः। षष्ठीतत्पुरुषः

२ आनूपाः च औदकाः च आनूपौदकाः (पशवः)।
आनूपौदकानां पिशितानि च आनूपौदकपिशितानि। षष्ठीतत्पुरुषः

३ पिष्टेइक्षुक्षीरविकृतयः च तिलाः च माषाः च आनूपौदकपिशितानि च पिष्ट-इक्षु-क्षीरविकृति-तिल-माष-आनूप-औदक-पिशितादीनि।
एवं किमर्थं दीर्घायते ?
ब्रूमः।यदि वयम् एवं न कुर्महे, सकलं पदजातम् एकं समासं मन्यामहे तर्हि तस्य विग्रहः एवं भविष्यति
‘पिष्टं च इक्षुः च क्षीरं च विकृतिः च तिलाः च माषाः च आनूपानि च औदकानि च पिशितानि च।‘
अस्मिन् विग्रहे विकृतिः कस्य इति प्रश्नः उद्भवति।पिशितानि कस्य इत्यपि प्रश्नः उद्भवति। यस्य कस्यापि विकृतयः समासघटकत्वेन अभिप्रेताः न सन्ति।पिष्टम्, इक्षुः तथा क्षीरम् इति त्रयाणाम् विकृतयः एव समासघटकत्वेन अपेक्षिताः।येषां केषामपि पिशितानि समासघटकत्वेन न अभिप्रेतानि।औदकानां तथा आनूपानामेव पिशितानि समासघटकत्वेन अभिप्रेतानि।अयम् अर्थः साधनीयः अतः समासः पूर्वोक्तरीत्या विगृहीतः।समासः एवं विग्रहणीयः इति एतत् सूचयितुं चक्रपाणिः लिखति-
‘विकृतिशब्दः पिष्ट-इक्षु-क्षीरैः सम्बध्यते … पिशितम् आनूप-औदकाभ्यां सम्बध्यते॥ विकृतिशब्दः अस्मिन् शास्त्रे रोगार्थकः प्रसिद्धः।परमत्र सः अर्थः न विवक्षितः।अतः चक्रपाणिना अत्र ग्राह्यः अर्थः उक्तः
क्षीरविकृतिः क्षीरकृताः भक्ष्याः...।

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च

"https://sa.wikibooks.org/w/index.php?title=च.सू.५.५&oldid=6872" इत्यस्माद् प्रतिप्राप्तम्