च.सू.५.५१-५६

विकिपुस्तकानि तः
Jump to navigation Jump to search

दूराद्विनिर्गतः पर्वच्छिन्नो नाडीतनूकृतः॥५१
नेन्द्रियं बाधते धूमो मात्राकालनिषेवितः।५२

पदच्छेदः -
दूरात् विनिर्गतः पर्वच्छिन्नः नाडीतनूकृतः॥५१
न इन्द्रियं बाधते धूमः मात्राकालनिषेवितः।५२

अन्वयः -
नाडीतनूकृतः पर्वच्छिन्नो दूरात् विनिर्गतः ,मात्राकालनिषेवितः धूमः इन्द्रियं न बाधते॥

सरलार्थः -
धूमः यदि नाड्या विरलः कृतः, पर्वभिः छिन्नः, दूरात् विनिर्गतः , तथा मात्रया काले निषेवितः तर्हि इन्द्रियं न बाधते॥

आयुर्वेददीपिका
यथाभिहितनलिकया पाने गुणं दर्शयति- दूरात् इत्यादि॥५१

अरुन्धती पद्धतिः
पर्वभिः छिन्नः पर्वच्छिन्नः।नाड्या तनूकृतः नाडीतनूकृतः।मात्रा च कालः च मात्राकालौ। इतरेतरद्वन्द्वः।मात्राकालौ विचिन्त्य निषेवितः मात्राकालनिषेवितः।मध्यमपदलोपः समासः।


यदा चोरश्च कण्ठश्च शिरश्च लघुतां व्रजेत्॥५२
कफश्च तनुतां प्राप्तः सुपीतं धूममादिशेत्।अविशुद्धः स्वरो यस्य कण्ठश्च सकफो भवेत्॥५३
स्तिमितो मस्तकश्चैवमपीतं धूममादिशेत्।तालु मूर्धा च कण्ठश्च शुष्यते परितप्यते॥५४
तृष्यते मुह्यते जन्तू रक्तं च स्रवतेऽधिकम्।शिरश्च भ्रमतेऽत्यर्थं मूर्च्छा चास्योपजायते॥५५
इन्द्रियाण्युपतप्यन्ते धूमेऽत्यर्थं निषेविते।५६

पदच्छेदः -
यदा च उरः च कण्ठः च शिरः च लघुतां व्रजेत्॥५२
कफः च तनुतां प्राप्तः सुपीतं धूमम् आदिशेत्।अविशुद्धः स्वरः यस्य कण्ठः च सकफः भवेत्॥५३
स्तिमितः मस्तकः च एवम् अपीतं धूमम् आदिशेत्।तालु मूर्धा च कण्ठः च शुष्यते परितप्यते॥५४
तृष्यते मुह्यते जन्तुः रक्तं च स्रवते अधिकम्।शिरः च भ्रमते अत्यर्थं मूर्च्छा च अस्य उपजायते॥५५
इन्द्रियाणि उपतप्यन्ते धूमे अत्यर्थं निषेविते।५६

अन्वयः -
यदा कफः च तनुतां प्राप्तः , उरः च कण्ठः च शिरः च लघुतां व्रजेत् च (तदा) सुपीतं धूमम् आदिशेत्।यस्य कण्ठः सकफः अविशुद्धः च स्वरः एवम् मस्तकः च स्तिमितः भवेत् (तस्य) अपीतं धूमम् आदिशेत् ।धूमे अत्यर्थं निषेविते तालु मूर्धा च कण्ठः च शुष्यते परितप्यते, जन्तुः तृष्यते, मुह्यते, रक्तम् अधिकं स्रवते च, शिरः च अत्यर्थं भ्रमते, मूर्च्छा , च अस्य उपजायते,इन्द्रियाणि उपतप्यन्ते

सरलार्थः -
यदा कफः तनुः भवति, उरः च कण्ठः च शिरः च लघुतां गच्छति, तदा धूमस्य सम्यग्योगः मन्तव्यः।
यदि कण्ठः सकफः, स्वरः च अविशुद्धः एवम् मस्तकः च स्तिमितः भवेत् तर्हि सः धूमपानस्य अयोगः मन्तव्यः।
यदि धूमस्य अतियोगः भवति, तर्हि तालु< मूर्धा, कण्ठः च शुष्यते, परितप्यते, नरः तृषितः भवति, मुह्यते च। रक्तम् अधिकं स्रवते।शिरः च अत्यर्थं भ्रमते।अस्य मूर्च्छा च उपजायते, इन्द्रियाणि उपतप्यन्ते।

आयुर्वेददीपिका
केचिद्धूमसम्यक्-पानादिलक्षणं ग्रन्थं पठन्ति। तत्र, यदा च उरः च इत्यादि सम्यग्-धूमपान-लक्षणम्, अविशुद्ध इत्यादि अयोगलक्षणं, तालु इत्यादि अतियोगलक्षणम्॥५२-५५

अरुन्धती पद्धतिः

सम्यक्पानलक्षणम् कफः तनुः भवति, उरः च कण्ठः च शिरः च लघुतां गच्छति
अयोगलक्षणम् कण्ठः सकफः, स्वरः च अविशुद्धः मस्तकः च स्तिमितः
अतियोगलक्षणम् तालु, मूर्धा, कण्ठः च शुष्यते, नरः परितप्यते, नरः तृषितः भवति,

नरः मुह्यते, रक्तम् अधिकं स्रवते,शिरः च अत्यर्थं भ्रमते मूर्च्छा उपजायते, इन्द्रियाणि उपतप्यन्ते

‘केचिद्धूमसम्यक्-पानादिलक्षणं ग्रन्थं पठन्ति’ इति चक्रपाणिः कुतो वदति? चक्रपाणिः एतं ग्रन्थं न पठति वा?
न।एतावान् ग्रन्थांशः अग्निवेशस्य नास्ति इति चक्रपाणिः मन्यते।अतः एव सः ‘केचित् पठन्ति’ इति भाषां प्रयुङ्क्ते।
कथं चक्रपाणिः निर्णीतवान् यदेतावान् अंशः मुनिरचितः नास्ति इति?
अध्यायोपसंहारे अस्य उल्लेखाभावात्।अध्यायस्य अन्ते मुनिना उपसंहारः कृतः।अस्मिन् अध्याये मया किं किं प्रतिपादितम् इति तत्र सङ्क्षेपेण उक्तम्।तत्र उक्तेषु विषयेषु धूमपानविषयकः अंशः एवम्-
धूमपानगुणाः कालाः पानमानं च यस्य यत्॥१०६
व्यापत्तिचिह्नं भैषज्यं धूमः येषां विगर्हितः। पेयः यथा यन्मयं च नेत्रं यस्य च यद्विधम्॥१०७
अत्र धूमसम्यक्पान-अयोग-अतियोगलक्षणानि न उल्लिखितानि।अतः अयमंशः अनार्षः इति चक्रपाणिः मन्यते।तत्र अधिकं किमपि न टीकते च।

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च

"https://sa.wikibooks.org/w/index.php?title=च.सू.५.५१-५६&oldid=6889" इत्यस्माद् प्रतिप्राप्तम्