च.सू.५.६

विकिपुस्तकानि तः

न चैवमुक्ते द्रव्ये गुरुलाघवमकारणं मन्येत, लघूनि हि द्रव्याणि वाय्वग्निगुणबहुलानि भवन्ति; पृथ्वीसोमगुणबहुलानीतराणि, तस्मात् स्वगुणादपि लघून्यग्निसन्धुक्षणस्वभावान्यल्पदोषाणि चोच्यन्तेऽपि सौहित्योपयुक्तानि, गुरूणि पुनर्नाग्निसन्धुक्षणस्वभावान्यसामान्यात्, अतश्चातिमात्रं दोषवन्ति सौहित्योपयुक्तान्यन्यत्र व्यायामाग्निबलात्; सैषा भवत्यग्निबलापेक्षिणी मात्रा॥६

पदच्छेदः -
न च एवम् उक्ते द्रव्ये गुरु-लाघवम् अकारणं मन्येत, लघूनि हि द्रव्याणि वायु-अग्निगुणबहुलानि भवन्ति; पृथ्वीसोमगुणबहुलानि इतराणि, तस्मात् स्वगुणात् अपि लघूनि अग्निसन्धुक्षण-स्वभावानि अल्पदोषाणि च उच्यन्ते अपि सौहित्य-उपयुक्तानि, गुरूणि पुनः न अग्निसन्धुक्षणस्वभावानि असामान्यात्, अतः च अतिमात्रं दोषवन्ति सौहित्य-उपयुक्तानि अन्यत्र व्यायाम-अग्निबलात्; सा एषा भवति अग्निबल-अपेक्षिणी मात्रा॥६

अन्वयः
एवम् उक्ते द्रव्ये गुरु-लाघवम् अकारणं न च मन्येत, हि लघूनि द्रव्याणि वायु-अग्निगुणबहुलानि भवन्ति; इतराणि (द्रव्याणि) पृथ्वीसोमगुणबहुलानि (भवन्ति), तस्मात् स्वगुणात् अपि लघूनि (द्रव्याणि) सौहित्य-उपयुक्तानि अपि अग्निसन्धुक्षण-स्वभावानि अल्पदोषाणि च उच्यन्ते। पुनः गुरूणि (द्रव्याणि) अग्निसन्धुक्षणस्वभावानि न (सन्ति), असामान्यात्, अतः अन्यत्र व्यायाम-अग्निबलात् सौहित्य-उपयुक्तानि च अतिमात्रं दोषवन्ति (भवन्ति)। सा एषा भवति अग्निबल-अपेक्षिणी मात्रा॥६

सरलार्थः -
लघुद्रव्यमपि मात्राम् अपेक्षते, गुरुद्रव्यम् अपि मात्राम् अपेक्षते इति उक्तम्।तर्हि गुरुलाघवविचारः निरर्थकः इति न मन्तव्यम्।यतो हि लघुषु द्रव्येषु वायुमहाभूतस्य तथा अग्निमहाभूतस्य आधिक्यम् अस्ति।गुरुषु द्रव्येषु पृथिव्याः तथा सोमस्य बाहुल्यम् अस्ति।अतः स्वगुणैः अपि लघूनि द्रव्याणि अतिमात्रं खादितानि चेदपि तानि अल्पं दोषं जनयन्ति यतो हि तेषां स्वभावः अग्निसन्धुक्षणम् अस्ति।परन्तु गुरुद्रव्याणि अग्निसमानानि न सन्ति अतः अग्निसन्धुक्षणानि अपि न भवन्ति।अतः यदि व्यायामजन्यम् अग्निबलं नास्ति, तर्हि अतिमात्रोपयुक्तानि तानि बहु दोषं जनयन्ति।एवं मात्रा अग्निबलम् अपेक्षते।

आयुर्वेददीपिका
ननु, यदि लघु हितम् अपि स्वगुणकरणे मात्राम् अपेक्षते, गुरु च अहितम् अपि मात्रापरिगृहीतं हितम् एव स्यात्, तत् किं गौरव-लाघव-उपदेशेन इति आशङ्क्य आह- न च एवम् इत्यादि। लघूनि यदि अपि आकाशवायु-अग्निगुणबहुलानि भवन्ति, तथा अपि आकाशस्य अग्निदीपनं प्रति तथाविधसामर्थ्य-अभावात् वायु-अग्न्योः तु अग्निदीपकत्वाद् वायु-अग्निगुणबहुलानि इति उक्तम्। तस्मात् कारणात् लघूनि मात्रया तावत् अग्निं दीपयन्ति; स्वगुणात् अपि वायु-अग्निगुणबाहुल्यात् अग्निसन्धुक्षणस्वभावानि स्युः। मात्राव्यतिक्रमे समाने अपि लघुगुरुद्रव्ययोः लघुद्रव्यस्य विशेषं दर्शयति- अल्पदोषाणि च उच्यन्ते अपि सौहित्य उपयुक्तानि; सौहित्यं मात्रा-अतिक्रमेण तृप्तिः। गुरूणि इत्यादौ पुनःशब्दो व्यावृत्त्यर्थः। असामान्यात् इति विरोध-अर्थे नञ्, असितम् इति यथा; तेन असामान्यात् इति अग्निविरुद्धपृथ्वीतोयगुणबाहुल्यात् इति अर्थः। ‘अन्यसामान्यात्’ इति पाठपक्षे अपि अन्यशब्दो विरुद्धवचन एव, तेन तथा अपि स एव अर्थः। अतः च इत्यादिना मात्राव्यतिक्रमे गुरौ गरीयांसं दोषं दर्शयति। ननु, दृश्यन्ते केचन भारिक-आदयः पुरुषाः सौहित्य-उपयुक्तगुरुद्रव्याहारे अपि निर्दोषाः, तत् किम् उच्यते अतिमात्रं दोषवन्ति इति आशङ्क्य आह- अन्यत्र इत्यादि। व्यायामकृतम् अग्निबलं व्यायाम-अग्निबलम्। यदि अपि कालाहितबलो अग्निः मात्रा-अधिकगुरुद्रव्यक्षमो भवति, यत् उक्तं- “पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः” (सू.अ.६) इति, तथा अपि व्यायामाहितबलो वह्निः नितरां बलवान् भवति इति अयमेव प्रधानपरिग्रहात् उक्तः। ये तु व्यायामात् इति च अग्निबलात् इति हेतुद्वयं वर्णयन्ति, तेषाम् एवं सति व्यायाम-अपेक्षिणि अशनमात्रा स्यात् इति प्रकरणविरुद्धो अर्थः स्यात्। प्रतिज्ञातम् अर्थं न्यायसम्पादितम् उपसंहरति- सा एषा इत्यादि। सा इति अग्निबल-अपेक्षिणी प्रतिज्ञाता मात्रा, एषा इति न्यायेन अग्नि-अपेक्षित्वेन निर्वाहिता॥६

अरुन्धती पद्धतिः
‘लघूनि हि द्रव्याणि वाय्वग्निगुणबहुलानि भवन्ति’ इति सूत्रकारः।यथा वायुः लघुः, अग्निः लघुः तथा आकाशः अपि लघुः।किमर्थमत्र आकाशस्य उल्लेखः न कृतः सूत्रकारेण?
अस्योत्तरं चक्रपाणिना दत्तं यदत्र लघुषु द्रव्येषु केषां महाभूतानां गुणाः बाहुल्येन सन्ति इति विवक्षा नास्ति एव।लघुद्रव्येषु बाहुल्येन विद्यमानेषु महाभूतगुणेषु केषाम् अग्निदीपनधर्मः अस्ति इति विवक्षितम्। अग्निदीपनधर्मावच्छिन्नभूतगुणाः विवक्षिताः इत्यर्थः।
लघुषु द्रव्येषु आकाशगुणाः बाहुल्येन सन्ति तथापि तत्र अग्निदीपनधर्मः तावान् नास्ति अतः आकाशः नोल्लिखितः।आकाशगुणाः अग्निदीपनकार्ये अप्रयोजकाः अतः नोल्लिखिताः इत्यर्थः।
लघुगुरुद्रव्ययोः मात्राविचारः एवम् -

लघु- द्रव्याणि मात्रया उपयुक्तानि लघु- द्रव्याणि मात्रातिक्रमेण उपयुक्तानि गुरु- द्रव्याणि मात्रया उपयुक्तानि गुरु- द्रव्याणि मात्रातिक्रमेण उपयुक्तानि
अग्निसन्धुक्षणानि अतिदोषजनकानि न अग्निसन्धुक्षणानि न अतिदोष-जनकानि यदि व्यायामजं बलं नास्ति

अतिदोषजनकानि न यदि व्यायामजं बलम् अस्ति

सूत्रे ‘गुरूणि पुनः’ इति प्रयोगः अस्ति।अत्र पुनः इति शब्दस्य अर्थं वदति चक्रपाणिः-
‘गुरूणि इत्यादौ पुनःशब्दो व्यावृत्त्यर्थः
लघुद्रव्याणां मात्राविषये विवरणं समाप्तम्।अधुना पक्षः परिवर्तितः।गुरुद्रव्याणां मात्राविवेचनम् इदानीम् आरभ्यते इति विषयस्य व्यावर्तनं सूचयितुं पुनःशब्दस्य प्रयोगः अस्ति।
ननु विषयः परिवर्तितः इति पठनादेव ज्ञायते किं पुनःशब्दप्रयोगेण?सत्यं पठनादेव ज्ञायते इति।तथापि वाचकबुद्धेः साहाय्यार्थं पुनः, तु इति एतादृशानाम् अव्ययानां प्रयोगः क्रियते। आधुनिके लेखने विषयपरिवर्तनस्य सूचनार्थं परिच्छेदः क्रियते।पूर्वविषयस्य पङ्क्तिः अपूर्णा अपि त्यज्यते। नवीनः विषयः स्वतन्त्रपङ्क्तौ आरभ्यते।तत्रापि किञ्चिदन्तरं मुक्त्वा आरभ्यते। किमर्थमेषः प्रयासः? विषयः परिवर्तितः इति पठनाद् ज्ञायते एव।तथापि अनेन परिच्छेदकरणेन वाचकः विषयबोधे सौकर्यमनुभवति।प्राचीने काले एतदर्थमेव पुनः, तु इति एतादृशानि अव्ययानि प्रयुज्यन्ते स्म।
सौहित्यमिति शब्दः सूत्रे वर्तते।सुहितस्य भावः सौहित्यम्।
पत्यन्तपुरोहितादिभ्यो यक् ।(अष्टा.५.१.१२८)
इति भावे यक्प्रत्ययः।सौहित्यं तर्पणं तृप्तिः इत्यमरः।
‘गुरूणि पुनः न अग्निसन्धुक्षणस्वभावानि असामान्यात्’ इति सूत्रम्।तत्र असामान्यम् इति नञ्समासः।नञर्थाः षट् सम्भवन्ति
सादृश्यं तदभावश्च तदन्यत्वं तदल्पता।अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः॥
एतेषु अत्र कः अर्थः अभिप्रेतः? विरोधार्थः अभिप्रेतः इति चक्रपाणिः।तेन गुरूणि द्रव्याणि अग्निसामान्यविरुद्धानि सन्ति इति अर्थः लभ्यते।अग्निसामान्यविरुद्धानि इति अग्निविरुद्ध-पृथ्वीतोयगुणबाहुलानि।अत्र विरोधार्थं स्पष्टीकर्तुम् एकम् उदाहरणं वदति चक्रपाणिः असितम् इति।सितम् इति शुभ्रम्।असितम् इति सितविरुद्धम् कृष्णमित्यर्थः।एवमेव अत्र असमान्यं नाम सामान्यविरुद्धम् इत्यर्थः ग्राह्यः।
केषुचित् हस्तिलिखितेषु अन्यसामान्यात् इति पाठः वर्तते।अस्मिन् पाठे नञ् नास्ति। अयं पाठः स्वीकृतः चेत् कथं तर्हि अर्थः भवेत् इति सन्देहे चक्रपाणिः वदति
‘अन्यसामान्यात्’ इति पाठपक्षे अपि अन्यशब्दो विरुद्धवचन एव, तेन तथा अपि स एव अर्थः।
अन्यसामान्यात् इति पाठः स्वीकृतः चेत् अन्यपदस्य ‘विरुद्धम्’ इति एव अर्थः ग्राह्यः तेन अन्यसामान्यात् इति अस्य वचनस्य ‘विरुद्धस्य सामान्यात्’ इति अर्थः भवति।अयमर्थः ‘असामान्यात्’ इति पाठस्य अर्थेन समानः।
गुरूणि द्रव्याणि मात्रातिक्रमेण भक्षितानि चेत् अतिमात्रं दोषं जनयन्ति इति उत्सर्गः। ‘अन्यत्र व्यायामाग्निबलात्’ इति अपवादः।भारिकः भारवाहकः।आदिशब्देन सर्वेषां श्रमिकाणां ग्रहणम्।एतेषां शरीरायासाः अधिकाः।ते यद्यपि गुरुद्रव्याणि मात्राधिकानि खादन्ति,तथापि तानि सर्वाणि प्रकृतिम् अनुपहत्य जरां गच्छन्ति।न तानि दोषम् उत्पादयन्ति।अतः उपर्युक्तस्य उत्सर्गस्य एषः अपवादः मन्तव्यः।एतेषां जनानां व्यायामजन्यम् अग्निबलं महत्।अतः गुरुद्रव्याणि अपि अपायं विना जीर्यन्ते।
ननु यथा व्यायामजेन अग्निबलेन गुरुद्रव्याणि अनायासं जीर्यन्ते, तथा कालजेन अग्निबलेन अपि।यथा हेमन्ते अग्निः मात्राधिकानि गुरूणि च द्रव्याणि जरयितुं क्षमः भवति। अतः अत्र कालजाग्निबलस्य अपि समावेशः भवतु।किमर्थं न कृतः?
अत्रोत्तरति चक्रपाणिः यद्यपि इत्यादिवचनेन।कालजस्य अग्निबलस्यापि अत्र समावेशः उचितः एव।तथापि व्यायामजमग्निबलं तथा कालजमग्निबलम् इति उभयोः व्यायामजम् अग्निबलं प्रधानम्। अतः गोवत्सन्यायेन तस्य उल्लेखः कृतः।यथा गौः गृहीता चेत् वत्सस्य स्वतन्त्रं ग्रहणं नावश्यकम्।गोग्रहणेन तस्यापि ग्रहणं भवति।
कथं व्यायामजम् अग्निबलं प्रधानं, कालजं गौणम् इति उच्यते? व्यायामजम् अग्निबलं प्रधानं पुरुषप्रयत्नाधीनत्वात्, सार्वकालिकत्वात् च।कालजम् अग्निबलं कालाधीनमस्ति, न तु पुरुषप्रयत्नाधीनम्।तथा च हेमन्तशिशिरयोः एव कालजम् अग्निबलं महत्, नान्यदा इति न सार्वकालिकम्।अतः तद् गौणम्।
व्यायामाग्निबलम् इति समासस्य विग्रहः चक्रपाणिना कृतः
व्यायामकृतम् अग्निबलं व्यायाम-अग्निबलम्।
अयं शाकपार्थिवादिवत् समासः।अपरथा अपि अस्य विग्रहः शक्यः।स च एवम्-
व्यायामः च अग्निः च व्यायामाग्नी।इतरेतरद्वन्द्वः।
व्यायामाग्न्योः बलम् व्यायामाग्निबलम्।पञ्चमीतत्पुरुषः।एषः अपि विग्रहः ग्राह्यः।
न।अयं विग्रहः यद्यपि व्याकरणदृष्ट्या साधुः तथापि प्रकरणविरुद्धम् अर्थं प्रकटयति।अतः न ग्राह्यः।अस्मिन् विग्रहे ‘व्यायामबलम् अस्ति चेत् गुरुभोजनमपि अतिमात्रदोषकरं न भवति अथवा अग्निबलम् अस्ति चेत् गुरुभोजनमपि अतिमात्रदोषकरं न भवति इति अर्थः निष्पद्यते।‘ न स उचितः।अध्यायस्य उपक्रमे मुनिना उक्तम्- आहारमात्रा अग्निबलापेक्षिणी अस्ति इति।अधुना यदि सा मात्रा व्यायामबलापेक्षिणी अपि अस्ति इति उच्यते तर्हि सः प्रकरणविरुद्धः अर्थः भवति।अतः चक्रपाणिना यथा विग्रहः कृतः तथैव कार्यः।

आहारमात्रा पुनरग्निबलापेक्षिणी॥३
न चैवमुक्ते इत्यतः आरभ्य व्यायामाग्निबलात् इति यावत् सूत्रं तथा
सैषा भवत्यग्निबलापेक्षिणी मात्रा॥६
इति उपसंहारात्मकं वचनम् इति एतेषु त्रिषु वचनेषु योजनां दर्शयति चक्रपाणिः प्रतिज्ञातमर्थम् इत्यादिवचनेन।सा योजना एवम्-

आहारमात्रा पुनरग्निबलापेक्षिणी॥३ प्रतिज्ञा
न चैवमुक्ते .....व्यायामाग्निबलात्

अग्निबले अधिके सति अधिका मात्रा अपि सह्यते (मात्रातिक्रमेण भुक्तमपि जीर्यते।)
अग्निबले अल्पे सति अधिका मात्रा दोषमुत्पादयति,

लघुद्रव्याणाम् अधिका मात्रा अल्पं दोषम् उत्पादयति।
गुरुद्रव्याणाम् अधिका मात्रा अधिकं दोषम् उत्पादयति।

न्यायेन सम्पादनम्
सैषा भवत्यग्निबलापेक्षिणी मात्रा॥६ उपसंहारः

योगतन्त्रयुक्तिः एषा
योगो नाम योजना व्यस्तानां पदानामेकीकरणम्।उदाहरणं तावद्यथा - प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि।….. एवमन्येऽपि योगार्थाः व्याख्येयाः। च.सं.सिद्धिस्थानम् १२.४१

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.६&oldid=7199" इत्यस्माद् प्रतिप्राप्तम्