च.सू.५.६३-७१
चन्दनागुरुणी पत्रं दार्वीत्वङ्मधुकं बलाम्॥६३
प्रपौण्डरीकं सूक्ष्मैलां विडङ्गं बिल्वमुत्पलम्।ह्रीबेरमभयं वन्यं त्वङ्मुस्तं सारिवां स्थिराम्॥६४
जीवन्तीं पृश्निपर्णीं च सुरदारु शतावरीम्।हरेणुं बृहतीं व्याघ्रीं सुरभीं पद्मकेशरम्॥६५
विपाचयेच्छतगुणे माहेन्द्रे विमलेऽम्भसि।तैलाद्दशगुणं शेषं कषायमवतारयेत्॥६६
तेन तैलं कषायेण दशकृत्वो विपाचयेत्।अथास्य दशमे पाके समांशं छागलं पयः॥६७
दद्यादेषोऽणुतैलस्य नावनीयस्य संविधिः।अस्य मात्रां प्रयुञ्जीत तैलस्यार्धपलोन्मिताम्॥६८
स्निग्धस्विन्नोत्तमाङ्गस्य पिचुना नावनैस्त्रिभिः।त्र्यहात्त्र्यहाच्च सप्ताहमेतत् कर्म समाचरेत्॥६९
निवातोष्णसमाचारी हिताशी नियतेन्द्रियः।तैलमेतत्त्रिदोषघ्नमिन्द्रियाणां बलप्रदम्॥७०
प्रयुञ्जानो यथाकालं यथोक्तानश्नुते गुणान्।७१
पदच्छेदः -
चन्दन-अगुरुणी पत्रं दार्वीत्वक् मधुकं बलाम्॥६३
प्रपौण्डरीकं सूक्ष्म-एलां विडङ्गं बिल्वम् उत्पलम्।ह्रीबेरम् अभयं वन्यं त्वङ्मुस्तं सारिवां स्थिराम्॥६४
जीवन्तीं पृश्निपर्णीं च सुरदारु शतावरीम्।हरेणुं बृहतीं व्याघ्रीं सुरभीं पद्मकेशरम्।६५
विपाचयेत् शतगुणे माहेन्द्रे विमले अम्भसि।तैलात् दशगुणं शेषं कषायम् अवतारयेत्॥६६
तेन तैलं कषायेण दशकृत्वो विपाचयेत्।अथ अस्य दशमे पाके समांशं छागलं पयः॥६७
दद्यात् एषः अणुतैलस्य नावनीयस्य संविधिः।अस्य मात्रां प्रयुञ्जीत तैलस्य अर्धपल-उन्मिताम्॥६८
स्निग्धस्विन्न-उत्तमाङ्गस्य पिचुना नावनैः त्रिभिः।त्र्यहात् त्र्यहात् च सप्ताहम् एतत् कर्म समाचरेत्॥६९
निवात-उष्णसमाचारी हित-अशी नियत-इन्द्रियः।तैलम् एतत् त्रिदोषघ्नम् इन्द्रियाणां बलप्रदम्॥७०
प्रयुञ्जानः यथाकालं यथोक्तान् अश्नुते गुणान्।७१
अन्वयः -
चन्दन-अगुरुणी पत्रं दार्वीत्वक्-मधुकं बलां,प्रपौण्डरीकं सूक्ष्म-एलां विडङ्गं बिल्वं उत्पलम्, ह्रीबेरम् अभयं वन्यं त्वङ्मुस्तं सारिवां स्थिरां,जीवन्तीं पृश्निपर्णीं सुरदारु शतावरीं,हरेणुं, बृहतीं, व्याघ्रीं, सुरभीं, पद्मकेश,रं (तैलात्) शतगुणे माहेन्द्रे विमले अम्भसि विपाचयेत् ।तैलात् दशगुणं शेषं कषायम् अवतारयेत्।तेन कषायेण तैलं दशकृत्वः विपाचयेत्।अथ अस्य दशमे पाके समांशं छागलं पयःदद्यात् ।एषः अणुतैलस्य नावनीयस्य संविधिः।अस्य तैलस्य अर्धपलोन्मिताम् मात्रां पिचुना त्रिभिः नावनैः स्निग्धस्विन्न-उत्तमाङ्गस्य (नरस्य) प्रयुञ्जीत।निवात-उष्णसमाचारी हिताशी नियतेन्द्रियः त्र्यहात् त्र्यहात् च सप्ताहम् एतत् कर्म समाचरेत् ।एतत् त्रिदोषघ्नम्, इन्द्रियाणां बलप्रदम् तैलं यथाकालं प्रयुञ्जानः (नरः) यथोक्तान् गुणान् अश्नुते।७१
सरलार्थः
चन्दनम्, अगुरु, पत्रं, दार्वीत्वक्, मधुकं बलां,प्रपौण्डरीकं सूक्ष्म-एलां विडङ्गं बिल्वम् उत्पलं, ह्रीबेरम्, अभयं, वन्यां त्वचं. मुस्तं, सारिवां, स्थिरां,जीवन्तीं पृश्निपर्णीं सुरदारु शतावरीं हरेणुं, बृहतीं व्याघ्रीं, सुरभीं, पद्मकेशरं, इति एतत् सर्वं तैलात् शतगुणे माहेन्द्रे विमले अम्भसि विपाचयेत् ।तैलात् दशगुणं शेषं कषायम् अवतारयेत्॥६६तेन कषायेण तैलं दशकृत्वः विपाचयेत्।अथ अस्य दशमे पाके समांशं छागलं पयः दद्यात् ।एषः अणुतैलस्य नावनीयस्य संविधिः।अस्य तैलस्य अर्धपलोन्मिता मात्रा प्रयोक्तव्या।तां मात्रां पिचुना त्रिभिः नावनैः स्निग्धस्विन्न-उत्तमाङ्गस्य नरस्य प्रयोक्तव्या।निवात-उष्णसमाचारी हिताशी नियतेन्द्रियः त्र्यहात् त्र्यहात् च इति सप्ताहम् एतत् कर्म समाचरेत् ।एतत् त्रिदोषघ्नम्, इन्द्रियाणां बलप्रदम् तैलं यथाकालं प्रयुञ्जानः (नरः) यथोक्तान् गुणान् अश्नुते।७१
आयुर्वेददीपिका
चन्दन-इत्यादौ दार्व्याः त्वक् दार्वीत्वक्, जीवन्ती सुवर्णनाला स्वनामप्रसिद्धा, सुरभी शूकशिम्बा, पद्मस्य केशरं पद्मकेशरम्। माहेन्द्रे आन्तरिक्षे। शतगुणे तैलात् इति योज्यम्। दशगुणम् इति एतत् अपि तैलात् इति योजनीयम्। अत्र तु क्वाथ्यभेषजं तावन्मानं ग्राह्यं यावता क्वाथ-अर्थ-उपात्तं पानीयं भेषजचतुर्गुणं भवति, “क्वाथ्यात् चतुर्गुणं वारि” इति अस्य अबाधितत्वात्, न तु भेषजात् शतगुणे अम्भसि इति एवं व्याख्येयं; यत् आह जतूकर्णः- “पक्त्वा अथ अम्बुशतप्रस्थे दशभागस्थितेन तु। तैलप्रस्थं पचेत् तेन छागीक्षीरेण संयुतम्” इति। यदि वा, तैलप्रमाण-अनुमानेन एव “स्नेहात् चतुर्गुणं क्वाथ्यं” इति परिभाषया क्वाथ्यद्रव्यपरिमाणं व्यवस्थापनीयम्। पिचुना इति तूलकपिण्डिकया। नावनैः त्रिभिः वारत्रयेण इति अर्थः। त्र्यहात् त्र्यहात् इति एक-एकं दिनम् अन्तरीकृत्य, सप्ताहम् इति अन्तरितदिनानि वर्जयित्वा; तेन एकैकस्मिन् ऋतौ त्रयोदशाहात् नस्यप्रयोगः समाप्यते॥६३-७०
अरुन्धती पद्धतिः
अणुतैले घटकद्रव्याणि २७
चन्दनम् | अगुरु | पत्रम् | दार्वीत्वक् | मधुकम् | बला | प्रपौण्डरीकम् | सूक्ष्मैला | विडङ्गम् |
बिल्वम् | ह्रीबेरम् | उत्पलम् | अभय | वन्यम् | त्वक् | मुस्तम् | सारिवां | स्थिरा |
जीवन्ती | पृश्निपर्णी | सुरदारु | शतावरी | हरेणुः | बृहती | व्याघ्री | सुरभी | पद्मकेशरम् |
द्रव्यम् | मानम् | वचनम् |
---|---|---|
साधनीयं तैलम् | १ प्रस्थम् | अनुक्ते स्नेहमाने तु प्रस्थ एको विधीयते |
तदर्थं क्वाथः | १०प्रस्थाः | तैलाद् दशगुणं शेषं कषायमवतारयेत् |
क्वाथार्थं जलम् | १०० प्रस्थाः | विपाचयेत् शतगुणे माहेन्द्रे विमलेम्भसि |
क्वाथ्यद्रव्यम् आहत्य | २५ प्रस्थाः | क्वाथ्यात् चतुर्गुणं वारि... |
क्वाथ्यद्रव्यं प्रत्येकम् | (२५÷ २७)प्रस्थाः | अनुक्ते परिमाणे तु तुल्यं मानं प्रकीर्तितम्। च.क.१२.९९ |
यदि वा | ||
क्वाथ्यद्रव्यम् आहत्य | ४ प्रस्थाः | स्नेहात् चतुर्गुणं क्वाथ्यम् |
क्वाथ्यद्रव्यं प्रत्येकम् | (४÷ २७)प्रस्थाः | अनुक्ते परिमाणे तु तुल्यं मानं प्रकीर्तितम्। च.क.१२.९९ |
‘शतगुणे अम्भसि विपाचयेत्’ इति सूत्रे उक्तम्।तत्र ‘तैलात् दशगुणम्’ इति अन्वयः किमर्थं क्रियते?‘क्वाथ्यद्रव्यात् शतगुणे अम्भसि विपाचयेत्’ इत्यपि अन्वयः शक्यः।तथा अन्वयः कुतो न करणीयः?
जतूकर्णवचनात् इति ब्रूमः।तच्च वचनं तैलात् दशगुणं जलमुपदिशति -
“पक्त्वा अथ अम्बुशतप्रस्थे दशभागस्थितेन तु। तैलप्रस्थं पचेत् तेन छागीक्षीरेण संयुतम्”
‘त्र्यहात् त्र्यहात् इति एक-एकं दिनम् अन्तरीकृत्य, सप्ताहम् इति अन्तरितदिनानि वर्जयित्वा;
तेन एकैकस्मिन् ऋतौ त्रयोदशाहात् नस्यप्रयोगः समाप्यते’- चक्रपाणिः।
यदा प्रथमवारं नस्यं दीयते, तत् प्रथमदिनमिति गणनीयम्।ततः अपरेद्युः नस्यविरामः।तद् अन्तरितदिनम्।तृतीयेऽह्नि पुनः नस्यम्।एवं सप्त नस्यदिनानि भवितुम् अर्हन्ति।तेषु अन्तरित-दिनानि षड् भवन्ति।एवं सकलः नस्यप्रयोगः अयं त्रयोदशदिनानि यावत् प्रवर्तते।अस्य वचनस्य विवरणमिदम्-
दिनम् | नस्यम् |
---|---|
०१ | कार्यम् ०१ |
०२ | न कार्यम् |
०३ | कार्यम् ०२ |
०४ | न कार्यम् |
०५ | कार्यम् ०३ |
०६ | न कार्यम् |
०७ | कार्यम् ०४ |
०८ | न कार्यम् |
०९ | कार्यम् ०५ |
१० | न कार्यम् |
११ | कार्यम् ०६ |
१२ | न कार्यम् |
३ | कार्यम् ०७ |
आहत्य दिनानि १३ | नस्यदिनानि ७ + अन्तरितदिनानि ६ |
प्रावृट्शरद्वसन्तेषु ... नस्यकर्म यथाकालं यः यथोक्तं निषेवते॥च.सू.५.५७
प्रावृषि | शरदि | वसन्ते |
---|---|---|
१३ दिनैः नस्यप्रयोगः समाप्यते | १३ दिनैः नस्यप्रयोगः समाप्यते | १३ दिनैः नस्यप्रयोगः समाप्यते |
ननु सूत्रे ‘त्रहात् त्र्यहात्’ इति पञ्चमी विभक्तिः विद्यते।तस्य अर्थः चक्रपाणिना कृतः ‘तृतीये अहनि तृतीये अहनि’ इति।अधिकरणपरः अयम् अर्थः।नैतद् युज्यते।यतो हि ‘अधिकरणम्’ इति अर्थः मुनेः विवक्षितः चेत् सूत्रे पञ्चमी न स्यात् सप्तमी स्यात्।
अत्र ब्रूमः।
त्र्यहात् त्र्यहात् च सप्ताहम् एतत् कर्म समाचरेत्॥
अस्य वचनस्य ‘त्र्यहे त्र्यहे समावृत्य एतत् कर्म सप्ताहं समाचरेत्’ इत्यर्थः।अत्र समावृत्य इति ल्यबन्तम्।तस्य लोपः क्रियते।तदा त्र्यहशब्दात् अधिकरणविवक्षायामपि पञ्चमीप्रत्ययः क्रियते-
ल्यब्लोपे कर्मण्यधिकरणे च।- वार्तिकम्
अतः अत्र त्र्यहशब्दस्य अधिकरणविवक्षायामपि पञ्चमी दृश्यते त्र्यहात् इति, न सप्तमी दृश्यते त्र्यहे इति।
अस्तु पञ्चमी।अथ त्र्यहशब्दस्य अर्थः उच्यताम्।
तृतीयं दिनम्।
न।त्रिशब्दस्य अर्थः भिन्नः, तृतीयशब्दस्य अर्थः भिन्नः।त्रिशब्दस्य तृतीयम् इति अर्थकरणं न युज्यते।
युज्यते खलु।यतो हि समासे सङ्ख्यानां पूरणार्थकता शिष्टैः अनुमता।
त्रिभागशेषासु निशासु ...।कुमारसम्भवम् ५.५७
अत्र मल्लीनाथः लिखति-
तृतीयो भागः त्रिभागः।सङ्ख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमिष्यते।- मल्लीनाथः
एवमन्येऽपि प्रयोगाः सन्ति, यथा –
आददीताथ षड्भागम् ... मनु.८.३३
तस्मात् त्र्यहात् इत्यस्य पञ्चम्यन्तस्य अपि ‘अधिकरणम्’ इत्यर्थः भवति ‘त्र्यहे’ इति।त्र्यहे इत्यत्र त्रिशब्दात् पूरणार्थकः प्रत्ययः नास्ति, तथापि त्रिशब्दः समासे अस्ति अतः ‘तृतीये अहनि’ इति अर्थः अपि सम्भवति।
चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च