च.सू.५.७

विकिपुस्तकानि तः
Jump to navigation Jump to search

न च नापेक्षते द्रव्यं; द्रव्यापेक्षया च त्रिभागसौहित्यमर्धसौहित्यं वा गुरूणामुपदिश्यते, लघूनामपि च नातिसौहित्यमग्नेर्युक्त्यर्थम्॥७

पदच्छेदः -
न च न अपेक्षते द्रव्यं; द्रव्य-अपेक्षया च त्रिभागसौहित्यम् अर्धसौहित्यं वा गुरूणाम् उपदिश्यते, लघूनाम् अपि च न अतिसौहित्यम् अग्नेः युक्त्यर्थम्॥७

अन्वयः
द्रव्यं न अपेक्षते (इति) च न।द्रव्य-अपेक्षया च गुरुणां त्रिभाग-सौहित्यम् अर्धसौहित्यं वा उपदिश्यते ,लघूनाम् अपि न च अतिसौहित्यम् (उपदिश्यते) अग्नेः युक्त्यर्थम् ॥७॥

सरलार्थः
अनेन आहारमात्रा ‘केवलम् अग्निबलम् अपेक्षते, द्रव्यम् न अपेक्षते’ इति न मन्तव्यम्।द्रव्यम् अनुसृत्य गुरुद्रव्यैः आमाशयस्य त्रिभागपूरणम्, अर्धभागपूरणं वा उपदिश्यते।लघूनाम् अपि द्रव्याणाम् अतिपूरणं न भवेत् इति उपदिश्यते।

आयुर्वेददीपिका
ननु, यदि अपि अग्निबल-अपेक्षिणी मात्रा, तत् कस्मात् एकरूपे एव अग्नौ लघूनां द्रव्याणां भूयसी मात्रा भवति, गुरूणां ततः त्रिभाग-उचिता अर्धा वा इति आह- न च इत्यादि। द्रव्यम् अपेक्षत इति अर्थः। त्रिभागसौहित्यं मनाक् गुरुभिः। एवं गौरवप्रकर्ष-अपकर्षात् अन्यद् अपि कल्पनीयम्। लघूनाम् अपि न अतिसौहित्यम् इति अत्र सौहित्यशब्दः तृप्तिमात्रे वर्तते, तेन लघूनि तृप्ति-अतिक्रमेण न भोक्तव्यानि, एवं हि तेषां मात्रा-अतिक्रमः न स्यात्। अग्नेः युक्तिः स्वमान-अवस्थितिः, तद्-अर्थम्। ननु, गुरूणां तावत् अतिमात्र-उपयोगः अग्निपरिपालनार्थं निषिध्यतां, येन गुरूणि अग्नि-असमानानि; लघूनि पुनः अग्निसमानानि, तत् तेषां कथम् अतिमात्र-उपयोगः वह्निमान्द्यम् आवहति इति? ब्रूमः- लघूनां द्रव्याणां सामान्यम् अभिभूय अतिमात्रत्वम् एव अग्निमान्द्यं करोति, यथा- चक्षुः तैजसं, तेजःसहकृतं च पश्यति, तत् एव तेजः अतियोगात् उपहन्यते; तथा शस्त्रम् अश्मसम्भवम्, अश्मयोगात् च तीक्ष्णं सम्पद्यते, अश्मनि एव च मिथ्यायोगात् प्रतिहतं भवति; तत् उक्तं शालाक्ये- यत् तेजो ज्योतिषां दीप्तं शारीरं प्राणिनां च यत्। संयुक्तं तेजसा तेजः तद्धि रूपाणि पश्यति। तत् एव चक्षुः तानि एव ज्योतींषि अति तु पश्यतः। विकारं भजते अत्यर्थम् अथवा अपि विनश्यति॥ शस्त्रस्य अश्मा यथा योनिः निशितं च तत् अश्मनि। तीक्ष्णं भवति अतियोगात् तत्र एव प्रतिहन्यते इति॥७

अरुन्धती पद्धतिः
आहारमात्रा अग्निबलम् अपेक्षते, तथा द्रव्यमपि अपेक्षते इत्यर्थः।तदेवं स्यात्

अग्निबलम् अधिकम् अग्निबलं न्यूनम्
द्रव्यं गुरु अर्घसौहित्यम् नातिसौहित्यम्
द्रव्यं लघु त्रिभागसौहित्यम् नातिसौहित्यम्

ननु गतसूत्रे सौहित्यशब्दः प्रयुक्तः।तत्र सौहित्यशब्दस्य अर्थः चक्रपाणिना एवं प्रतिपादितः-
... सौहित्यं मात्रा-अतिक्रमेण तृप्तिः।
अस्मिन् सूत्रे नातिसौहित्यम् इति शब्दप्रयोगः दृश्यते।यदि सौहित्यशब्दस्य पूर्वोक्तः अर्थः गृह्यते, तर्हि नातिसौहित्यम् इति शब्दस्य अर्थः भवति नाति-अतितृप्तिः।कोऽस्य अर्थः?उच्यते।प्रकृते सौहित्यशब्देन मात्रातिक्रमेण तृप्तिः इति अर्थः न ग्राह्यः, केवलं तृप्तिः इत्यर्थः ग्राह्यः।तेन नातिसौहित्यशब्दस्य अर्थः भवति नातितृप्तिः।
लघूनां द्रव्याणाम् अतियोगः अग्नेः मान्द्यं जनयति इति सूत्रस्य आशयः।लघूनि द्रव्याणि अग्निसमानगुणानि इति उक्तम्।अग्निसमानानि अपि लघुद्रव्याणि अतिमात्रोपयुक्तानि अग्निमान्द्यं जनयन्ति इति वचनं तथा
सर्वदा सर्वभावानां सामान्यं वृद्धिकारणम्।च.सू.१.४४
इति एतद् वचनम् परस्परं विरुद्धार्थौ प्रतिपादयतः।
नैवम्।द्रव्यनिष्ठम् वाय्वग्निगुणबाहुल्यं सामान्यात् अग्निं सन्धुक्षयन्ति।द्रव्यनिष्ठम् अतिमात्रावत्त्वम् अग्निक्षयकरत्वात् अग्निं शमयति।अतः द्रव्यनिष्ठम् वाय्वग्निगुणबाहुल्यं द्रव्यनिष्ठ-अतिमात्रावत्त्वेन विरुद्ध्यते।विरुद्धगुणसंयोगे बलवता दुर्बलस्य अभिभवः भवति।अत्र अतिमात्रावत्त्वेन वाय्वग्निगुणबाहुल्यस्य अभिभवः भवति अतः लघुद्रव्याणि वाय्वग्निगुण-बहुलानि अतः अग्निसमानानि।तथापि अतिमात्रोपयुक्तानि चेत् अग्निमान्द्यं जनयन्ति।
एवमन्यत्रापि भवति।तस्य उदाहरणद्वयम् चक्रपाणिना कथितम् -

तेजः गुणसामान्यात् चक्षुः पोषयति
तेजः अतियोगात् चक्षुः उपहन्ति
गुणसामान्यम् (दुर्बलम्) × अतियोगः(सबलः)
दुर्बलं गुणसामान्यम् अभिभूय तेजसः अतियोगः चक्षुः उपहन्ति।
अश्मा गुणसामान्यात् शस्त्रं तीक्ष्णं करोति
अश्मा मिथ्यायोगात् शस्त्रं प्रतिहन्ति
गुणसामान्यम् (दुर्बलम्) × मिथ्यायोगः(सबलः)
दुर्बलं गुणसामान्यम् अभिभूय अश्मनः मिथ्यायोगः शस्त्रं प्रतिहन्ति।
चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च

"https://sa.wikibooks.org/w/index.php?title=च.सू.५.७&oldid=6874" इत्यस्माद् प्रतिप्राप्तम्