सामग्री पर जाएँ

च.सू.५.८

विकिपुस्तकानि तः

मात्रावद्ध्यशनमशितमनुपहत्य प्रकृतिं बलवर्णसुखायुषा योजयत्युपयोक्तारमवश्यमिति॥८

पदच्छेदः -
मात्रावत् हि अशनम् अशितम् अनुपहत्य प्रकृतिं बलवर्णसुखायुषा योजयति उपयोक्तारम् अवश्यमिति॥८

अन्वयः -
मात्रावत् हि अशनम् अशितम् प्रकृतिम् अनुपहत्य उपयोक्तारम् अवश्यं बलवर्णसुखायुषा योजयति इति ॥८

सरलार्थः -
यतो हि मात्रायुक्तम् अन्नं भक्षितं चेत् तत् स्वास्थ्यं न नाशयति, तथा च तादृशम् अन्नं भोक्तुः बलं, वर्णं, सुखम्, आयुः च वर्धयति।

आयुर्वेददीपिका
एवं तावद् व्युत्पादिता अग्निबलद्रव्य-अपेक्षिणी मात्रा, मात्रान्वितं च भोज्यं भोक्तव्यम् इति उक्तं, मात्राशितत्वे कः गुणः इति आह- मात्रावत् हि इत्यादि। इह अवश्यम् इति नियमः विरोधि-कारणान्तर-अभावे सति बोद्धव्यः; यतः यदि अपि पूर्ववत् अशन-अशितोपयोक्तृपदैः प्रशस्तभोजनादिवाचिभिः प्रकृतिकरणादिगुणसम्पन्नम् अन्नं लभ्यते, तथा अपि कालविपर्यय-प्रज्ञापराध-असात्म्य-शब्द-स्पर्श-रूप-रस-गन्धाः सन्ति एव आहारजन्यबलादिविरोधकाः; यत् आह- “सन्ति ह्यृते अपि अहित-आहारात् अन्या रोगप्रकृतयः” (सू.अ.२८) इति; तेन मात्रापरिगृहीताः शुभाः अपि प्रकृति-आदयः प्रायः बलादिहेतवः भवन्ति इति मात्रावत्-आहारस्तुत्यर्थम् अवश्यम् इति कृतम्। सुखयुक्तम् आयुः सुखायुः, यदि वा सुखं च आयुः च इति मन्तव्यं; स्वरूपेण अपि च आयुः मृग्यम् इति प्राक् प्रतिपादितम् एव॥८

अरुन्धती पद्धतिः

सूत्रे ‘अवश्यम्’ इति शब्दः विद्यते।‘मात्रावदन्नं स्वास्थ्यं न नाशयति इति निश्चितम्’ इति अभिप्रायः अवश्यम् इति पदस्य।नैषः अभिप्रायः शास्त्रीयः।यतो हि मात्रावदन्नम् अपि प्रकृतिकरणादिभिः आहारविधिविशेषायतनैः सम्पन्नम् अस्ति चेदेव स्वास्थ्यकरं भवति, नान्यथा।अतः केवलं मात्रावदन्नेन अवश्यं स्वास्थ्यं रक्षितं भवति इति अभिप्रायः न साधुः।
परं चतुर्थे सूत्रे ‘अस्य’ ‘अशनं’ तथा ‘अशितम्’ इति त्रीणि पदानि विद्यन्ते।तेन अत्र प्रकृत्यादिसम्पन्नमेव अशनम् अभिप्रेतम् इति चक्रपाणिना तत्र एव उपपत्तिसहितं प्रतिपादितम्। अतः तादृशेन अशनेन स्वास्थ्यरक्षणम् अवश्यं भविष्यति इति अभिप्रायः उचितः एव।अवश्यपदे कृतः आक्षेपः न न्याय्यः।
न।सत्यमेतद् यदत्र मात्रावद् इति पदेन प्रकृतिकरणादिभिः सम्पन्नमेव अशनम् अभिप्रेतम्।तथापि एतादृशः आहारः एकाकी स्वास्थ्यरक्षणाय न समर्थः।सन्ति अन्ये अपि स्वास्थ्यनाशकाः हेतवः यथा कालः, असात्म्येन्द्रियार्थसंयोगः, तथा प्रज्ञापराधः।सति अपि प्रकृत्यादिभिः सम्पन्ने आहारे यदि एते अन्ये रोगहेतवः घटन्ते, तर्हि स्वास्थ्यं नश्यति एव। अतः मात्रावदन्नस्य प्रयोगेण अवश्यं स्वास्थ्यं लभ्यते इति वचनं न यथार्थम्।
अतः अत्र ‘अवश्यम्’ इति यदुक्तं तस्य ‘निरपवादम्’ इति मुख्यार्थः न ग्राह्यः।‘प्रायः’ इति लक्ष्यार्थः ग्राह्यः। यतो हि विरोधिकारणाभावे सति एव मात्रावानाहारः स्वास्थ्यानुवृत्तिकरः भवति।
एवं यदि अवश्यपदस्य अर्थः अत्र न सङ्गच्छते चेत् मुनिना तत् पदं किमर्थं प्रयुक्तम्? चक्रपाणिः मीमांसाशास्त्रस्य आधारेण अस्योत्तरं वदति -
...मात्रावत्-आहारस्तुत्यर्थम् अवश्यम् इति कृतम्।
अर्थवादवाक्यमेतद् इति चक्रपाणेः आशयः।पूर्वमीमांसाशास्त्रे अयं विषयः सविस्तरमुक्तः।
प्राशस्त्यनिन्दान्यतरपरं वाक्यमर्थवादः। - अर्थसङ्ग्रहः।
यस्मिन् विषये नरः प्रवर्तेत इति श्रुतिः इच्छति, तस्य विषयस्य स्तुतिं सा करोति।यस्माद् विषयात् नरः निवर्तेत इति श्रुतिः इच्छति, तस्य विषयस्य निन्दां सा करोति।एतादृशानि स्तुतिनिन्दापराणि वचनानि अर्थवादवचनानि इति शास्त्रे उच्यन्ते।मुख्यार्थे तेषां तात्पर्यं नास्ति।हितकरस्य विषयस्य स्तुत्या तत्र नरस्य प्रवृत्तिः तथा अहितकरस्य विषयस्य निन्दया तस्माद् विषयात् नरस्य निवृत्तिः इति तत्र अभिप्रेतः अर्थः।
क्वचिद् एतादृशी स्तुतिः अथवा निन्दा प्रमाणान्तरेण सह विरुद्ध्यते अपि।तदा सः अर्थवादः गुणवादः उच्यते-
प्रमाणान्तरविरोधे सति अर्थवादो गुणवादः।- अर्थसङ्ग्रहः।
प्रकृते ‘मात्रावदशनम् अवश्यं स्वास्थ्यानुवृत्तिकरं भवति’ इति वचनं गुणवादः।मात्रावदशनस्य स्तुतिः अत्रास्ति इति एषः अर्थवादः।प्रमाणान्तरेण सह अस्य वचनस्य विरोधः अस्ति अतः अयं गुणवादः।
किं तत् प्रमाणान्तरं, येन सह इदं वचनं विरुद्ध्यते? अत्रोत्तरति चक्रपाणिः-
“सन्ति ह्यृते अपि अहित-आहारात् अन्या रोगप्रकृतयः” (सू.अ.२८) इति
‘बलवर्णसुखायुषा’ इति पदं सूत्रे विद्यते।तस्य विग्रहः कथं स्यात्?
बलं च वर्णः च सुखं च आयुः च एतेषां समाहारः बलवर्णसुखायुः, तेन इति समाहारद्वन्द्वः। मात्रावदशनेन बलादिकं लभ्यते इति वाक्यार्थः।अस्मिन् विग्रहे सुखम् इति भिन्नः पदार्थः, आयुः इति भिन्नः पदार्थः।उभयोः पदार्थयोः प्राप्तिः मात्रावदशनेन भवति इत्यर्थः।
अपरथा अपि अस्य समासस्य विग्रहः शक्यः।प्रथमं तावत् सुखायुः इति समासः मन्तव्यः।सुखम् आयुः सुखायुः इति कर्मधारयः।ततः बलं च वर्णः च सुखायुः च एतेषां समाहारः बलवर्णसुखायुः, तेन इति समाहारद्वन्द्वः।अस्मिन् विग्रहे सुखायुः इति एकः एव पदार्थः।सः मात्रावदशनेन लभ्यते इति अर्थः।
व्याकरणदृष्ट्या उभौ अपि विग्रहौ उचितौ।अस्मिन् शास्त्रे तयोः कः स्वीकार्यः, कः त्याज्यः? चक्रपाणिः वदति उभौ अपि स्वीकार्यौ-
सुखयुक्तम् आयुः सुखायुः, यदि वा सुखं च आयुः च इति मन्तव्यम्…
कथम् उभयोः स्वीकारः उचितः स्यात्? ‘हिताहितं सुखं दुःखम्’ इति सूत्रे चतुर्विधमायुः उक्तम्।तेषु सुखायुः अत्र अभिप्रेतम्।अतः सुखायुः इति एकः पदार्थः यस्मिन् विग्रहे मतः, सः एव विग्रहः स्वीकार्यः।
नैवम्।
स्वरूपेण अपि च आयुः मृग्यम् इति प्राक् प्रतिपादितम् एव।-चक्रपाणिः
यस्मिन् सूत्रे चतुर्विधमायुः उक्तं, तत्र ‘तच्च यत्रोक्तम्’ इति पदैः केवलम् आयुः अपि उक्तम् । अतः यथा सुखायुषः प्राप्तिः अभिप्रेता, तथा आयुषः प्राप्तिः अपि अस्मिन् शास्त्रे अभिप्रेता।तस्मात् ‘सुखं च आयुः च मात्रावदशनेन प्राप्यते’ इति अर्थकरणं न दोषास्पदम्।

चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.८&oldid=7197" इत्यस्माद् प्रतिप्राप्तम्