सामग्री पर जाएँ

च.सू.५.९

विकिपुस्तकानि तः

भवन्ति चात्र-
गुरु पिष्टमयं तस्मात्तण्डुलान् पृथुकानपि। न जातु भुक्तवान् खादेन्मात्रां खादेद्बुभुक्षितः॥९॥

पदच्छेदः -
भवन्ति च अत्र-
गुरु पिष्टमयं तस्मात् तण्डुलान् पृथुकान् अपि। न जातु भुक्तवान् खादेत् मात्रां खादेत् बुभुक्षितः॥९

अन्वयः -
भवन्ति च अत्र-
तस्मात् भुक्तवान् (नरः) तण्डुलान् पृथुकान् गुरु पिष्टमयं न जातु खादेत्। बुभुक्षितः अपि मात्रां खादेत् ।

सरलार्थः -
अतः येन नरेण किञ्चित् खादितं, सः तण्डुलान्, पृथुकान्, गुरु, पिष्टमयं द्रव्यं कदापि न खादेत्। बुभुक्षितः नरः अपि एतानि द्रव्याणि मात्रया खादेत् ।

आयुर्वेददीपिका

भवन्ति च अत्र इति। तन्त्रकारस्य समयः अयं- यत् पूर्वव्याख्यातार्थसङ्ग्रहार्थं यदा श्लोकेन वक्तुम् आरभते तदा ‘भवति च अत्र’ इति करोति। पिष्टमयं पिष्टविकारः। तस्मात् इति गुरुत्वात्। पृथुकाः ‘चिप्पिटा’ इति लोकप्रसिद्धाः। न जातु न कदाचित्। मात्रां खादेत् इति अनपायिपरिमाणवन्तं खादेत्॥९

अरुन्धती पद्धतिः
‘भवति चात्र’ इति मुनेः रीतिः चक्रपाणिना दर्शिता।तस्याः अन्यानि कानिचन उदाहरणानि एतानि -
१ तिस्रैषणीयाध्याये मानसव्याधिचिकित्सा गद्यरूपेण उक्ता।ततः पुनः ‘भवति चात्र’ इति कृत्वा सैव पद्यरूपेण उक्ता।(च.सू.११.४७)
२ त्रिशोथीयाध्याये वातजपित्तजकफजशोथानां लक्षणानि गद्येन उक्तानि।ततः ‘भवन्ति चात्र’ इति कृत्वा पुनः तानि लक्षणानि पद्येन सङ्गृहीतानि (च.सू.१८.९-१५)।
३अष्टोदरीयाध्याये वातपित्तकफानां सर्वरोगकारणत्वं गद्यबन्धेन उक्तं ‘सर्व एव निजा विकाराः’ इत्यनेन।स एवार्थः अग्रे ‘भवतश्चात्र’ इति कृत्वा ‘स्वधातुवैषम्यनिमित्तजाः’ इत्यादिना पद्यद्वयेन प्रतिपादितः(च.सू.१९.६,७) ।
एवमन्यत्रापि एषा रीतिः दृश्यते।
ननु वृथायं ग्रन्थविस्तरः।यः खलु अर्थः गद्येन उक्तः, सः पुनः किमिति पद्येन उय्यते?अथवा पद्येन वक्तव्यः अर्थः आदौ गद्येन किमर्थं कथ्यते?किमपि एकं प्रतिपादनमस्तु।द्वितीयं प्रतिपादनं निष्प्रयोजनम्।
नैवम्। गद्यबन्धः अपि सप्रयोजनः, पद्यबन्धः अपि सप्रयोजनः।उभयोः प्रयोजने भिन्ने। विषयस्य स्पष्टं सविस्तरं प्रतिपादनं गद्यस्य प्रयोजनम्।एतत् पद्येन न साधु सिद्ध्यति। कण्ठस्थीकरणे सौकर्यं पद्यस्य प्रयोजनम्।एतत् गद्येन न साधु सिद्ध्यति।उभयथा विषयप्रतिपादनं छात्रोपकारकमेव।
तस्मात् इति सर्वनाम।तेन कस्य परामर्शः भवति इति चक्रपाणिना उक्तम् - गौरवात् इति।
पिष्टमयम् इत्यस्य अर्थः कः?
पिष्टविकारः।
कथमेषः अर्थः निष्पन्न?
पिष्टाच्च।-अष्टाध्यायी४.३.१४१
इति सूत्रेण पिष्टशब्दात् नित्यं मयट्प्रत्ययो भवति, विकारार्थे।अतः पिष्टस्य विकारः पिष्टमयम्।
मात्रां खादेत् इति सूत्रम्।मात्रा इत्युक्ते परिमाणगुणः।सः कथं खादितुं शक्यते? अतः मात्राशब्दस्य मुख्यार्थः अत्र बाधितः भवति।तदा तस्य लक्ष्यार्थः ‘मात्रावदन्नम्’ इति ग्राह्यः।मात्रा इति गुणः।मात्रावदन्नम् इति द्रव्यम्।उभयोः सम्बन्धः समवायः।एवं लक्षणावृत्तिम् अवलम्ब्य चक्रपाणिः अर्थं ब्रूते-

मात्रां खादेत् इति अनपायिपरिमाणवन्तं खादेत्॥९
चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.९&oldid=7196" इत्यस्माद् प्रतिप्राप्तम्