च.सू.५.९०-९२

विकिपुस्तकानि तः

खरत्वं स्तब्धता रौक्ष्यं श्रमः सुप्तिश्च पादयोः।सद्य एवोपशाम्यन्ति पादाभ्यङ्गनिषेवणात्॥९०
जायते सौकुमार्यं च बलं स्थैर्यं च पादयोः।दृष्टिः प्रसादं लभते मारुतश्चोपशाम्यति॥९१
न च स्याद्गृध्रसीवातः पादयोः स्फुटनं न च।न सिरास्नायुसङ्कोचः पादाभ्यङ्गेन पादयोः॥९२

पदच्छेदः -
खरत्वं स्तब्धता रौक्ष्यं श्रमः सुप्तिः च पादयोः।सद्यः एव उपशाम्यन्ति पाद-अभ्यङ्गनिषेवणात्॥९०
जायते सौकुमार्यं च बलं स्थैर्यं च पादयोः।दृष्टिः प्रसादं लभते मारुतः च उपशाम्यति॥९१
न च स्यात् गृध्रसीवातः पादयोः स्फुटनं न च।न सिरा-स्नायु-सङ्कोचः पाद-अभ्यङ्गेन पादयोः॥९२

अन्वयः -
पाद-अभ्यङ्ग-निषेवणात् पादयोः खरत्वं, स्तब्धता, रौक्ष्यं, श्रमः, सुप्तिः च सद्यः एव उपशाम्यन्ति । पादयोः सौकुमार्यं च जायते, बलं स्थैर्यं च (जायते) । दृष्टिः प्रसादं लभते , मारुतः च उपशाम्यति॥९१
पाद-अभ्यङ्गेन च गृध्रसीवातः न स्यात् , पादयोः स्फुटनं च न स्यात् ।पादयोः सिरा-स्नायु सङ्कोचः न स्यात् ।९२

सरलार्थः -
पाद-अभ्यङ्ग-निषेवणात् पादयोः खरत्वं, स्तब्धता, रौक्ष्यं, श्रमः, सुप्तिः च सद्यः एव उपशाम्यन्ति । पादयोः सौकुमार्यं च जायते, बलं स्थैर्यं च जायते। दृष्टिः प्रसादं लभते , मारुतः च उपशाम्यति।पाद-अभ्यङ्गेन च गृध्रसीवातः न स्यात् , पादयोः स्फुटनं च न स्यात् । पादयोः सिरा-स्नायु सङ्कोचः च न स्यात् ।९२

आयुर्वेददीपिका
खरत्वम् इत्यादि पाद-अभ्यङ्गगुणाः।प्रथमं पादयोः इति पदं खरत्व-आदिविशेषणार्थं, द्वितीयं तु बलादेः कालान्तर-उत्पादसूचनार्थं, तृतीयं तु स्फुटनविशेषणार्थं, चतुर्थं तु सिरास्नायुविशेषणार्थं, शिष्टं तु पादाभ्यङ्गेन इति पदं दूरान्तरितस्य पाद-अभ्यङ्गस्य स्मरणार्थम्॥९०-९२

अरुन्धती पद्धतिः
पादाभ्यङ्गस्य गुणाः अस्मिन् ग्रन्थे प्रतिपाद्यन्ते।तत्र पादः इति पदं षड्वारं पठितम्।तेषु
पाद-अभ्यङ्गनिषेवणात्॥९०
इत्यत्र तु अस्य ग्रन्थस्य विषयः उक्तः।अवशिष्टेषु पञ्चसु पाठेषु प्रत्येकं पाठस्य भिन्नं प्रयोजनं वदति चक्रपाणिः।तदेवम् -

प्रथमवारं खरत्वं स्तब्धता रौक्ष्यं श्रमः सुप्तिः च पादयोः प्रथमं पादयोः इति पदं खरत्व-आदिविशेषणार्थम्
द्वितीयवारम् जायते सौकुमार्यं च बलं स्थैर्यं च पादयोः द्वितीयं तु बलादेः कालान्तरउत्पादसूचनार्थम्।खरत्वादिशमनं सद्यः भवति, तथा बलस्थैर्य-लाभः सद्यः न भवति।
तृतीयवारम् पादयोः स्फुटनं न च तृतीयं तु स्फुटनविशेषणार्थं
चतुर्थवारम् न सिरा-स्नायु-सङ्कोचः पादयोः चतुर्थं तु सिरास्नायुविशेषणार्थं,
पञ्चमवारम् पाद-अभ्यङ्गेन शिष्टं तु पादाभ्यङ्गेन इति पदं दूरान्तरितस्य पाद-अभ्यङ्गस्य स्मरणार्थम्
चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च
"https://sa.wikibooks.org/w/index.php?title=च.सू.५.९०-९२&oldid=7181" इत्यस्माद् प्रतिप्राप्तम्