च.सू.५.९३,९४
दौर्गन्ध्यं गौरवं तन्द्रां कण्डूं मलमरोचकम्।स्वेदबीभत्सतां हन्ति शरीरपरिमार्जनम्॥९३
पवित्रं वृष्यमायुष्यं श्रमस्वेदमलापहम्।शरीरबलसन्धानं स्नानमोजस्करं परम्॥९४
पदच्छेदः -
दौर्गन्ध्यं गौरवं तन्द्रां कण्डूं मलम् अरोचकम्।स्वेदबीभत्सतां हन्ति शरीरपरिमार्जनम्॥९३
पवित्रं वृष्यम आयुष्यं श्रमस्वेदमलापहम्।शरीरबलसन्धानं स्नानम् ओजस्करं परम्॥९४
अन्वयः -
शरीरपरिमार्जनं दौर्गन्ध्यं, गौरवं, तन्द्रां, कण्डूं, मलम्, अरोचकं, स्वेदबीभत्सतां हन्ति ॥९३
स्नानं पवित्रं, वृष्यम्, आयुष्यं, श्रम-स्वेद-मलापहं, शरीरबलसन्धानं, परम् ओजस्करम् अस्ति॥९४
सरलार्थः –
शरीरपरिमार्जनं दौर्गन्ध्यं, गौरवं, तन्द्रां, कण्डूं, मलम्, अरोचकं, स्वेदस्य बीभत्सतां च हन्ति। स्नानं पवित्रं, वृष्यम्, आयुष्यं, श्रमहरं. स्वेदहरं. मलापहं, शरीरबलसन्धानं, परम् ओजस्करम् अस्ति॥९४
आयुर्वेददीपिका
अभ्यङ्गपूर्वकत्वात् उद्वर्तनस्य तम् अनु परिमार्जनम् उद्वर्तनं ब्रूते- दौर्गन्ध्यम् इत्यादि। स्वेदेन बीभत्सता स्वेदबीभत्सता। शरीरस्य बलेन सन्धानं योजनं करोति इति अर्थः॥९३-९४
अरुन्धती पद्धतिः
अभ्यङ्गप्रतिपादनाद् अनन्तरम् उद्बर्तनं प्रतिपाद्यते।कात्र सङ्गतिः? उत्तरकालिकत्वमत्र सङ्गतिः। तदाह चक्रपाणिः-
अभ्यङ्गपूर्वकत्वात् उद्वर्तनस्य तम् अनु परिमार्जनम् उद्वर्तनं ब्रूते...।चक्रपाणिः
सूत्रे उक्तम्-
स्वेदबीभत्सतां हन्ति
‘स्वेदबीभत्सता’ इति समासस्य विग्रहः कथं कार्यः?
स्वेदेन बीभत्सता स्वेदबीभत्सता। -चक्रपाणिः
स्वेदस्य बीभत्सता इत्यपि सम्भवति खलु विग्रहः।
न सम्भवति।स्वेदे यदि उग्रगन्धादिरूपा बीभत्सता अस्ति,तर्हि सा उद्वर्तनमात्रेण न अपगच्छति। तदर्थम् आभ्यन्तरचिकित्सा कर्तव्या।तादृशेन स्वेदेन प्रवर्तितेन शरीरे या बीभत्सता उत्पद्यते, सा ध्रुवम् उद्वर्तनेन नश्यति।अतः स्वेदबीभत्सता’ इति समासस्य विग्रहः स्वेदेन बीभत्सता इति एव उचितः।न तु स्वेदस्य बीभत्सता इति।
शरीरबलसन्धानम् इति सूत्रस्थपदस्य चक्रपाणिना विवृतः अर्थः एषः-
शरीरस्य बलेन सन्धानं योजनं करोति इति अर्थः।-चक्रपाणिः
कथमेषः अर्थः निष्पन्नः?
उच्यते।बलेन सन्धानं बलसन्धानम् इति तृतीयातत्पुरुषः।सन्धानम् इति योजनम्।शरीरस्य बलसन्धानं शरीरबलसन्धानम् इति षष्ठीतत्पुरुषः। अस्य विग्रहस्य सङ्कलितार्थः चक्रपाणिना उक्तः।
चरकसंहितायां सूत्रस्थाने मात्राशितीयाध्याये आयुर्वेददीपिका अरुन्धती च